Skip to content

३९. श्लीपदनिदानम्

Adhikarana श्लीपदसम्प्राप्तिः, वातज-पित्तज-श्लैष्मिकश्लीपदलक्षणं च (१-३) · Śloka

अथ श्लीपदनिदानम् | यः सज्वरो वङ्क्षणजो भृशार्तिः शोथो नृणां पादगतः क्रमेण | तच्छ्लीपदं स्यात् करकर्णनेत्रशिश्नौष्ठनासास्वपि केचिदाहुः ||१|| वातजं कृष्णरूक्षं च स्फुटितं तीव्रवेदनम् | अनिमित्तरुजं तस्य बहुशो ज्वर एव च ||२|| पित्तजं पीतसङ्काशं दाहज्वरयुतं मृदु | श्लैष्मिकं स्निग्धवर्णं च श्वेतं पाण्डु गुरु स्थिरम् ||३||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

उत्सेधसाधर्म्यादर्बुदेन सह कफसम्बन्धाव्यभिचारसाम्याच्चाथ श्लीपदनिदानम्| तस्य सम्प्राप्तिमाह– य इत्यादि| वङ्क्षणावस्थानमेवास्य पूर्वरूपम्| क्रमेणेति शनैः शनैः| तत् श्लीपदं स्यादित्यनेन निरुपाधिरेवेयं सञ्ज्ञेति दर्शयति; अन्ये शिलावत् पदं श्लीपदमिति वदन्ति, नैरुक्त्येन च विधिना साधुत्वम्| करकर्णादिगतश्लीपदानां यथोक्तसम्प्राप्त्यभावात् केचिदाहुरिति परमतेनोक्तिः||१-३||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

उत्सेधसाधर्म्यादर्बुदेन सह कफसम्बन्धाव्यभिचारसाधर्म्याच्च श्लीपदनिदानम्| तस्य सम्प्राप्तिमाह– य इत्यादि| वङ्क्षणाद्यवस्थानमेवास्य पूर्वरूपम्| क्रमेणेति शनैः| वङ्क्षणमूरुमेढ्रसन्धिः, वङ्क्षणस्थः श्वयथुः भृशार्तिसहितः चरणं गच्छतीत्यर्थः, तत् श्लीपदं स्यादित्यनेन पारिभाषिकी निरुपाधिरेवेयं सञ्ज्ञेति| अन्ये शिलावत् पदं श्लीपदमिति वदन्ति| केचिदाहुरिति परमतेनोक्तिः| वातजमाह– अनिमित्तमित्यादि| अकारणेनैवं पीडा| बहुशो वारंवारं ज्वरः, शेषं सुगमम्| पित्तजमाह– पीतसङ्काशं पीतावभासं, मृदु मृदुस्पर्शम्| श्लेष्मजमाह– स्निग्धवर्णमिति| स्निग्धवद्वर्णो यस्य, चिक्कणमित्यर्थः| पाण्डु पीतश्वेतम्||१-३||

Adhikarana असाध्यश्लीपदलक्षणम् (४) · Śloka

वल्मीकमिव सञ्जातं कण्टकैरुपचीयते | अब्दात्मकं महत्तच्च वर्जनीयं विशेषतः ||४||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

एषामसाध्यतामाह– वल्मीकमिवेत्यादि| सञ्जातं प्रवृद्धं सत् वल्मीकवद्बहुशिखराकारं ग्रन्थिभिरुपचितं यद्भवति तदसाध्यम्| अन्ये तु पुनरमुं ग्रन्थिं कफजलक्षणत्वेन वर्णयन्ति; तन्न मनो धिनोति, सुश्रुते वल्मीकवज्जातस्यासाध्यत्वेनाभिधानात्| तद्यथा– “तत्र संवत्सरातीतमतिमहद्वल्मीकमिव सञ्जातं सम्प्रस्रुतमिति वर्जनीयानि भवन्ति|” (सु. नि. अ. १२) इति| अब्दात्मकमित्यादि| अब्दात्मकं संवत्सरातीतम्, अब्दमेकमिति पाठे तु ‘अतिक्रान्तम्’ इति शेषः| महदिति अत्यन्तमुच्छूनम्| वर्जनीयं विशेषत इति प्रत्याख्येयम्||४||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

एषामसाध्यतामाह– वल्मीकमित्यादि| वल्मीकवद्बहुशिखराकारग्रन्थिभिरुपचितं यद् भवति तदसाध्यम्| अन्ये पुनरमुं ग्रन्थिं कफजलक्षणत्वेन वर्णयन्ति; तन्न मनो धिनोति, सुश्रुते वल्मीकवज्जातस्यासाध्यत्वेनाभिधानात्| तद्यथा– “तत्र संवत्सरातीतमतिमहद्वल्मीकवज्जातं सम्प्रस्रुतमिति वर्जनीयानि भवन्ति” इति| सर्वात्मकं त्रिदोषजम्| अन्ये अब्दात्मकमिति पठन्ति, तत्रातिक्रान्तवत्सरमित्यर्थः| महत् अत्यन्तमुच्छूनम्| वर्जनीयं विशेषत इति प्रत्याख्येयम्||४||

Adhikarana श्लीपदेषु कफस्याव्यभिचारेण प्राधान्यम् (५) · Śloka

त्रीण्यप्येतानि जानीयाच्छ्लीपदानि कफोच्छ्रयात् | गुरुत्वं च महत्त्वं च यस्मान्नास्ति कफं विना ||५|| (सु. नि. अ. १२) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

श्लीपदेषु कफस्याव्यभिचारेण प्राधान्यमाह– त्रीण्यप्येतानीत्यादि| ननु, यद्यव्यभिचारी सर्वत्र कफः कथं तर्हि एकदोषजत्वव्यपदेशः, सर्वस्य द्विदोषजत्वप्रसङ्गात्? उच्यते– अनुबन्धोऽत्र कफः, न त्वनुबन्ध्यः; एतेनात्र न द्विदोषजप्रसङ्ग इत्यभिप्रायः||५||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

श्लीपदेषु कफस्याव्यभिचारेण प्राधान्यमाह– त्रीणीत्यादि| त्रीणि वातजादीनि, यतो गुरुत्वं च श्लेष्मणा विना न स्यात्| ननु, यद्येवं तर्हि कथमेकदोषजव्यपदेशः, सर्वस्य द्विदोषत्वप्रसङ्गात्; उच्यते– कफोऽत्रानुबन्धरूपः, न त्वनुबन्ध्यः| तेन, न द्विदोषजत्वप्रसङ्ग इत्यभिप्रायः||५||

Adhikarana श्लीपदसम्भवहेतुर्देशः (६) · Śloka

पुराणोदकभूयिष्ठाः सर्वर्तुषु च शीतलाः | ये देशास्तेषु जायन्ते श्लीपदानि विशेषतः ||६|| (सु. नि. अ. १२) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

श्लीपदसम्भवहेतुं देशमाह– पुराणोदकेत्यादि| अनूपदेशे हि सलिलं पतितं बहूदकं निम्नतया न शोषमुपयाति; जाङ्गले तु आग्नेयोन्नतभूभागत्वात् न पुराणोदकभूयिष्ठता| स्तिमितस्यानूपस्य मन्दातपत्वेनोष्णर्तावपि शीततेति अत उक्तम्– “सर्वर्तुषु च शीतलाः” इति| करकर्णादिगतश्लीपदसन्देहे कोपद्वारेण ज्वरेण श्लीपदावधारणं करणीयम्||६||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

श्लीपदसम्भवे हेतुनिर्देशमाह– पुराणोदकेत्यादि| पुराणोदकभूयिष्ठा इति अनूपदेशे सलिलं पतितं बहूदकं निम्नभूभागतया न शोषमुपयाति, अतोऽनूपदेशस्य पुराणोदकभूयिष्ठता; जाङ्गले त्वाग्नेयोन्नतभूभागतया सलिलं पतितं न तिष्ठति, स्थितमपि रूक्षोष्णशुष्कदेशस्य शोषमुपयाति, इति जाङ्गलदेशस्य न पुराणोदकभूयिष्ठता| सर्वेष्वपि ऋतुषु शीतला ये देशाः हिमवत्प्रदेशाः||६||

Adhikarana श्लीपदस्यापरमसाध्यलक्षणम् (७) · Śloka

यच्छ्लेष्मलाहारविहारजातं पुंसः प्रकृत्याऽपि कफात्मकस्य | सास्रावमत्युन्नतसर्वलिङ्गं सकण्डुरं श्लेष्मयुतं विवर्ज्यम् ||७||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

अपरमसाध्यलक्षणमाह– यदित्यादि| अत्युन्नतसर्वलिङ्गमिति येन दोषेणारब्धं श्लीपदं तस्यात्युन्नतानि अतिवृद्धानि सर्वाणि लिङ्गानि यत्र तत्तथा| सकण्डुरमिति अत्यन्तकण्डुमत्| श्लेष्मयुतमिति श्लेष्मानुगम्||७||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

पुनरसाध्यतामाह– यदित्यादि| श्लेष्मलाहारो मधुरादिः, विहारो दिवास्वप्नादिः, कफप्रकृतिकस्य सास्रावम् आस्रावयुतम्| अत्युन्नतसर्वलिङ्गं येन दोषेणारब्धं श्लीपदं, तस्यात्युन्नतानि इमान्यतिप्रवृद्धानि सर्वाणि त्रिदोषलिङ्गानि यत्र तत्, सकण्डुरं कण्डूयुतं, श्लेष्मयुतं श्लेष्मणोपगतम्||७||

Adhikarana पुष्पिका · Śloka ३९

इति श्रीमाधवकरविरचिते माधवनिदाने श्लीपदनिदानं समाप्तम् ||३९||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इति श्रीकण्ठदत्तविरचितायां मधुकोशव्याख्यायां श्लीपदनिदानं समाप्तम्||३९||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायां श्लीपदनिदानम्||३९||