Skip to content

११. विद्रधिवृद्धिगुल्मनिदानम्

Adhikarana अथ विद्रधिवृद्धिगुल्मनिदानन्नामैकादशोऽध्यायः | प्रतिज्ञा (१) · Śloka

अथातो विद्रधिवृद्धिगुल्मनिदानं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

उक्तशेषत्वाद् विद्रधेरुत्सेधेन तत्समानत्वाच्च वृद्धिगुल्मयोः तन्निदाननिर्णयायाध्यायारम्भः|| १||

Adhikarana विद्रधिनिदानम्, विद्रधेर्निदानम् (२) · Śloka

भुक्तैः पर्य्युषितात्युष्णरूक्षशुष्कविदाहिभिः| जिह्वाशय्याविचेष्टाभिस्तैस्तैश्चासृक्प्रदूषणैः| दुष्टत्वङ्मांसमेदोऽस्थिस्नावासृक्कण्डराश्रयः| यः शोफो बहिरन्तिर्वा महामूलो महारुजः| वृत्तः स्यादायतो यो वा स्मृतः षोढा स विद्रधिः||२||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

भुक्तैरित्यादि | पर्य्युषिताभिरभ्यासेन भुक्तैः | जिह्मशय्यादिभिर्वा| तैस्तैश्च रक्तप्रदूषणहेतुभिः | यः शोफः स्यात्| स विद्रधिरिति सम्बन्धः| किम्भूतः शोफः? आह- दुष्टत्वगाद्याश्रयः| तथा स बहिर्वा भवति अन्तर्वा वृत्तो वा आयतो वा||२||

Adhikarana सङ्ख्यासम्प्राप्तिः (३) · Śloka

दोषैः पृथक्समुदितैः शोणितेन क्षतेन च||३||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

स च विद्रधिर्वातादिभिः सन्निपातेन रक्तेन क्षतेन चेति षड्विधः|| ३||

Adhikarana बाह्यविद्रधिलक्षणम् (४) · Śloka

बाह्योऽत्र तत्र तत्राङ्गे दारुणो ग्रथितोन्नतः||४||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तत्र-तत्र नाभ्यादावङ्गे|| ४||

Adhikarana अन्तर्विद्रधिलक्षणम् (५) · Śloka

आन्तरो दारुणतरो गम्भीरो गुल्मवद्धनः| वल्मीकवत्समुच्छ्रायी शीघ्रधात्यग्निशस्त्रवत्||५||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

गम्भीरोऽवगाढः|| ५||

Adhikarana विद्रधेः स्थानानि (६) · Śloka

नाभिबस्तियकृत्प्लीहक्लोमहृत्कुक्षिवंक्षणे| स्याद्दृक्कयोरपाने वा ||६||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

नाभ्याद्युभयस्यापि विद्रधेः स्थानम्|| ६||

Adhikarana वातजविद्रधिलक्षणम् (७) · Śloka

वातात्तत्रातितीव्ररुक्| श्यावरुणाश्चिरोत्थानपाको विषमसंस्थितिः| व्यधच्छेदभ्रमानाहस्पन्दसर्पणशब्दवान्||७||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

वातात्तत्रेत्यादि|| ७||

Adhikarana पित्तजविद्रधिलक्षणम् (८) · Śloka

रक्तताम्रासितः पित्तात्तृण्मोहज्वरदाहवान्| क्षिप्रोत्थानप्रपाकश्च ||८||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

वातविद्रधिलक्षणम्| रक्तताम्रेत्यादिपित्तात्|| ८||

Adhikarana कफजविद्रधिलक्षणम् (९) · Śloka

पाण्डुः कण्डूयुतः कफात्| सोत्क्लेशशीतकस्तम्भजृम्भाऽऽरोचकगौरवः| चिरोत्तानविदाहश्च||९||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

पाण्डुकण्ड्वित्यादि विदाहान्तं कफात्| विदाहः पाकाभिमुखत्वम्|| ९||

Adhikarana सन्निपातजविद्रधिलक्षणम् (१०) · Śloka १०

सङ्कीर्णः सन्निपाततः||१०||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

सन्निपातजो विद्रधिर्लक्षणैः सङ्कीर्णः|| १०||

Adhikarana सम्भवानुरोधं बाह्याभ्यन्तरविद्रधिलक्षणानि विज्ञेयानि (११) · Śloka ११

सामर्थ्याच्चात्र विभजेद्वाह्याभ्यन्तरलक्षणम्||११||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

अस्माद्यथोक्तलक्षणाद्विद्रधेर्बाह्याभ्यन्तरलक्षणं सामर्थ्यात् सम्भवाद्विभजेत् विभक्तं कुर्य्यात्| अनेनैतदुक्तं भवति-यद्यपि बाह्याभ्यन्तरविशेषाऽविवक्षया वातादिविद्रधेर्लक्षणमुक्तं तथापि यद्बाह्य उपपद्यते रक्तताम्रत्वादि तत्तत्रैव विज्ञेयम्| यत्त्वाभ्यन्तर एवोपपद्यते आनाहमोहारोचकादि तत्तत्रैव लिङ्गम्| यत्तु क्षिप्रोत्थानप्रपाकाद्युभयत्र सम्भवति तदुभयत्रापि लिङ्गमिति|| ११||

Adhikarana स्त्रीणां रक्तविद्रधेर्लक्षणम् (१२) · Śloka १२

कृष्णस्फोटावृतः श्यावस्तीव्रदाहरुजाज्वरः| पित्तलिङ्गोऽसृजा बाह्यः स्त्रीणामेव तथान्तरः||१२||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

कृष्णस्फोटावृतत्वादि रक्तविद्रधेर्लक्षणम्| स च बाह्योऽभ्यन्तरो वा स्त्रीणामेव भवति, न तु पुरुषाणामिति रक्तविद्रधिः||१२||

Adhikarana क्षतविद्रर्धेर्निदानादि (१३) · Śloka १३

शस्त्राद्यैरभिघातेन क्षते वाऽपथ्यकारिणः| क्षतोष्मा वायुविक्षिप्तः सरक्तं पित्तमीरयन्| पित्तासृग्लक्षणं कुर्य्याद्विद्रधिं भूर्य्युपद्रवम्||१३||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

शस्त्रादिभिरित्यादि| क्षतविद्रधेर्लक्षणम्| भूरयो भूयांस उपद्रवाः| पश्चात्कालभाविनः कष्टा रोगा यस्मिन् स तथोक्तः||१३||

Adhikarana विद्रधेरधिष्ठानभेदादुपद्रवभेदः (१४) · Śloka १४

तेषूपद्रवभेदश्च स्मृताऽधिष्ठानभेदतः||१४||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तेषु च विद्रधिष्वाश्रयVVविशेषवशादाश्रयिविशेषः| तस्मादुपद्रवविशेषभेदः|| १४||

Adhikarana विद्रधेः स्थानानुरोधेनोपद्रवाः (१५) · Śloka १५

नाभ्यां हिध्मा भवेद्धस्तौ मूत्रं कृच्छ्रेण पूति च| श्वासो यकृति रोधस्तु प्लीह्न्युच्छ्वासस्य तृट् पुनः| गलग्रहश्च क्लोम्नि स्यात्सर्वाङ्गप्रग्रहो हृदि| प्रमेहस्तमकः कासो हृदयोद्धृट्टनव्यथा| कुक्षिपार्श्वान्तरांसार्तिः कुक्षाVवाटोपजन्म च| सक्थ्नोर्ग्रहो वंक्षणयोर्वृक्कयोः कटिपृष्ठयोः| पाऱ्श्वयोश्च व्यथापायौ पवनस्य निरोधनम्||१५||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

एतदेव नाभ्यां हिध्मेत्यादिना दर्शयति| हृद्व्यथान्तं हृदि|

Adhikarana आमादिविद्रधिषु शोफलक्षणातिदेशः (१६) · Śloka १६

आमपक्वविदग्धत्वं तेषां शोफवदादिशेत्||१६||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तेषां विद्रधीनामामत्वं पक्वत्वं विदग्धत्वं च सूत्रोक्तैः शोफस्याऽऽमादिलिङ्गैरादिशेत्| शोफोऽल्पोष्णरुगित्यादिना (अ. सं. सू. - ३८)| विदग्धत्वं पाकाभिमुखत्वम्|| १६||

Adhikarana स्थानभेदेन विद्रधीनां प्रस्रावमार्गाः (१७) · Śloka १७

नाभेरुर्ध्वं मुखात्पक्वाः प्रस्रवन्त्यधरे गुदात्| गदाऽऽस्यान्नाभिजो ||१७||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

नाभेरुर्ध्वं ये विद्रधयस्ते पक्वाः सन्तो मुखाद्दोषं स्रवन्ति| नाभेश्च येऽधरास्ते दोषं गुदात् स्रवन्ति| नाभिजो मध्यस्थत्वान्मुखाच्च गुदाच्च दोषं स्रवति|| १७||

Adhikarana विद्रधौ क्लेदाद्दोषज्ञानाय व्रणक्लेदलक्षणातिदेशः (१८) · Śloka १८

विद्याद्दोषं क्लेदाच्च विद्रधौ| यथास्वं व्रणवत् ||१८||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

अस्मिन् विद्रधौ वातादिकं दोषमनुद्धारं क्लेदात् कोथात् विद्यात्| यथास्वं व्रणवत्|| १८||

Adhikarana असाध्यविद्रधयः (१९) · Śloka १९

तत्र विवर्ज्यः सन्निपातजः| पक्वो हृन्नाभिबस्तिस्थो भिन्नोऽन्तर्बहिरेव वा| पक्वश्चान्तःस्रवन् वक्त्रात्क्षीणस्योपद्रवान्वितः||१९||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

व्रणे यथा क्लेदस्रुतिविशेषेण वाताद्यन्वयोऽनुमीयते एवमत्रापि| व्रणे च वक्ष्यति (अ. सं. उ. - २९) - मस्तुमांसपुलकाम्बुतुल्यतन्वल्पसंस्रुतीत्यादि| क्षीणस्योपद्रवान्वित इत्येवमन्ते ग्रन्थे विवर्ज्य इत्यनुवर्त्तते|| १९||

Adhikarana स्तनविद्रधिः (२०) · Śloka २०

एवमेव स्तनसिराविवृताः प्राप्य योषिताम्| सूतानां गर्भिणीनां वा सम्भवेच्छ्वयथुर्घनः| स्तने सदुग्धेऽदुग्धे वा बाह्यविद्रधिलक्षणः| नाडीनां सूक्ष्मवक्रत्वात्कन्यानान्तु न जायते||२०||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

एवमेवेत्यादि| स्त्रीणां स्तनविद्रधिलक्षणम्| स बाह्यविद्रधिलक्षणो भवति| कन्यकानां नैव जायते| तासां नाड्यः सूक्ष्ममुखा भवन्ति| इत्युक्ता विद्रधयः|| २०||

Adhikarana वृद्धिनिदानम्, वृद्धेः सम्प्राप्तिः (२१) · Śloka २१

क्रुद्धो रुद्धगतिर्वायुः शोफशूलकरश्चरन्| मुष्कौ वंक्षणतः प्राप्य फलकोशाभिवाहिनीः| प्रपीड्य धमनीर्वृद्धिं करोति फलकोशयोः||२१||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

क्रुद्ध इत्यादिना वृद्धेर्लक्षणमुच्यते| स्वकारणात् क्रुद्धः सन् कारणान्तरेण रुद्धगतिः| मुष्कौ वृषणौ फलकोशौ|| २१||

Adhikarana वृद्धिप्रभेदाः (२२) · Śloka २२

दोषास्रमेदोमूत्रान्त्रैः स वृद्धिः सप्तधा गदः| मूत्रान्त्रजावप्यनिलाद्धेतुभेदस्तु केवलम्||२२||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

वृद्धिर्नाम गदो वातादिभिरन्त्रात्यैः सप्तधा भवति| सुबोधम्|

Adhikarana वातजवृद्धिलक्षणम् (२३) · Śloka २३

वातपूर्णदृतिस्पर्शो रूक्षो वातादहेतुरुक्||२३||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

वातपूर्णदृतीत्यादि वातात्| दृतिर्भस्त्रा| अहेतुरुक् बाह्येन हेतुना विना अकस्माद् रुग्यत्र|| २३||

Adhikarana पित्तजवृद्धिलक्षणम् (२४) · Śloka २४

पक्वोदुम्बरसङ्काशः पित्ताद्दाहोष्मपाकवान्||२४||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

पक्वोदुम्बरसङ्ककाश इत्यादि पित्तात्|| २४||

Adhikarana कफजवृद्धिलक्षणम् (२५) · Śloka २५

कफाच्छीतो गुरुस्निग्धःकण्डूमाङ्कठिनोऽल्परुक्||२५||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

शीत इत्यादि कफात्|| २५||

Adhikarana रक्तजवृद्धिलक्षणम् (२६) · Śloka २६

कृष्णस्फोटावृतः पित्तवृद्धिलिङ्गश्च रक्ततः||२६||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

कृष्णेत्यादि रक्तात्|| २६||

Adhikarana मेदोजवृद्धिलक्षणम् (२७) · Śloka २७

कफवन्मेदसा वृद्धिर्मृदुस्तालफलोपमः||२७||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

कफवदित्यादि मेदसः|| २७||

Adhikarana मूत्रजवृद्धिलक्षणम् (२८) · Śloka २८

मूत्रधारणशीलस्य मूत्रजः स तु गच्छतः| अम्भोभिः पूर्णदृतिवत्क्षोभं याति सरुङ्मृदुः| मूत्रकृच्छ्रमधः स्याच्च वलयः फलकोशयोः||२८||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

मूत्रधारणशीलस्येत्यादि मूत्रवृद्धेर्लक्षणम्|| २८||

Adhikarana आन्त्रवृद्धेर्निदानादि (२९) · Śloka २९

वातकोपिभिराहारैः शीततोयावगाहनैः| धारणेरणभाराध्वविषमाङ्गप्रवर्तनैः| क्षोभणैः क्षुभितोऽन्यैश्च क्षुद्रान्त्रावयवं यदा| पवनो विगुणीकृत्य स्वनिवेशादधो नयेत्| कुर्य्याद्वंक्षणसन्धिस्थो ग्रन्थ्याभं श्वयथुन्तदा||२९||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

वातकोपिभिरित्याद्यान्त्रवृद्धेर्लक्षणम्| धारणे रणे वायोरेव| सुबोधमन्यत्|| २९||

Adhikarana आन्त्रवृद्धेरुपेक्षायां सम्भाव्यमसाध्यत्वञ्च (३०) · Śloka ३०

उपेक्षमाणस्य च मुष्कवृद्धि माध्यमानरुक्स्तम्भवती स वायुः| प्रपीडितोऽन्तःस्वनवान् प्रयाति प्रध्मापयन्नेति पुनश्च मुक्तः| आन्त्रवृद्धिरसाध्योऽयं वातवृद्धिसमाकृतिः| रूक्षकृष्णारुणसिरा तन्तुजालगवाक्षितः||३०||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

उपेक्षमाणस्याचिकित्स्यमानस्याध्मानादिमतीं मुष्कवृद्धिं कुर्य्यादिति सम्बन्धः| उक्तो वृद्धिः|| ३०||

Adhikarana गुल्मनिदानम्, गुल्मानां सङ्ख्या (३१) · Śloka ३१

गुल्मोऽष्टधा पृथग्दोषैः संसृष्टैर्नियचं गतैः| आर्त्तवस्य च दोषेण नारीणां जायतेऽष्टमः||३१||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

अनन्तरं शोफासामान्याद्गुल्म उच्यते| गुल्मोऽष्टधेत्यादि सङ्ख्यारूपा सम्प्राप्तिः| तदेवाष्टधात्वं दर्शयति-पृथग्दोषैरित्यादिना| स च वातादिभेदेन सप्तविधः| स्त्रीणामेवार्त्तवस्य रजसो दोषेणाष्टमः|| ३१||

Adhikarana गुल्मनिदानसम्प्राप्त्यादि (३२) · Śloka ३२

अथ यो ज्वरातिसारादिभिर्वमनादिभिर्वा कर्मभिः कर्शितो वातलान्याहारयत्याहाराभिलाषी वा शीतमुदकं पिब- त्यन्नपानानन्तरं वा लङ्घनप्लवनव्यवाययानयानादीन् देहविक्षोणीभिणः सेवतेऽनुदीर्णां वा छर्दिमुदीरयत्यु- दीर्णान् वा वातादीन् निःश्वासोच्छ्वासौ वा निगृह्णात्य- स्नेहपूर्वं वा वमनविरेचने करोति| तथाशोधित एव वाऽतिविदाहिनोऽभिष्यन्दिनो वा निषेवते| तस्य यथास्वं वातप्रधानाः कुपिता दोषाः पृथक् संसृष्टा समस्ताः सरक्ता वा महास्रोतोऽनुप्रविश्याऽऽवृत्योर्ध्वमधश्च मार्ग- मवश्यं शूलमुपजनयन्तो गुल्ममभिनिर्वर्तयन्ति| यतश्च तस्मिन् शूलविद्ध इव व्यथते तीव्रवेदनार्दितः कृच्छ्रो- च्छ्वासः तस्माच्छूलमित्युच्यते||३२||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

अथेत्यादिना गुल्मानां विस्तरेण निदानं सम्प्राप्तिश्चोयते| य एवं करोति तस्य वातप्रधाना दोषा गुल्ममभिनिर्वर्तयन्ति| स च गुल्मो नाम्ना शूलमित्युच्यते| कुतः? आह-यतश्चेत्यादि|| ३२||

Adhikarana गुल्मसामान्यस्वरूपविवरणम् (३३) · Śloka ३३

तत्रातिकर्शनात् कफपित्ताभ्यां वा मार्गनिरोधाल्लब्धा- श्रयो वायुरुत्प्लुतो रौक्ष्यात् कठिनीभूतः स्वाश्रये स्वतन्त्रः परतन्त्रो वा पित्तश्लेष्माश्रये स्पर्शोपलभ्यः पिण्डितत्वादमूर्तोऽपि मुर्त्ततामिवोपगतो ग्रन्थिरूपेणावतिष्ठमानो गुल्मसंज्ञा लभते||३३||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

अथ कोऽसौ गुल्मः यमभिनिर्वर्तयन्ति दोषा इत्याह-तत्रातिकर्शनादित्यादि| द्वौ हि हेतू वातस्य, कर्शनं मार्गरोधश्च|| ३३||

Adhikarana गुल्मस्य स्थानानि (३४) · Śloka ३४

तस्य पञ्च स्थानानि बस्तिर्नाभिः पार्श्वे हृदयञ्च||३४||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तस्य गुल्मस्य बस्त्यादीनि पञ्चाश्रयाः|| ३४||

Adhikarana गुल्मपूर्वरूपाणि (३५) · Śloka ३५

अथास्य पूर्वरूपाणि-सदनमग्निशरीरयोररुचिः सौहित्याऽसहिष्णुताकुक्षिशूलमाध्मानमुद्गिरणं बहुशो विदग्धेऽन्ने छर्दिराटोपो मलस्य प्रादुर्भावोऽप्रवृत्तिश्च||३५||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

सदनादीनि सामान्येन पूर्वरूपाणि| सौहित्यं तृप्तिः तदसहिष्णुत्वम्| उद्गिरणं छर्दनम्| मलस्य पुरीषस्य| प्रादुर्भावो बहिरप्रवृत्तिश्च|| ३५||

Adhikarana वातगुल्मलक्षणम् (३७) · Śloka ३७

तत्र वातात् सूच्येव च शङ्कुनेव च व्यधोमन्याशिरः- शङ्खशूलज्वराङ्गमर्दप्लीहाटोपान्त्रकूजोदावर्तोच्छ्वासोप- रोधमुखशोषस्तब्धगात्रता वायुकालेषूपद्रववृद्धिर्विष- माग्निता कृष्णारुणपरुषत्वङ्नखादित्वं गुल्मस्य चलत्वा- द्वायोर्नियतस्थानसंस्थानोदयप्रलयाल्पमहारुजः| पिपी- लिकापरिगत इव तोदस्फुरणबहुलो विस्तारयतीव स्व- देशे चर्म कदाचित्कदाचित् सङ्कोचयतीव हर्षयति रोमाणि वेदनातिप्रवृतौ तु सर्वस्मिन्नपि देहे प्रायो बस्त्याश्रयश्च भवति||३७||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

००

Adhikarana पित्तगुल्मलक्षणम् (३८) · Śloka ३८

पित्तद्दाहो धूमकोऽम्लकस्तृष्णा ज्वरः स्वेदो विड्भेदो मूर्च्छा शीतोपशयता हरितहारिद्रत्वगादित्वं गुल्मश्चास्य तप्तायःपिण्ड इव तमवकाशं दहति दूयते धूमायत ऊष्मायते शिथिल इव व्रण इवास्पर्शसहो निर्लोमा प्रायो नाभ्याश्रयश्च||३८||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

दाहादि पित्ताद्गुल्मे लिङ्गम्| धूमको धूमायनम्| धूमकाऽम्लकयोर्लक्षणमुक्तं (अंसंसूं - २०) दोषभेदीये| त्वङ्नखादिषु हरितहारिद्रो वर्णः स्यात्|| ३८||

Adhikarana कफगुल्मलक्षणम् (३९) · Śloka ३९

कफात्स्तैमित्यमरोचकाविपाकौ हृदयोपलेपः शीत- ज्वरस्तृप्तिः सदनं कासो हृल्लासः पीनसो निद्राऽम्लस्यं नखादिशुक्लता| गुल्मश्च सुप्तस्थिरगुरुकठिनोऽव- गाढोऽल्परुक्प्रायो हृत्पार्श्वाश्रयश्च||३९||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

कफाद्गुल्मे स्तैमित्यादिकं लिङ्गम्| अवगाढो घनः|| ३९||

Adhikarana संसर्गसन्निपातगुल्मे (४०) · Śloka ४०

संसृष्टलिङ्गः संसर्गात्| स त्रिविधः||४०||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

संसर्गजेषु त्रिषु गुल्मेषु यथास्वं संसर्गलक्षणानि भवन्ति|

Adhikarana निचयगुल्मलक्षणम् (४१) · Śloka ४१

सर्वलिङ्गनिचये निचयगुल्मः सोऽसाध्यः||४१||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

सर्वलिङ्गमिश्रीभावे निचयगुल्मः सोऽसाध्यः|| ४१||

Adhikarana स्त्रिया एव रक्तगुल्मसम्भवे हेतुः (४२) · Śloka ४२

रक्तगुल्मस्तु गर्भकोष्ठार्त्तवागमनवैशेष्यात्पारतन्त्र्या- दवैशारद्यादुपचारानुरोधाच्च स्त्रिया एव भवति||४२||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

रक्तगुल्मस्तु गर्भकोष्ठार्त्तवागमनादिहेतोः स्त्रिया एव भवति, न पुरुषस्य| यथोक्तविपर्ययादवैशारद्यादि तत्र सातिशयं विद्यते| गर्भकोष्ठे त्वार्त्तवागमनवैशेष्येण| विशारदा व्युत्पन्नबुद्धिः||४२||

Adhikarana रक्तगुल्मनिदानादि (४३) · Śloka ४३

तत्र यदा सा ऋतुमती नवप्रसूता योनिरोगिणी वा वातलान्याऽऽसेवेत तदाऽस्या वायुः प्रकुपितो योन्या मुखमनुप्रविश्यार्त्तवमुपरुणद्धि| तदुपरुध्यमानं मासे मासे कुक्षिमभिनिर्वर्तयति| गर्भलिङ्गानि च हृल्लासतन्द्राङ्ग- साददौहृदस्तन्यदर्शनादीनि| वायुसंसर्गात् पुनः पित्तैक- प्रकोपतया च वातपित्तगुल्मरूपाणि क्रमाच्छूलस्तम्भ- दाहातीसारादीनि गर्भाशये च सुतरां शूलं तथा योन्या दौर्गन्ध्यमास्रावञ्च करोति| गुल्मश्च न गर्भ इवाङ्गैः पिण्डित एव तु चिरेण सशूलं स्पन्दते| गुल्म एव वर्द्धते न कुक्षिः||४३||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तत्रेत्यादिना निदानं सम्प्राप्तिश्चोच्यते| एवं कुपितो वायुःगर्भलिङ्गं कुक्षिमभिनिर्वर्तयतीति सम्बन्धः| गर्भलिङ्गानि हृल्लासादीनि चाभिनिर्वर्तयति वातस्य संसर्गात्पित्तकोपतया च| तच्छोणितं क्रमाद्वातपित्तजानि शूलादीनि करोति| गर्भशये सुतरां शूलमयोन्याः स्रावादि च कुरुते| अस्यागुल्मः गर्भ इवाङ्गैर्न स्फुरति| पिण्डीभूतः शूलवाँश्च चिरेण स्पन्दते| अस्याः कुक्षिर्न वर्द्धते| गुल्मस्तु वर्द्धत एव|| ४३||

Adhikarana गुल्मविद्रध्योर्भेदकलक्षणम् (४४) · Śloka ४४

स्वदोषाधिष्ठानश्च सर्वो भवति गुल्मः| तस्माच्चिरेण नैव वा पाकमेति| भृशं दुष्टरक्ताश्रयत्वात्तु विद्रधिः शीघ्रपाको भवतीति||४४||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

यतः सर्वो गुल्मः स्वदोषाधिष्ठानः स्वदोषाश्रयो भवति तस्माच्चिरेण पाकमेति भजते न वा पाकं भजते| सपाको भवत्यपाक एव वा| विद्रधिरनन्यदोषारब्धोऽपि दुष्टरक्ताश्रयो भवति| अतः शीघ्रं पच्यते| शीघ्रविदाहित्वादेव च विद्रधिरित्यभिधीयते| विदाहश्च पाकः| भृशग्रहणं गुल्मे विद्रध्यपेक्षया स्वल्परक्तकोपप्रदर्शनार्थम्|| ४४||

Adhikarana अन्तर्गुल्मलक्षणम् (४५) · Śloka ४५

भवति चात्र- गुल्मेऽन्तराश्रये बस्तिकुक्षिहृत्पार्श्ववेदनाः| अग्निवर्णबलभ्रंशो वेगानांञ्चाऽप्रवर्तनम्||४५||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

बस्तिवेदनाद्यन्तराश्रयलिङ्गम|| ४५||

Adhikarana बाह्यगुल्मलक्षणम् (४६) · Śloka ४६

अतो विपर्य्ययो बाह्ये कोष्ठाङ्गेषु तु नाऽतिरुक्| वैवर्ण्यमवकाशस्य बहिरुन्नतताधिकम्||४६||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

एतद्विपर्य्ययात् कोष्ठरुगादिभिर्बाह्यं विद्यात्|| ४६||

Adhikarana आनाहलक्षणम् (४७) · Śloka ४७

साटोपमत्युग्ररुजमाध्मानमुदरे भृशम्| ऊर्ध्वाधो वातरोधेन तमानाहं प्रचक्षते||४७||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

सटोपमित्यादिनागुल्मप्रायो भवतीत्याऽऽनाहस्य लक्षणमुच्यते| आटोपो नाभेरधो मन्दसञ्चारवायुता|| ४७||

Adhikarana अष्ठीला-प्रत्यष्ठीलयोर्लक्षणम् (४८) · Śloka ४८

घनोऽष्ठीलोपमो ग्रन्थिरष्ठीलोर्ध्वं समुन्नतः| आनाहलिङ्गस्तिर्य्यक्तु प्रत्यष्ठीला तदाकृतिः||४८||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

घन इत्यादिना गुल्मसादृश्यादष्ठीला-प्रत्यष्ठीलयोर्लक्षणम्||४८||

Adhikarana तूनीप्रतून्योर्लक्षणम् (४९-११) · Śloka ११

पक्वाशयाद्गुदोपस्थं वायुस्तीव्ररुजश्चरन्| तूनी प्रतूनी तु भवेत्स एवातो विपर्य्यये||४९|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्ग- गुल्मनिदानं नामैकादशोऽध्यायः||११||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

पक्वाशयादित्यादि तूनी-प्रतून्योः| स एवेति वायुः| अतएव पक्वाशयात् गुदोपस्थगमनात्| वैपरीत्येन गुदोपस्थात्पक्वाशयं प्रयातीति|| ४९|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां निदानस्थाने एकादशोऽध्यायः