Skip to content

६७. स्तन्यदुष्टिनिदानम्

Adhikarana शुक्रवत् सर्वदेहं स्तन्यस्याश्रयम् (१) · Śloka

अथ स्तन्यदुष्टिनिदानम् | विशंस्तेष्वपि गात्रेषु यथा शुक्रं न दृश्यते | सर्वदेहाश्रितत्वाच्च शुक्रलक्षणमुच्यते ||१||

🔊 Audio coming soon

Show commentary

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

अदृश्यस्यापि स्तन्यस्य प्रसिद्धोपमानेन प्रवर्तने हेतुं दर्शयन्नाह– विशन्नित्यादि| शुक्रलक्षणं स्तन्यमुच्यत इति शेषः| कुत इत्याह– यथा शुक्रं विशंस्तेषु छिन्नेष्वपि गात्रेषु न दृश्यते, तस्माद्धेतोः| द्वितीयं हेतुमाह– सर्वदेहाश्रितत्वादिति| शुक्रवत्समस्तशरीराश्रितत्वात्||१||

Adhikarana शुक्रवत् स्तन्यप्रवृत्तिः (२-३) · Śloka

तदेव चेष्टयुवतेर्दर्शनात् स्मरणादपि | शब्दसंश्रवणात् स्पर्शात् संहर्षाच्च प्रवर्तते ||२|| सुप्रसन्नं मनस्तत्र हर्षणे हेतुरुच्यते | आहाररसयोनित्वादेवं स्तन्यमपि स्त्रियाः ||३||

🔊 Audio coming soon

Show commentary

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

शुक्रदृष्टान्तेन स्तन्यस्याभ्यन्तरदर्शनं प्रतिपाद्य तेनैव दृष्टान्तेन बहिःप्रवर्तनं प्रतिपादयन्नाह– तदित्यादि| तदेव शुक्रं प्रवर्तते बहिर्निःसरति| संहर्षात् विशिष्टसङ्कल्पलक्षणात्| संहर्षे हेतुचतुष्टयं निर्दिशन्नाह– इष्टयुवतेरित्यादि| इष्टयुवतिदर्शनादिहेतुचतुष्टयेन यः संहर्षः, स सुप्रसन्न एव मनसि भवति, इति मनसोऽपि प्रसन्नस्य कारणत्वं दर्शयन्नाह– सुप्रसन्नेत्यादि| तत्र हर्षणे हेतुः सुप्रसन्नमीर्ष्याद्यनभिभूतं मन उच्यते| शुक्रेण सह प्रस्तुतस्य स्तन्यस्य साधर्म्याद्धेतुं दर्शयन्नाह– आहारेत्यादि| पूर्वं स्तन्यमपि स्त्रियाः प्रतर्तते, शुक्रमाहाररसयोनित्वात्प्रवर्तते, स्तन्यमपि तथा, तस्मात्प्रवर्तते||२-३||

Adhikarana स्तन्यप्रवृतौ हेतुः (४) · Śloka

तदेवापत्यसंस्पर्शाद्दर्शनात् स्मरणादपि | ग्रहणाच्च शरीरस्य शुक्रवत् सम्प्रवर्तते | स्नेहो निरन्तरस्तत्र प्रस्रवे हेतुरुच्यते ||४||

🔊 Audio coming soon

Show commentary

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

ननु शुक्रमाहाररसयोन्यपि संहर्षात्कारणात्प्रवर्तते, अत्र च किं कारणमित्याह– तदेवेत्यादि| तदेव स्तन्यं शुक्रवत् सम्प्रवर्तते| अपत्यसंस्पर्शादिकारणचतुष्टयेऽपि स्नेहो मूलकारणमिति तदेव दर्शयन्नाह– स्नेह इत्यादि| प्रस्रवे स्तन्यस्रवणे अत्रापि चत्वारो हेतवः परमेष्टयुवतिस्थानेऽत्रापत्यग्रहणं, मूलहेतुहर्षस्थाने स्नेहः, प्रसन्नस्थाने निरन्तरः||४||

Adhikarana क्षीरदुष्टिकारणं, दुष्टस्तन्याद्बालानां नानारोगोत्पत्तिश्च (५) · Śloka

गुरुभिर्विविधैरन्नैर्दुष्टैर्दोषैः प्रदूषितम् | क्षीरं मातुः कुमारस्य नानारोगाय कल्पते ||५||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

स्तनाश्रितत्वेन स्तन्यदुष्टिमाह– गुरुभिर्विविधैरित्यादि| गुरुभिरन्नैर्हेतुभूतैर्ये दुष्टा दोषास्तैः प्रदूषितम्||५||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

स्तनाश्रितत्वेन स्तन्यस्य दुष्टिमाह– गुरुभिरित्यादि| गुरुभिरन्नैर्हेतुभूतैर्ये दुष्टा दोषास्तैः प्रदूषितं धात्र्याः क्षीरं कुमारस्य नानारोगाय कल्पते| नानारोगानुत्पादयतीत्यर्थः||५||

Adhikarana वातादिदूषितस्तन्यलक्षणम् (६-७) · Śloka

कषायं सलिलप्लावि स्तन्यं मारुतदूषितम् | कट्वम्ललवणं पीतराजीमत् पित्तसञ्ज्ञितम् ||६|| कफदुष्टं घनं तोये निमज्जति सपिच्छलम् | द्विलिङ्गं द्वन्द्वजं विद्यात् सर्वलिङ्गं त्रिदोषजम् ||७||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

स्तन्यदुष्टिलक्षणमाह– कषायमित्यादि| सलिलप्लावीति सलिले यदुत्प्लवते लाघवात् तत् सलिलप्लावि| एतदुपलक्षणं, तेन तनुत्वाद्यपि बोद्धव्यम्| कट्वम्ललवणमिति कटु तिक्तं, तिक्तेऽपि कटुशब्दप्रवृत्तेरिति वदन्ति| पीतराजीमदिति पीतरेखायुक्तम्, तत्रापि नीललोहिताश्च राज्यो ज्ञेयाः| पित्तसञ्ज्ञितमिति पित्तदुष्टसञ्ज्ञितम्| सञ्ज्ञितमित्यत्र संयुतमिति पाठान्तरम्| तोये निमज्जति गुरुत्वात्| अतिमाधुर्याद्यपि बोध्यम्| प्रसन्नस्य तु साधारणं मधुरपाण्डुत्वम्| अभिघातेनापि स्तन्यं दुष्टं सम्भवत्येव, किन्तु तस्य वातिकस्तन्यलक्षणैरेव सङ्ग्रहणं कर्तव्यम्| स्तन्यस्वरूपं च सुश्रुतेनोक्तम्| तद्यथा– “रसप्रसादो मधुरः पक्वाहारनिमित्तजः| कृत्स्नदेहात् स्तनौ प्राप्तः स्तन्यमित्यभिधीयते||” (सु. नि. अ. १०) इति||६-७||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

वातिकमाह– कषायमित्यादि| सलिलप्लावि सलिले यदुत्प्लवते लाघवात्, एतदुपलक्षणं, तेन तनुत्वाद्यप्यनुक्तं बोद्धव्यम्| पैत्तिकमाह– कट्वित्यादि| कटु तिक्तं, तिक्तेऽपि कटुशब्दस्य प्रवृत्तेरिति वदन्ति, पीतराजीमदिति पीतरेखायुक्तम्, अत्रापि नीललोहिताश्च राज्यो बोद्धव्याः| पित्तसञ्ज्ञितमिति पित्तदुष्टमिति सञ्ज्ञितम्| श्लैष्मिकमाह– कफदुष्टमित्यादि| तोये निमज्जतीति गुरुत्वात्| अतिमाधुर्याद्यपि बोद्धव्यम्| सांसर्गिकसान्निपातिकावाह– द्विलिङ्गमिति| सुगमम्||६-७||

Adhikarana अविकृतस्तन्यलक्षणम् (८) · Śloka

अदुष्टं चाम्बुनिक्षिप्तमेकीभवति पाण्डुरम् | मधुरं चाविवर्णं च प्रसन्नं तत् प्रशस्यते ||८||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

अविकृतस्तन्यमाह– अदुष्टमित्यादि| अम्बुनिक्षिप्तमेकीभवति सर्वात्मना जलेन सहैकीभवतीति बोध्यं, वातादिदुष्टस्याप्येकदेशेनैकीभावोपलम्भात्| अविवर्णमिति अविद्यमानवातादिदुष्टवर्णम्| एतत् समदोषप्रकृतिक्षीरस्य प्रसन्नस्य लक्षणम्| अन्ये त्वविवर्णमित्यत्र नञ् ईषदर्थे, तेन यद्वातादिप्रकृतिवर्णानुविद्धमपि पाण्डुरमल्पदुष्टत्वात्तद् गृह्णन्ति| केचित् पाण्डुरस्थाने ‘सर्वशः’ इति पठन्ति, तदा सर्वात्मना जलेन सहैकीभवतीति व्यक्तोऽर्थः| अत्र पक्षे अविवर्णमित्यनेनैवादुष्टशुक्लवर्णता ज्ञेया| प्रसन्नं प्रकृतिस्थम्||८||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

अविकृतं स्तन्यमाह– अदुष्टमित्यादि| अम्बुनिक्षिप्तमेकीभवति सर्वात्मना जलेन सहैकीभूतं भवतीति बोद्धव्यम्| अविवर्णमिति अविद्यमानवातादिदुष्टवर्णम्||८||

Adhikarana पुष्पिका · Śloka ६७

इति श्रीमाधवकरविरचिते माधवनिदाने स्तन्यदुष्टिनिदानं समाप्तम् ||६७||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां स्तन्यदुष्टिनिदानं समाप्तम्||६७||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायां स्तन्यदुष्टिनिदानम्||६७||