Adhikarana १ (१-२) · Śloka २
अथात उन्मादनिदानं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
Hide commentary
औत्पादिकं शोषमभिधाय दक्षयज्ञे कुष्ठानन्तरोत्पन्नमुन्मादं ब्रूते| वचनं हि- “भयत्रासशोकैरुन्मादापस्माराणाम्” (नि.अ.८) इति||१-२||
Adhikarana २ (३-४) · Śloka ४
इह खलु पञ्चोन्मादा भवन्ति; तद्यथा- वातपित्तकफसन्निपातागन्तुनिमित्ताः||३||
तत्र दोषनिमित्ताश्चत्वारः पुरुषाणामेवंविधानां क्षिप्रमभिनिर्वर्तन्ते; तद्यथा- भीरूणामुपक्लिष्टसत्त्वानामुत्सन्नदोषाणां समलविकृतोपहितान्यनुचितान्याहारजातानि वैषम्ययुक्तेनोपयोगविधिनोपयुञ्जानानां तन्त्रप्रयोगमपि विषममाचरतामन्याश्च शरीरचेष्टा विषमाः समाचरतामत्युपक्षीणदेहानां व्याधिवेगसमुद्भ्रमितानामुपहतमनसां वा कामक्रोधलोभहर्षभयमोहायासशोकचिन्तोद्वेगादिभिर्भूयोऽभिघाताभ्याहतानां वा मनस्युपहते बुद्धौ च प्रचलितायामभ्युदीर्णा दोषाः प्रकुपिता हृदयमुपसृत्य मनोवहानि स्रोतांस्यावृत्य जनयन्त्युन्मादम्||४||
Hide commentary
उपक्लिष्टसत्त्वानामिति रजस्तमोभ्यामुपहतेचेतसाम्| उत्सन्नदोषाणामिति प्रवृद्धोद्भ्रान्तदोषाणाम्| समलैः अशुचिभिः, विकृतैः वैरोधिकैः, उपहितानि मिश्रीकृतानीति समलविकृतोपहितानि; किंवा समलैः मलिनैः, विकृतैः कुष्ठिव्यङ्गादिभिः परिजनैः, उपहितानि उपढौकितानीति समलविकृतोपहितानि| वैषम्ययुक्तेनोपयोगविधिनेति यः प्रकृतिकरणादिराहारोपयोगविधिर्वक्तव्यः, तेन वैषम्ययुक्तेन; वैषम्यं च प्रकृत्यादीनामशस्तत्वं प्रकृतिगुरुत्वादिभिः कृतं ज्ञेयम्| तन्त्रं शरीरं, तस्य परिपालनार्थं सद्वृत्तोक्तः प्रयोगः; शरीरचेष्टाशब्देन तु गमनादि गृह्यते, तेन न पौनरुक्त्यम्| तन्त्रशब्दः शरीरे वर्तते; यदुक्तं- “तन्त्रयन्त्रेषु भिन्नेषु तमोऽन्त्यं प्रविविक्षताम्” (इ.अ.१२) इति| व्याधिवेगसमुद्भ्रमितानामिति व्याधिबलेनाप्रकृतिस्थितानाम्| उपहतमनसामिति कामादिभिः सम्बध्यते| भूय इति पुनः पुनः| उपसृत्येति व्याप्य||३-४||
Adhikarana ३ (५) · Śloka ५
उन्मादं पुनर्मनोबुद्धिसञ्ज्ञाज्ञानस्मृतिभक्तिशीलचेष्टाचारविभ्रमं विद्यात्||५||
Hide commentary
उन्मादप्रत्यात्मलक्षणमाह- उन्मादं पुनरित्यादि| विभ्रममिति मनःप्रभृतिभिः प्रत्येकं सम्बध्यते| अत्र मनोविभ्रमाच्चिन्त्यानर्थान्न चिन्तयते, अचिन्त्यांश्च चिन्तयते; उक्तं हि- “मनसश्च चिन्त्यमर्थः” (सू.अ.८) इति| बुद्धिविभ्रमात्तु नित्यमनित्यमिति, प्रियं चाप्रियमिति पश्यति; वचनं हि- “विषमाभिनिवेशो यो नित्यानित्ये प्रियाप्रिये| ज्ञेयः स बुद्धिविभ्रंशः, समं बुद्धिर्हि पश्यति” (शा.अ.१) इति| सञ्ज्ञां ज्ञानं, तद्विभ्रमादग्न्यादिदाहं न बुध्यते; किंवा सञ्ज्ञा नामोल्लेखेन ज्ञानम्| स्मृतिविभ्रमात्तु न स्मरति, अयथावद्वा स्मरति| भक्तिरिच्छा, तद्विभ्रमाच्च यत्रेच्छा पूर्वमासीत्तत्रानिच्छा भवति| शीलविभ्रमादक्रोधनः क्रोधनो भवति| चेष्टाविभ्रमादनुचितचेष्टो भवति| आचारः शास्त्रशिक्षाकृतो व्यवहारः; तद्विभ्रमादशौचाद्याचरति||५||
Adhikarana ४ (६) · Śloka ६
तस्येमानि पूर्वरूपाणि; तद्यथा- शिरसः शून्यता, चक्षुषोराकुलता, स्वनः कर्णयोः, उच्छ्वासस्याधिक्यम्, आस्यसंस्रवणम्, अनन्नाभिलाषारोचकाविपाकाः, हृद्ग्रहः, ध्यानायाससम्मोहोद्वेगाश्चास्थाने, सततं लोमहर्षः, ज्वरश्चाभीक्ष्णम्, उन्मत्तचित्तत्वम्, उदर्दित्वम् , अर्दिताकृतिकरणं च व्याधेः, स्वप्ने चाभीक्ष्णं दर्शनं भ्रान्तचलितानवस्थितानां रूपाणामप्रशस्तानां च तिलपीडकचक्राधिरोहणं वातकुण्डलिकाभिश्चोन्मथनं निमज्जनं च कलुषाणामम्भसामावर्ते चक्षुषोश्चापसर्पणमिति (दोषनिमित्तानामुन्मादानां पूर्वरूपाणि भवन्ति)||६||
Hide commentary
अस्थाने इत्यविषये; तेन अध्यानविषये ध्यानम्, असम्मोहविषये च मोह इत्यादि ज्ञेयम्| उन्मत्तचित्तत्वमिति उद्भ्रान्तचित्तत्वम्| उदर्दितत्वमिति ऊर्ध्वकाये पीडितत्वम्| अर्दिताकृतिकरणं च व्याधेरिति अर्दितस्य व्याधेराकृतिकरणं; तेनार्धवक्त्रभ्रमणादिकरणमित्यर्थः| किंवा व्याधेरिति प्रथमोक्तेन तस्येत्यनेन सम्बध्यते, तेन तस्य व्याधेर्बुद्ध्यादिभ्रमरूपस्योन्मादस्य यथोक्तानि पूर्वरूपाणीति योजना| चक्षुषोश्चापसर्पणमिति चक्षुर्व्यपगम इत्यर्थः||६||
Adhikarana ५ (७) · Śloka ७
ततोऽनन्तरमेवमुन्मादाभिनिर्वृत्तिरेव|
तत्रेदमुन्मादविशेषविज्ञानं भवति; तद्यथा- परिसरणमजस्रम्, अक्षिभ्रुवौष्ठांसहन्वग्रहस्तपादाङ्गविक्षेपणमकस्मात् , सततमनियतानां च गिरामुत्सर्गः, फेनागमनमास्यात्, अभीक्ष्णं स्मितहसितनृत्यगीतवादित्रसम्प्रयोगाश्चास्थाने, वीणावंशशङ्खशम्यातालशब्दानुकरणमसाम्ना, यानमयानैः, अलङ्करणमनलङ्कारिकैर्द्रव्यैः, लोभश्चाभ्यवहार्येष्वलब्धेषु, लब्धेषु चावमानस्तीव्रमात्सर्यं च, कार्श्यं, पारुष्यम्, उत्पिण्डितारुणाक्षता, वातोपशयविपर्यासादनुपशयता च; इति वातोन्मादलिङ्गानि भवन्ति(१); अमर्षः, क्रोधः, संरम्भश्चास्थाने, शस्त्रलोष्ट्रकशाकाष्ठमुष्टिभिरभिहननं स्वेषां परेषां वा, अभिद्रवणं, प्रच्छायशीतोदकान्नाभिलाषः, सन्तापश्चातिवेलं, ताम्रहरितहारिद्रसंरब्धाक्षता, पित्तोपशयविपर्यासादनुपशयता च; इति पित्तोन्मादलिङ्गानि भवन्ति(२); स्थानमेकदेशे, तूष्णीम्भावः, अल्पशश्चङ्क्रमणं, लालाशिङ्घाणकस्रवणम्, अनन्नाभिलाषः, रहस्कामता, बीभत्सत्वं, शौचद्वेषः, स्वप्ननित्यता, श्वयथुरानने, शुक्लस्तिमितमलोपदिग्धाक्षत्वं, श्लेष्मोपशयविपर्यासादनुपशयता च; इति श्लेष्मोन्मादलिङ्गानि भवन्ति(३); त्रिदोषलिङ्गसन्निपाते तु सान्निपातिकं विद्यात्; तमसाध्यमाचक्षते कुशलाः||७||
Hide commentary
ततोऽनन्तरमेवेतिवचनात् पूर्वरूपानन्तरं शीघ्रमेवोन्मादो भवतीति दर्शयति; अन्ये रोगा यथा पूर्वरूपे भूतेऽपि चिरेण भवन्ति, न तथोन्माद इत्यर्थः| उन्मादविशेषविज्ञानमिति वाताद्युन्मादलिङ्गमित्यर्थः| परिसरणं भ्रमणम्| शम्या दक्षिणहस्तेन वादनं, तालस्तु वामहस्तेन वादनं; यदुक्तं विशाखिना- “शम्या दक्षिणहस्तेन, वामहस्तेन तालकः| उभाभ्यां वादनं यत्तु सन्निपातः स उच्यते” इति| असाम्नेति उच्चैः| अयानैरिति हस्त्यादियानव्यतिरिक्तैः| लब्धेषु चावमान इति प्राप्तेष्वभ्यवहार्येष्वाहार्येष्वनुपयोगोऽवधीरणं च; न केवलमवमानः, किन्तु तीव्रं मात्सर्यं च; अभ्यवहार्यं लब्ध्वा न कस्यचिद्दातुमिच्छतीत्यर्थः| वाते उपशय उपशयहेतुः स्नेहादिर्वातोपशयः, तस्य विपर्यासो रूक्षादिः, तेनानुपशयिता असुखमित्यर्थः| चकाराद्वातानुगुणस्नेहाद्युपशयता च गृह्यते| अमर्ष इत्यादि पित्तोन्मादलिङ्गम्| संरम्भ आरभटी| स्वेषामिति आत्मीयानाम्| कफोन्मादलिङ्गे रहो विजनम्||७||
Adhikarana ६ (८-९) · Śloka ९
साध्यानां तु त्रयाणां साधनानि- स्नेहस्वेदवमनविरेचनास्थापनानुवासनोपशमन नस्तःकर्मधूमधूपनाञ्जनावपीडप्रधमनाभ्यङ्गप्रदेहपरिषेकानुलेपनवधबन्धनावरोधन- वित्रासनविस्मापनविस्मारणापतर्पणसिराव्यधनानि, भोजनविधानं च यथास्वं युक्त्या, यच्चान्यदपि किञ्चिन्निदानविपरीतमौषधं कार्यं तदपि स्यादिति||८||
भवति चात्र- उन्मादान् दोषजान् साध्यान् साधयेद्भिषगुत्तमः|
अनेन विधियुक्तेन कर्मणा यत् प्रकीर्तितम्||९||
Hide commentary
अवरोधनं तमोग्रहावरोधनादि| विधियुक्तेनेति उन्मादचिकित्सिते प्रपञ्चवक्ष्यमाणविधियुक्तेनेत्यर्थः||८-९||
Adhikarana ७ (१०) · Śloka १०
यस्तु दोषनिमित्तेभ्य उन्मादेभ्यः समुत्थानपूर्वरूपलिङ्गवेदनोपशयविशेषसमन्वितो भवत्युन्मादस्तमागन्तुकमाचक्षते|
केचित् पुनः पूर्वकृतं कर्माप्रशस्तमिच्छन्ति तस्य निमित्तम्|
तस्य च हेतुः प्रज्ञापराध एवेति भगवान् पुनर्वसुरात्रेयः|
प्रज्ञापराधाद्ध्ययं देवर्षिपितृगन्धर्वयक्षराक्षसपिशाचगुरुवृद्धसिद्धाचार्यपूज्यानवमत्याहितान्याचरति, अन्यद्वा किञ्चिदेवंविधं कर्माप्रशस्तमारभते; तमात्मना हतमुपघ्नन्तो देवादयः कुर्वन्त्युन्मत्तम्||१०||
Hide commentary
केचित् पुनरित्यादौ ‘तस्य निमित्तं’ इतिपदमावृत्य पूर्वेण परेण च योजनीयम्| तत्र प्रज्ञापराध एव तस्य निमित्तमिति ब्रुवता अप्रशस्तप्राक्तनकर्मजन्यत्वं न प्रतिक्षिप्यते, यतः प्राक्तनमपि हि कर्म प्रज्ञापराधजमेव| किंवा, तस्य निमित्तं प्रज्ञापराध एवेत्यनेन तस्येत्यप्रशस्तकर्मणोऽपि प्रज्ञापराध एव कारणमिति दर्श्यते; तेन कर्मजस्य प्रज्ञापराधान्तर्निविष्टत्वमुच्यते| आत्मना हतमिति आत्मना कृतेनाशुभकर्मणा हतम्| उपघ्नन्त इत्यावेशं कुर्वन्तः||१०||
Adhikarana ८ (११) · Śloka ११
तत्र देवादिप्रकोपनिमित्तेनागन्तुकोन्मादेन पुरस्कृतस्येमानि पूर्वरूपाणि भवन्ति; तद्यथा- देवगोब्राह्मणतपस्विनां हिंसारुचित्वं, कोपनत्वं, नृशंसाभिप्रायता, अरतिः, ओजोवर्णच्छायाबलवपुषामुपतप्तिः, स्वप्ने च देवादिभिरभिभर्त्सनं प्रवर्तनं चेति; ततोऽनन्तरमुन्मादाभिनिर्वृत्तिः||११||
Hide commentary
पुरस्कृतस्येति अभिशपनीयतया व्यवस्थापितस्य| नृशंसाभिप्रायता परापकाररुचित्वम्| ओजस उपतप्त्या ओजःकार्यबलादिरहितः| प्रवर्तनं प्रेरणम्||११||
Adhikarana ९ (१२) · Śloka १२
तत्रायमुन्मादकराणां भूतानामुन्मादयिष्यतामारम्भविशेषो भवति; तद्यथा- अवलोकयन्तो देवा जनयन्त्युन्मादं, गुरुवृद्धसिद्धमहर्षयोऽभिशपन्तः, पितरो दर्शयन्तः , स्पृशन्तो गन्धर्वाः, समाविशन्तो यक्षाः, राक्षसास्त्वात्मगन्धमाघ्रापयन्तः, पिशाचाः पुनरारुह्य वाहयन्तः||१२||
Hide commentary
दर्शयन्त इत्यत्र ‘आत्मानम्’ इति शेषः||१२||
Adhikarana १० (१३) · Śloka १३
तस्येमानि रूपाणि भवन्ति; तद्यथा- अत्यात्मबलवीर्यपौरुषपराक्रमग्रहणधारणस्मरणज्ञानवचनविज्ञानानि , अनियतश्चोन्मादकालः||१३||
Hide commentary
अत्यात्मशब्दो बलादिभिः प्रत्येकमभिसम्बध्यते| आत्मानमतिरिच्येति अत्यात्म; तेनात्माननुरूपबलादियोगो भवतीत्यर्थः||१३||
Adhikarana ११ (१४) · Śloka १४
उन्मादयिष्यतामपि खलु देवर्षिपितृगन्धर्वयक्षराक्षसपिशाचानां गुरुवृद्धसिद्धानां वा एष्वन्तरेष्वभिगमनीयाः पुरुषा भवन्ति; तद्यथा- पापस्य कर्मणः समारम्भे, पूर्वकृतस्य वा कर्मणः परिणामकाले, एकस्य वा शून्यगृहवासे चतुष्पथाधिष्ठाने वा, सन्ध्यावेलायामप्रयतभावे वा पर्वसन्धिषु वा मिथुनीभावे, रजस्वलाभिगमने वा, विगुणे वाऽध्ययनबलिमङ्गलहोमप्रयोगे, नियमव्रतब्रह्मचर्यभङ्गे वा, महाहवे वा, देशकुलपुरविनाशे वा, महाग्रहोपगमने वा, स्त्रिया वा प्रजननकाले, विविधभूताशुभाशुचिस्पर्शने वा, वमनविरेचनरुधिरस्रावे, अशुचेरप्रयतस्य वा चैत्यदेवायतनाभिगमने वा, मांसमधुतिलगुडमद्योच्छिष्टे वा, दिग्वाससि वा, निशि नगरनिगमचतुष्पथोपवनश्मशानाघातनाभिगमने वा, द्विजगुरुसुरयतिपूज्याभिधर्षणे वा, धर्माख्यानव्यतिक्रमे वा, अन्यस्य वा कर्मणोऽप्रशस्तस्यारम्भे, इत्यभिघातकाला व्याख्याता भवन्ति||१४||
Hide commentary
पर्वसन्धिः अमावास्या पौर्णमासी च| दिग्वाससीति नग्ने| निशीत्यादौ पुनश्चतुष्पथवचनं निशि पुनरन्येन सहापि चतुष्पथगमनप्रदर्शनार्थम् ; एकस्येत्यादौ तु दिवाऽप्येकस्य चतुष्पथगमनं ब्रुवते| धर्माख्यानव्यतिक्रम इति अविधिना धर्मप्रकाशने||१४||
Adhikarana १२ (१५) · Śloka १५
त्रिविधं तु खलून्मादकराणां भूतानामुन्मादने प्रयोजनं भवति; तद्यथा- हिंसा, रतिः, अभ्यर्चनं चेति|
तेषां तं प्रयोजनविशेषमुन्मत्ताचारविशेषलक्षणैर्विद्यात्|
तत्र हिंसार्थिनोन्माद्यमानोऽग्निं प्रविशति, अप्सु निमज्जति, स्थलाच्छ्वभ्रे वा पतति, शस्त्रकशाकाष्ठलोष्टमुष्टिभिर्हन्त्यात्मानम्, अन्यच्च प्राणवधार्थमारभते किञ्चित्, तमसाध्यं विद्यात्; साध्यौ पुनर्द्वावितरौ||१५||
Hide commentary
रतिः क्रीडा| अभ्यर्चनं पूजा| उन्मत्ताचारविशेषलक्षणैर्विद्यादिति उन्मत्तस्याचारविशेषरूपैर्लक्षणैर्हिंसार्थाद्युन्मादितं विद्यात्| तत्र हिंसार्थिनोन्मादितो हिंसानुगुणमग्निप्रवेशाद्याचरति, रत्यर्थिना चोन्मादितः क्रीडार्थं प्रचरति, पूजार्थिना गृहीतो पूजां चेष्टते| इह च देवादिवचनेन देवाद्यनुचरा देवादिसधर्माणो ग्राह्याः, देवादयस्तु न मानुषानाविशन्ति| उक्तं हि सुश्रुते- “न ते मनुष्यैः सह संविशन्ति नवा मनुष्यान् क्वचिदाविशन्ति| ये त्वाविशन्तीति वदन्ति मोहात्ते भूतविद्याविषयादपोह्याः” (सु.उ.तं.अ.६१) इत्यादि| हिंसार्थिगृहीतस्यासाध्यत्वेन तद्विज्ञानार्थं सामान्योक्तान्यपि लक्षणानि शृङ्गग्राहिकया ब्रूते||१५||
Adhikarana १३ (१६-१७) · Śloka १७
तयोः साधनानि- मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमव्रतप्रायश्चित्तोपवास स्वस्त्ययनप्रणिपातगमनादीनि||१६||
एवमेते पञ्चोन्मादा व्याख्याता भवन्ति||१७||
Hide commentary
तयोरित्यादौ गमनं देवतीर्थादिगमनम्||१६-१७||
Adhikarana १४ (१८) · Śloka १८
ते तु खलु निजागन्तुविशेषेण साध्यासाध्यविशेषेण च प्रविभज्यमानाः पञ्च सन्तो द्वावेव भवतः|
तौ च परस्परमनुबध्नीतः कदाचिद्यथोक्तहेतुसंसर्गात्|
तयोः संसृष्टमेव पूर्वरूपं भवति, संसृष्टमेव च लिङ्गम्|
तत्रासाध्यसंयोगं साध्यासाध्यसंयोगं चासाध्यं विद्यात्, साध्यं तु साध्यसंयोगम्|
तस्य साधनं साधनसंयोगमेव विद्यादिति||१८||
Hide commentary
ताविति तौ निजागन्तू| परस्परमनुबध्नीतः कदाचिदिति न सर्वदा| यथोक्तहेतुसंसर्गादिति निजागन्तुहेतुमेलकात्| तत्रेति निजागन्तुहेतुसंसर्गे| असाध्यसंयोगमिति यदा त्रिदोषजोन्मादे हिंसार्थिना देवादिनाऽनुबन्धो भवति, तदाऽसाध्ययोः संयोगो भवति| साध्यासाध्यसंयोगस्तु एकदोषजे उन्मादे हिंसार्थ्युन्मादयोगात्तथा रत्यर्थोन्मादे त्रिदोषोन्मादानुबन्धाच्चेत्यादि ज्ञेयम्| साध्यसंयोगस्य साध्यरूपतयैव साध्यतायां सिद्धायां पुनः साध्यमितिवचनं साध्यरूपविकारान्तरसम्बन्धे विकारभूयस्त्वेनासाध्यशङ्काप्रतिषेधार्थम्| साधनसंयोगमेवेति निजागन्तुसाधनमेलकमित्यर्थः||१८||
Adhikarana १५ (१९-२०) · Śloka २०
भवन्ति चात्र- नैव देवा न गन्धर्वा न पिशाचा न राक्षसाः|
न चान्ये स्वयमक्लिष्टमुपक्लिश्नन्ति मानवम्||१९||
ये त्वेनमनुवर्तन्ते क्लिश्यमानं स्वकर्मणा|
न स तद्धेतुकः क्लेशो न ह्यस्ति कृतकृत्यता||२०||
Hide commentary
सम्प्रति देवाद्युन्मादहेतुपरिहारार्थं देवाद्युन्मादेऽपि प्रकृतमेव कर्म कारणं दर्शयति- नैवेत्यादि| अनुवर्तन्त इतिवचनाद्दुष्कृतकर्मप्रेरिता एव देवादयोऽशुभकर्माणमभिनिविशन्तीति दर्शयति; यदि ह्येवमेव देवादयः कर्मनिरपेक्षा उन्मत्तं कुर्युस्तदा सर्वानेव कुर्युरिति भावः| न स तद्धेतुकः क्लेश इति नासौ देवादिकृत उन्माद इत्यर्थः| अथ कथं देवाद्यावेशजनितोऽप्ययं न देवादिकृत इत्याह- नह्यस्ति कृतकृत्यतेति; न यस्मादशुभकर्मणा कृते उन्मादे पुनर्देवादिकृत्यत्वमस्ति, न हि कृतं पुनः क्रियते, देवादयश्च कर्मपराधीना एवेति भावः| किंवा, ‘नह्यस्य कृतकृत्यता’ इति पाठः| तत्र कृतेनैव प्राक्तनकर्मणा उन्मादितो न कृत्यः करणीयः पुरुषो भवति; अन्यथा, सर्वेषामेवाविशेषेण देवाद्युन्मादः स्यात्; तस्माद्येनैवोन्मादफलजनकं कर्म कृतं, स एव देवादिभिः कर्मपराधीनैरभिगम्यते; अनेनाभिप्रायेणाह- नह्यस्य कृतकृत्यतेति|- अकृतपापकर्मणो न देवाद्यभिगमनीयताऽस्तीत्यर्थः| यस्माद्देवादयोऽत्र कर्मपराधीनास्तस्माद्देवादयो नोपालम्भ्याः||१९-२०||
Adhikarana १६ (२१-२४) · Śloka २४
प्रज्ञापराधात् सम्भूते व्याधौ कर्मज आत्मनः|
नाभिशंसेद्बुधो देवान्न पितॄन्नापि राक्षसान्||२१||
आत्मानमेव मन्येत कर्तारं सुखदुःखयोः|
तस्माच्छ्रेयस्करं मार्गं प्रतिपद्येत नो त्रसेत्||२२||
देवादीनामपचितिर्हितानां चोपसेवनम्|
ते च तेभ्यो विरोधश्च सर्वमायत्तमात्मनि||२३||
तत्र श्लोकः- सङ्ख्या निमित्तं प्राग्रूपं लक्षणं साध्यता न च|
उन्मादानां निदानेऽस्मिन् क्रियासूत्रं च भाषितम्||२४||
Hide commentary
न च देवादिभ्यो भेतव्यमित्याह- प्रज्ञापराधादित्यादि| नाभिशंसेदिति नोपालभेत| आत्मानमित्यादौ आत्मैव शुभाशुभकर्मकरणात् सुखदुःखयोर्यथासङ्ख्यं कारणं भवतीति वाक्यार्थः| नो त्रसेदिति देवादिभ्यः, एवमेवामी शुभकर्माणमपि गृह्णन्तीति कृत्वा नो त्रसेत्| अपचितिः पूजा| ते चेत्यादौ ते चेति देवापचितिहितोपसेवने| तेभ्यो विरोधश्चेति तेभ्यो देवादिभ्यो विरोधो यतो भवत्यशुभकर्मभ्यः, तत् सर्वमात्मन्यायत्तम्| एतेन, आत्माधीनमेवेदमुन्मादकारणस्य परिवर्जनं परिसेवनं च दर्शयति||२१-२४||
Adhikarana पुष्पिका · Śloka ७
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने उन्मादनिदानं नाम सप्तमोऽध्यायः||७||
Hide commentary
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां निदानस्थाने उन्मादनिदानं नाम सप्तमोऽध्यायः||७||