Adhikarana विद्रधिसम्प्राप्तिः (१-३) · Śloka ३
अथ विद्रधिनिदानम् |
त्वग्रक्तमांसमेदांसि सन्दूष्यास्थिसमाश्रिताः |
दोषाः शोथं शनैर्घोरं जनयन्त्युच्छ्रिता भृशम् ||१||
महामूलं रुजावन्तं वृत्तं वाऽप्यथवाऽऽयतम् |
स विद्रधिरिति ख्यातो विज्ञेयः षड्विधश्च सः ||२||
पृथग्दोषैः समस्तैश्च क्षतेनाप्यसृजा तथा |
षण्णामपि हि तेषां तु लक्षणं सम्प्रवक्ष्यते ||३||
(सु. नि. अ. ९) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
शोथत्वसामान्यात् विद्रधिनिदानम्| तस्य सम्प्राप्तिमाह– त्वग्रक्तमांसमेदांसीत्यादि| घोरमित्यन्येभ्योऽपि शोथसमुत्थानेभ्यो ग्रन्थ्यादिभ्य आशुकारित्वाद्दारुणम्| उच्छ्रिता भृशमिति अत्यर्थं वृद्धाः| अस्थिसमाश्रिता इत्यनेन स्थानसंश्रयोऽभिहितः| उच्छ्रिता भृशमित्यनेन प्रकोप आविष्कृतः, एतेनैवान्तरीयकतया चयप्रसरावप्याक्षिप्तौ मन्तव्यौ| महामूलमस्थ्यादिसमाश्रयणाद्गम्भीरमूलम्| रुजावन्तमिति उत्पत्तावेव रुजाप्रकर्षवन्तम्, अतिशायने मतुप्| वृत्तमित्यादि वृत्तं वर्तुलम्| आयतं दीर्घम्| वृत्तायताभ्यां ग्रन्थ्यादिविलक्षणता| विद्रधिरिति ख्यात इति, इतिशब्देन निरुपाधिसङ्केतमात्रा विद्रधिसञ्ज्ञेति दर्शयति| चरके तु विदाहप्रकर्षाद्विद्रधिसञ्ज्ञा| यदुक्तम्– “स वै शीघ्रविदाहित्वाद्विद्रधीत्यभिधीयते|” (च. सू. अ. १७) इति||१-३||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
शोथसामान्याद्विद्रधिनिदानम्| तस्य सम्प्राप्तिमाह– त्वगित्यादि| घोरमन्येभ्यः शोथसमुत्थानेभ्यो ग्रन्थ्यादिभ्यः आशुकारित्वाद्दारुणम्| उच्छ्रिता भृशमिति अत्यर्थं वृद्धाः, अस्थिसमाश्रिता इति स्थानसंश्रयोऽर्थोऽभिहितः| उच्छ्रिता भृशमित्यनेन प्रकोप आविष्कृतः| महामूलम् अस्थ्यादिसमाश्रयणाद् गम्भीरमूलम्| रुजावन्तमुत्पत्तावेव रुजाप्रकर्षवन्तम्| वृत्तं वर्तुलं, आयतं दीर्घं वृत्तत्वायतत्वाभ्यां ग्रन्थ्यादिविलक्षणता कथिता, विद्रधिरिति ख्यात इति| इतिशब्देन निरुपाधिसङ्केतमात्रा विद्रधिरिति सञ्ज्ञेति दर्शयति, चरके तु विदाहप्रकर्षाद्विद्रधिसञ्ज्ञा| यदुक्तम्– “सर्वैः शीघ्रविदाहित्वाद्विद्रधीति निरूप्यते|” इति| स षट्प्रकारः; त्रिभिर्दोषैस्त्रयः, सन्निपातेनैकः, क्षतेनैकः, असृजाऽप्येक इति षट्| षण्णामपि लक्षणं कथ्यते||१-३||
Adhikarana वातजविद्रधिलक्षणम् (४) · Śloka ४
कृष्णोऽरुणो वा विषमो भृशमत्यर्थवेदनः |
चित्रोत्थानप्रपाकश्च विद्रधिर्वातसम्भवः ||४||
(सु. नि. अ. ९) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
वातिकमाह– कृष्ण इत्यादि| विषमो भृशमिति कदाचिदल्पः, कदाचिन्महान्| चित्रोत्थानप्रपाक इति| चित्रौ नानाविधौ वायोर्विषमक्रियत्वात् उद्गमप्रपाकौ यस्य स तथा||४||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
वातिकविद्रधिलक्षणमाह– कृष्ण इत्यादि| विषमो भृशमिति कदाचिदल्पः, कदाचिन्महान्, भृशमतिशयेन| चित्रोत्थानप्रपाक इति चित्रौ नानाविधौ वायोर्विषमक्रियत्वादुद्गमप्रपाकौ यस्य स तथा||४||
Adhikarana पित्तजविद्रधिलक्षणम् (५) · Śloka ५
पक्वोदुम्बरसङ्काशः श्यावो वा ज्वरदाहवान् |
क्षिप्रोत्थानप्रपाकश्च विद्रधिः पित्तसम्भवः ||५||
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
पैत्तिकमाह– पक्वेत्यादि| ज्वरदाहावुत्थानकाल एव, पाककाले तु प्रकर्षवन्तौ ताविति विशेषः||५||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
पैत्तिकमाह– पक्वेत्यादि| पक्वोदुम्बरसदृशः, श्यावः श्यामवर्णः, ज्वरदाहौ उत्थानकाल एव स्यातां, पाककाले तु तावेव प्रकर्षवन्तौ, क्षिप्रमुत्थानप्रपाकौ यस्य स तथा||५||
Adhikarana कफजविद्रधिलक्षणम् (६) · Śloka ६
शरावसदृशः पाण्डुः शीतः स्निग्धोऽल्पवेदनः |
चिरोत्थानप्रपाकश्च विद्रधिः कफसम्भवः ||६||
(सु. नि. अ. ९) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
कफजमाह– शरावेत्यादि| शरावसदृश इति महत्त्वसूचनपरम्||६||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
श्लेष्मजमाह– शरावेत्यादि| शरावसदृश इति महत्त्वसूचनपरम्| चिरमुत्थानप्रपाकौ यस्य स तथा||६||
Adhikarana दोषविशेषेण विद्रधीनामास्रावभेदः (७) · Śloka ७
तनुपीतसिताश्चैषामास्रावाः क्रमशः स्मृताः |७|
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
पाकानन्तरं सम्भूतास्रावलिङ्गमाह– तनुपीतसिताश्चैषामित्यादि| क्रमश इति यथाक्रमं; तेन वातेन तनुः, पित्तेन पीतः, कफेन सितः; तनुस्रावे वातानुरूपो वर्णो ज्ञेयः|७|–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
तेषां दोषभेदेन स्रावानाह– तन्वित्यादि| क्रमश इति क्रमेण; वातेन तनुः, पित्तेन पीतः, श्लेष्मणा सितः, तनुस्रावे वातानुरूपो वर्णो ज्ञेयः|७|–
Adhikarana सन्निपातजविद्रधिलक्षणम् (७) · Śloka ७
नानावर्णरुजास्रावो घाटालो विषमो महान् ||७||
विषमं पच्यते चापि विद्रधिः सान्निपातिकः |
(सु. नि. अ. ९) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
सन्निपातजमाह– नानेत्यादि| नानावर्णरुजास्राव इति नानाशब्दो वर्णादिभिः प्रत्येकमभिसम्बध्यते; नाना बहुविधा वर्णाः कृष्णपीतशुक्लवर्णाः, रुजाः तोददाहकण्ड्वादिकाः, तनुपीतसिता आस्रावाश्च यस्य स तथा| अन्यत्र शोथे पाककाले नानारुजा, अत्र तु सर्वदा| घाटाल इति घाटा अस्यास्ति स घाटाल इति मत्वर्थीयो लच्, अत्युच्छ्रिताग्रत्वेन घाटाल इव| विषमोऽसाध्यत्वात्| विषमं पच्यते इति चिराचिरगम्भीरोत्तानोर्ध्वानूर्ध्वभेदेन विषमं यथा भवति तथा पच्यत इति; विषमम् असमम्| ननु, विषमपाकित्वं वातिके विद्रधावुक्तं, तथाऽनुपक्रान्ते च शोथे; यथा– “योऽभ्युत्थितोऽल्पो यदि वा महान् स्यात् क्रियां विना पाकमुपैति शोथः| विशालमूलो विषमो विदग्धः स कृच्छ्रतां यात्यवगाढदोषः||” (सु. सू. अ. १७) इति| अतः संशये कथं मिथो भेदप्रतीतिः? उच्यते– वातिके अप्रतीकारेणैव विषमपाकित्वम्, प्रतीकारेणैव भेदितम्| इह पुनः प्रतीकारेऽपि वैषम्यं; वातिके तु पाकमात्रवैषम्यं, न तु गाम्भीर्यादिना; अतो वातिकः साध्यः||७||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
सान्निपातिकमाह– नानेत्यादि| नाना बहुविधाः कृष्णपीतशुक्ला वर्णाः, तोददाहकण्ड्वादिरुजाः, तनुपीतसिताः स्रावा यस्य स तथा| अन्यत्र शोथे पाककाले नानारुजाः, अत्र तु सर्वदा| घाटाल इति घाटा अस्यास्तीति घाटालः, मत्वर्थीयो लच्, अत्युच्छ्रिताकृतित्वेन घाटाल इव| विषमोऽसाध्यत्वात्| विषमं पच्यत इति चिराचिरगम्भीरोत्तानोर्ध्वानूर्ध्वभेदेन विषमं यथा भवति तथा पच्यते||७||
Adhikarana आगन्तुविद्रधेः सम्प्राप्तिपूर्वकं लक्षणम् (८-९) · Śloka १०
तैस्तैर्भावैरभिहते क्षते वाऽपथ्यकारिणः ||८||
क्षतोष्मा वायुविसृतः सरक्तं पित्तमीरयेत् |
ज्वरस्तृष्णा च दाहश्च जायते तस्य देहिनः ||९||
आगन्तुर्विद्रधिर्ह्येष पित्तविद्रधिलक्षणः |१०|
(सु. नि. अ. ९) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
अभिघातजस्यागन्तोः सम्प्राप्तिमाह– तैस्तैरित्यादि| तैस्तैरिति काष्ठलोष्टपाषाणादिभिः| अभिहत इति अस्रुतरक्तस्य मथितपिच्चितादेरुपलक्षणं, क्षत इति स्रुतरक्तस्य छिन्नभिन्नादेः; द्वयोरभिहतयोरपथ्यकारिण इति विशेषणम्| क्षतोष्मेति क्षतशब्दस्य हिंसामात्रपरिग्रहात् क्षताभिहतयोरप्यूष्मा क्षतोष्मशब्देनोच्यते| वायुविसृत इति क्षते रक्तक्षयात् अभिहते अभिघातादेव वातकोपः, कुपितेन वातेन हेतुभूतेन विसृतः प्रसृतो वायुविसृतः| यद्यप्ययं वातपित्तरक्तजस्तथाऽपि प्रागभिघातसम्भवत्वेनागन्तुः, वातपित्तरक्तजानां जनकत्वेनैव विलक्षणाऽस्य सम्प्राप्तिः| पित्तविद्रधिलक्षण इति अत्रोक्तज्वरादिव्यतिरिक्तसंस्थानवर्णवेदनादिपित्तविद्रधिलिङ्गयुक्त इत्यर्थः||८-९||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
अभिघातजस्यागन्तोर्विद्रधेः सम्प्राप्तिमाह– तैस्तैरित्यादि| काष्ठलगुडपाषाणादिभिः, अभिहित इति अस्रुतरक्तस्य मथितपिच्चितादेरुपलक्षणम्| द्वयोरभिहतक्षतयोरपथ्यकारिण इति योज्यम्| क्षतोष्मेत्यादि क्षतस्य हिंसात्वमात्रपरिग्रहात् क्षताभिहतयोरप्यूष्मा क्षतोष्मशब्देनोच्यते| वायुविसृत इत्यादि| वातेन विस्तारितः क्षतेन रक्तक्षयात्, अभिहते अभिघातादेव वातकोपः, कुपितेन च वातेन हेतुभूतेन विसृतः प्रसृतः रक्तं पित्तं ईरयेत् कोपयेत्| यद्यप्ययं वातपित्तरक्तजस्तथाऽपि प्रागभिघातसम्भवत्वेनागन्तुः| पित्तविद्रधिलक्षण इति अत्र ज्वरदाहव्यतिरिक्तसंस्थानवर्णवेदनादिपित्तलक्षण इत्यर्थः||८-९||
Adhikarana रक्तजविद्रधिलक्षणम् (१०) · Śloka ११
कृष्णस्फोटावृतः श्यावस्तीव्रदाहरुजाकरः ||१०||
पित्तविद्रधिलिङ्गस्तु रक्तविद्रधिरुच्यते |११|
(सु. नि. अ. ९) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
रक्तजमाह– कृष्णेत्यादि| पित्तविद्रधिलिङ्गातिदेशेन लब्धावपि दाहज्वरौ तीव्रताविशेषार्थमुक्तौ| श्याव इति पित्तविद्रधिलिङ्गातिदेशेन प्रसक्तस्य पक्वोदुम्बरसङ्काशस्यापवादः| भोजप्रभृतयस्तु धातुरक्तजं विद्रधिं परित्यज्य मक्कल्लसञ्ज्ञयाऽऽर्तवलक्षणरक्तजं पठन्ति| तेषां मते आर्तवजेन सह षड्विद्रधयः, सुश्रुते तु धातुरक्तजोऽपि तथा मक्कल्लसञ्ज्ञकोऽपि विद्रधिः सामान्येन रक्तज एवेति षड्विद्रधय इति बोद्धव्यम्||१०||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
रक्तजविद्रधिमाह– कृष्णेत्यादि| कृष्णः कृष्णवर्णः, स्फोटावृतः पिडकायुक्तः, श्यावः श्याववर्णः; अन्ये ‘कृष्णस्फोटावृतः’ इति पठन्ति, तत्र कृष्णैः स्फोटैरावृतः पित्तविद्रधिलक्षणनिर्देशेन यद्यपि दाहज्वरौ लब्धौ, तथाऽप्यत्रातिदाहज्वरख्यापनार्थमुक्तम्| भोजप्रभृतयस्तु धातुरक्तजं विद्रधिं परित्यज्य मक्कल्लसञ्ज्ञमार्तवलक्षणरक्तजं पठन्ति| तेषां मते आर्तवजेन सह षड् विद्रधयः, सुश्रुते तु धातुरक्तजोऽपि तथा मक्कल्लजोऽपि विद्रधिः सामान्येन रक्तज एवेति षड् विद्रधय इति बोद्धव्यम्||१०||–
Adhikarana आभ्यन्तरविद्रधिलक्षणम्, आभ्यन्तरविद्रधेरधिष्ठानविशेषेण विशेषलिङ्गानि च (११-१६) · Śloka १६
पृथक् सम्भूय वा दोषाः कुपिता गुल्मरूपिणम् ||११||
वल्मीकवत् समुन्नद्धमन्तः कुर्वन्ति विद्रधिम् |
गुदे बस्तिमुखे नाभ्यां कुक्षौ वङ्क्षणयोस्तथा ||१२||
वृक्कयोः प्लीह्नि यकृति हृदि वा क्लोम्नि वाऽप्यथ |
तेषामुक्तानि लिङ्गानि बाह्यविद्रधिलक्षणैः ||१३||
अधिष्ठानविशेषेण लिङ्गं शृणु विशेषतः |
गुदे वातनिरोधश्च बस्तौ कृच्छ्राल्पमूत्रता ||१४||
नाभ्यां हिक्का तथाऽऽटोपः कुक्षौ मारुतकोपनम् |
कटीपृष्ठग्रहस्तीव्रो वङ्क्षणोत्थे तु विद्रधौ ||१५||
वृक्कयोः पार्श्वसङ्कोचः प्लीह्न्युच्छ्वासावरोधनम् |
सर्वाङ्गप्रग्रहस्तीव्रो हृदि कासश्च जायते |
श्वासो यकृति हिक्का च क्लोम्नि पेपीयते पयः ||१६||
(सु. नि. अ. ९) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
अधिष्ठानविशेषेण लिङ्गविशेषं साध्यतामसाध्यतां च प्रतिपादयितुमाभ्यन्तरविद्रधिमाह– पृथगित्यादि| इयमधिकविधानार्थमुक्ताऽपि सम्प्राप्तिर्विद्रधेः पुनरुच्यते| आभ्यन्तरस्य रक्तजस्य तथाऽऽगन्तोश्च विद्रधेर्दोषेण व्यपदेशादियमेव तत्रापि सम्प्राप्तिर्ज्ञेयेति कश्चित्| बाह्यागन्तुवदाभ्यन्तरागन्तुसम्प्राप्तिरित्यर्थः| क्षतजस्याभ्यन्तराभावान्न निर्दिष्टः क्षतज इति तु जेज्जटः| गुल्मरूपिणमिति गुल्मवत् संहतम्| एतदाभ्यन्तरविद्रधीनां सामान्यरूपं; विशेषलक्षणं तु बाह्यविद्रधिलक्षणैरेव ज्ञेयम्| वल्मीकवत् समुन्नद्धं समन्तादुन्नतम्; एतदपि पच्यमानावस्थायां सर्वेषां समानम्| बस्तिमुख इति बस्तिमुख एव, विद्रध्याधारभूतमांसादिसम्भवात्; न बस्तौ, तस्य तनुत्वात्| आटोपो रुजापूर्वकक्षोभः| मारुतकोपनमिति मार्गावरोधाद्वायोः कोपः| वृक्कयोरिति वृक्कमग्रमांसम्| सर्वाङ्गप्रग्रहः प्रत्यङ्गव्यथा, सर्वसिराधिष्ठानत्वात् हृदयस्य| क्लोम्नीति क्लोम वृक्कादूर्ध्वं पिपासास्थानम्| पेपीयते पयः इति पुनः पुनर्जलं पातुमिच्छतीत्यर्थः||११-१६||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
अधिष्ठानविशेषेण लिङ्गविशेषं साध्यासाध्यतां च ज्ञापयितुमन्तरविद्रधीनाह– पृथगित्यादि| दोषा वातादयः, पृथग् भिन्नाः, सम्भूय मिलित्वा वा, अन्तर्मध्ये, गुल्मरूपिणं गुल्मवत्संहतं, वल्मीकवत्समुन्नतं, वल्मीकं भूमौ कृमिविशेषैः कृतं, तद्वत्समन्तात् उन्नतम्| स्थानसंश्रयमाह– गुद इत्यादि| बस्तिमुख इति बस्तिमुखाश्रितमांसादौ; न च बस्तौ, तनुत्वात्| कुक्षौ पार्श्वयोरधोभागे, वङ्क्षणयोः ऊरुमेढ्रसन्ध्योः| वृक्कौ मांसपिण्डद्वयम्, एको वामपार्श्वे स्थितः, द्वितीयो दक्षिणपार्श्वे स्थितः, प्लीहा उदरस्य वामपार्श्वे स्थितः, यकृत् कालखण्डं दक्षिणपार्श्वस्थं, हृदयं कमलमुकुलाकारमधोमुखं, क्लोम कालखण्डाधस्तात् स्थितं दक्षिणपार्श्वस्थं तिलकं प्रसिद्धम्| तेषामाभ्यन्तराणां विद्रधीनां लिङ्गानि बाह्यविद्रधीनां लिङ्गानि बाह्यविद्रधिलक्षणैरुक्तानि| प्रत्येकं स्थानसंश्रयत्वेन रूपमाह– गुद इत्यादि| गुदेनार्ते विद्रधौ वातनिरोधो भवति, तथा बस्तौ कृच्छ्रमूत्रता अल्पमूत्रता च| ताभ्यां हिक्का तथा आटोपो रुजापूर्वकः क्षोभः, कुक्षौ मारुतकोपनमिति मार्गरोधात् वायोः प्रकोपः, वङ्क्षणोत्थे विद्रधौ तीव्रः कटीपृष्ठग्रहो भवति वृक्कयोरित्यादि| वृक्कमग्रमांसं, पार्श्वसङ्कोचः पार्श्वोत्पाटनमिव, प्लीह्नि उच्छ्वासावरोधनं भवति| तथा हृदीति हृदयोत्थे विद्रधौ सर्वाङ्गप्रग्रहादय उपद्रवा भवन्तीत्यर्थः| तीव्रो दुःसहः, सर्वेषामङ्गानां प्रकर्षेण ग्रहणमिव सर्वाङ्गप्रग्रहः प्रत्यङ्गव्यथा, सर्वाधिष्ठानत्वात् हृदयस्य, यकृति जाते विद्रधौ श्वासस्तथा हिक्का च भवति| क्लोम्नीत्यादि| वृक्कादूर्ध्वं पिपासास्थानं क्लोम, पेपीयते पय इति पुनःपुनर्जलं पातुमिच्छति||११-१६||
Adhikarana विद्रधीनां स्रावनिर्गममार्गः (१७) · Śloka १७
नाभेरुपरिजाः पक्वा यान्त्यूर्ध्वमितरे त्वधः |१७|
(सु. नि. अ. ९) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
स्रावनिर्गममार्गमाह– नाभेरित्यादि| उपरिजा वृक्कप्लीहादिजाः| यान्ति स्रवन्ति| नाभिजस्तूभयमार्गस्रावी, ऊर्ध्वाधःस्रावश्च तथागतित्वात् वातस्य| यदाह हारीतः– “ऊर्ध्वं प्रभिन्नेषु मुखान्नराणां प्रवर्ततेऽसृक्सहितोऽपि पूयः| अधःप्रभिन्नेषु च पायुमार्गात्, द्वाभ्यां प्रवृत्तिस्त्विह नाभिजेषु||” इति| इतर इति नाभिबस्तिवङ्क्षणजाः|१७|–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
स्रावनिर्गममाह– नाभेरित्यादि| उपरिजाताः वृक्कप्लीहादिजाः पक्वाः सन्त ऊर्ध्वं यान्ति स्रवन्ति, नाभिजस्तूभयमार्गस्रावी, ऊर्ध्वाधःस्रावश्च तथा गतित्वाद्वातस्य| तथा च हारीतः– “ऊर्ध्वं प्रभिन्नेषु मुखान्नराणां प्रवर्ततेऽसृक्सहितश्च पूयः| अधःप्रभिन्नेषु तु पायुमार्गाद् द्वाभ्यां प्रवृत्तिस्त्विह नाभिजेषु||” इति| इतरे नाभिबस्तिवङ्क्षणजाः स्रवन्ति|१७|–
Adhikarana विद्रधेः साध्यासाध्यविचारः (१७-२०) · Śloka २०
अधःस्रुतेषु जीवेत्तु स्रुतेषूर्ध्वं न जीवति ||१७||
हृन्नाभिबस्तिवर्ज्या ये तेषु भिन्नेषु बाह्यतः |
जीवेत् कदाचित् पुरुषो नेतरेषु कदाचन ||१८||
(सु. नि. अ. ९) |
साध्या विद्रधयः पञ्च विवर्ज्यः सान्निपातिकः |
आमपक्वविदग्धत्वं तेषां शोथवदादिशेत् ||१९||
(वा. नि. अ. ११) |
आध्मातं बद्धनिष्यन्दं छर्दिहिक्कातृषान्वितम् |
रुजाश्वाससमायुक्तं विद्रधिर्नाशयेन्नरम् ||२०||
(सु. सू. अ. ३३) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
साध्यत्वादिकमाह– अध इत्यादि| अधःस्रुतेष्विति स्वयमेव यदा नाभ्यादिजा भिन्ना अधः स्रवन्ति तदा जीवति| स्रुतेषूर्ध्वं न जीवतीति ऊर्ध्वं पूयस्यासम्यङ्निर्गमान्न जीवनम्| हृन्नाभिबस्तिवर्ज्या इति प्लीहक्लोमादिजाः| भिन्नेषु बाह्यत इति वैद्यव्यापारेण भिन्नेषु; अन्ये मर्माद्याशयजेषु स्वयमेव भिन्नेष्विति व्याचक्षते, अन्तर्भिन्नेष्वप्यधःस्राविषु जीवनोक्तेः| नेतरेष्विति हृन्नाभिबस्तिजेषु भिन्नेषु तेषां मर्मत्वाद् बाह्या आभ्यन्तरा वा वर्ज्याः| कदाचनेति पाके अपाके वा| तथा च भोजः– “असाध्यो मर्मजो ज्ञेयः पक्वोऽपक्वश्च विद्रधिः| सन्निपातोत्थितोऽप्येवं पक्व एव तु बस्तिजः|| त्वग्जो नाभेरधो यश्च साध्यो मर्मसमीपजः| अपक्वश्चैव पक्वश्च साध्यो नोपरि नाभिजः||” इति| अत्र मर्मजशब्देन हृदयनाभिजावुच्येते| बद्धनिष्यन्दमिति बद्धमूत्रम्| एतद्बस्तिजे प्रायः||१७-२०||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
स्रावविषयसाध्यासाध्यत्वमाह– स्वयमेव यदा नाभ्यादिजा भिन्ना अधः स्रवन्तीति तदा जीवति, स्रुतेषूर्ध्वमित्यादि, ऊर्ध्वस्रुतेषु न जीवति| ऊर्ध्वपूयस्यासम्यङ्निर्गमान्न जीवनम्|| हृदित्यादि| भिन्नेषु बाह्यत इति वैद्यव्यापारेण भिन्नेषु कदाचिद्दैववशात् पुरुषो जीवेत्| अन्ये मर्माद्याशयजेषु स्वयमेव भिन्नेष्विति व्याचक्षते| अन्तर्भिन्नेष्वप्यधःस्राविषु जीवनोक्तेः| नेतरेष्विति हृन्नाभिबस्तिजेषु भिन्नेषु, तेषां मर्मत्वात् बाह्या आभ्यन्तरा वा वर्ज्याः| कदाचनेति पाके अपाके च| तथाच भोजः– “असाध्यो मर्मजो ज्ञेयः पक्वोऽपक्वश्च विद्रधिः| सन्निपातोत्थितोऽप्येवं पक्व एव तु बस्तिजः|| त्वग्जो नाभेरधो यश्च साध्यो मर्मसमीपजः| अपक्वश्चैव पक्वश्च साध्यो नोपरिनाभिजः||” इति| अत्र मर्मशब्देन हृदयनाभिजावुच्येते| साध्यासाध्यत्वमाह– पञ्च इति| वातिकपैत्तिकश्लैष्मिकागन्तुरक्तजा इति| अयं बाह्येषु विषयः त्रिदोषजस्त्वसाध्यः| तेषां विषयमाह– आमेति| तेषां विद्रधीनामाभ्यन्तरेष्वसाध्यत्वमाह– आध्मातमित्यादि| बद्धनिष्पन्दं बद्धमूत्रम्, एतद्बस्तिजे प्रायः| शेषं सुगमम्| अत्र केचित् तन्त्रान्तरोक्तं स्तनविद्रधिलक्षणं पठन्ति, तद्यथा– “एवमेव स्तनसिरा विकृताः प्राप्य योषिताम्| सूतानां गर्भिणीनां च सम्भवेच्छ्वयथुर्घनः|| स्तने सदुग्धे चाप्तासृग्बाह्यविद्रधिलक्षणः| नाडीनां सूक्ष्मरन्ध्रत्वात्स कन्यानां न जायते||१७-२०||
Adhikarana पुष्पिका · Śloka ४०
इति श्रीमाधवकरविरचिते माधवनिदाने विद्रधिनिदानं समाप्तम् ||४०||
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां विद्रधिनिदानं समाप्तम्||४०||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायां विद्रधिनिदानम्||४०||