Skip to content

४५. नाडीव्रणनिदानम्

Adhikarana नाडीव्रणस्य सम्प्राप्तिः (१) · Śloka

अथ नाडीव्रणनिदानम् | यः शोथमाममतिपक्वमुपेक्षतेऽज्ञो यो वा व्रणं प्रचुरपूयमसाधुवृत्तः | अभ्यन्तरं प्रविशति प्रविदार्य तस्य स्थानानि पूर्वविहितानि ततः सपूयः ||१|| (सु. नि. अ. १०) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

भग्नस्यापि व्रणस्योपेक्षया नाडी भवति, अतोऽनन्तरं नाडीमाह– यः शोथमित्यादि| उपेक्षत इति पीडनशोधनादिकं न करोति| प्रचुरपूय इत्यनेन गम्भीरपाकित्वमुक्तम्| असाधुवृत्तः अहिताहाराचारः| स्थानानि पूर्वविहितानीति व्रणास्रावविज्ञानीयोक्तानि त्वङ्मांससिरास्नायुसन्ध्यस्थिकोष्ठमर्माणि||१||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

भग्नस्यापि व्रणस्योपेक्षया नाडीसम्भवात्तदनन्तरं नाडीमाह– य इत्यादि| योऽपक्वं शोफमाममित्युपेक्षते पीडनशोधनादीनि न करोति, अथवा यः युरुषः प्रचुरपूयं व्रणमुपेक्षते इति सम्बन्धः| प्रचुरपूयमित्यनेन गम्भीरपाकित्वं दर्शयति| असाधुवृत्तः अहिताहाराचारः| सपूयः तस्य पूर्वोक्तानि व्रणास्रावविज्ञानीयोक्तानि त्वङ्मांससिरास्नायुसन्ध्यस्थिकोष्ठमर्माणि स्थानानि विदार्यान्तः प्रविशति||१||

Adhikarana नाडीव्रणस्य निरुक्तिः (२) · Śloka

तस्यातिमात्रगमनाद्गतिरिष्यते तु नाडीव यद्वहति तेन मता तु नाडी |२| (सु. नि. अ. १०) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

तस्येति पूयस्य| नाडीवेति अन्तःशुषिरलतादिनाडीवत्|२|–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

तस्येत्यादि| पूयस्यातिमात्रगमनाद्गतिरिष्यते, इष्यते चेति चशब्दो नाडीनिरुक्तिपक्षान्तरसमुच्चये, तामेव नाडीनिरुक्तिमाह– नाडीत्यादि| येन हेतुना नाडीव प्रणालीव यद्वहति, तेन हेतुना नाडी मतेत्यर्थः| अन्तःशुषिरनाला नाडी|२|–

Adhikarana नाडीव्रणसङ्ख्या (२) · Śloka

दोषैस्त्रिभिर्भवति सा पृथगेकशश्च सम्मूर्छितैरपि च शल्यनिमित्ततोऽन्या ||२|| (सु. नि. अ. १०) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

तासां कालान्तरसम्भवेन दोषानुबन्धेन सङ्ख्यामाह– दोषैस्त्रिभिरित्यादि| दोषैः पृथक् तिस्रः| एकशश्च सम्मूर्छितैरिति प्रत्येकं वृद्ध्या मिश्रीभूतैस्त्रिभिश्चतुर्थी; कार्तिकस्तु सन्निपतितैरित्यध्याहार्य एकशश्च सन्निपतितैरन्या| सम्मूर्छितैः संश्लिष्टैरपरास्तिस्रः| अत एवोक्तं सुश्रुते– “दोषद्वयाभिहितलक्षणदर्शनेन तिस्रो गतीर्व्यतिकरप्रभवास्तु विद्यात्|” (सु. नि. अ. १०) इति| व्यतिकरप्रभवा द्वन्द्वप्रभवाः; अपि चकारौ सार्थकावित्याहुः| न चोक्तपञ्चसङ्ख्याहानिः, अस्मिन् पक्षेऽतिदेशेनोक्तयोर्द्वन्द्वसन्निपातयोः सर्वत्रागणनात्| शल्यनिमित्ततोऽन्येति आगन्तुरपरेत्यर्थः| इति पञ्च नाड्यः||२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

तासां कालान्तरसम्भवेन दोषानुबन्धेन सङ्ख्यामाह– दोषैरित्यादि| त्रिभिर्दोषैस्तिस्रः, शल्यनिमित्ततोऽन्येति आगन्तुरित्यर्थः| एवं पञ्च नाड्यः||२||

Adhikarana वातजनाडीव्रणलक्षणम् (३) · Śloka

तत्रानिलात् परुषसूक्ष्ममुखी सशूला फेनानुविद्धमधिकं स्रवति क्षपासु |३| (सु. नि. अ. १०) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

वातजामाह– तत्रेत्यादि| अधिकं स्रवति क्षपास्विति शैत्येन वातवृद्धे रात्रावधिकं स्रवणम्|३|–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

तत्र वातजामाह– तत्रेत्यादि| परुषं कर्कशं सूक्ष्मं मुखं यस्याः सा तथा, शैत्येन वातवृद्धिरतो रात्रावधिकं स्रवति|३|–

Adhikarana पित्तजनाडीव्रणलक्षणम् (३) · Śloka

पित्तात्तृषाज्वरकरी परिदाहयुक्ता पीतं स्रवत्यधिकमुष्णमहःसु चापि ||३|| (सु. नि. अ. १०) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

पित्तजामाह– पित्तादित्यादि| अधिकमुष्णमहःसु चेति दिवा औष्ण्येन पित्तकोपात्||३||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

पित्तजामाह– पित्तादित्यादि| परिदाहः समन्ताद्दाहः, अधिकमुष्णम्, अहःस्विति दिवसेषु, औष्ण्येन पित्तप्रकोपात्||३||

Adhikarana कफजनाडीव्रणलक्षणम् (४) · Śloka

ज्ञेया कफाद्बहुघनार्जुनपिच्छिलास्रा स्तब्धा सकण्डुररुजा रजनीप्रवृद्धा |४| (सु. नि. अ. १०) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

कफजामाह– ज्ञेयेत्यादि| बहुघनार्जुनपिच्छिलास्रा इति अत्रार्जुनः श्वेतः, घनः सान्द्रः, आस्रशब्द आस्रावशब्दैकदेशपाठः, पदेऽपि पदैकदेशप्रयोगात्| यथा “जे प्रोष्ठपदानाम्” इत्यत्र जे इत्यनेनैव जात इत्युच्यते| पिच्छिलास्रुरिति पाठेऽप्ययमेवार्थः| आस्रुशब्दः सम्पदादिषु पाठात् क्विबन्तः, तुगभावस्त्वागमानित्यत्वात्|४|–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

श्लेष्मजामाह– ज्ञेया इत्यादि| बहुरधिकः, घनः सान्द्रः, अर्जुनः श्वेतः, पिच्छिलः आस्रः आस्रावो यस्यां सा तथा| आस्रशब्देन आस्राव उच्यते| अन्ये ‘पिच्छिलास्रुः’ इति पठन्ति| अत्राप्ययमेवार्थः| आस्रुशब्दः सम्पदादित्वात्क्विबन्तः, तुगभावस्त्वागमानित्यत्वात्| रजनीप्रवृद्धेति शैत्येन श्लेष्मणः प्रकोपात्|४|–

Adhikarana त्रिदोषजनाडीव्रणलक्षणम् (४) · Śloka

दाहज्वरश्वसनमूर्छनवक्त्रशोषा यस्यां भवन्त्यभिहितानि च लक्षणानि ||४|| तामादिशेत् पवनपित्तकफप्रकोपाद्घोरामसुक्षयकरीमिव कालारात्रिम् | (सु. नि. अ. १०) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

त्रिदोषजामाह– दाहेत्यादि| अभिहितानीति प्रत्येकं वातादिजनाडीकथितानि| असुक्षयकरीमिति मारणात्मिकां, कालरात्रिं मरणकारिणीं यमभगिनीमिव| ‘गतिं त्वसुहराम्’ इति पाठान्तरम्||४||–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

त्रिदोषजामाह– दाहेत्यादि| अभिहितानीति पूर्वोक्तदोषत्रयलक्षणानि असुक्षयकरीमिति मारणात्मिकाम्| कालरात्रिमिवेति मृत्युरूपामिव||४||–

Adhikarana शल्यनिमित्तजनाडीव्रणलक्षणम् (५) · Śloka

नष्टं कथञ्चिदनुमार्गमुदीरितेषु स्थानेषु शल्यमचिरेण गतिं करोति ||५|| सा फेनिलं मथितमुष्णमसृग्विमिश्रं स्रावं करोति सहसा सरुजा च नित्यम् | (सु. नि. अ. १०) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

शल्यनिमित्तामाह– नष्टमित्यादि| नष्टमदृश्यमानम्| कथञ्चिदिति वेगक्षयादिकारणानामनियमार्थमुक्तम्| अनुमार्गं मार्गं लक्षीकृत्य| केचित् ‘अणुमार्गम्’ इति पठित्वा शल्यविशेषणतया योजयन्ति| किन्त्वस्मिन् पक्षेऽणुमार्गत्वेनैव शल्यस्यादर्शने प्रयुक्ते कथञ्चिदिति निरर्थकं स्यात्| उदीरितेष्विति त्वगादिषु| फेनिलं फेनवन्तम्| मथितमुन्मथितम्| उष्णमुष्णस्पर्शम्| एते च धर्माः प्रसारणाकुञ्चनादौ चलता शल्येन मांसादिक्षोभेण भवन्ति||५||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

शल्यनिमित्तामाह– नष्टमित्यादि| नष्टदृश्यमानं, कथञ्चित् प्रमादात्, अनुमार्गं मार्गं लक्षीकृत्य| केचिद् ‘अणुमार्गम्’ इति पठन्ति| तत्र शल्यविशेषणतया योजयन्ति| उदीरितेष्विति त्वङ्मांसादिषु पूर्वोक्तेषु| सा नाडी, फेनिलं फेनवर्णम्, उन्मथितम्, उष्णमुष्णस्पर्शम्, एते च धर्माः प्रसारणादौ चलता शल्येन मांसादिक्षोभेण भवन्ति||५||–

Adhikarana नाडीव्रणस्य साध्यत्वादिलक्षणम् (६) · Śloka

नाडी त्रिदोषप्रभवा न सिध्येच्छेषाश्चतस्रः खलु यत्नसाध्याः ||६|| (सु. चि. अ. १७) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

असाध्यत्वादिकमाह– नाडीत्यादि| ननु, नाडी त्रिदोषप्रभवा न सिध्येदिति पुनरुक्तम्, असुक्षयकरीमित्यनेनैवासाध्यत्वस्योक्तत्वात्| नैवम्, अयं ग्रन्थः सुश्रुतेन निदानस्थानोक्तमेव त्रिदोषनाड्या असाध्यत्वमनूद्य तदन्यासां शेषत्वनिश्चयेन यत्नसाध्यत्वप्रतिपादनाय चिकित्सिते पठितः, स एवात्र माधवकरेण लिखित इत्यदोषः||६||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

असाध्यामाह– नाडीत्यादि| शेषा वातपित्तकफशल्यजा इति||६||

Adhikarana पुष्पिका · Śloka ४५

इति श्रीमाधवकरविरचिते माधवनिदाने नाडीव्रणनिदानं समाप्तम् ||४५||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इति श्रीकण्ठदत्तविरचितायां मधुकोशव्याख्यायां नाडीव्रणनिदानं समाप्तम्||४५||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायां नाडीव्रणनिदानं समाप्तम्||४५||