Skip to content

१२. द्विविधौषधविज्ञानीयः

Adhikarana अथ द्विविधौषधविज्ञानीयो नाम द्वादशोऽध्यायः उपोद्घातः · Śloka

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

आहारमुक्त्वा तत्संस्कारोपयोगित्वान्मिथ्याहारोद्भवरोगसाधनोपयोगित्वाच्च प्रायोपयोगिनां द्रव्याणां स्वरूपपरिज्ञानार्थमुच्यते| तदर्थमध्यायारम्भः|

Adhikarana प्रतिज्ञा (१) · Śloka

अथातो द्विविधौषधविज्ञानीयमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

Adhikarana औषधस्य द्विविधौषधक्रमेण निर्देशः (२) · Śloka

द्विविधमौषधम्- ऊर्जस्करं रोगघ्नञ्च| उभयमपि चोभयात्मकम्| बाहुल्येन तु निर्देशः| तत्रोर्जरस्करं द्विविधं रसायनं वाजीकरणञ्च| रोगघ्नमपि द्विविधम्- रोगस्य प्रशमनमपुनर्भवकरञ्च||२||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

सर्वं शरीरविषयं वस्तु द्विविधमौषधमनौषधं च| तत्र औषधं पथ्यमनौषधं च शरीरस्यापथ्यम्| तत्रौषधं प्राधान्यादादावुच्यते| अनौषधं वक्ष्यामः सर्वमौषधं शरीरहितं द्विविधम्| ऊर्जस्करं रोगघ्नञ्च| ऊर्जस्करं यत्स्वस्थस्यापि बलवर्णाद्युपचयं करोति| रोगघ्नं व्याधिनाशनम्| उभयमपि द्वयमपि पुनर्द्रव्यात्मकमूर्ज्जस्करेऽपि धातुसाम्यकरणशक्तत्वात् व्याध्युपशमः सम्भवति| व्याध्युपशमे तु वर्णबलाद्युपचयः स्पष्ट एव| तस्माद् द्वयमपि द्रव्यात्मकं तत्रापि यद्यत्र प्रधानं तेन व्यपदेशे ऊर्जस्करं रोगघ्नं चेति| तत्रोर्जस्करं द्विविधं- रसायनवाजीकरणभेदेन| रोगघ्नमपि द्विविधम्- व्याधेः स्थितस्य नाशनं नष्टस्य च पुनरुत्पत्तिरक्षणम्| अनेनाऽपि प्रकारेण द्विविधं रोगघ्नम्||२||

Adhikarana द्रव्याद्रव्यभेदेनौषधभेदाः (३) · Śloka

पुनश्च द्विविधं द्रव्यमद्रव्यञ्च| तत्र द्रव्यं त्रिविधं- भौममौद्भिदं जङ्गममिति| तेषु वक्ष्यमाणं हेमादिलवणान्तं प्रायेण भौमम्| औद्भिदं पुनर्वनस्पतिवानस्पत्यवीरुदौषधिभेदेन चतुर्विधं भवति| तत्र फलिनो वनस्पतिः, पुष्पफलवान् वानस्पत्यः, वल्लीगुल्मं वीरुत्, फलपाकान्ताश्चौषध्य इति| जङ्गमोद्भवं मधुघृतादि जङ्गमद्रव्यमाहुः| अद्रव्यं पुनरुपवासानिलातपच्छायामन्त्रसान्त्वदान-भयोत्त्राससंक्षोभणहर्षण- भर्त्सनहसनस्व्वप्नजागरणसंवाहनादीनि||३||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

द्रव्यमद्रव्यं च| द्रव्यं मूर्त्तं सकलेन्द्रियविषयं च| अतोऽन्यदद्रव्यम्| एतच्च द्वयमपि रोगस्य प्रशमने पुनर्भवरक्षणे व समर्थं भवति| तत्र भौमादिभेदेन त्रिविधं द्रव्यमिहाध्याये वक्ष्यमाणम्| सुवर्णादिलवणान्तं बाहुल्येन भौमम्| औद्भिदं वनस्पत्यादिभेदेन चतुर्विधम्| तत्र फलिनो वनस्पतिः| फलिनशब्दः फलवति वर्तते| फलबर्हाभ्यामिनजितीनच्प्रत्यायन्तः| पुष्पप्राधान्येन फलवान् वानस्पत्यः| वल्ली सन्तानवती लतागुल्मं च| ह्रस्वं भूमिलग्नं बहुसूक्ष्मशाखं च वीरुच्छब्देनोच्यते| फलपाकेऽन्तः पर्णादिविनाशलक्षणो यासां ता औषध्यः| जङ्गमप्राणियोनित्वान्मधुघृतमूत्रादि जङ्गममुच्यते| अद्रव्यं पुनरुपवासादि| अनिलस्यासकलेन्द्रियग्राह्यत्वादमूर्त्तत्वाच्चाद्रव्यत्वमत्रैव व्यवहारार्थम्| बाह्यस्य संवाहनमङ्गमर्दनम्| एते चोपवासादयोऽस्मिन् तन्त्रे यथाप्रदेशं रोगघ्नत्वेनोक्ताः||३||

Adhikarana द्रैवव्यपाश्रयादिभेदेनौषधस्य त्रैविध्यम् (४) · Śloka

पुनरपि च त्रिविधं दैवव्यपाश्रयं युक्तिव्यपाश्रयं सत्त्वावजयश्चेति| तत्र दैवव्यपाश्रयं मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोप-वासस्वस्त्यनप्रणिधानगमनादि| युक्तिव्यपाश्रयमाहारौषधयोजनादि| सत्त्वावजयः पुनरहितान् मनोनिग्रहः||४||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

इत्यौषधस्योर्जस्करत्वरोगघ्नत्वाभ्यां द्वैविध्यमुक्त्वा तस्यैव दैवव्यपाश्रयत्वादिना तैविध्यमुच्यते| तत्र दैवव्यपाश्रयं यत् पापस्योपघातकत्वेनैव जठराग्निसंयोगेन विना धातुसाम्यकरं मन्त्रौषध्यादि| अत्रौषधीनां धारणमेवाभिप्रेतम्| बलेरुपहारो देवादिषु| नियमो वर्ज्यवर्जनम्| प्रायश्चित्तं व्रतादि| उपवासः प्रसिद्धः पापहर्तृत्वे| स्वस्त्ययनं वेदोक्तं कर्म| युक्तिव्यपाश्रयं तु जाठराग्निसंयोगमात्रादिविशेषेण धातुसाम्यकरं तच्चाहारस्यौषधस्य च योजनम्| सत्त्वावजयः सत्त्वस्य मनसोऽवजयः| अहिताद्विषयान्निग्रहो निवारणम्||४||

Adhikarana अपकर्षणादिभेदेनौषधस्य त्रैविध्यम् (५) · Śloka

पुनरपि च त्रिविधम्| अपकर्षणं प्रकृतिविघातो निदानत्यागश्च| ते पुनरपकर्षणादयो द्विविधाः बाह्याभ्यन्तरभेदेन| तत्र बाह्यमपकर्षणं ग्रन्थ्यर्बुदोपपक्ष्मक्रिमिशल्यादिषु शस्त्रहस्तयन्त्रादिभिः| आभ्यन्तरं पुनर्वमनविरेचनादिभिः| प्रकृतिविघातः संशमनम्| तद्बाह्यमभ्यङ्गस्वेदप्रदेहपरिषेकोपमर्दनादि| आभ्यन्तरं यदन्तरमनुप्रविश्याविक्षोभयद्दोषान् शमयति| निदानत्यागो यथादोषं शीतोष्णाशनव्यायामादीनां वर्जनं स्निग्धरूक्षाद्यनभ्यवहारश्च| तत्र शस्त्रादिसाध्ये भेषजमनुक्रमते न तु भेषजसाध्ये शस्त्रादि||५||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

इत्यौषधस्य दैवव्यपाश्रयत्वादिना त्रैविध्यमुक्त्वा अपकर्षणादिभेदेन तस्यैव त्रैविध्यमुच्यते| तानि चापकर्षणादीनि प्रत्येकं बाह्याभ्यन्तरभेदेन द्विविधानि| तत्र ग्रन्थ्य्दीनां शस्त्रादिभिरपकर्षणं बाह्यमपकर्षणम्| वमनविरेचनादिनान्तःस्थितस्य दोषस्यापकर्षणमाभ्यन्तरम्| प्रकृतिविघातो दुष्टस्य दोषादेर्देहस्थस्य शमनं साम्यकरम्| बहिःप्रयोगेण दोषशमनमभ्यङ्गादि बाह्यः प्रकृतिविघातः| यद् द्रव्यमन्तर्महास्रोतः प्रविश्य दोषानक्षोभयच्छमयति तदाभ्यन्तरः प्रकृतिविघातः| एतच्च पाचनदीपनादिना सप्तविधं वक्ष्यामः| निदानत्यागो यथादोषं शीतादिगुणानामाहारादीनां वर्जनम्| व्यायामादिवर्जनं यथादोषमेव| यथा श्लेष्मणि तत्सदृशगुणानामाहारविहारादीनां त्यागः| एवं वातपित्तयोरपि| प्रसङ्गादाह-बाह्यापकर्षणेन शस्त्रादिना साध्ये ग्रन्थ्यादौ व्याधौ भेषजमौषधमान्तरापकर्षणम्| प्रकृतिविघातो निदानत्यागश्चोपयुज्यते| न तु यथोक्तभेषजसाध्ये ग्रहणीरोगादौ शस्त्रादि बाह्यमपकर्षणमनुक्रमते| सोपयोगं न भवतीति सम्बन्धः||५||

Adhikarana हेतुविपरीतादिभेदेनौषधस्य त्रैविध्यम् (६) · Śloka

पुनरपि त्रिविधं हेतुविपरीतं व्याधिविपरीतमुभयार्थकारि च| तत्र हेतुविपरीतं गुरुस्निग्धशीतादिजे व्याधौ लघुरूक्षोष्णादि तथेतरस्मिन्नितरत्| व्याधिविपरीतं द्वौ मूलोपक्रमौ लङ्घनबृंहणे| पञ्चकर्माणि वमनादीनि सधूमधूपाञ्जनादीनि च| तथा विम्लापनोपनाहनपाटनादीनि| यच्च दोषशमनत्वे सत्यपि ज्वरे विशेषतो हितं मुस्तापर्पटकं यवाग्वश्च प्रमेहे रजनी यवान्नं चेत्यादि| रक्तपित्ते चोर्ध्वगे विरेचनमधोगे वमनम्||६||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

इत्यपकर्षणादिभेदेनौषधस्य त्रैविध्यमुक्त्वा तस्यैव हेतुविपरीतत्वादिना त्रैविध्यमुच्यते| तत्र हेतुविपरीतं यत् व्याधिविशेषाविवक्षायां व्याधिजनकदोषकारणविपरीतगुणम्| यथा गुर्वादिगुणयुक्तद्रव्यजे व्याधौ लघ्वादिगुणमौषधम्| तथेतरस्मिन् लघ्वादिजे इतरत् गुर्वादि| व्याधिविपरीतं तु यत्र हेतुविशेषविवक्षा नाश्रीयते केवलं यथोपदेशं स्वविषयव्याधिविशेषेणोपयुज्यते| यथा द्वौ मूलोपक्रमौ| लङ्घनं बृंहणं च| पञ्चकर्माणि वमनादीनि क्रमेण धूमादीनि च| शस्त्रादि साध्यानां च गुल्मादीनां व्याधिविपरीतं विम्लापनादि| विम्लापनं विलयनमुपनाहः पिण्डबन्धः| न केवलमेतावदेव व्याधिविपरीतलक्षणं यावदिदमपि| यच्चेति समुच्चये| यद् द्रव्यं सत्यपि व्याध्यारम्भकदोषशमनत्वे न तज्जेषु सर्वव्याधिषु तथा पथ्यम्| यथैकस्मिन्नेव व्याधौ दृष्टान्तो मुस्तापर्पटकं यद्यपि पित्तश्लेष्मघ्नं न तथा गुल्मादिषु पित्तश्लेष्मजेषु हितं यथा ज्वर इति| एवं यवाग्वाद्यपि यथायथं बुद्ध्या विकल्प्य वाच्यम्||६||

Adhikarana हेतुव्याधिविपरीतार्थकार्यौषधम् (७) · Śloka

उभयार्थकारि पुनर्दैवव्यपाश्रयमौषधम्| तथा छर्द्यां छर्दनमतिसारे विरेचनं, मदात्यये मद्यपानं, तुत्थदग्धेऽग्निप्रतपनं, पित्तेऽन्तर्न्निगूढे विमार्गगे वा स्वेदः कट्वम्ललवणतीक्ष्णोष्णाभ्यवहारश्च बहिः प्रवर्त्तनाय स्वमार्गापादनाय च| श्लेष्मणि चान्तर्निगूढे स्तब्धे बहिः शीतोपचारस्तत्पीडितस्योष्मणोऽन्तःप्रवेशेन कफो विलयतामुपयाति| एवंविधं ह्यविपरीतमेव सद्भेषजं हेतुव्याधिविपरीतमर्थं करोति||७||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

उभयार्थकारि यदुभयस्य हेतुविपरीतस्य व्याधिविपरीतस्य च सम्बन्धिनमर्थं रोगोपशमलक्षणमेतद्गुणमपि करोति| तच्च दैवव्यपाश्रयं मणिमन्त्रादिकृतम्| तथा रोगस्वभावादिविपरीतस्वरूपमपि यद्रोगोपशमनं करोति तदुभयार्थकारि| यथा छर्द्यां तत्स्वरूपमेव वमनमेवमपि स्वबुद्ध्या विकल्प्यम्| पित्ते वान्तर्निगूढे स्वेदः शस्यते| अविपरीतोऽपि पित्तात् कट्वादिरसाभ्यवहारश्चेति यथासङ्ख्येन प्रयोजनमन्तर्निगूढे बहिः प्रवर्त्तनाय विमार्गगे स्वमार्गापादनायात्र तु स्वेदस्य पित्तस्यातिशयप्राप्तेरौषधत्वं न तु श्लेष्मादिप्रतिबन्धकनाशनेन स्वेदस्येति कामलादौ दृश्यते| श्लेष्मणि चान्तर्निगूढ इति हेमन्तेऽग्निबलवत्त्वयुक्त्या ज्ञायते| एवमनेन प्रकारेण रोगादविपरीतमपि विपरीतार्थं रोगस्य नाशनं करोतीति||७||

Adhikarana अनौषधस्य द्वैविध्यम् (८) · Śloka

अनौषधं पुनर्द्विविधं बाधनमनुबाधनञ्च| तत्र सद्यः प्राणहरं बाधनम्| कालान्तरेणानुबाधनम् इति||८||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

बहुभिर्भेदैरौषधमुक्त्वाऽनौषधमुच्यते| तच्च द्विविधम् इत्यादि सुबोधम्||८||

Adhikarana प्रधानद्रव्याणां स्वरूपकथनप्रतिज्ञा (९) · Śloka

परं चातो रसवीर्यादिभेदेन यथास्थूलमौषधैकदेश उपदिश्यते||९||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

अतः परं प्रधानद्रव्याणां रसादिभेदैः स्वरूपमुच्यते| अन्येषां रसाद्यनुमाणाद्रसभेदीयादौ वक्ष्यामः||९||

Adhikarana सुवर्णगुणाः (१०) · Śloka १०

सुवर्णं बृंहणं स्निग्धं मधुरं रसपाकयोः| विषदोषहरं शीतं सकषायं रसायनम्||१०||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

सुवर्णमित्यादि सुबोधम्||१०||

Adhikarana रूप्यगुणाः (११) · Śloka ११

रूप्यं स्निग्धं कषायाम्लं विपाके मधुरं रसम्| वयसः स्थापनं शीतं लेखनं वातपित्तजित्|११|

🔊 Audio coming soon

Adhikarana ताम्रगुणाः (११) · Śloka ११

ताम्रं सतिक्तमधुरं कषायं लेखनं लघु| कटुपाकरसं शीतं रोपणं कफपित्तजित्|११|

🔊 Audio coming soon

Adhikarana कांस्यगुणाः (११) · Śloka ११

कांस्यं कषायानुरसं विशदं लेखनं लघु| दृष्टिप्रसादनं रूक्षं तिक्तं पित्तकफाहम्|११|

🔊 Audio coming soon

Adhikarana त्रपु-सीसयोर्गुणाः (११) · Śloka ११

सतिक्तलवणं भेदि पाण्डुत्वकृमिवातनुत्| लेख़नं पित्तलं किञ्चित्त्रपुसीसञ्च तद्गुणम्||११||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

त्रपु तिक्तलवणादिगुणं लेख़नं किञ्चित् पित्तलं च| सीसं तद्गुणं त्रपुगुणम्||११||

Adhikarana कृष्णलोहस्य गुणाः (१२) · Śloka १२

चक्षुष्यं कृष्णलोहं तु कषायं स्वादु तिक्तकम्| लेखनं वातलं शीतं कृमिकुष्ठकफप्रणुत्| गात्रशैथिल्यपालित्यपाण्डुघ्नं शोषशोफजित्| तद्वत्तीक्ष्णं विशेषेण तद्विकाषि सुदुर्जरम्|१२|

🔊 Audio coming soon

Adhikarana पद्मरागादिगुणाः (१२) · Śloka १२

पद्मरागमहानीलपुष्परागाविदूरकाः| मुक्ताविद्रुमवज्रेन्द्रवैडूर्यस्फटिकादिकम्| मणिरत्नं सरं शीतं कषायं स्वादुलेखनम्| चक्षुष्यं धारणात्तत्तु पाप्मालक्ष्मीविषापहम्| धन्यमायुष्यमोजस्यं हर्षोत्साहकरं शिवम्||१२||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

मुक्तादयः सर्वे मणयो वैडूर्यानि च रत्नानि शैत्यादिगुणयुक्तानि शिरःप्रभृतिषु धारणात् पाप्मादिनाशनानि||१२||

Adhikarana काचगुणाः (१३) · Śloka १३

सक्षार उष्णवीर्यश्च काचो दृष्टिकृदञ्जनात्|१३|

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

अन्यत् सुबोधम्||१३||

Adhikarana शङ्ख-उदधिमलयोर्गुणाः (१३) · Śloka १३

शङ्खोदधिमलौ शीतौ कषायावतिलेखनौ|१३|

🔊 Audio coming soon

Adhikarana तुत्थकगुणाः (१३) · Śloka १३

तुत्थकं कटु सक्षारं कषायं विशदं लघु| लेखनं भेदि चक्षुष्यं कण्डूकृमिविषापहम्|१३|

🔊 Audio coming soon

Adhikarana गैरिकगुणाः (१३) · Śloka १३

विशदो गैरिकः स्निग्धः कषायमधुरो हिमः|१३|

🔊 Audio coming soon

Adhikarana मनोह्वागुणाः (१३) · Śloka १३

कफघ्नी तिक्तकटुका मनोह्वा लेखनी सरा||१३||

🔊 Audio coming soon

Adhikarana हरितालगुणाः (१४) · Śloka १४

स्निग्धं कषायकटुकं हरितालं विषप्रणुत्| स्रोतोऽञ्जनात्सौवीराञ्जनस्य श्रेष्ठत्वम् कषायं मधुरं शीतं लेखनं स्निग्धमञ्जनम्| रक्तपित्तविषच्छर्दिहिध्माघ्नं दृक्प्रसादनम्| स्रोतोऽञ्जनं वरं तत्र ततः सौवीरकाञ्जनम्||१४||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

उदधिमलं समुद्रफेनम्| सौवीरमञ्जनं कषायत्वादिगुणयुक्तं तस्य जातिविशेषात्स्रोतोञ्जनादिनामविशेषः| तत्र अञ्जनजातिषु मध्ये स्रोतोञ्जनं श्रेष्ठं ततोऽपि सौवीरम्||१४||

Adhikarana रसाञ्जनगुणाः (१५) · Śloka १५

कफघ्नं तिक्तकटुकं छेदि सोष्णं रसाञ्जनम्||१५||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

रसाञ्जनं तार्क्ष्यशैलम्| दारुहरिद्राविकारः कफघ्नत्वादियुक्तः||१५||

Adhikarana शिलाजतुगुणाः (१६) · Śloka १६

स्वादु हिध्माप्रशमनं कासमेहक्षयापहम्| कफघ्नमुष्णं कटुकं शिलाजतु रसायनम्| तिक्तञ्च छेदनं योगवाहित्वात्सर्वरोगजित्| विशेषात् कृच्छ्रमेहार्शःपाण्डुशोफकफापहम्|१६|

🔊 Audio coming soon

Adhikarana वंशरोचनागुणाः (१६) · Śloka १६

कषाया मधुरा रूक्षा कासघ्नी वंशरोचना|१६|

🔊 Audio coming soon

Adhikarana तुगाक्षीरीगुणाः (१६) · Śloka १६

तुगाक्षीरी क्षयश्वासकासघ्नी मधुरा हिमा|१६|

🔊 Audio coming soon

Adhikarana लवणसामान्यगुणाः (१६) · Śloka १६

विष्यन्दि लवणं सर्वं सूक्ष्मं सृष्टमलं विदुः| वातघ्नं पाकि तीक्ष्णोष्णं रोचनं कफपित्तकृत्||१६||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

विष्यन्दीत्यादिना पांसूत्थान्तानां सर्वेषां लवणानां सामान्यगुणाः| पाकी पाचकस्य स्वभावः||१६||

Adhikarana सैन्धवगुणाः (१७) · Śloka १७

सैन्धवं तत्र सस्वादु वृष्यं हृद्यं त्रिदोषनुत्| लघ्वनुष्णं दृशः पथ्यमविदाह्यग्निदीपनम्||१७||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

सैन्धवमित्यादि लवणविशेषगुणाः| अत्र चोत्सर्गापवादोपबृंहकवचनादि सर्वं स्वबुद्ध्या कल्पनीयम्||१७||

Adhikarana सौवर्चलगुणाः (१८) · Śloka १८

लघु सौवर्चलं हृद्यं सुगन्ध्युद्गारशोधनम्| कटुपाकं विबन्धघ्नं दीपनीयं रुचिप्रदम्|१८|

🔊 Audio coming soon

Adhikarana विड्गुणाः (१८) · Śloka १८

ऊर्ध्वाधः कफवातानुलोमनं दीपनं विडम्| विबन्धानाहविष्टम्भशूलगौरवनाशनम्|१८|

🔊 Audio coming soon

Adhikarana सामुद्रलवणगुणाः (१८) · Śloka १८

विपाके स्वादु सामुद्रं गुरु श्लेष्मविवर्धनम्|१८|

🔊 Audio coming soon

Adhikarana औद्भिदलवणगुणाः (१८) · Śloka १८

सतिक्तकटुकक्षारं तीक्ष्णमुत्क्लेदि चौद्भिदम्||१८||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

उत्क्लेदि रक्तं मांसं च क्लेदयति||१८||

Adhikarana कृष्णलवणगुणाः (१९) · Śloka १९

कृष्णे सौवर्चलगुणा लवणे गन्धवर्जिताः|१९|

🔊 Audio coming soon

Adhikarana रोमकलवणगुणाः (१९) · Śloka १९

रोमकं लघु पांसूत्थं सक्षारं श्लेष्मलं गुरु|१९|

🔊 Audio coming soon

Adhikarana लवणप्रयोगे क्रमनिर्देशः (१९) · Śloka १९

लवणानां प्रयोगे तु सैन्धवादीन् प्रयोजयेत्||१९||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

यत्र त्वेकं लवणं द्वे लवणे त्रीणि लवणानीत्यादि संख्यया प्रयोगः तत्र सैन्धवादिर्यथास्थितक्रमो योज्यः| सैन्धवम्, सैन्धवसौवर्चले, सैन्धवसौवर्चलविडान्येवमन्येऽपि||१९||

Adhikarana यवक्षारगुणाः (२०) · Śloka २०

गुल्महृद् ग्रहणीपाण्डुप्लीहानाहगलामयान्| श्वासार्शः कफवातांश्च शमयेद्यवशूकजः||२०||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

यवक्षारो गुल्मादिनाशनः||२०||

Adhikarana स्वर्जिकाक्षारगुणाःसर्वक्षारगुणाः (२१) · Śloka २१

स्वर्जिका तद्गुणान्न्यूना क्षारेण तु ततोऽधिका| क्षारः सर्वश्च परमं तीक्ष्णोष्णः कृमिजिल्लघुः| पित्तासृग्दूषणः पाकी छेद्यहृद्यो विदारणः| अपथ्यः कटुलावण्याच्छुक्रौजः केशचक्षुषाम्||२१||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

सर्वश्च स्वर्जिकादिः क्षारोऽत्यर्थतीक्ष्णत्वादियुक्तः||२१||

Adhikarana हरीतकीगुणाः (२२) · Śloka २२

कषाया मधुरा पाके रूक्षा विलवणा लघुः| दीपनी पाचनी मेध्या वयसः स्थापनी परम्| उष्णवीर्या सरायुष्या बुद्धीन्द्रियबलप्रदा| कुष्ठवैवर्ण्यवैस्वर्यपुराणविषमज्वरान्| शिरोऽक्षिपाण्डुहृद्रोगकामलाग्रहणीगदान्| सशोषशोफातीसारमेहमोहवमिक्रिमीन्| श्वासकासप्रसेकार्शःप्लीहानाहगरोदरम्| विबन्धं स्रोतसां गुल्ममूरुस्तम्भमरोचकम्| हरीतकरी जयेद्व्याधींस्तांस्तांश्च कफवातजान्||२२||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

हरीतकी कषायत्वादिगुणयुक्ता| विलवणा इति लवणरसवर्जिता| बलादुक्तं भवति पञ्चरसा इति| तत्रापि कषायोऽधिकः| सा हरीतकी कुष्ठादीनन्यांश्च रोगान् वातश्लेष्मोद्भवान् नाशयति||२२||

Adhikarana आमलकगुणाः (२३) · Śloka २३

तद्वदामलकं शीतं माधुर्यात् पित्तजित्परम्| कफं कटुविपाकित्वादम्लत्वान्मारुतञ्जयेत्| परं च कण्ठ्यं चक्षुष्यं हृद्यं दाहज्वरापहम्||२३||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

आमलकं तद्वत्, गुणैर्हरीतकीसदृशमित्यर्थः||२३||

Adhikarana बिभीतकगुणाः (२४) · Śloka २४

अक्षन्तु तद्गुणान्न्यूनं कषायमधुरं हिमम्| कासश्वासगलश्लेष्मपित्तशुक्रहरं लघु| परं केश्यस्तु तन्मज्जा शुक्रघ्नञ्च ततोऽञ्जनम्||२४||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

अक्षं बिभीतकं कटुविपाकित्वादिगुणयुक्तं इर्षच्च तद्गुणं हरीतकीगुणयुक्तमित्यर्थः||२४||

Adhikarana त्रिफलागुणाः (२५) · Śloka २५

इयं रसायनवरा त्रिफलाक्ष्यामयापहा| रोपणी त्वग्गदक्लेदमेदोमेहकफास्रजित्||२५||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

इयं त्रिफला हरीतक्यामलकबिभीतकसमाहारः||२५||

Adhikarana त्रिजातकचतुर्जातकयोर्गुणाः (२६) · Śloka २६

सकेसरं चतुर्जातं त्वक्पत्रैलं त्रिजातकम्| पित्तप्रकोपि तीक्ष्णोष्णं रूक्षं रोचनदीपनम्| (पत्रकं कफवातघ्नं त्रिसुगन्धि त्रिजातकम्| केसरं रक्तगुदजविषपित्तकफापहम्| तद्युक्तं तच्चतुर्जातं नातिशीतोष्णमुच्यते)||२६||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

त्वगादित्रयं त्रिजातकसंज्ञमेतदेव नागकेसरयुक्तं चतुर्जातकम्| सुबोधम्||२६||

Adhikarana मरिचगुणाः (२७) · Śloka २७

रसे पाके च कटुकं कफघ्नं मरिचं लघु||२७||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

मरिचं रसपाकयोः कटुकं कफघ्नत्वादियुक्तं च||२७||

Adhikarana आर्द्रपिप्पलीगुणाः (२८) · Śloka २८

श्लेष्मला स्वादुशीतार्द्रा गुर्वी स्निग्धा च पिप्पली||२८||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

आर्द्रा पिप्पली श्लेष्मलादिगुणा||२८||

Adhikarana शुष्कपिप्पलीगुणाः (२९) · Śloka २९

सा शुष्का विपरीतातः स्निग्धा वृष्या रसे कटुः| स्वादुपाकानिलश्लेष्मश्वासकासापहा सरा|२९|

🔊 Audio coming soon

Adhikarana पिप्पल्या अत्युपयोगनिषेधोऽपवादश्च (२९) · Śloka २९

न तामत्युपयुञ्जीत रसायनविधिं विना||२९||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

सा पिप्प्पली शुष्का अतः आर्द्रीयाः सकाशात् विपरीतास्निग्धत्वादिगुणयुक्ता च| एवंविधामपि तां च पिप्पलीमतियोगेन नोपयुञ्जीत विना रसायनविधिना||२९||

Adhikarana नागरगुणाः आर्द्रकगुणाश्च (३०) · Śloka ३०

नागरं दीपनं वृष्यं ग्राहि हृद्यं विबन्धनुत्| रुच्यं लघु स्वादुपाकं स्निग्धोष्णं कफवातजित्| तद्वदार्द्रकमेतच्च त्रयं त्रिकटुकं जयेत्| स्थौल्याग्निसदनश्वासकासश्लीपदपीनसान्||३०||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

एतच्च त्रयं मरिचपिप्पलीनागरसंज्ञकं त्रिकटुकसंज्ञम्||३०||

Adhikarana चविकापिप्पलीमूलगुणाः (३१) · Śloka ३१

चविका पिप्पलीमूलं मरिचाल्पान्तरं गुणैः||३१||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

चविका पिप्पलीमूलं च मरिचात् क्रमेणाल्पगुणम्||३१||

Adhikarana चित्रकगुणाः (३२) · Śloka ३२

चित्रकोऽग्निसमः पाके शोफार्शः कृमिकुष्ठहा||३२||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

चित्रकः पाके पाककर्तृत्वेऽग्निसमः||३२||

Adhikarana पञ्चकोलगुणाः (३३) · Śloka ३३

पञ्चकोलकमेतच्च मरिचेन विना स्मृतम्| गुल्मप्लीहोदरानाहशूलघ्नं दीपनं परम्||३३||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

एतत् पिप्पल्यादिचित्रकान्तं पञ्चकोलसंज्ञितम्||३३||

Adhikarana बृहत्पञ्चमूलगुणाः (३४) · Śloka ३४

बिल्वकाश्मर्यतर्कारीपाटलाटुण्टुकैर्महत्| जयेत्कषायं तिक्तोष्णं पञ्चमूलं कफानिलौ||३४||

🔊 Audio coming soon

Adhikarana ह्रस्वपञ्चमूलगुणाः (२) · Śloka

ह्रस्वं बृहत्यंशुमतीद्वयगोक्षुरकैः स्मृतम्| स्वादुपाकरसं नातिशीतोष्णं सर्वदोषजित्||२||

🔊 Audio coming soon

Adhikarana मध्यमपञ्चमूलगुणाः (३४) · Śloka ३४

बलापुनर्नवैरण्डशूर्पपर्णीद्वयेन च| मध्यमं कफवातघ्नं नातिपित्तकरं लघु|३४|

🔊 Audio coming soon

Adhikarana जीवनपञ्चमूलगुणाः (३४) · Śloka ३४

अभीरुवीराजीवन्तीजीवकर्षभकैः स्मृतम्| जीवनाख्यं तु चक्षुष्यं वृष्यं पित्तानिलापहम्|३४|

🔊 Audio coming soon

Adhikarana तृणपञ्चमूलगुणाः (३४) · Śloka ३४

तृणाख्यं शरदर्भेक्षुशालिकाशैस्तु पित्तजित्| अजशृङ्गी हरिद्रा च विदारी सारिवाऽमृताः|३४|

🔊 Audio coming soon

Adhikarana वल्लीकण्टकपञ्चमूलयोर्गुणाः (३४) · Śloka ३४

बल्ल्याख्यं कण्टकाख्यं तु श्वदंष्ट्राऽभीरुसैर्यकैः| सहिंस्राकरमर्दीकैः सर्वदोषहरे च ते||३४||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

मिश्रीभावात् बिल्वादिकं महत् पञ्चमूलं वातश्लेष्माणौ जयेत् कषायत्वादिगुणयुक्तञ्च| बृहत्यादिपञ्चमूलञ्च ह्रस्वं मधुररसत्वादिगुणयुक्तं च| बलादि मध्यमं कफवातघ्नत्वादियुक्तम्| अभीर्वादि जीवनं नाम पञ्चमूलं चक्षुष्यत्वादियुक्तम्| दर्भादितृणपञ्चमूलसंज्ञितं पित्तजित्| अजशृङ्ग्यादिपञ्चमूलं वल्लीनाम सर्वदोषहरम्| श्वदंष्ट्रादि कण्टकनाम| एतच्च सर्वदोषहरम्|

Adhikarana कारव्यादिगुणाः (३५) · Śloka ३५

कारवी कुञ्चिवाजाजीकबरीधान्यतुम्बुरु| अन्नगन्धहरं रुच्यं दीपनं कफवातजित्||३५||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

कारव्यादि प्रत्येकमन्नानामाहार्याणां दुर्गन्धं नाशयति||३५||

Adhikarana बाष्पिकाराजिकयोर्गुणाः (३६) · Śloka ३६

बाष्पिका कटुतिक्तोष्णा कृमिश्लेष्महरा परम्| तद्वच्च राजिका विघ्नसादनी दीपनी परा| शूलाटोपहरा रुच्या||३६||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

बाष्पिका कटुकत्वादियुक्ता| राजिका बाष्पिकासदृशगुणा||

Adhikarana दीप्यकगुणाः (३७) · Śloka ३७

दीप्यकः कोष्ठशूलजित्|३७|

🔊 Audio coming soon

Adhikarana सर्षपगुणाः (३७) · Śloka ३७

अहृद्याः सर्षपाः स्निग्धा बाष्पिकावच्च कीर्त्तिताः|३७|

🔊 Audio coming soon

Adhikarana हिङ्गुगुणाः (३७) · Śloka ३७

हिङ्गु वातकफानाहशूलघ्नं पित्तकोपनम्| कटुपाकरसं रुच्यं दीपनं पाचनं लघु| पित्तास्रकोपि तच्चैव श्रेष्ठं बोष्काणदेशजम्| ततो न्यूनगुणं त्वन्यद्द्रव्यव्यञ्जनधूपनम्|३७|

🔊 Audio coming soon

Adhikarana शताह्वादीनां गुणाः (३७) · Śloka ३७

शताह्वाकुष्ठतगरसुरदारुहरेणवः| एलैलवालुसरलत्वग्व्याघ्रनखचोरकाः| लघूष्णाः कटुकाः पाके कफवातनिबर्हणाः|३७|

🔊 Audio coming soon

Adhikarana सैर्यकगुणाः (३७) · Śloka ३७

सैर्यकस्तिक्तमधुरः स्निग्धोष्णः कफवातजित्|३७|

🔊 Audio coming soon

Adhikarana गोक्षुरकगुणाः (३७) · Śloka ३७

बस्तिमूत्रविबन्धघ्नो वृष्यो गोक्षुरको हिमः|३७|

🔊 Audio coming soon

Adhikarana विषाद्वयगुणाः (३७) · Śloka ३७

पाचनं कफपित्तघ्नं तिक्तं शीतं विषाद्वयम्||३७||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

विषाद्वयमतिविषा प्रतिविषा च||३७||

Adhikarana मुस्तगुणाः (३८) · Śloka ३८

कफघ्नं तिक्तकटुकं मुस्तं संग्राहि पाचनम्|३८|

🔊 Audio coming soon

Adhikarana अमृतागुणाः (३८) · Śloka ३८

तिक्ताऽमृता त्रिदोषघ्नी ग्राहिण्युष्णा रसायनी| दीपनी ज्वरतृड्दाहकामलावातरक्तनुत्|३८|

🔊 Audio coming soon

Adhikarana भूनिम्बपर्पटयोर्गुणाः (३८) · Śloka ३८

तिक्तशीतौ ज्वरहरौ लघू भूनिम्बपर्पटौ|३८|

🔊 Audio coming soon

Adhikarana निम्बगुणाः (३८) · Śloka ३८

निम्बस्तिक्तो हिमः कुष्ठकृमिपित्तकफापहः|३८|

🔊 Audio coming soon

Adhikarana महानिम्बगुणाः (३८) · Śloka ३८

महानिम्बः परं ग्राही कषायो रूक्षशीतलः|३८|

🔊 Audio coming soon

Adhikarana गुग्गुलुगुणाः (३८) · Śloka ३८

गुग्गुलुः पिच्छिलस्पर्शे विशदोऽभ्यवहारतः| सस्वादुः सकटुस्तिक्तः सकषायो रसायनम्| वर्ण्यः स्वर्यः कटुः पाके रूक्षः सूक्ष्मोऽग्निदीपनः| क्लेदमेदोनिलश्लेष्मगण्डमेहापचीक्रिमीन्| पिटकाग्रन्थिशोफांश्च हन्त्युष्णः स्रंसनो लघुः||३८||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

गुग्गुलुः स्पर्शे पिच्छिलः अभ्यवहारात्तु स्रोतोवैशद्यकृत्| तथा स्वादुरसत्वादियुक्तः स्रंसनोऽनुलोमनः||३८||

Adhikarana शङ्ख़पुष्पीगुणाः (३९) · Śloka ३९

शङ्खपुष्पी सरा तिक्ता मेध्या कृमिविषापहा|३९|

🔊 Audio coming soon

Adhikarana अगुरुगुणाः (३९) · Śloka ३९

कटुतिक्तोष्णमगुरु स्निग्धं वातकफापहम्| पित्तास्रविषतृड्दाहक्लमघ्नं गुरु रूक्षणम्|३९|

🔊 Audio coming soon

Adhikarana चंदनसामान्यगुणाः (३९) · Śloka ३९

सर्वं सतिक्तमधुरं चन्दनं शिशिरं परम्| लघु रक्तम्||३९||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

सर्वं चन्दनं श्वेतं रक्तं पीतं च तिक्तरसत्वादियुक्तम्| तेभ्यो रक्तचन्दनं लघु| बलादुक्तं भवति शेषे गुरुणी इति||३९||

Adhikarana उशीरवालकयोर्गुणाः (४०) · Śloka ४०

तथोशीरं वालकं पाचनं च तत्| ज्वरातिसारवमथुरक्तपित्तक्षतापहम्||४०||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

उशीरं वालकं च तथैव रक्तचन्दनवद् गुणैर्विज्ञेयं ज्वरादिनाशनञ्च||४०||

Adhikarana मधुकगुणाः (४१) · Śloka ४१

मधुकं रक्तपित्तघ्नं व्रणशोधनरोपणम्| गुरु स्वादु हिमं वृष्यं चक्षुष्यं स्वरवर्णकृत्||४१||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

सुबोधम्||४१||

Adhikarana निशाद्वयगुणाः (४२) · Śloka ४२

कटुतिक्ते निशे कुष्ठमेहपित्तकफापहे| प्रलेपाज्जयतः कण्डूं शोफं दुष्टव्रणं विषम्|४२|

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

निशे द्वे पिण्डहरिद्रा दारुहरिद्रा च||४२||

Adhikarana प्रपौण्डरीकगुणाः (४२) · Śloka ४२

प्रपौण्डरीकं चक्षुष्यं शिशिरं व्रणरोपणम्| कषायतिक्तमधुरं रक्तपित्तप्रसादनम्|४२|

🔊 Audio coming soon

Adhikarana बलात्रयगुणाः (४२) · Śloka ४२

बलात्रयं स्वादु वृष्यं स्निग्धं शीतं बलप्रदम्|४२|

🔊 Audio coming soon

Adhikarana नागबलागुणाः (४२) · Śloka ४२

तत्र नागबला बल्या क्षतक्षीणहिता गुरुः||४२||

🔊 Audio coming soon

Adhikarana ताम्बूलगुणाः (४३) · Śloka ४३

ताम्बूलं कटु सक्षारं रुच्यमुष्णं कफप्रणुत्||४३||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

ताम्बूलं ताम्बूलीलतापत्रं सक्षारमीषत् क्षारगुणयुक्तम्|

Adhikarana पूगगुणाः (४४) · Śloka ४४

भेदि सम्मोहकृत् पूगं कषायं स्वादु रोचनम्|४४|

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

सुबोधम्||४४||

Adhikarana जातिपत्र्यादीनां गुणाः (४४) · Śloka ४४

जातिपत्री कटुफलं कङ्कोलकलवङ्गकम्| लघु तृष्णापहं हृद्यं वक्त्रदौर्गन्ध्यनाशनम्||४४||

🔊 Audio coming soon

Adhikarana कर्पूरगुणाः (१) · Śloka

सस्वादुतिक्तस्तृष्णाघ्नः कर्पूरश्छेदनो हिमः||१||

🔊 Audio coming soon

Adhikarana लताकस्तूरिकागुणाः (४४) · Śloka ४४

लताकस्तूरिका तद्वन्मुखशोषहरा परम्|४४|

🔊 Audio coming soon

Adhikarana पद्मादीनां गुणाः (४४) · Śloka ४४

कषायमधुरं शीतं पद्मं पित्तकफास्रजित्| तद्वद्वकुलपुन्नागकुमुदोत्पलपाटलम्||४४||

🔊 Audio coming soon

Adhikarana चम्पकादीनां गुणाः (४५) · Śloka ४५

सचम्पकं ततो न्यूनं गुणैः कोरण्डकिंशुकम्| मालतीमल्लिकापुष्पं तिक्तं जयति मारुतम्||४५||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

कोरण्डं किंशुकं च पद्मादूनगुणम्||४५||

Adhikarana नागकेसरसिन्धुवारयोर्गुणाः (४६) · Śloka ४६

विषपित्तकफान्नागं सिन्दुवारं च तद्गुणम्||४६||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

नागं नागपुष्पम्||४६||

Adhikarana केतकीशिरीषपुष्पयोः गुणाः (४७) · Śloka ४७

कफघ्नं कैतकं तिक्तं शैरीषं विषहारि च|४७|

🔊 Audio coming soon

Adhikarana अगस्त्यपुष्पगुणाः (४७) · Śloka ४७

वातलं पुष्पमागस्त्यं कषायं कफपित्तजित्| चतुर्थिकज्वरहरं नावनेनोपयोजितम्|४७|

🔊 Audio coming soon

Adhikarana बन्धूकयूथिकापुष्पयोर्गुणाः (४७) · Śloka ४७

बन्धूकं श्लेष्मलं ग्राहि तद्वदेव च यूथिका|४७|

🔊 Audio coming soon

Adhikarana कुङ्कुमगुणाः (४७) · Śloka ४७

कफघ्नमुष्णवीर्यं च कुङ्कुमं व्रणशोधनम्|४७|

🔊 Audio coming soon

Adhikarana अवल्गुजैडगजबीजयोर्गुणाः (४७) · Śloka ४७

अवल्ग्वेडकजं बीजं कटिवातकफप्रणुत्|४७|

🔊 Audio coming soon

Adhikarana आस्या-अध्व-चंक्रमण-गुणाः (४७) · Śloka ४७

आस्या वर्णश्लेष्ममेदः सौकुमार्यकृदन्यथा| अतोऽध्वाग्निबलायूंषि कुर्याच्चङ्क्रमणं सुख़म्| मारुतस्यानुलोम्यं च ख़ुडस्तम्भश्रमापहम्||४७||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

आस्या निष्क्रियस्यासने अभ्यासः वर्णकृत्वादिगुणयुक्ता| अध्वा एतद्विपरीतगुणः| चङ्क्रमणमग्निवृद्ध्यादिकरं मारुतस्य वायोरानुलोम्यं च करोति||४७||

Adhikarana पादत्रगुणाः (४८) · Śloka ४८

अन्वर्थसंज्ञं पादत्रं बलदृक्शुक्रवर्द्धनम्||४८||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

पादत्रमन्वर्थसंज्ञं पादरक्षणमित्यर्थः| तच्च ख़ुडादिनाशनम्||४८||

Adhikarana छत्रगुणाः (४९) · Śloka ४९

वर्ण्यं नेत्रहितं छत्रं वातवर्षातपापहम्||४९||

🔊 Audio coming soon

Adhikarana प्रवात- अप्रवातयोर्गुणाः (५०) · Śloka ५०

प्रवातो रौक्ष्यवैवर्ण्यस्तम्भकृद्दाहतृड्भ्रमान्| श्रमाग्निमूर्च्छांश्च जयेदप्रवातस्त्वतोऽन्यथा||५०||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

प्रवातः प्रदेशो यत्र प्रकृष्टो वातः स रौक्ष्यादिगुणयुक्तः| दाहादिकं च जयेत्| एतद्विपरीतगुणोऽप्रवातः||५०||

Adhikarana प्राग्वातगुणाः (५१) · Śloka ५१

प्राग्वायुरुष्णोऽभिष्यन्दि त्वग्दोषार्शोविषक्रिमीन्| सन्निपातज्वरं श्वासमामं वायुं च कोपयेत्|५१|

🔊 Audio coming soon

Adhikarana पश्चिमवातगुणाः (५१) · Śloka ५१

पश्चिमः शिशिरो हन्ति मूर्च्छां दाहं तृषं विषम्|५१|

🔊 Audio coming soon

Adhikarana दक्षिणमारुतगुणाः (५१) · Śloka ५१

दक्षिणो मारुतः श्रेष्ठो नेत्र्योऽङ्गबलवर्धनः| रक्तपित्तप्रशमनो न च वातप्रकोपनः|५१|

🔊 Audio coming soon

Adhikarana उत्तरवातगुणाः (५१) · Śloka ५१

उत्तरो मारुतः स्निग्धो मृदुर्मधुर एव च| कषायानुरसः शीतो दोषाणामप्रकोपनः|५१|

🔊 Audio coming soon

Adhikarana आतपादीनां गुणाः (५१) · Śloka ५१

आतपो भ्रमतृट्स्वेददाहमूर्च्छाविवर्णताः| कुर्यात् पित्त्तास्रवह्निंश्च छाया चैतानपोहति| तमः कषायकटुकं ज्योत्स्ना मधुरशीलता||५१||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

छाया त्वेतान् भ्रमादीन् व्यपोहति| अद्रव्याणां गुणनिर्देशस्तद्गुणशारीरद्रव्याभिवृद्धिनाशहेतुत्वप्रदर्शनाय|| ५१||

Adhikarana तमसः गुणाः (५२) · Śloka ५२

तमः कषाकटुकं ज्योत्स्ना मधुरशीलता|५२|

🔊 Audio coming soon

Adhikarana उपसंहारः (१२) · Śloka १२

भवति चात्र- रसादिभेदैरिति भेषजानां दिङ्मात्रमुक्तन्न यतोऽस्ति किञ्चित्| अनौषधं द्रव्यमिहावबोधो रूपस्य तेषां वनगोचरेभ्यः||५२|| इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने विविधौषधविज्ञानीयो नाम द्वादशोऽध्यायः||१२||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

रसादीनां रसवीर्यविपाकप्रभावानां भेदैः परस्परं संयोगप्रकारैर्भेषजानामौषधानां दिङ्मात्रमुक्तं मार्गो दर्शितः यतो न किञ्चिदनौषधमस्ति| विषं मारणात्मकमपि कार्येषूपयुज्यते| यत्त्वनौषधं पूर्वमुक्तं तन्मात्रावस्थाकालादिवशात्| तेषां च भेषजानां रूपावबोधो वनगोचरेभ्यो गोपतापसादिभ्यो वैद्यस्य निष्पद्यते||५२|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया-मष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां सूत्रस्थाने द्वादशोऽध्यायः||१२||