Adhikarana अथ प्रत्येकलूताप्रतिषेधो नाम पञ्चचत्वारिंशोऽध्यायः, अध्यायप्रतिज्ञा (१) · Śloka १
अथातः प्रत्येक लूताप्रतिषेधं नामाध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
सामान्येन लूतानां चिकित्साविधानुमुक्त्वा यथाप्रधानं प्रत्येकं चिकित्सां प्रदर्शयितुमध्याय आरभ्यते|| १||
Adhikarana कपिलालक्षणं प्रतिषेधश्च (२) · Śloka २
आदंशे पिटका ताम्रा भवेत्कपिलया स्थिरा|
लसीका रोमकूपेषु दाहोष्णौ मूर्ध्नि गौरवम्|
पाननस्याञ्जनालेपसेकेष्वत्र प्रयोजयेत्|
निशापद्मककुष्ठैलाकरञ्चककुभत्वचः|
स्थिरार्कपर्ण्यपामार्गब्राह्मीज्वलननाकुलीः|
अथवा कुष्ठपत्तङ्गनखजोऽङ्गककुङ्कुमम||२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
कपिलाख्यया लूताया आदंशे ताम्रा स्थिरा च पिटका भवेन्मूर्धगौरवान्तं च| अत्र निशादिकं नाकुल्यन्तं पानादिषु योजयेदथवा कुष्ठादिकं कुङ्कुमान्तम्| ककुभोऽर्जुनः| अर्कपर्ण्यलर्कः|| २||
Adhikarana अग्निमुखीलक्षणम् प्रतिषेधश्च (३) · Śloka ३
अग्निमुख्यातिरुक्स्फोटः सम्भवत्यग्निदग्धवत्|
अग्निज्वालासमानेन प्रस्विद्यति विषोष्मणा|
तृड्दाहकम्पमूर्च्छावान् पित्तास्रमतिसार्यते|
योजयेत्पूर्ववत्तत्र प्रत्याख्याय त्वरान्वितः|
कुष्ठलामज्जकोशीरमधुकं मधुकं मधु|
लाभतः शीतवीर्याणि तालीसं गोपकन्यकाम्||३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अग्निमुख्याख्यया लूतया आदंशे अतिरुक्स्फोटः सम्भवति यथाऽग्निदग्धे| अग्निज्वालासदृशेन च विषोष्मणा पुरुषः प्रस्विद्यति| तृडादिमांश्च रक्तपित्तमतिसार्यते| तत्राग्निमुख्यां प्रत्याख्यानं कृत्वा त्वरया पूर्ववत् कपिलावत् पानादिकं योजयेत्| शीतवीर्याणि चन्दनोशीरादीनि च लाभतो यथालाभम्| तालीसादिकं च|| ३||
Adhikarana पीतालक्षणं प्रतिषेधश्च (४) · Śloka ४
पीतया पीतविण्मूत्रदंशक्लेदाक्षिदर्शनः|
मूर्च्छाच्छर्दिशिरोदुःखज्वरारोचकशूलवान्|
तत्रेष्टाः कटभोशीरमुञ्जावञ्जुलपावकाः|
वंशकाशार्जुनकुशाः शिरीषकिणिहीत्वचः|
अथवा वन्यबाह्लीककुष्ठकेसरजोङ्गकम्||४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
पीताख्यया लूतया आदंशे सति पुरुष पीतवर्णैर्विडादिभिर्मूच्छादिभिश्च युक्तो भवति| तत्र कटभादिकं पानादिषु योजयेत्| अथवा वन्यादिकम्| कटभा कटभी| जोङ्गकं कृष्णागरु|| ४||
Adhikarana पद्मालक्षणं प्रतिषेधश्च (५) · Śloka ५
पद्माभः पद्मया स्फोटो भिन्नोऽभिन्नः पुनर्भवेत्|
क्लिद्यत्याशु स्रवत्युष्णं क्लेदस्पर्शेऽतिरुक्करः|
तत्र पद्मोत्पलान्नालो हिमवेतसवञ्जुलाः|
समृणालाः सकुमुदाः सक्षौद्रघृतशर्कराः||५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
पद्माख्यया आदंशे पद्माभः स्फोटो भवति| भिन्नोऽपि सन् पुनरभिन्नो भवति| स च स्फोट आशु क्लिद्यत्युष्णं च क्लेदं स्रवति| स्पर्शे चातिरुक्करो भवति| तत्र पद्मोत्पलादिकं शर्करान्तं पानादिषु|| ५||
Adhikarana मूत्रविषालक्षणं प्रतिषेधश्च (६) · Śloka ६
पूतिर्मूत्रविषादंशो विसर्पी कृष्णशोणितः|
श्वासकासज्वरच्छर्दिमूर्च्छादाह्भ्रमान्वितः|
मनश्शिलालमधुकमधुकोत्पलचन्दनम्|
कुष्ठलामज्जकोशीरपद्मकं तत्र भेषजम्||६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
मूत्रविषायाः पूतिर्दंशो भवति विसर्पाद्यन्वितश्च| तत्र मनश्शिलादिकं पानादिषु भेषजम्|| ६||
Adhikarana श्वेतालक्षणं प्रतिषेधश्च (७) · Śloka ७
आदंशे श्वेतया श्वेता पिटका भृशकण्डुला|
दाहमूर्च्छाज्वररुजाविसर्पक्लेदकारिणी|
तत्रेष्टाः शीतरास्नैलाहरेणुनलवञ्जुलाः|
कुष्ठमांसी नतोशीरकान्ताध्यामकपद्मकाः||७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
श्वेताख्यया आदंशे श्वेता कण्डूला दाहादिकारिणी च पिटका भवति| तत्र शीतादिकं पानादिष्विष्टम्| शीतं चन्दनम्|| ७||
Adhikarana कृष्णालक्षणं प्रतिषेधश्च (८) · Śloka ८
आदंशः कृष्णया कृष्णो विड्गन्धिः कलेदशोफवान्|
उत्थाप्यते कृष्णमसृग्दुष्टम् तत्र च भेषजम्|
महासुगन्धा सर्पाक्षी वक्रैला गन्धनाकुली||८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
कृष्णाख्यया आदंशः कृष्णवर्णः पुरीषगन्धिः क्लदशोफयुक्तश्च भवति| दुष्टम् कृष्णं चासृगुत्थाप्यते विरेच्यते| तत्र महासुगन्धादिकं भेषजम्| महासुगन्धा रास्ना| वक्रं तगरम्| गन्धनाकुली(नि) सूक्ष्मपत्रा परा ज्ञेया सर्पाक्षी गन्धनाकुली|| ८||
Adhikarana पाण्डुरलक्षणम् प्रतिषेधश्च (९) · Śloka ९
शूनः पाण्डुरया दंशः शोफो वक्त्रस्य गौरवम्|
ज्वरो विघूर्णनं जृम्भा शिरोरुक् तत्र भेषजम्|
मूलं वारुणपुष्पाया रोचना गोशकृद्रसः||९||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
पाण्डुरया दंशः शूनो भवति| वक्त्रशोफो गौरवादिकं च| तत्र वारुणपुष्पामूलादि भेषजम्| वारुणपुष्पा विशाला|| ९||
Adhikarana रक्तपदिकालक्षणं प्रतिषेधश्च (१०) · Śloka १०
आपाण्डुपिटको दंशः शोफवान् रक्तपादया|
अस्रस्रुत्तत्र नलदसेव्योदीच्यहिमं मधु||१०||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
रक्तपादाख्यया दंश आपाण्डुभिः पिटकाभिर्युक्तः शोफवांश्च भवति अस्रस्रुच्च| तत्र नलदादिकं भेषजम्| नलदं मांसी| सेव्यमुशीरम्| उदीच्यं बालकम्| हिमं चन्दनम्|| १०||
Adhikarana भृङ्गलक्षणं प्रतिषेधश्च (११) · Śloka ११
भृङ्गाभो भृङ्गया दंशः पिटका दाहरुक्करी|
कोठैश्च चीयते गात्रं तत्र शस्तं भिषग्जितम्|
अङ्कोलसारं फलिनी गवां पित्तं मिसिर्गदः||११||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
भृङ्गाख्ययो दंशो भृङ्गाभो भ्रमरवर्णः पिटका च दाहरुक्करी भवति| गात्रं च कोठैश्चीयते| तत्राङ्कोलसारदिकं भिषग्जितमौषधं शस्तम्| फलिनी प्रियङ्गुः| मिसिः शतपुष्पा| गदः कुष्ठम्| अङ्कोलवृक्षाः प्रसिद्धस्तस्य सारः|| ११||
Adhikarana पिङ्गालक्षणं प्रतिषेधश्च (१२) · Śloka १२
पिङ्गया वह्निदग्धाभो दंशः स्फोटो बहुस्रुतिः|
तीव्रशोफज्वररुजाहृत्पीडादाहतृड्युतः|
तत्राऽगदः सिता गुन्द्रा मल्लिका मधुकोत्पलम्|
जीवकः क्षीरिणां शुङ्गा द्विहिमं नागकेसरम्||१२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
पिङ्गाख्यया दंशोऽग्निदग्धाभो भवति| स्फोटश्च बहुस्रुतिस्तीव्रशोफादिभिर्युक्तो भवति| तत्र सितादिकमगदः|| १२||
Adhikarana त्रिमण्डलालक्षणं प्रतिषेधश्च (१३) · Śloka १३
त्रिमण्डलाया बहलो दंशः कृष्णं स्रवत्यसृक्|
अरुचिर्नेत्रयोर्दाहः कलुषस्रुतिदृष्टिता|
विविधैर्मण्डलैश्चास्य शरीरमुपचीयते|
तत्रार्कमूलद्विनिशासुरालापृश्निपर्णिकाः|
दधित्थनाकुलब्राह्मीज्योतिष्मत्यो हितोऽगदः||१३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
त्रिमण्डलाख्याया दंशो बहलो घनो भवति| कृष्णवर्णञ्च रक्तं क्षरति स्रवति| अरुच्यादिकं च भवति| अस्य चातुरस्य शरीरं विविधैर्नानाविधैर्मण्डलैरुपचीयते| तत्रार्कमूलादिकमगदः|| १३||
Adhikarana पूतिगन्धालक्षणं प्रतिषेधश्च (१४) · Śloka १४
आदंशः पूतिगन्धाया विसर्पक्लेददाहवान्|
अलजीसन्निभो रुग्वान् विबद्धपिटकाचितः|
भार्ङ्गीनिदिग्धिकानिम्बपाटलीसिन्दुवारकम्|
दूर्वा हरिद्रे वासा च पूतिगन्धा विषापहम्||१४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
पूतिगन्धाख्याया आदंशो विसर्पादिमानलजीसदृशत्वादियुक्तश्च भवति| भार्ङ्ग्यादिकं तु पूतिगन्धा विषापहम्|| १४||
Adhikarana वीरालक्षणं प्रतिषेधश्च (१५) · Śloka १५
चित्रमण्डलवान् दंशः पिटकाजालकावृतः|
वीराया मुर्धरुक् शीतज्वरान्नद्वेषसंयुतः|
हरिद्रे नलदं कुष्ठमेला सुरसमञ्जरी|
तगरञ्च श्वपित्तेन पिष्टं वीराविषापहम्||१५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
वीराख्याया दंशश्चित्रैर्मण्डलैर्युक्तो भवति| पिटकाजालकैरावृतो मूर्धरुगादिभिर्युक्तश्च| श्वपित्तेन पिष्टं हरिद्राद्वयादिकं तु पानादिभिर्वीराविषापहं भवति|| १५||
Adhikarana कुमुदालक्षणं प्रतिषेधश्च (१६) · Śloka १६
दंशः कुमुदया दाहस्फोटस्फुरणतोदवान्|
पिच्छिलक्लेदविस्रावी सश्वासस्सगलग्रहः|
प्रत्याख्यायात्र कुर्वीत सामान्योक्तं क्रियाक्रमम्||१६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
कुमुदाख्यया दंशो दाहादिमान् पिच्छिलक्लेदस्रावी श्वासगलग्रहाभ्यां युक्तश्च भवति| श्वासस्तमकश्वासः| अत्र प्रत्याख्यानं कृत्वा सामान्योक्तं पूर्वाध्यायविहितं क्रियाक्रमं चिकित्सितं कुर्यात्|| १६||
Adhikarana अलविषालक्षणं प्रतिषेधश्च (१७) · Śloka १७
भवन्त्यलविषादंशे पीतलोहितमण्डलाः|
पिटकाः सर्षपप्रख्यास्तालुशोषो रुजा ज्वरः|
छर्दिर्दाहः शिरः कम्पस्तत्र सेव्यः समाक्षिकः|
सकासीसकह्नीबेरः सपिप्पलिवटाङ्कुरः||१७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अलविषया दंशे पीतादिगुणाः सर्षप्रमाणाः पिटका भवन्ति| तालुशोषदिकञ्च| तत्र सेव्यादिकं वटाङ्कुरान्तं भेषजम्| सेव्यमुशीरम्| वटाङ्कुरो वटप्ररोहः|| १७||
Adhikarana रक्तालक्षणं प्रतिषेधश्च (१८) · Śloka १८
रक्तान्तो रक्तया दंशः सपाण्डुपिटकाज्वरः|
श्वेतोऽतिसारः श्वसनं दाहः क्लेदः सशोणितः|
शस्तं शेलवर्जुनाम्रातात्त्वङ्मूलं सिन्दुवारतः||१८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
रक्ताख्यया लूतया दंशो रक्तान्तो भवति| पाण्डुवर्णाभि पिटकाभिर्ज्वरेण च युक्तः| अतिसारश्च श्वेतो भवति| श्वसनादिकं च| अत्र श्लेष्मातकत्वगादिकं सिन्दुवारमूलान्तं शस्तम्| सिन्दुवारः प्रशस्तः|| १८||
Adhikarana चित्रालक्षणं प्रतिषेधश्च (१९) · Śloka १९
आदंशे चित्रया रक्ता पिटका विसृता स्थिरा|
पर्वभेदशिरस्तापज्वरशोफा विसर्पिणी|
भिन्ना कृष्णत्वमभ्येति पीतास्रावा महाव्रणा|
तत्रेष्टाः कुष्ठनलदशिरीषनलरेणुकाः||१९||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
चित्राख्यया आदंशे रक्तादिगुणा पिटका भवति| सा च स्वयं भिन्ना कृष्णत्वमभ्येति प्राप्नोति| पीतास्रावा महाव्रणा च भवति| तत्र कुष्ठादिकमिष्टम्|| १९||
Adhikarana सन्तानिकालक्षणं प्रतिषेधश्च (२०) · Śloka २०
दंशे च सन्तानिकया शूलमाकुलताश्रुणः|
प्रदराक्षेपकौ तत्र केसरं क्षीरिणां त्वचः|
आम्रस्य सिन्दुवारस्य मूलमश्मन्तकस्य च||२०||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
सन्तानिकाख्यया दंशे शूलादिकमाक्षेपकान्तं भवति| प्रदरं स्त्रियोऽतिरजः| आक्षेपको वातव्याधिः| तत्र नागकेसरादिकं भेषजम्| मूलशब्दस्याम्राद्यश्मन्तकान्तैः सम्बन्धः|| २०||
Adhikarana मेचकालक्षणं प्रतिषेधश्च (२१) · Śloka २१
पिटका मेचका दंशमध्ये जतुकणोपमा|
ज्वरः शोफोऽत्र वारुण्या रोचना रजनीद्वयम्||२१||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
मेचकाख्यायाः सम्बन्धिनो दंशस्य मध्ये जतुकणोपमा पिटका ज्वरः शोफश्च भवति| अत्र वारुण्यादिकं भेषजम्| वारुणीन्द्रवारुणी|| २१||
Adhikarana कसनालक्षणं प्रतिषेधश्च (२२) · Śloka २२
राजीमान् कसना दंशः शिरोरुक् श्वासकासवान्|
शीतपिच्छिलरक्तस्रुद्रक्तोक्तं तत्र भेषजम्||२२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
कसनाख्यया दंशो राजीमान् शिरोरुगादियुक्तश्च भवति| तत्र रक्ताख्यदंशोक्तं भेषजम्|| २२||
Adhikarana काकाण्डीलक्षणं प्रतिषेधश्च (२३) · Śloka २३
पाण्डुरक्तोऽतिरुग्दंशः काकाण्ड्याः स्मृतिमोषकृत्|
हिध्मा श्वसनतृण्मूर्च्छानिद्राक्षेपकहृद्गदाः||२३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
काकाण्ड्या दंशः पाण्डुरक्तत्वादिगुणो भवति| स्मृतिमोषकृच्च| हिध्मादयश्च भवन्ति| इतः प्रभृत्यसाध्यत्वाच्चिकित्सा नोच्यते| निद्राक्षेपः सहृद्गदः इति च पाठः|| २३||
Adhikarana एणपदीलक्षणं प्रतिषेधश्च (२४) · Śloka २४
रक्तान्तस्त्वेणपादाया दंशः कृष्णतिलाकृतिः|
दाहमोहाग्निवीसर्पतृड्वमिश्वासकासवान्||२४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
एणपादाया दंशः पर्यन्तेषु लोहितः कृष्णतिलाकृतिर्दाहादिमांश्च भवति|| २४||
Adhikarana लाजवर्णालक्षणं प्रतिषेधश्च (२५) · Śloka २५
पूतिः श्यावोऽतिरुक् सासृगादंशो लाजवर्णया|
शीतज्वरसमुत्थानो दाहमूर्च्छातिसारवान्||२५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
लाजवर्णया दंशः पूत्यादिगुणो भवति| शीतज्वरहेतुर्दाहादिमांश्च|| २५||
Adhikarana वैदेहीलक्षणं प्रतिषेधश्च (२६) · Śloka २६
अग्निदग्धनिभो दंशो वैदेह्या भृशवेदनः|
गम्भीरः सज्वरस्तीक्ष्णमोहो हृदयपीडनम्||२६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
वैदेह्या दंश अग्निदग्धनिभत्वादिगुणो भवति|| २६||
Adhikarana जालिनीलक्षणं प्रतिषेधश्च (२७) · Śloka २७
ऊर्ध्वराजीचितो दंशो जालिन्यास्तीव्रशोफरुक्|
उदीर्णतृड्भ्रमश्वासस्तम्भमोहोऽवदीर्यते||२७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
जालिन्या दंश ऊर्ध्वराजीचितत्वादियुक्तो भवति| उदीर्णा वृद्धास्तॄडायो यस्मिन्| अवदीर्यते भिद्यते|| २७||
Adhikarana मालागुणालक्षणं प्रतिषेधश्च (२८) · Śloka २८
रक्तो मालागुणादंशो धूमगन्धिः सतीव्ररुक्|
दीर्यते पार्श्वतस्तैस्तैः संरब्धैर्मण्डलैर्युतः|
अन्तर्दाहो बहिः शैत्यमाध्मानं मूत्रकृच्छ्रता|
मूर्च्छाप्रलापातीसारज्वराः प्राणान्तकारिणः||२८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
मालागुणाया दंशो धूमगन्धत्वादियुक्तो भवति| अस्यां च लूतायामन्तर्दाहादयः प्राणानामन्तकारिणः|| २८||
Adhikarana सौवर्णिकालक्षणं प्रतिषेधश्च (२९) · Śloka २९
ध्मातः सौवर्णिकादंशः स्यन्दते मत्स्यगन्धिकः|
शिरोऽक्षिरुग्ज्वरः कासस्तृष्णा शोफो वमिर्भ्रमः||२९||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
सौवर्णिकाख्याया दंशो ध्मातत्वादिगुणो भवति| शिरोरुगादिकञ्च||२९||
Adhikarana असाध्येष्वपि चिकित्सायाः दिक् (३०) · Śloka ३०
असाध्यानामपि हितं प्रत्याख्यायाशु योजयेत्|
दोषोच्छ्रायविशेषेण छेददाहादिवर्जितम्||३०||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
यासामसाध्यत्वाच्चिकित्सा नोक्ता तासामसाध्यानामपि प्रत्याख्यानं कृत्वा दोषोच्छ्रायविशेषवशेन हितं चिकित्सितं योजयेत्| छेददाहदिकं वर्जयित्वा|| ३०||
Adhikarana लूतानुसारं दंशदेशनिदर्शनम् (३१-४५) · Śloka ४५
कपिला तत्र नासायामग्निदर्शति जत्रुणि|
पीता तु गण्डयोः पद्मा दक्षिणांसेऽथ कक्षयोः|
लूता मूत्रविषा श्वेता चिबुके कालिकाक्षिणि|
पाण्डुरा दक्षिणस्कन्धे करयो रक्तपादिका|
वामपार्श्वे दशेद् भृङ्गा वामांसे पिङ्गला दशेत्|
त्रिमण्डलोदरे पूतिः पृष्ठे वीरा तु दक्षिणे|
बाहौ नाभ्यां कुमुदिका वामस्कन्धेऽलसंज्ञिता|
कण्ठे रक्ता ललाटे तु चित्रा सन्तानिकौष्ठयोः|
मेचका मूर्ध्नि कसनाद्धस्तयोः कक्षमूलयोः|
काकाण्ड्येणी तु हृदये लाजवर्णा स्तनान्तरे|
बाहुसन्धिषु वैदेही लूताऽपाङ्गे तु जालिनी|
मालागुणाख्या ग्रीवायां सौवर्णी कर्णमूलयोः|
इति क्षेत्राणि नियतान्यत्युदीर्णविषाः पुनः|
परक्षेत्रेऽपि वर्तन्ते राजानोऽतिबला इव||३१||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृता वष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे प्रत्येकलूता प्रतिषेधो नाम पञ्चचत्वारिंशोऽध्यायः||४५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृता वष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे प्रत्येकलूता प्रतिषेधो नाम पञ्चचत्वारिंशोऽध्यायः||४५|| यस्मिन् देहदेश या लूता दशति सा कपिलेत्यादिना क्रमेण प्रदर्श्यते| तत्र तासां लूतानां मध्ये कपिला नाम लूता नासायां दशति| एवमग्निरित्यादि| व्याख्यासमम्| इत्येतानि नासादीनि क्षेत्राणि कपिलादीनां लूतानां नियतानि| यास्त्वत्युदीर्णविषा भवन्ति ता लूताः परक्षेत्रेऽपि वर्तन्ते यथातिबला राजान इति| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया मष्टाङ्गसंग्रहव्याख्यायां शशिलेखाया मुत्तरतन्त्रे पञ्चचत्वारिंशोऽध्यायः