Skip to content

१०. प्रमेहनिदानम्

Adhikarana अथ प्रमेहनिदानं नाम दशमोऽध्यायः |प्रतिज्ञा (१) · Śloka

अथ प्रमेहनिदानं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

उक्तमध्यायारम्भप्रयोजनम्|| १||

Adhikarana प्रमेहप्रभेदाः (२) · Śloka

विंशतिः प्रमेहा भवन्ति| तद्याथा-कफ़ादुदकेक्षुसान्द्र- सुरापिष्टशुक्रासिकताशीतशनैर्लालाप्रमेहा दश| पित्ता- त्क्षारकालनीलहारिद्रमाञ्चिष्ठशोणितमेहाः षट्| वाता- द्वसामज्जहस्तिमधुमेहाश्चत्वारः इति||२||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

विंशतिः प्रमेहाः| सर्वेषाञ्चा प्रमेहाणां श्लेष्माहेतुः| सर्वे च रोगस्वभावान्नावोत्पन्नाः श्लेष्मप्रमेहा भवन्ति| अतः कफ़ादिक्रमेण निर्दिश्यन्ते| दशोदकमेहादयः कफ़ाद्भवन्ति| षट्क्षारादयः पित्तात्| वसादयश्चत्वारो वातादिति|| २||

Adhikarana प्रमेहनिदानम् (३) · Śloka

तेषां यत्किञ्चिदाहारविहारजातं श्लेष्ममेदोमूत्रजननं स हेतुः||३||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तेषामित्यादिना प्रमेहाणां निदानमुच्यते||३||

Adhikarana प्रमेहसम्प्राप्तिः (४) · Śloka

तत्र वातपित्तमेदः क्लेदमांसशुक्रसैरन्वितो बस्तिगतः श्लेष्मा प्रमेहाञ्जनयति| तैः कफशोणिताभ्यां च युक्तं पित्तम्| तैर्वसालसीकामञ्जौजोभिश्च वायुः||४||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तत्रेत्यादिना सम्प्राप्तिः| स्वहेतुदूषितः श्लेष्मा प्राधान्येन यदा प्रमेहान् जनयति ( करोति ) तदा वातादिभिरन्वितः सन् बस्तिमन्वेति| यदा पित्तं तदा तैः पूर्वोक्तैर्वातादिभी रसान्तैः पूर्वोक्तैः कफ़शोणितपित्तान्तैर्वसादिभिश्चान्वितः|| ४||

Adhikarana प्रमेहेषु दोषकोपदूष्यदुष्टिक्रमः (५) · Śloka

त्रयाणामपि दोषाणां श्लेष्मप्रमेहेषु प्राक्प्रकोपमापद्यते| श्लेष्माधिष्ठानत्वान्मूत्रस्य| तद् वृद्धेर्मेद एव च तेन प्रथमं दूष्यतेऽत्यन्तसभागत्वात्| तदनन्तरं देहक्लेदादयः| ततः श्लेष्मादिक्षये पित्तं प्रबलीभवच्छोणितमपि दूषयति| तत् क्षयेऽपि वायुर्वसादीन् धातून् शरीरस्य परमसारभूतान् बस्तिमाकृष्य मूत्रेण सह विसृजति||५||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

सर्वमेहेषु च रोगस्वभावच्छ्लेष्माप्रकोपमापद्यते| पित्तजेऽपि प्रथममल्पं कुपितः श्लेष्मा स्वमल्पं लिङ्गं दर्शयेत्| किञ्चित् कालं श्लेष्मप्रमेहो भूत्वा कालवशात् कफ़ादौ क्षीणे पित्तमेहतां प्रतिपद्यते| तत्रापि रक्तप्रवृतेः| कालेन रक्तक्षयादद्वायुर्वसादीन् देहस्य सारभूतानाऽऽकृष्यान्ते वातप्रमेहान् करोति| एवंक्रमेण दोषाणां कारणत्वं प्रथममेव वातपित्तप्राधान्येनोत्पन्नेऽपि फ़लतः किञ्चित् कफ़ान्वयत्वम्| सभागत्वं सदृशत्वम्|| ५||

Adhikarana प्रमेहाणां साध्यत्वादि तत्र हेतुश्च (६) · Śloka

तस्मात् कफ़पित्तवातजाः क्रमेण साध्ययाप्यासाध्याः| तथा पित्तजाः संसृष्टदोषमेदः स्थानत्वाद् विरुद्धोपक्रम- त्वाच्च| वातजः पुनः क्षीणेषु धातुषु महात्ययतया विरुद्धोपक्रमत्वाच्च| मेदसि तु नातिदुष्टे पित्तजा अपि साध्यतां गच्छेयुः||६||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तत्र कफ़जाः प्रमेहा साध्याः| तस्मादित्युक्ताद्रूपात्| पित्तप्रमेहे तु कफ़ाऽनन्तरजे प्रथममेव पित्तप्राधान्येनोत्पन्ने तथेत्याद्युक्ताद्धेतोर्याप्यत्वम्| तत्रापि मेदसि नाऽतिदुष्टे साध्यत्वमेव| वातप्रमेहाणां धातुक्षयं विनाऽनुत्पत्तैरवश्यं सर्वप्रमेहाणामन्तर्भावः| यथोक्ताच्च हेतोरसाध्यत्वम्|| ६||

Adhikarana सर्वप्रमेहेषु साधारणं लिङ्गम् (७) · Śloka

धातुसम्पर्कात्पुनः सर्वमेहेषु मूत्रमाविलं भूरि च भवति||७||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

यतो धातुसम्पर्कः सर्वेषु तदाविलमूत्रत्वादिसाधारणं लिङ्गम्||७||

Adhikarana दोषदूष्यसंयोगविशेषादिना प्रमेहाणां भेदाः (८) · Śloka

दोषाणां दूष्याणां चोत्कृष्टापकृष्टसंयोगेन मूत्रवर्णरस- स्पर्शगन्धविशेषाद्वर्णानामिव शुक्लकृष्णादीनां शबल- कल्माषादयः प्रमेहाणां प्रभेदा भवन्ति||८||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

दोषाणां च नानाविधात् संयोगान्नानाविधवर्णेत्पत्तिः|| ८||

Adhikarana प्रमेहाणां पूर्वरूपाणि (९) · Śloka

तेषां पूर्वरूपाण्यतिवृद्धिर्नखदीनाम्| जटिलीभावश्च केशा- नाम्| माधुर्य्यमास्यस्य| तालुकण्ठशोषः पिपासा मला- धिक्यं बहिः काये कायच्छिद्रेषु| पाणिपाददाहोऽति- माधुर्य्यात् पिपीलिकोपसर्पणम्| विस्त्रगन्धता च मूत्र- शरीरयोः| शुक्लता च मूत्रे| श्वासनिद्रातन्द्रालस्यप्रकर्षश्च||९||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

नखवृद्धादीनि सर्वप्रमेहाणां पूर्वरूपाणि| मलं प्रसिद्धं बहिःकायभवम्|| ९||

Adhikarana कफजमेहाः, तत्र उदकमेहलक्षणम् (१) · Śloka

तत्र शीतं श्वतेमगन्धमच्छमुदकमिवोदकमेही मेहति|१|

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

००

Adhikarana इक्षुमेहलक्षणम् (१) · Śloka

इक्षुरसमिवाऽतिमधुरं शीतमीषपिच्छिलाविलामिक्षुमेही||१||

🔊 Audio coming soon

Adhikarana सान्द्रमेहलक्षणम् (१०) · Śloka १०

पर्य्युषितं सान्द्रिभवत् सान्द्रमेहि||१०||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

यन्मे तत् पर्य्युषितं सतः परिवासात्सान्द्रं घनं भवति||१०||

Adhikarana सुरामेहलक्षणम् (११) · Śloka ११

सुरातुल्यामुपरि प्रसन्नमधः सान्द्रं सुरामेही|११|

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

००

Adhikarana पिष्टमेहलक्षणम् (११) · Śloka ११

शुक्राभं शुक्रमिश्रं वा शुक्रमेही|११|

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

००

Adhikarana सिकतामेहलक्षणम् (११) · Śloka ११

सरुजं ससिकतं सिकतामेही| प्रायो मधुरमतिशीतं शीतमेही| मन्दं मन्दं शनैः शनैर्मेही| पिच्छिलं तन्तुबद्धमिव लालामेही||११||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तत्रेत्यादिना क्रमेण प्रमेहाणां लक्षणमुच्यते|| ११||

Adhikarana पित्तजमेहाः, क्षारमेहलक्षणम् (१२) · Śloka १२

वर्णगन्धरसस्पर्शैः स्त्रुतक्षारोपमं क्षारमेही||१२||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

स्त्रुतक्षारः क्षारजलम्|| १२||

Adhikarana कालमेहलक्षणम् (१३) · Śloka १३

ऊष्णं मषीकालं कालमेही|१३|

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

००

Adhikarana नीलमेहलक्षणम् (१३) · Śloka १३

सफेनमच्छमम्लं चाषपत्रनीलं नीलमेही|१३|

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

००

Adhikarana हारिद्रमेहलक्षणम् (१३) · Śloka १३

कटुकं सदाहं हरिद्रायुक्तमिव हारिद्रमेही|१३|

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

००

Adhikarana माञ्जिष्ठमेहलक्षणम् (१३) · Śloka १३

विस्त्रं मञ्जिष्ठोदकवर्णमिव मञ्जिष्ठामेही|१३|

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

००

Adhikarana शोणितमेहलक्षणम् (१३) · Śloka १३

विस्त्रमुष्णं सलवणं शोणितसङ्काशं शोणितमेही|१३|

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

००

Adhikarana वातजमेहाः, वासामेहलक्षणम् (१३) · Śloka १३

वसामिश्रं वसां वा वसामेही|१३|

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

००

Adhikarana मज्जमेहलक्षणम् (१३) · Śloka १३

मज्जमिश्रं मज्जानं वा मज्जमेही|१३|

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

००

Adhikarana हस्तिमेहलक्षणम् (१३) · Śloka १३

सलसीकं मधुरवेगं लसीकयैव च विबद्धमनुबद्ध- मजस्त्रं मत्त इव हस्ती स्त्रवति हस्तिमेही||१३||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

लसीका विलीनमेदः प्रायम्||१३||

Adhikarana मधुमेहलक्षणम् (१४) · Śloka १४

ओजः स्निग्धमधुरं तद्रौक्ष्याद्वायुः कषायत्वेनोपसृजति| तेन कषायमधुरानुयतं मध्विवमेहति मधुमेही||१४||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

ओज इत्यादिना मधुमेहलक्षणम्| ओजो नाम प्रधानधातुः| पूर्वोक्तं(अ. सं. शा. - ३४३) प्रसृतमानम्| तत् स्निग्धं मधुरञ्च| वातसंयोगात्तु कषायमधुरं किञ्चित्||१४||

Adhikarana केषाञ्चिन्मतेन मधुमेहस्य द्वैविध्यम् (१५) · Śloka १५

स तु द्विधा कैश्चिदिष्यते| धातुक्षयेणाऽनिलकोपाद् दोषावरेण वा||१५||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

पक्षान्तरबोधनाय कैश्चिदिति||१५||

Adhikarana दोषावृतवातजमधुमेहस्य कृच्छ्रसाध्यत्वम् (१६) · Śloka १६

तदावृतो हि वायुराहारप्रसदमादाय मुहुर्मुहुरनिमित्तं दोषलिङ्गानि वृद्धिक्षयौ चाविर्भावयन् कृच्छ्रसाध्यं मधुमेहं प्रवर्त्तयति||१६||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तदावृतो दोषावृतः| कृच्छ्रसाध्यत्वावरणान्मधुमेहः| धातुक्षयजन्मा त्वसाध्यः||१६||

Adhikarana सर्वहानामुपेक्षया मधुमेहत्वप्राप्त्यादि (१७) · Śloka १७

सर्व एव चोपेक्ष्यमाणा मधुमेहत्वमायान्ति| तस्मात् सर्वेऽपि मधुमेहशब्देनोच्यते| यतः सर्वेष्वपि प्राङ्मध्विव मधुररसश्चास्य देहो भवतीति|१७|

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

००

Adhikarana श्लेष्मजप्रमेहोपद्रवाः (१७) · Śloka १७

तत्र प्रतिश्यायः शरीरशैथिल्यमरोचकाविपाकौ प्रसेकश्छर्दिर्निद्राकासश्च श्लेष्मजाणामुपद्रवा भवन्ति||१७||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

प्रतिश्यायादीनि श्लेष्मप्रमेहोपद्रवाः||१७||

Adhikarana पित्तजप्रमेहोपद्रवाः (१८) · Śloka १८

वृषणावदरणं बस्तिमेढ्रतोदोऽम्लकः पिपासाज्वरो दाहो मूर्च्छातीसारः पाण्डुरोगश्च पित्तजानाम्||१८||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

वृषणावदरणादयः पित्तजे||१८||

Adhikarana वातप्रमेहोपद्रवाः (१९) · Śloka १९

हृद्ग्रहो लौल्यमनिद्रताकम्पः शूलं बद्धपुरीषत्वं शोषः कासः श्वासश्च वातजानाम्||१९||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

हृद्रोगादयो वातजे| लौल्यं विषयगृद्धिः||१९||

Adhikarana प्रमेहिणां पिटकासम्भवः (२०) · Śloka २०

अथैवमस्य मेदःक्लेदादिभिरभिष्यण्णदेहस्य दोषैरनुगतधातोः प्रमेहाभिवृद्धौ मांसलेष्ववकाशेषु सन्धिमर्मसु च प्रदेशविशेषाश्रयत्वात्प्राणापहारिण्यो भूयः कष्टत्मोपद्रवाः दशपिटका जायन्ते सुतरां चाऽधःकाये| तदभिमुखा हि प्रमेहिणां दोषाः| तद्यथा-श्राविका-कच्छपिका-जालिनी-पुत्रिणी-विदारिका-सर्षपिका-मसूरिका-ऽलजी-विनता-विद्रधिश्च||२०||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

अथेत्यादिना प्रमेहाणामुपद्रवभूताः शराविकाद्या दश पिटका जायन्त इत्युच्यते| मासलेष्ववकाशादिषु उर्वादिषु| प्रदेशविशेषाश्रयत्वात्सुकुमारप्रदेशाक्रान्तेः भूयांसः कष्टतमाः| उपद्रवाः पश्चात्कालभाविनो रोगाः यासु तास्तथोक्ताः| तदभिमुखाः अधःकायाभिमुखाः||२०||

Adhikarana शराविकालक्षणम् (२१) · Śloka २१

तत्र श्यावा क्लेदवेदनायुक्ता निम्नमध्योन्नतौष्ठा शरावसंस्थानप्रमाणा शराविका||२१||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तत्र श्यावेत्यादिना तासां क्रमेणलक्षणमुच्यते| शराविका संज्ञापिटका श्यावादिगुणयुक्ता भवति| शरावस्येव संस्थानमाकारःप्रमाणं मानञ्च यस्याः सैवम्||२१||

Adhikarana कच्छपिकालक्षणम् (२२) · Śloka २२

महामूलाऽवगाढाऽर्त्तितोदा श्लक्ष्णा कच्छपपृष्ठनिभा कच्छपिका||२२||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

महामूलेत्यादिकच्छपिकाया लक्षणम्| सुबोधम्| अवगाढो घनः||२२||

Adhikarana जालिनीलक्षणम् (२३) · Śloka २३

महाशयाऽर्त्तितोद स्तब्धा स्निग्धस्राविणी सूक्ष्मच्छिद्रा माससिराजालावृता जालिनी|२३|

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

००

Adhikarana पुत्रिणीलक्षणम् (२३) · Śloka २३

महती पिटकाभिरल्पाभिराचिता पुत्रिणी|२३|

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

००

Adhikarana विदारिकालक्षणम् (२३) · Śloka २३

कठिणा विदारिकन्दवद्वृत्ता विदारिकाः||२३||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

विदारीकन्दं शृगालिकाकन्दम्||२३||

Adhikarana सर्षपिकालक्षणम् (२४) · Śloka २४

शीघ्रा पाका महावेदना सर्षपाकृतिप्रमाणा तद्विधाभिश्च पिटकाभिश्चिता सर्षपिका|२४|

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

००

Adhikarana मसूरिकालक्षणम् (२४) · Śloka २४

मसूरिकारप्रमाणा मसूरिका|२४|

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

००

Adhikarana अलजीलक्षणम् (२४) · Śloka २४

त्वचमुत्थान एव दहन्ती स्फोटैरावृता विसर्पन्ती रक्ताकृष्णाऽतितृण्मोहज्वरकरी दाहभूयिष्ठाऽतिकष्टा चालजी||२४||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

त्वचमुत्थान एवेत्यादिनाऽलजीलक्षणम्||२४||

Adhikarana विनतालक्षणम् (२५) · Śloka २५

महती नीलाऽवगाढरुजाक्लेदा-पृष्ठोदराऽन्यतराधिष्ठानाविनता विनता||२५||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

महतीत्यादिना विनतालक्षणम्||२५||

Adhikarana विद्रधिलक्षणम् (२६) · Śloka २६

विद्रधिस्तु वक्ष्यते ( अ. सं. नि. - ३९९-४१८) पृथगेव||२६||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

विद्रधिस्तु बहुवक्तव्यत्वात्||२६||

Adhikarana विदारिकान्तानां दुस्सहत्वम् (२७) · Śloka २७

तासामाद्याः पञ्चातिबलश्लेष्ममेदः सम्भवेन| मूलव्याध्येकरूपत्वात् तद्वद्धिकारितया दुःसहाः||२७||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तासां पिटकानामाद्याः पञ्च विदारिकान्ता अतिबलश्लेष्ममेदः प्रभवत्वादिहेतोर्दुः सहा भवन्ति||२७||

Adhikarana सर्षपिकादीनां सहत्वम् (२८) · Śloka २८

न त्वितराः| पित्तोल्बणतयाऽल्पफमेदोभावात्||२८||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

इतराः सर्षपिकाद्याः पञ्च| न तु दुःसहाः पित्तोल्बणत्वादिहेतोः||२८||

Adhikarana प्रमेहानुगुणं पिटकासु दोषोद्रेकः (२९) · Śloka २९

प्रमेहवशाच्च पिटकासु यथास्वं दोषोद्रेको भवतीति||२९||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

आसां च पिटकानां प्रमेहवशाद्दोषोद्रेको भवति| येनैव प्रमेहेण सह वर्तन्ते तद्दोषा एवं भवन्तीत्यर्थः||२९||

Adhikarana केवलमेददुष्ट्यापि पिटकोत्पत्यादि (३०) · Śloka ३०

भवति चात्र श्लोकः-- प्रमेहेण विनाप्येता जायन्ते दुष्टमेदसः||३०||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

भवति चात्रेति तन्त्ररीतिः| प्रमेहेणेत्यादि| एताः पूर्वोक्ताःपिटकाः| दुष्टमेदसः पुरुषस्य प्रमेहेण विनाऽपि जायन्ते||३०||

Adhikarana पिटकानां वस्तुपरिग्रहेण लक्ष्यत्वम् (३१) · Śloka ३१

तावच्च नोपलक्ष्यन्ते यावद्वस्तुपरिग्रहः||३१||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तावदित्यादि| एताः शराविकाद्याः पिकासतावन्न लक्षन्ते यावद्वस्तुपरिग्रहः| एतदुक्तं भवति-आसां पिटकानां स्वरूपानुरोधाद् व्रणवस्तूनि त्वग्रक्तमांसमेदोमज्जासिरासिरास्नाय्वादीनि| दोषाः- सन्दूष्य उत्तानतो गम्भीरतो वा कर्तुं प्राप्ताः| तदा कालेन सन्दूषणं न निर्वृत्तं तावन्न लक्ष्यन्ते यावता कालेन सन्द्Zऊषणं निर्वृत्तं तदा लक्ष्यन्ते| आसाञ्च वस्तुपरिग्रहत्वात् पूर्वरूपासम्भवः| वस्तुपरिग्रहः कठिनाभोगग्रहणम्| आसां च प्रमेहलक्षणान्वयेन दोषान्वयोऽप्यूहः||३१||

Adhikarana रक्तपित्ते प्रमेहभ्रान्तिनिरासः (३२) · Śloka ३२

हरिद्रावर्णं रक्तं वा मेहप्राग्रूपवर्जितम्| योमूत्रयेन्न तं मेहं रक्तपित्तं तु तं विदुः||३२||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

हारिद्रवर्णमित्यादिना सम्भवद् भ्रान्तिनिवृत्तिं करोति| सुबोधम्||३२||

Adhikarana मधुमेहस्य कफसम्भवत्वं, वातसम्भवत्वञ्च (३३) · Śloka ३३

दृष्ट्वा प्रमेह मधुरं सपिच्छं मधूपमं स्याद्विविधो विचारः| सम्पूणाच्छ्लेष्मसमुद्भवः स्यात् क्षीणेषु दोषेष्वनिलात्मको वा||३३||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

००

Adhikarana प्रमेहेषु दोषभेदेन सध्यासाध्ये याप्यत्वञ्च (३४-१०) · Śloka १०

अपूर्वरूपाः कफपित्तमेहाः क्रमेण ये वातकृताश्च मेहाः| साध्या न ते पित्तकृतास्तु याप्याः सध्यास्तु मेदो यदि नाऽतिदुष्टम्||३४|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां निदानस्थाने प्रमेहनिदानं नाम दशमोऽध्यायः||१०||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

सर्वमेहेषु च रोगस्व्भावच्छ्लेष्मा प्रकोपमाद्यते| तत्र यदान्यदोषापेक्षया स्वल्पः प्रकोपो भवति यदा प्रथमं भवन्नपि श्मेष्मा स्वल्पं लिङ्गं दर्शयेत्| यदा तु न स्वल्पः तदा प्रथमं सम्पूर्ण एव श्लेष्मप्रमेहो भूत्वा कालवशात्कफादौक्षीणे पित्तमेहतां देहस्य सारभूतानामृष्यान्ते वातप्रमेहान् करोतीति क्रमेणेत्युक्तम्||३४|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां निदानस्थाने दशमोऽध्यायः