Adhikarana अथ मूषिकालर्कप्रतिषेधो नाम षट्चत्वारिंशोऽध्यायः अध्यायप्रतिज्ञा (१) · Śloka १
अथातो मूषिकलर्कप्रतिषेधं नामाध्यायं व्याख्यास्यामः|
इति ह स्मासुरात्रेयादयो महर्षयः||१||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
जङ्गमविषप्रक्रमेण मूषिकालर्कविषयोश्चिकित्सां प्रदर्शयितुमध्याय आरभ्यते| (लालनादिभेदेनाष्स्टादशविधस्य मूषिकस्यालर्कस्य शुनश्च विषस्य प्रतिषेधश्चिकित्सास्मिन्नध्याय उच्यत इति मूषिकालर्कप्रतिषेधस्तम्| विज्ञानाद्विना प्रतिषेधस्य दुष्करत्वात्सविज्ञानं प्रतिषेधमित्यर्थः| शेषं पूर्ववत्)|| १||
Adhikarana मूषिकभेदाः (२) · Śloka २
लालनश्चपलः पुत्रो हसिरश्चिकिरोऽजिनः|
कषायदन्तः कुलकः कोकिलः कपिलोऽसितः|
अरुणः शवलः श्वेतः कपोतः पलितोन्दुरुः|
चुच्छुन्दरो रसालाख्यो दशाष्टौ चेति मूषिकाः||२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तत्र पूर्वं मूषिकाणां नामविशेषं संख्याञ्च दर्शयति| (लालनादयोऽष्टादश मूषिकाः| मूषिकस्य प्रसिद्धत्वात् भेदकीर्तनमेव| अलर्कस्य तु लक्षणं वक्ष्यते)|| २||
Adhikarana मूषिकविषसंक्रान्तिहेतवः प्रभावश्च (३) · Śloka ३
यस्मिन्नङ्गे पतत्येषां शुक्लमङ्गैः स्पृशन्ति वा|
यच्छुक्लदिग्धैस्तत्रास्रे दूषिते पाण्डुतां गते|
ग्रन्थयः श्वयथुः कोठो मण्डलानि भ्रमोऽरुचिः|
शीतज्वरोऽतिरुक्सादो वेपथुः पर्वभेदनम्|
रोमहर्षः स्रुतिर्मूर्च्छा दीर्घकालानुबन्धम्|
श्लेष्मानुविद्धबह्वाखुपोतकच्छर्दनं सकृत्||३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
मूषिकविषस्य व्रणेन विनापि रक्तादिदूषकत्वात्तत्संक्रान्तेर्हेतुमाह| एषां मूषिकाणां सम्बन्धि शुक्रं यस्मिन्नङ्गे पतति यद्वा यदङ्गं मूषिकशुक्लदिग्धैरङ्गैः स्पृशन्ति तत्रोस्रे रक्ते दूषिते पाण्डुत्वं च गते ग्रन्थ्यादिकं भवति| श्लेष्मणानुविद्धानां बहूनामाखुपोतकानां छर्दनं वमनम्| (तत्प्रभावात् सकृदेकवारमेव श्लेष्मणानुबद्धनां बहूनामाऽनुपोतानां मूषिकाबालाकारमांसखण्डानां छर्दनं च स्यात्| शीतज्वरः शीतादिज्वरः| पर्वभेदनं सन्धिषु भेदनप्रतीतिः| स्रुतिर्व्रणमुखाद्रक्तपूयादिस्रावः| दीघकालं चिरकालमनुबन्धनमनुवर्त्तनम्)|| ३||
Adhikarana आखुविषस्य कृच्छ्रसाध्यता (४) · Śloka ४
व्यवाय्याखुविषं कृच्छ्रं भूयो भूयश्च कुप्यति||४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
सर्वं चाखुविषं व्यवायि व्यापकगुणस्वभावं कृच्छ्रं कृच्छ्ऱसाध्यं भवति| भूयो भूयश्च कुप्यति| (व्यवायिगुणस्य सर्वविषसाधारणत्वेऽप्यत्र विशेषकथनमतिशयद्योतनार्थम्| भूयो भूयश्च कुप्यति षन्तमपि पुनः पुनः कालान्तरेण कोपं याति)|| ४||
Adhikarana असाध्यलक्षणम् (५) · Śloka ५
मूर्च्छाङ्गशोफवैवर्ण्यक्लेदशब्दाश्रुतिज्वराः|
शिरोगुरुत्वं लालासृक्च्छर्दिश्चासाध्यलक्षणम्||५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
मूर्च्छादिकमसाध्यमूषिकविषलक्षणम्| (अङ्गशब्दः शोफादिषुत्रिषु सम्बध्यते)|| ५||
Adhikarana वर्जनीयलक्षणम् (६) · Śloka ६
शूनबस्तिं विवर्णौष्ठमाख्वाभैर्ग्रन्थिभिश्चितम्|
चुच्छुन्दुरुसगन्धं च वर्जयेदाखुदूषितम्||६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
शूनबस्तिमित्यादिकं चाखुदूषितं वर्जयेत्| चुच्छुन्दुरुसमानगन्धं च| चुच्छुन्दुरुर्जात्या दीर्घमुखो मूषिकः| (असाध्यलक्षणान्युक्त्वा पुनरपि वर्जयेदित्युक्तत्वात् पूर्वोक्तस्य याप्यत्वमस्य परित्याज्यत्वं च सूचितम्)|| ६||
Adhikarana अलर्कलक्षणम् (७) · Śloka ७
शुनः श्लेष्मोल्बणा दोषाः संज्ञां संज्ञावहाश्रिताः|
मुष्णन्तः कुर्वते क्षोभं धातूनामतिदारुणम्|
लालावनन्धबधिरः सर्वतः सोऽभिधावति|
स्रस्तपुच्छहनुस्कन्धः शिरो दुःखी नताननः||७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
शुन इत्यादिना अलर्कस्य लक्षणमुच्यते| अनन्तरमलर्कविषलक्षणं विवक्षुः पूर्वं तस्योन्मादहेतुमाह| शुनः सारमेयस्य श्लेष्मोल्बणा दोषाः संज्ञावहाः सिरा आश्रित्य संज्ञा चेतनां मुष्णन्तो धातूनां शुनो रसरक्तादीनां दारुणमतिघोरं क्षोभं कुर्वते| ततः स लालवत्वादियुक्तः स्रस्तपुच्छादिकश्च सर्वतो विना प्रयोजनमभिधावति|| ७||
Adhikarana अलर्कदंशलक्षणम् (८) · Śloka ८
दंशस्तेन विदष्टस्य सुप्तः कृष्णं क्षरत्यसृक्|
हृच्छिरोरुग्ज्वरस्तम्भतृष्णामूर्च्छोद्भवोऽनु च||८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
उन्मादलक्षणमुक्त्वा अलर्कस्य दंशलक्षणमाह| तेन तथा विधेनालर्काख्येन शुना दष्टस्य पुंसो दंशः सुप्त अचेतनः सन् कृष्णमसृक् क्षरति| ततश्च तृष्णाद्युद्भवो भवति|| ८||
Adhikarana प्रसङ्गतः सृगालादिदंशलक्षणम् (९) · Śloka ९
अनेनान्येऽपि बोद्ध्व्या व्याला दंष्ट्राप्रहारिणः|
सृगालाश्वतराश्वर्क्षद्वीपिव्याघ्रवृकादयः||९||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अलर्कविषप्रसङ्गात्सृगालादिविषलक्षणमाह| अनेन च श्वदंशप्रकारेणान्येऽपि व्याला क्षुद्रा दंष्ट्राप्रहारिणः सृगालादयो बोद्धव्या ज्ञेयाः| सृगालादय इत्यादिशब्देन विडालादयो गृह्यन्ते| व्याला दुष्टसत्त्वाः|| ९||
Adhikarana सामान्यं सविषनिर्विषलक्षणम् (१०) · Śloka १०
कण्डूनिस्तोदवैवर्ण्यसुप्तिक्लेदज्वरभ्रमाः|
विदाहरागरुक्पाकशोफग्रन्थिविकुञ्चनम्|
दंशावदरणं स्फोटाः कर्णिका मण्डलानि च|
सर्वत्र सविषे लिङ्गं विपरीतं तु निर्विषे||१०||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
सर्वत्र सविषे दंशे कण्डूवादिकं लिङ्गम्| एतद्विपरीते निर्विषम्||१०||
Adhikarana सामान्यमसाध्यलक्षणम् (११) · Śloka ११
दष्टो येन तु तच्चेष्टरुतं कुर्वन् विनश्यति|
पश्यंस्तमेव चाकस्मादादर्शसलिलादिषु||११||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अलर्कप्रसङ्गात्तद्विधानां सृगालादीनां लक्षणमुक्त्वा सामान्येनासाध्यलक्षणमाह| येनैव प्रणिना दष्टस्तस्यैव सम्बन्धिनीश्चेष्टास्तस्यैव रुतं कुर्वन् पुरुषो विनश्यति| तमेव च प्राणिनमक स्मादादार्शादिषु पश्यन्नपि विनश्यति|| ११||
Adhikarana जलसन्त्रासलक्षणम् (१२) · Śloka १२
जलदर्शनसंस्पर्शशब्देभ्यो यश्च सन्त्रसेत्|
अदष्टमपि तं जह्याज्जलसन्त्रासरोगिणम्||१२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अदष्टोऽपि यः पुरुषो जलस्य दर्शनेन वा स्पर्शनेन वा शब्देन वा सन्त्रस्येत्तं जलसन्त्रासनाम्ना रोगेण युक्तं जह्यात्|| १२||
Adhikarana मूषकविषचिकित्सा दष्टमात्रे दाहः (१३) · Śloka १३
आखुना दष्टमात्रस्य दंशं काण्डेन दाहयेत्|
दर्पणेनाथवा तीव्ररुजा स्यात्कर्णिकान्यथा||१३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
मूषिकालर्कयोर्लक्षणमुक्त्वाऽनन्तरं मूषिकचिकित्सामाह-आखुनेत्यादिना| मूषिकाणां साधारणी चिकित्स| सुबोधम्| दंशदाहेन विना कर्णिका सम्भवति| (आखुना मूषिकेण दष्टमात्रस्य मात्रयाऽप्यनतिलङ्घितदष्टसमयस्य दंशं दंशव्रणं काण्डेन शरकाण्डादिना अथवा दर्पणेनादर्शेन दाहयेत् अन्यथा दाहाभवे त्लीव्ररुजा अतिवेदनायुक्ता कर्णिका स्यात्)|| १३||
Adhikarana दाहानन्तरीयकृत्यम् (१४) · Śloka १४
दग्धं विस्रावयेद्दंशं प्रच्छितं च प्रलेपयेत्|
शिरीषरजनी वक्रकुङ्कुमामृतवल्लिभिः||१४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अनन्तरकरणीयमाह-दग्धं दंशं दंशव्रणं विस्रावयेत्| प्रच्छितं चेति वक्ष्यमाणत्वाद्विस्रावणं प्रच्छानेन| ततः शिरीषाचिभिरमृतवल्यन्तैः प्रलेपयेत्| 'शिरीषरजनीकुष्ठमि'ति सुश्रुतपाठः||१४||
Adhikarana अगारधूमादिलेपः (१५) · Śloka १५
अगारधूममञ्जिष्ठारजनीलवणोत्तमैः|
लेपो जयत्याखुविषं कर्णिकायाश्च पातनः||१५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अगारधूमादिभिश्च आखुविषं जयति| कर्णिकायाः पातनश्च||१५||
Adhikarana लेपानन्तरीयं कृत्यम् (१६) · Śloka १६
ततोऽम्लैः क्षालयित्वा तु तोयैरनु च लेपयेत्|
पालिन्दी श्वेतकटभी बिल्वमूलगुडूचिभिः|
अन्यैश्च विषशोफघ्नैः सिरां वा मोक्षयेद् द्रुतम्||१६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
ततो लेपादनन्तरमम्लैः काञ्जिकादिभिः क्षालयित्वानु पश्चाच्च तोयैः क्षालयित्व पालिन्द्यादिभिर्लेपयेत्| पालिन्दी श्यामा त्रिवृत्| अन्यैश्च विषघ्नैः शोफघ्नैश्च हरिद्रादिभिर्लेपयेत्| अन्यैश्च विषघ्नैः शोफघ्नैश्च हरिद्रादिभिर्लेपयेत्| अथव द्रुतं शीघ्रं सिरां मोक्शयेत्| (विषघ्नैः शिरीषादिभिः शोफघ्नैः शिग्रुमूलादिभिरन्यैरपरैरोषधैश्च लेपं कुर्यात्)|| १६||
Adhikarana वमनम् (१७) · Śloka १७
छर्दनं जालिनीक्वाथैः शुकाख्याङ्कोलयोरपि|
कोशवत्याः शुकाख्यायाः फलं जीमूतकस्य च|
मदनस्य च सञ्चूर्ण्य दध्ना पीत्वा विषं वमेत्|
वचामदनजीमूतकुष्ठं वा मूत्रपेषितम्|
पूर्वकल्पेन पातव्यं सर्वोन्दुरुविषापहम्|
निष्पावाः कदलीमूलं बन्धुजीवफलानि च|
सुवर्चलारामठकं स्वर्जिकातिविषाद्वयम्|
श्यामाद्रिकर्णिकामूलमर्धर्चैर्वमनत्रयम्||१७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
नीलिनीक्वाथेन छर्दनं शुकाख्याङ्कोलयोश्च क्वाथेन| कोशवत्यादिफलानां चूर्णं दध्ना फित्वा विषं वमेत्| शुकाख्या शिरीषः| कोशवती कोशातकी| जीमूतः कृतवेधनः| वचादिकं गोमूत्रेण पिष्ट्वा पूर्वकल्पेनेति दध्ना पातव्यम्| तत्सर्वेषामुन्दुरुणां विषं हन्ति| निष्पावसुवर्चलाश्यामादिभिरर्धर्चैरर्धश्लोकैर्वमनत्रयं भवति| शमठं हिङ्गुः|| १७||
Adhikarana वान्तस्य शूलादौ चिकित्सा (१८) · Śloka १८
वान्तस्य शुद्धे हृदये शूलं हिध्मारुचिर्वमिः|
उष्णोद्गारानुबन्धो वा स्याच्चेत्तत्रैतदौषधम्|
जीरकं त्र्यूषणं कुष्ठं तुङ्गाख्यं नागकेसरम्|
रजन्यौ सैन्धवं सेव्यं यष्टीमधुसुवर्चलाम्|
मधुरं च गणं पिष्ट्वा बीजपुरकपित्थयोः|
रसेन षाडवं कुर्यान्मधुमत्स्यण्डिकान्वितम्|
गन्धवर्णरसोपेतः स पीतो विषदोषजित्|
द्विपिप्पलीद्वयंशुमति क्वाथे पेया च तद्गुणा||१८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
वान्तस्य सतो हृदये शुद्धे शूलादिकं यदि स्यात्तत्रैतदौषधम्| किमित्याह-जीरकमित्यादि| व्याख्यासमम्| तुङ्गाख्यं नागकेसरम्| मधुरोगणः सूत्रोक्तः| द्विपिप्पल्यादिक्वाथे कृता पेया च तदुग्णा जीरकादिषाडवगुणा|| १८||
Adhikarana कायशिरोविरेकः (१९) · Śloka १९
विरेचने त्रिवृन्नीली त्रिफला कल्क इष्यते|
शिरोविरेचने सारः शिरीषस्य फलानि च||१९||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
त्रिवृदाकल्को विरेचन इष्यते| शिरीषस्य सारः फलानि च शिरोविरेचने|| १९||
Adhikarana अञ्जनम् (२०) · Śloka २०
अञ्जने गोमयरसो व्योषसूक्ष्मरजोऽन्वितः|
कपित्थगोमयरसो मधुमानवलेहने||२०||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
व्योषसूक्ष्मरजोऽन्वितो गोमयरसोऽञ्जन इष्यते| कपित्थगोमयरसो माक्षिकयुक्तोऽवलेहने|| २०||
Adhikarana सिद्धघृतम् (२१) · Śloka २१
तण्डुलीयकमूलेन सिद्धं पाने हितं घृतम्|
द्विनिशा कटभी रक्ता यष्ट्याह्वैर्वामृतान्वितैः|
आस्फोतमूलसिद्धं वा प~च्चकापित्थमेव वा||२१||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तण्डुलीयकस्य मूलेन सिद्धं घृतं पाने हितम्| अमृतान्वितैर्द्विनिशादिभिर्वा सिद्धं घृतम्| रक्ता मञ्जिष्ठा| सुबोधम्| आस्फोतोऽर्कः| पञ्चकापित्थं कपित्थस्य त्वक्पत्रपुष्पफलमलानि तैः पञ्चभिः सिद्धं घ्रुतं वा|| २१||
Adhikarana विरिक्तस्य शूलादौ चिकित्सा (२२) · Śloka २२
अधोभागे विशुद्धस्य शूलं नाभ्यां भवेद्यदि|
पुरीषं व विबध्येत गुदे स्याद्वा विकर्तिक|
तत्र पेयां पिबेच्छीतां शर्करामधुसंयुताम्|
पिप्पलीपिप्पलीमूलशारिवाकटुकाह्वयैः|
शृतैः सिद्धां सहबलासमङ्गाविश्वभेषजैः||२२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
विरक्तस्य यदि नाभिशूलं पुरीषं वा विबद्धं गुदे व विकर्तिका स्यात्तत्र पिप्पल्यादिभिर्विश्वभेशजान्तैः शृतैः सिद्धां शीतां शर्करामधुयुक्तां पेयां पिबेत्| समङ्गा मञ्जिष्ठा|| २२||
Adhikarana द्वौ प्राशौ (२३) · Śloka २३
नलदध्यामकव्योषलोध्रचित्रकदीप्यकम्|
कुतलक्षारतोयेन पिष्टं माक्षिकसर्पिषा|
दध्ना वा प्राशयेत्क्षौद्रम् यवक्षारपयोदधि|
फाणितं तैलमाज्यं विषघ्नं पीतमेकतः||२३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
नलदादिदीप्यकान्तं कुतलक्षारतोयेन पिष्टं मधुसर्पिषा दध्ना वा प्राशयेत्| कुतलस्तिलकाण्डम्| क्षौद्रादिकमाज्यान्तमेकतोमिश्रीभावेन पीतं विषघ्नं भवति|| २३||
Adhikarana सिन्दुवारादिक्वाथः (२४) · Śloka २४
सिन्दुवारं नतं शिग्रु बिल्वमूलं पुनर्नवम्|
वचाश्वदंष्ट्रा जीमूतमेशां क्वाथं समाक्षिकम्|
पिबेच्छाल्योदनं दध्ना भुञ्जानो मूषिकार्दितः||२४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
मूषिकैरार्दितो हिंसितः दध्ना शाल्योदनं भुञ्जानः सिन्दुवारादीनां क्वाथं समाक्षिकं पिबेत्| श्वदंष्ट्ऱा कण्डूकरी|| २४||
Adhikarana पानलेपनयोर्योगौ (२५) · Śloka २५
तक्रेण शरपुङ्खायाः बीजं सञ्चूर्ण्य वा पिबेत्|
अङ्कोलमूलकल्को व बस्तमूत्रेण कल्कितः|
पानलेपनयोर्युक्तः सर्वोन्दुरुविषापहः||२५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अथवा शरपुङ्कायाः प्रसिद्धायाश्चूर्णं तक्रेण पिबेत्| अङ्कोलमूलत्वक्प्रयोगः सुबोधः| (अविमूत्रेण पिष्टः पानविषये लेपनविषये च प्रयुक्तः अङ्कोलमूलस्य वल्कश्च मूषिकविषस्य नाशनः)||२५||
Adhikarana पयस्यापयः (२६) · Śloka २६
पयः पयस्यया युक्तं सितया मधुकेन च||२६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
पयस्यया शर्करया मधुकेन च युक्तं पयः प्रकरणात् सर्वोन्दुरुविषापहम्| पयस्या क्षीरिका|| २६||
Adhikarana ज्वरे किराततिक्तादिकम् (२७) · Śloka २७
किराततिक्तममृतां समङ्गां ककुभत्वचम्|
बाणं पलाशं काश्मर्यं पयस्यां तण्डुलीयकम्|
आखुविन्नां महानिम्बं सप्तपर्णं मधूलिकाम्|
कपित्थं राजवृक्षं वा पिबेदन्यतमं ज्वरी||२७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
यश्च मूषिकविषे ज्वरवान् भवति स किराततिक्तकादीनामन्यतमं पिबेत्| आखुविन्ना मूषिकपर्णी|| २७||
Adhikarana कर्णिकापातनम् (२८) · Śloka २८
स्थिरां मन्दरुजां प्रच्छेत् कर्णिकां पातयेत वा|
श्यामा लाङ्गलिका दन्ती किणिही गिरिकर्णिका|
आखुवृक्षो महावृक्षस्त्रिवृदञ्जनकी स्नुही|
कर्णिकापातनं कल्कमेकैकं तिलकल्कवत्||२८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
कर्णिकां स्थिरां मन्दरुजां च सतीं प्रच्छेत् पातयेत वा| श्यामादीन्येकैकं तिलकल्कयोगात् कर्णिकाशातनानि| लाङ्गलिका विषल्या| किणिही गिरिकर्णिका| आखुवृक्षो जीमूतकः| अञ्जनकी नीलिनी|| २८||
Adhikarana व्रणरोपणम् (२९) · Śloka २९
क्षीरिप्रवालमञ्जिष्ठा बलादार्वी हयाह्वयाः|
रोपण्यः कल्कितास्तैलं घृतं व साधितं तथा|
द्विनिशा तिलयष्ट्याह्वतगरोशीरपद्मकैः||२९||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
क्षीरिप्रवालादिकं कल्कितं रोपणम्| अथवा तैः साधितं तैलं वा घृतं वा तथागुणम्| द्विनिशादिभिः साधितं तैलं वा घृतं वा||२९||
Adhikarana सामान्यक्रियोपसंहारः (३०) · Śloka ३०
सामान्येनेति निर्दिष्टा क्रियाखूनां विशेषतः||३०||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
इत्याखुनां क्रिया सामान्येन निर्दिष्टा|| ३०||
Adhikarana भेदानुसारलक्षणं चिकित्सा च लालने (३१) · Śloka ३१
लालनेन वमिर्मूर्च्छा लालास्रावश्च जायते|
लिह्यात्समाक्षिकं तत्र चूर्णितं तण्डुलीयकम्||३१||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
विशेषतस्तूच्यते लालनेनेत्यादिना| लालास्रावान्तं लालनेन जायते| तत्र समाक्षिकं तण्डुलीयकचूर्णं लिह्यात्|| ३१||
Adhikarana चपले (३२) · Śloka ३२
चपलेन वर्मिर्मूर्च्छा तृड्वा तत्रावलेहयेत्|
सदारुमुस्तां त्रिफलां||३२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
चपलाख्येन वमिर्मूर्च्छा तृड्वा जायते| तत्र देवदारुमुस्तसहितां त्रिफलां लेहयेत्|| ३२||
Adhikarana पुत्रके (३३) · Śloka ३३
पुत्रकेण तु पाण्डुता|
सादोऽङ्गे सर्वश्चाखुसदृशग्रन्थिसम्भवः|
शिरीषबीजं कुष्ठं च मधुना तत्र लेहयेत्||३३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
पुत्रकाख्येन ग्रन्थिसम्भवान्तम्| तत्र शिरीषबीजं कुष्ठञ्च मधुना लेहयेत्|| ३३||
Adhikarana हसिरे (३४) · Śloka ३४
हसिरेणान्नविद्वेषो जृम्भणम् रोमहर्शणम्|
आरग्वधादिनिर्युहं सुवान्तं तत्र पाययेत्||३४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
हसिराख्येन रोमहर्षणान्तम् | तत्र सुष्ठु वमनं कृत्वा आरग्वधादिक्वाथं पाययेत् ||३४||
Adhikarana चिकिरे (३५) · Śloka ३५
चिकिरेण शिरोदुःखं शोफो हिध्मा वमिर्भ्रमः वान्तोऽत्र जालिनीक्वाथैः सारमङ्कोलजं पिबेत्||३५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
चिकिराख्येन भ्रमान्तम्| अत्र जालिनीक्वाथेन वमनं कृत्वा अङ्कोलसारं पिबेत्|| ३५||
Adhikarana अजिने (३६) · Śloka ३६
अजिनेनाङ्गकृष्णत्वं मूर्च्छ छर्दिश्च हृद्ग्रहः|
मधुना तत्र मञ्जिष्ठां लिह्यात्स्नुक्क्षीरकल्किताम्||३६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अजिनाख्येन हृद्ग्रहान्तम्| तत्र सुधाक्षीरेण कल्कितां मञ्जिष्ठां मधुना लिह्यात्|| ३६||
Adhikarana कषायदन्ते (३७) · Śloka ३७
निद्रा कषायदन्तेन हृच्छोषः कृशताति च|
शिरीषसारत्वग्बीजं तत्र क्षौद्रेण लेहयेत्||३७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
कषायदन्ताख्येन निद्रा हृच्छोषः अतिकृशता च| तत्र शिरीषस्य सारादिकं क्षौद्रेण लेहयेत्|| ३७||
Adhikarana कुलके (३८) · Śloka ३८
कुलकेन रुजास्रावौ राजयो दंशमण्डले|
सदिन्दुवारकौ तत्र सहौ लिह्यान्मधुप्लुतौ||३८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
कुलकाख्येन दंशमण्डले रुजास्रावौ राजयश्च| तत्र सिन्दुवारसहितौ सहौ कुष्ठनखे मधुप्लुतौ लिह्यात्|| ३८||
Adhikarana कोकिले (३९) · Śloka ३९
ग्रन्थयः कोकिलेनोग्रा ज्वरो दाहश्च दारुणः|
नीलीपुनर्नवाक्वाथे सिद्धं तत्र पिबेद् घृतम्||३९||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
कोकिलाख्येनोग्रा ग्रन्थयो दारुणौ च दाहज्वरौ| तत्र नील्यादिक्वाथसिद्धं घृतं पिबेत्|| ३९||
Adhikarana कपिले (४०) · Śloka ४०
कपिलेन व्रणे कोथे ज्वरो ग्रन्थिर्भ्रमः सतृट्|
लेहयेन्मधुना श्वेतां श्वेतां चात्र पुनर्नवाम्||४०||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
कपिलाख्येन तृडन्तम्| अत्र श्वेतां श्वेतवचां श्वेतपुनर्नवाञ्च मधुना लेहयेत्|| ४०||
Adhikarana कृष्णे (४१) · Śloka ४१
रक्तं कृष्णेन वमति विशेषाद् दुर्दिने पिबेत्|
तत्र किंशुकभस्माम्बु शिरीषफलवालकम्||४१||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
कृष्णेनासिताख्येन रक्तं सदा वमति दुर्दिने तु विशेषात्| तत्र पलाशभस्मोदकादिकं पिबेत्|| ४१||
Adhikarana अरुणादिषु पञ्चसु (४२) · Śloka ४२
अरुणाद्याः पृथग्दोषसन्निपातास्रसम्भवान्|
जनयन्ति क्रमाद्रागान् सर्वे च ग्रन्थिकर्णिकाः|
करञ्जारग्वधव्योषबृहत्यंशुमतीद्वयात्|
क्वाथे दधिपयःसर्पिः पृथक्प्रस्थोन्मितं पचेत्|
कपित्थदाडिमवरीविशालात्रिसुगन्धिकाः|
त्रिवृतामृत्तिकावक्रगुडूचीश्चात्र कल्किताः|
क्षिपेत्तदरुणादीनां पञ्चानां विषनाशनम्|
काकादनी काकामाची स्वरसेन्स् शृतं घृतम्||४२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अरुणाद्याः पञ्च पृथग्दोषादिसम्भवान् क्रमाद्रोगान् जनयन्ति| सर्वे च ग्रन्थिकर्णिकायुक्ता भवन्ति| अरुणो वातसम्भवान् रोगान् जनयति| शबलः पित्तसम्भवान्| स्वेतः कफसम्भवान्| पैतोन्दुरोस्रसम्भवानिति क्रमार्थः| करञ्जादिक्वाथे कपित्थादिकल्के दधिक्षीरप्रस्थाब्यां युक्तं घ्रुतप्रस्थं पचेत्| तद्घृतमरुणादीनां पञ्चानां विषनाशनम्| काकादन्याः काकमाच्या च स्वरसेन शृतं घृतञ्चारुणादीनां पञ्चानां विषनाशनम्|| ४२||
Adhikarana चच्छुन्दुरे (४३) · Śloka ४३
क्लमश्रुच्छुन्दरेणोग्रो ग्रीवास्तम्भो विषचिका|
यवनालर्षभक्षारम् बृहत्यौ वाऽत्र पाययेत्||४३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
चच्छुन्दराख्येन क्लमादिविषूचिकान्तम्| तत्र यवनालक्षारादिकं पाययेत्| यवनालक्षारो यवक्षारः|| ४३||
Adhikarana रसाले (४४) · Śloka ४४
ग्रीवास्तम्भो रसालेन वेदना दंशमण्डले|
लिह्यान्महागदं तत्र घृतमाक्षिकसंयुतम्||४४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
रसालाख्येन ग्रीवायाः स्तम्बो दंशमण्डले वेदना च| तत्र महागदाख्यमगदं घृतमाक्षिकसंयुतं लिह्यात्| महागदाख्योऽगदः सर्पविषप्रतिषेधोक्तः|| ४४||
Adhikarana सशेषविषलक्षणं चिकित्स च (४५) · Śloka ४५
सशेषं मूषिकविषं प्रकुप्यत्यभ्रदर्शने|
यथायथं वा कालेषु दोषाणां वृद्धिहेतुषु|
तत्र सर्वे यथावस्थं प्रयोज्याः स्युरुपक्रमाः|
यथास्वं ये च निर्दिष्टास्तथा दूषीविषापहाः||४५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
यन्मूषिकविषं चिकित्सया निश्शेषं न निरस्तं तदभ्रदर्शने प्रकुप्यति| अथवा येनैव दोषेणाधिकं यन्मूषिकविशं तत्तस्य वृद्धिहेतुषु कोलोष्वायुष्कामीयोक्तेशु प्रकुप्यति| तत्र सशेषविषवृद्धौ अवस्थानतिक्रमेण यथादोषञ्च निर्दिष्टा उपक्रमा प्रयोज्याः स्युः| तथा दूषीविषापहाश्चोपक्रमाः| इति मूषिकविषोपक्रमः|| ४५||
Adhikarana अलर्कविषचिकित्सा (४६) · Śloka ४६
दंशन्त्वलर्कदष्टस्य दग्धमुष्णेन सर्पिषा|
प्रदिह्यादगदैस्तैस्तैः पुराणं च घृतं पिबेत्||४६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अलर्कदष्टस्य दंशं दंशव्रणं उष्णेन सर्पिषा दग्ध्वा तैस्तैर्नानाविधैरगदैः प्रदिह्यात्| पुराणं पञ्चसंवत्सरातीतञ्च घृतं पिबेत्| अथवा व्रणस्योपरिप्रत्यक्पुष्पीरसो निष्पीड्यः| प्रयुक्पुष्पी अपामार्गः||४६||
Adhikarana तिलादिकल्कः (४७) · Śloka ४७
तिलगुग्गुलुदूर्वाणां दाडिमस्य गुडस्य च|
कल्को मुहुर्मुहुर्लेपः श्वदंशविषजित्परम्||४७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तिलादीनां कल्केन मुहुर्मुहुर्लेपः परं श्वदंशविषजित्|| ४७||
Adhikarana दंशबन्धनम् (४८) · Śloka ४८
नलमूलं जले पिष्टं पानलेपनयोर्हितम्|
मातुलुङ्गच्छदैर्दंशं बध्नीयाद्दन्तचर्वितैः||४८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
नलमूलमित्यादि सुबोधम्| दन्तैश्चर्वितानि यानि मातुलुङ्गपत्राणि तैर्दंशं बध्नीयात्|| ४८||
Adhikarana विरेचनम् (४९) · Śloka ४९
अर्कक्षीरयुतं चास्य योज्यमाशु विरेचनम्||४९||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अस्य चालर्कदष्टस्यर्कक्षीरयुक्तं योग्यं विरेचनमाशु युञ्ज्यात्||४९||
Adhikarana श्वेतपुनर्नवादियोगः (५०) · Śloka ५०
पिबेत् पुनर्नवां श्वेतां धुर्धूरकफलान्वितम्||५०||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
श्वेतां शुक्लपुष्पां पुनर्नवां धुर्धूरकफलैर्युक्तां पिबेत्|| ५०||
Adhikarana धत्तूरफलयोगाः (५१) · Śloka ५१
फलं धुर्धूरकान्मूलं काकोदुम्बरिकोद्भवम्|
शीधुना श्वविषं हन्ति पीतं वा तण्डुलाम्बुना||५१||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
धुर्धूरकफलं काकोदुम्बरिकामूलं च शीधुना वा तण्डुलाम्बुना वा पीतं श्वविषं हन्ति|| ५१||
Adhikarana पललादियोगः (५२) · Śloka ५२
एकध्यं पललं तैलं रूपिकायाः पयो गुडः|
भिनत्ति विषमलर्कं घनवृन्दमिवानिलः||५२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
पललादिकमैकध्यं मिश्रयित्वा प्रयुक्तमालर्कं विषं भिनत्ति| यथा घनसमूहं वायुः| रूपिकाः अर्कः|| ५२||
Adhikarana लशुनादियोगः (५३) · Śloka ५३
लशुनोषणवैदेही वरा गोपित्तकल्किताः|
पाननस्याञ्जनालेपैः श्वदष्टस्यौषधं परम्||५३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
लशुनादिकं गोपित्तकल्कितं पानादिभिः परं श्वदष्टौषधम्| वैदेही पिप्पली|| ५३||
Adhikarana जलवेतसपत्रादिक्वाथः (५४) · Śloka ५४
जलवेतसपत्रत्वङ्मूलं क्षुण्णं पचेज्जले|
सक्वाथः शीतलः पीतः परं श्वविषभेषजम्|
तत्सिद्धं च घ्रुतं पाननस्याभ्यञ्जनलेपनम्|
जलत्रासे समस्ते च विषे तद्गरुडोपमम्||५४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
जलवेतसपत्रादिक्वाथः सुबोधः| तत्सिद्धमिति जलवेतसपत्रादिसिद्धं घृतं पानादिप्रयोगाज्जलत्रासे सर्वविषेषु च गरुडोपमम्|| ५४||
Adhikarana यवमाषादि घृतम् (५५) · Śloka ५५
यवमाषकुलत्थानां पञ्चमूलस्य चाम्भसि|
क्षीरद्विगुणिते सर्पिः साध्येच्छ्लक्ष्णकल्कितैः|
अश्वगन्धासहाकुष्ठबृहतीरजनीद्वयैः|
विदारीनतकट्वङ्गपयस्यासिन्दुवारकैः|
सर्पगन्धानखाभीरुशर्करारक्तचन्दनैः|
श्वदंष्ट्रोपद्रवान् सर्वान् पानाभ्यङ्गैर्न्निहन्ति तत्||५५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
यवादीनां पञ्चमूलान्तानां क्वाथे द्विगुणक्षीरे अश्वगन्धादिभिः श्लक्ष्णकल्कितैः सर्पिः साधयेत्| तद्घृतं सर्वान् शुनो दंष्ट्रया कृतानुपद्रवान् निहन्ति|| ५५||
Adhikarana हृद्विदाहादौ क्रमः (५६) · Śloka ५६
हृद्विदाहे प्रसेके च विरेकवमने भृशम्|
विषदोषहरे योज्ये शुद्धे संसर्जनक्रमः||५६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अलर्कदष्टे च यदि हृद्विदाहः प्रसेकश्च भवति| तत्र विषदोषहरे विरेकवमने भृशं योज्ये| तस्य च शुद्धे हृदि संसर्जनक्रमः|| ५६||
Adhikarana संशोधनं तीक्ष्णमेव देयम् (५७) · Śloka ५७
दद्यात् संशोधनं तीक्ष्णमवश्यं विषनाशनम्|
अशुद्धस्य निरूढेऽपि व्रणे कुप्यति तद्विषम्||५७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तत्र यदा संशोधनं दद्यात्तदावश्यमेव तीक्ष्णैरेव नातिक्ष्णैर्यस्मादसम्यक् शुद्धस्य निरूढेऽपि व्रणे तद्विषं कुप्यति|| ५७||
Adhikarana स्नपनम् (५८) · Śloka ५८
सरत्नबीजौषधिभिः कुम्भैः शीताम्बुपूरितैः|
अष्तोत्तरशतं वारान् सिद्धमन्त्राभिमिन्त्रितैः|
अष्टोत्तरशतोन्मानैः पुष्पमालावगुण्ठितैः|
गोचर्ममात्रके लिप्ते ज्वलिताग्नौ कुशास्तृते|
स्थण्डिले सरितस्तीरे स्नानं वास्य चतुष्पथे||५८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अस्य चालर्कदष्टस्य् सरितस्तीरे वा चतुष्पथे वा स्थण्डिले भूप्रदेशे गोचर्ममात्रस्थाने लिप्ते ज्वलिताग्नौ कुशैश्चास्तृते सरत्नबीजादिभिः कुम्भैर्घटैः स्नानं स्यात्| रत्नैर्बीजैर्द्धान्यैश्चौषधैश्च सह ये वर्तन्ते ते तथोक्तः| ये च कुम्भाः सिद्धमन्त्रेणाष्टत्तरं शतं वारानभिमन्त्रितास्तैः| ये जलेन पूर्णाः सन्तस्ते| ये अष्टोत्तरं शतमुन्मानेन भवन्ति, तैः कलशैः|| ५८||
Adhikarana अलर्कविषे मन्त्रः (५९) · Śloka ५९
अलर्काधिपते यक्ष सारमेयगणाधिप|
अलर्कजुष्टमेतं मे निर्विषं कुरु माचिरात्|
स्वाहेति मन्त्रोऽलर्कार्त्ते सर्वकर्मसु शस्यते||५९||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अलर्काधिपत इत्यादि स्वाहान्तो मन्त्रोलर्कार्त्ते पुरुषे सर्वकर्मसु शस्यते| हे अलर्काभिधान, अधिपते स्वामिन्, हे यक्षगणानां सारमेयगणानां चाधिप| एनमलर्कजुष्टं मे निर्विषं कुरु माचिशत् शीघ्रं स्वाहेति मन्त्रपदम्|| ५९||
Adhikarana नखदन्तक्षतम् (६०) · Śloka ६०
चतुष्पाद्भिर्द्विपार्द्भिर्वा नखदन्तपरिक्षतम्|
शूयते पच्यते रागज्वरस्त्रावरुजान्वितम्||६०||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
चतुष्पाद्भिः प्राणिभिः द्विपाद्भिश्च मनुष्यादिभिर्नखपरिक्षतं दन्तपरिक्षतञ्च रागाद्यन्वितं सच्छूयते पच्यते च|| ६०||
Adhikarana नखदन्तविषे योगः (६१-४६) · Śloka ४६
सोमवल्कोऽश्वकर्णश्च गोजिह्वा हंसपादिका|
रजन्यौ गैरिकं लेपो नखदन्तविषापहः||६१||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृता वष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे मूषिकालर्क प्रतिषेधो नाम षट्चत्वारिंशोऽध्यायः||४६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
सोमवल्कादिना लेपो नखदन्तविषापहः| सोमवल्कः कट्फलत्वक्| हंसपदी प्रसिद्धैव| अश्वकर्णो मधुस्रवा पूर्वदेशे प्रसिद्धः| ('नखदन्तविषापह इत्यत्र मनुष्याणां दन्तनखक्षतं विषमन्यत्र मैथुनादित्यास्तिकाः, इति जेज्जटः)|| ६१|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया मष्टाङ्गसंग्रहव्याख्यायां शशिलेखाया मुत्तरतन्त्रे षट्चत्वारिंशोऽध्यायः