Skip to content

२६. सद्योव्रनप्रतिषेधाध्यायः

Adhikarana अध्यायोपक्रमः · Śloka

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

व्रणप्रक्रमात् सद्योव्रणप्रतिषेधं व्याचिख्यासुराह-

Adhikarana सद्योव्रणप्रतिषेधाध्यायः,सद्योव्रणानां कारणम् (२-१) · Śloka

अथातः सद्योव्रणप्रतिषेधं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२| ) सद्योव्रणा ये सहसा सम्भवन्त्यभिघाततः| अनन्तैरपि तैरङ्गमुच्यते जुष्टमष्टधा||१||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अभिघातात्सहसैव ये सद्योव्रणा जायन्ते, असङ्ख्यैरपि तैर्व्रणैः शरीरं जुष्टमष्टधा कथ्यते|

Adhikarana सद्यो अष्टौ भेदा धृष्टादयः (२) · Śloka

तानेवाष्टौ प्रकारानाह घृष्टावकृत्तविच्छिन्नप्रविलम्बितपातितम्| विद्धं भिन्नं विदलितं|२|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-घृष्टेत्यादि|

Adhikarana १ धृष्टस्य लक्षणम् २ अवकृत्तस्य लक्षणम् ३ विच्छिन्नस्य लक्षणम् ४ प्रविलम्बितस्य लक्षणम् ५ पातितस्य लक्षणम् ६ विद्धस्य लक्षणम् ७ भिन्नस्य लक्षणम् ८ विदलितस्य लक्षणम् (२-५) · Śloka

अथैषामेव लक्षणान्याह | तत्र घृष्टं लसीकया||२|| रक्तलेशेन वा युक्तं सप्लोषं छेदनात् स्रवेत्| अवगाढं ततः कृत्तं, विच्छिन्नं स्यात्ततोऽपि च||३|| प्रविलम्बि सशेषेऽस्थ्नि, पतितं पातितं तनोः| सूक्ष्मास्यशल्यविद्धं तु विद्धं कोष्ठविवर्जितम्||४|| भिन्नमन्यद्विदलितं मज्जरक्तपरिप्लुतम्| प्रहारपीडनोत्पेषात् सहास्थ्ना पृथुतां गतम्||५||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तेषु मध्ये घृष्टं लसीकया रक्तलेशेन वा युक्तं स्रवेत्, छेदनात् सप्लोषम्| तस्मादवगाढमवकृत्तं स्यात्| ततोऽप्यवगाढतरं विच्छिन्नं स्यात्| प्रविलम्बि सशेषास्थि यत्| पतितं यच्छरीरात् तत् पातितं स्यात्| सूक्ष्ममुखशल्यविद्धं यत्तत् विद्धं क्थ्यते कोष्ठविवर्जितम्| अन्यत् कोष्ठे यद्विद्धं तद्भिन्नमुच्यते| विदलितं तद् गद्यते यन्मज्जरक्तपरिप्लुतं प्रहारादिभिः सहास्थ्ना पृथुतां गतम्|

Adhikarana सद्योव्रणचिकित्सा सद्योव्रणे तीव्रम्यहे यष्टीष्ट तेन सेचनम् सद्यो बलातैलेन वा पुनः पुनः सेचनम् (६) · Śloka

सद्यः सद्योव्रणं सिञ्चेदथ यष्ट्याह्वसर्पिषा| तीव्रव्यथं कवोष्णेन बलातैलेन वा पुनः||६||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अथ एवं व्रणस्वरूपतां ज्ञात्वा, सद्य एवेति सद्योव्रणं तीव्रव्यथं मधुयष्टीघृतेन कोष्णेन सिञ्चेत्| बलातैलेन (हृ.शा.अ. २/४७) वा कोष्णेन पुनः पुनः सिञ्चेत्|

Adhikarana सद्यो क्षतोष्मणः शान्तये कषायादयोलेपादयः (७) · Śloka

क्षतोष्मणो निग्रहार्थं तत्कालं विसृतस्य च| कषायशीतमधुरस्निग्धा लेपादयो हेताः||७||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-क्षतोष्मणश्च शान्तये तत्कालनिर्गतस्य च कषायादयो लेपाद्याः शस्यन्ते|

Adhikarana सद्यो आयते सन्धानार्थं मधुसर्पिः,सद्यो आयते पित्तन्धीश्छ शीताः क्रियाः (८) · Śloka

सद्योव्रणेष्वायतेषु सन्धानार्थं विशेषतः| मधुसर्पिश्च युञ्जीत पित्तघ्नीश्च हिमाः क्रियाः||८||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सद्योव्रणेष्वायतेषु सन्धानाऱ्थं विशेषेण माक्षिकं सघृतं युञ्जीत| तथा पित्तघ्नीश्च शीताः क्रिया हिताः|

Adhikarana सद्यो ससंरम्मे शोधनादि धृष्टे (९) · Śloka

ससंरम्भेषु कर्तव्यमूर्ध्वं चाधश्च शोधनम्| उपवासो हितं भुक्तं प्रततं रक्तमोक्षणम्||९||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-ससंरम्भेषु व्रणेषूर्ध्वमधश्च शोधनं कार्यम्| तथोपवासो विधातव्यः| अवस्थावशात् पूर्वोक्तं भोजनं हितम्| तथा प्रततं रक्तस्रावणं हितम्|

Adhikarana एष विधिः (१०) · Śloka १०

घृष्टे विदलिते चैष सुतरामिष्यते विधिः| तयोर्ह्यल्पं स्रवत्यस्रं पाकस्तेनाशु जायते||१०||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-घृष्टे विदलिते च एषा पूर्वोक्ता चिकित्सा इष्यते| यस्मात्तयोः-घृष्टविदलितयोः, अस्रमल्पं स्रवति| तेन च कारेणेन तयोराशु शीघ्रं पाको जायते|

Adhikarana अन्यत्र विक्षते स्नेहपानादि (११-१२) · Śloka १२

अत्यर्थमस्रं स्रवति प्रायशोऽन्यत्र विक्षते| ततो रक्तक्षयाद्वायौ कुपितेऽतिरुजाकरे||११|| स्नेहपानपरीषेकस्वेदलेपोपनाहनम्| स्नेहबस्तिं च कुर्वीत वातघ्नौषधसाधितम्||१२||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अन्यत्र विक्षते बाहुल्येन बहु रक्तं स्रवति| न च पाकं याति| अनन्तरमत्यन्तरक्तस्रावात् पवने कुपितेऽतिरुजाकरे सति स्नेहपानादिकं स्नेहबस्तिं च वातहरौषधसाधितं कुर्वीत|

Adhikarana सद्योव्रणे इति साप्ताहिकोविधिः ,सद्यो अनन्तरं पूर्वोक्तोविधिः (१३) · Śloka १३

इति साप्ताहिकः प्रोक्तः सद्योव्रणहितो विधिः| सप्ताहाद्गतवेगे तु पूर्वोक्तं विधिमाचरेत्||१३||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-इति-एवं, साप्ताहिकः सद्योव्रणहितो विधिरुक्तः| सप्ताहेन निवृत्त इति "प्राग्वहतेष्ठक्" इति ठक्| सप्ताहादूर्ध्वं गतक्षोभे सति पूर्वोक्तं विधिं-व्रणप्रतिषेधोक्तं, कुर्यात्|

Adhikarana सद्यो इदं सामान्यकर्मं (१४) · Śloka १४

प्रायः सामान्यकर्मेदं वक्ष्यते तु पृथक्पृथक्| |१४|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-प्रायो बाहुल्येन सद्योव्रण एतत्सामान्यं कर्म| स०-पृथक्पृथग् विशेषेण कर्म भणिष्यते|

Adhikarana धृष्टे व्रणे चूर्णानि (१४) · Śloka १४

| घृष्टे रुजं निगृह्याशु व्रणे चूर्णानि योजयेत्||१४||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-घृष्टे व्रणे पीडां प्रागुपशमय्य चूर्णानि योजयेत्|

Adhikarana अवकृत्ते व्रणे कल्कादीनि (१५) · Śloka १५

कल्कादिन्यवकृत्ते तु| |१५|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अवकृत्ते पुनर्व्रणे कल्कादीनि योजयेत्|

Adhikarana विच्छिन्ने प्रविलम्बिनि चसीवनंबन्धनंपीडनं च (१५) · Śloka १५

विच्छिन्नप्रविलम्बिनोः| सीवनं विधिनोक्तेन बन्धनं चानु पीडनम्||१५||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-विच्छिन्ने प्रविलम्बनि च व्रणे सीवनं पूर्वोक्तेन विधानेन, तथा बन्धनं पीडनं च पश्चाद् योजयेत्|

Adhikarana स्फुटितनेत्रस्यासाध्यत्वम्,अस्फुटितलम्बिनि नेत्रे यथा स्थानानिवेशनादि अस्फुतिसर्वनेत्राभिधातजित् यष्टचादिव्कमाजं धृतम् (१६-१८) · Śloka १८

असाध्यं स्फुटितं नेत्रमदीर्णं लम्बते तु यत्| सन्निवेश्य यथास्थानमव्याविद्धसिरं भिषक्||१६|| पीडयेत् पाणिना पद्मपलाशान्तरितेन तत्| ततोऽस्य सेचने नस्ये तर्पणे च हितं हविः||१७|| विपक्वमाजं यष्ट्याह्वजीवकर्षभकोत्पलैः| सपयस्कैः परं तद्वि सर्वनेत्राभिघातजित्||१८||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-स्फुटितं लोचनमसाध्यम्| अस्फुटितं तु यन्नेत्रमवदीर्णंलम्बते, तत् स्वे स्थाने सन्निवेश्याव्याविधसिरं पद्मपत्रान्तरितेन हस्तेन पीडयेत्| अनन्तरमस्यातुरस्य घृतं छागं सक्षीरैर्यष्ट्यादिभिः कल्कैः पक्वं सेचनादौ हितम्| यतस्तद् घृतं परं सर्वनेत्राभिघातजित्|

Adhikarana अवसन्ने नेत्रे गलपीडादि,अवसन्ने क्षतनेत्रवञ्ज क्रिया (१९) · Śloka १९

गलपीडाऽवसन्नेऽक्ष्णि वमनोत्कासनक्षवाः| प्राणायमोऽथवा कार्यः क्रिया च क्षतनेत्रवत्||१९||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-गलपीडनमवसन्ने नेत्रे वमनादयः कार्याः, प्राणायामो वा| तथा क्षनेत्रक्रिया चात्र हिता|

Adhikarana कर्णे स्थानाच्च्युते तैलेन पूरणम् (२०) · Śloka २०

कर्णे स्थानाच्च्युते स्यूते श्रोतस्तैलेन पूरयेत्| |२०|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कर्णे स्थानाद् भ्रष्टे स्यूते सति तैलेन श्रोतः पूरयेत्|

Adhikarana कृकाटियां छिन्नायां सीवनादि,कृका आजेन सर्पिषा परिषेकःकृका उष्णानोऽन्नानि भुञ्जीतकृका तुयन्त्रितः स्वप्यात् (२०-२२) · Śloka २२

| कृकाटिकायां छिन्नायां निर्गच्छत्यपि मारुते||२०|| समं निवेश्य बध्नीयात् स्यूत्वा शीघ्रं निरन्तरम्| आजेन सर्पिषा चात्र परिषेकः प्रशस्यते||२१|| उत्तानोऽन्नानि भुञ्जीत, शयीत च सुयन्त्रितः| |२२|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कृकाटिकायां छिन्नायां वातेऽपि निर्याते सति समं स्थापयित्वा स्यूत्वा च निरन्तरं शीघ्रं बध्नीयात्| अत्राजेन घृतेन च परिषेकः श्रेष्ठः| उत्तानाः सन् भोजनं भुञ्जीत| सुयन्त्रितश्च स्वप्यात्|

Adhikarana शाकासु तिर्यक्स्थे धाते सीवनादि (२२-२३) · Śloka २३

| घातं शाखासु तिर्यक्स्थं गात्रे सम्यङ्निवेशिते||२२|| स्यूत्वा वेल्लितबन्धेन बध्नीयाद्धनवाससा| चर्मणा गोष्फणाबन्धः कार्यश्चासङ्गते व्रणे||२३||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-शाखासु हतमातुरं तिर्यक्स्थितं शरीरे सम्यक्स्थापिते स्यूत्वा वेल्लितबन्धेन घनेन वाससा बध्नीयात्| असङ्गते व्रणे चर्मणा गोष्फणाबन्धो विधेयः|

Adhikarana विलम्बिमुष्कस्य सीवनादि (२४-२५) · Śloka २५

पादौ विलम्बिमुष्कस्य प्रोक्ष्य नेत्रे च वारिणा| प्रवेश्य वृषणौ सीव्येत् सेवन्या तुन्नसंज्ञया||२४|| कार्यश्च गोष्फणाबन्धः कट्यामावेश्य पट्टकम्| स्नेहसेकं न कुर्वीत तत्र क्लिद्यति हि व्रणः||२५||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-विलम्बुमुष्कस्य पादौ नेत्रे च वारिणा प्रेक्ष्य वृषणौ प्रवेश्य सीव्येत्| कथम् ? तुन्नसंज्ञया सेवन्या| तथा कट्यां पट्टकमासज्य गोष्फणाबन्धं कुर्यात्| स्नेहसेकं न कुर्वीत| यतः स्नेहसेके सत्यस्मिन् व्रणः क्लिद्यति|

Adhikarana विलम्बि कालानुसार्यादितैलेनरोपणम् (२६) · Śloka २६

कालानुसार्यगुर्वेलाजातीचन्दनपर्पटैः| शिलादार्व्यमृतातुत्थैः सिद्धं तैलं च रोपणम्||२६||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कालानुसार्यादिभिः कल्कितैः पक्वं तैलं वृषणयो रोपणम्|

Adhikarana निःशेषतः च्छिन्नायां शाखायां तैलान द्ग्ध्वा कोशबन्धनादि (२७) · Śloka २७

छिन्नां निःशेषतः शाखां दग्ध्वा तैलेन युक्तितः| बध्नीयात् कोशबन्धेन ततो व्रणवदाचरेत्||२७||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-निःशेषेण छिन्नां शाखां दग्ध्वा तैलेन युक्त्या कोशबन्धेन बध्नीयात्| अनन्तरं व्रणमिवाचरेत्|

Adhikarana विद्धे शल्याह्रते व्रणवत् क्रिया (२८) · Śloka २८

कार्या शल्याहृते विद्धे भङ्गाद्विदलिते क्रिया| |२८|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-विद्धे शल्याहृते सति भङ्गाद्विदलिते क्रिया कार्या|

Adhikarana विदलिते शल्येऽपह्रते व्रणवत् क्रिया,विदलिते भङ्गवत् क्रिया शिरसः शल्येऽपरते बालवर्तिप्रवेशनादि (२८-२९) · Śloka २९

| शिरसोऽपहृते शल्ये वालवर्तिं प्रवेशयेत्||२८|| मस्तुलुङ्गस्रुतेः क्रुद्धो हन्यादेनं चलोऽन्यथा| व्रणे रोहति चैकैकं शनैरपनयेत्कचम्||२९||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-शिरसः शल्ये निपतिते सति वालवर्तिं प्रवेशयेत्| अन्यथा-वालवर्तेरप्रवेशात्, मस्तुलुङ्गस्रावाद्वायुः ऋद्धः एनं- व्रणिनं, हन्यात्| व्रणे रोहति सत्येकैकं कचं शनैर्नयेत्|

Adhikarana मस्तुलुङ्गस्त्रुतोउ मस्तिष्कभक्षणम् (३०) · Śloka ३०

आचरमोच्छ्वासादातुरं समुपाचरेदिति वचनान्मस्तुलुङ्गस्रुतावप्युपक्रममाह मस्तुलुङ्गस्रुतौ खादेन्मस्तिष्कानन्यजीवजान्| |३०|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मस्तुलुङ्गस्य-मज्जाख्यस्य, स्रुतावन्यजीवजान् मस्तिष्कान् खादेत्|

Adhikarana ह्रतशल्येऽङ्गे स्नेहवर्तिः (३०) · Śloka ३०

| शल्ये हृतेऽङ्गादन्यस्मात्स्नेहवर्तिं निधापयेत्||३०||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अङ्गादन्यस्माच्छल्ये हृते सति तत्र व्रणे स्नेहवर्तिं निधापयेत्|

Adhikarana व्रणे दूरावगाढादौ चक्रतै लेन सेचनम् (३१) · Śloka ३१

दूरावगाढाः सूक्ष्मास्या ये व्रणाः स्रुतशोणिताः| सेचयेच्चक्रतैलेन सूक्ष्मनेत्रार्पितेन तान्||३१||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-ये व्रणा दूरावगाढादिगुणास्तांश्चक्रतैलेन-कोह्लकाद्युद्भवेन तैलेन, सेचयेत्| किम्भूतेन ? सूक्ष्मनेत्रेणार्पितेन-क्षिप्तेन|

Adhikarana भिन्नकोष्ठस्य रक्तपूर्णस्य लक्षणम् (३२-३३) · Śloka ३३

भिन्ने कोष्ठेऽसृजा पूर्णे मूर्च्छाहृत्पार्श्ववेदनाः| ज्वरो दाहस्तृडाध्मानं भक्तस्यानभिनन्दनम्||३२|| सङ्गो विण्मूत्रमरुतां श्वासः स्वेदोऽक्षिरक्तता| लोहगन्धित्वमास्यस्य स्याद् गात्रे च विगन्धता||३३||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-भिन्ने कोष्ठे रक्तेन पूर्णे सति मूर्च्छाद्याः स्युः|

Adhikarana भिन्नकोष्ठस्य आमाशयस्थरुधिरस्य (३४) · Śloka ३४

आमाशयस्थे रुधिरे रुधिरं छर्दयत्यपि| आध्मानेनातिमात्रेण शूलेन च विशस्यते||३४||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-आमाशयस्थे रुधिरे रक्तमुद्वमत्यप्याध्मानेनातिमात्रेण शूलेन च विशस्यते-व्यापद्यते|

Adhikarana भिन्नकोष्ठस्य पक्वाशयस्थ रुधिरस्य लक्षणम् (३५) · Śloka ३५

पक्वाशयस्थे रुधिरे सशूलं गौरवं भवेत्| नाभेरधस्ताच्छीतत्वं खेभ्यो रक्तस्य चागमः||३५||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पक्वाशयस्थे लोहिते शूलसहितं गौरवं भवेत्| नाभेरधोभागे शैत्यम्| छिद्रेभ्यो रुधिरस्यैवागमनम्|

Adhikarana अभिन्नाशयस्यापि रक्तेन पूर्णत्वम् (३६) · Śloka ३६

अभिन्नोऽप्याशयः सूक्ष्मैः स्रोतोभिरभिपूर्यते| असृजा स्यन्दमानेन पार्श्वे मूत्रेण बस्तिवत्||३६||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-आशयोऽभिन्नोऽपि सूक्ष्मैः स्रोतोभिर्लोहितेन स्यन्दमानेनाभिपूर्यते| पार्श्वे मूत्रेण बस्तिरिव|

Adhikarana तत्रान्तर्लोहितादेरसाध्यत्वम् (३७) · Śloka ३७

तत्रान्तर्लोहितं शीतपादोच्छ्वासकराननम्| रक्ताक्षं पाण्डुवदनमानद्धं च विवर्जयेत्||३७||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तेषु मध्येऽन्तर्लोहितं व्रणिनं शीतपादं शीतोच्छ्वासं शिशिरकरं शीतवक्रं लोहिताक्षं पाण्डुवदनमानद्धं च वर्जयेत्|

Adhikarana आमाशयस्थे रक्ते वमनम्,पव्काशयस्थे रक्ते विरेको निरूहश्छ (३८) · Śloka ३८

अमाशयस्थे वमनं हितं, पक्वाशयाश्रिते| विरेचनं निरूहं च निःस्नेहोष्णैर्विशोधनैः||३८||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-आमाशयस्थे रक्ते वमनं हितम्| पक्वाशयगते विरेचनं निरूहं च विगतस्नेहैरुष्णैश्च विशोधनैर्हितम्|

Adhikarana पक्वाशय अन्नभक्षणप्रकारः (३९) · Śloka ३९

यवकोलकुलत्थानां रसैः स्नेहविवर्जितैः| भुञ्जीतान्नं यवागूं वा पिबेत्सैन्धवसंयुताम्||३९||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-यवादीनां रसैः स्नेहरहितैरन्नं भक्षयेत्| पेयां सैन्धवान्वितां वा पिबेत्|

Adhikarana अतिनिः स्त्रुतरक्ते रुधिरपानम् (४०) · Śloka ४०

अतिनिःस्रुतरक्तस्तु भिन्नकोष्ठः पिबेदसृक्| |४०|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अतिनिःस्रुतलोहितो भिन्नकोष्ठो रुधिरं पिबेत्|

Adhikarana कोष्ठभेदनस्य द्वैविध्यम् क्लिष्टान्त्रे मूर्च्छादयोऽल्पाः छिन्नान्त्रे मूर्च्छाअतिबाधकाः क्लिष्टच्छिन्नान्त्रयोः संशयासाध्यत्वम् (४०-४१) · Śloka ४१

| क्लिष्टच्छिन्नान्त्रभेदेन कोष्ठभेदो द्विधा स्मृतः||४०|| मूर्च्छादयोऽल्पाः प्रथमेद्वितीये त्वति बाधकाः| क्लिष्टान्त्रः संशयी देही छिन्नान्त्रो नैव जीवति||४१||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-क्लिन्नान्त्रभेदेन भिन्नान्त्रभेदेन च कोष्ठभेदो द्विप्रकार उक्तः| प्रथमे-क्लिन्नान्त्राख्ये, मूर्च्छदयोऽल्पाः-किञ्चिदेव, स्युः| द्वितीये-भिन्नान्त्राख्ये, अतिशयेन बाधकाः स्युः| क्लिन्नान्त्रो देही संशयी स्याद् जीवने| भिन्नान्त्रो न जातु जीवति|

Adhikarana भिन्नकोष्टस्य साध्यलक्षणम् (४२) · Śloka ४२

यथास्वं मार्गमापन्ना यस्य विण्मूत्रमारुताः| व्युपद्रवः स भिन्नेऽपि कोष्ठे जीवत्यसंशयम्||४२||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-यस्य विण्मूत्रमारुता यथायथं मार्गं प्राप्ताः विगतोपद्रवश्च स नरो भिन्नकोष्ठोऽपि सन् जीवति|

Adhikarana अन्त्रकोष्ठस्य मतद्वयम् (४३-४४) · Śloka ४४

अभिन्नमन्त्रं निष्क्रान्तं प्रवेश्यं न त्वतोऽन्यथा| उत्पङ्गिलशिरोग्रस्तं तदप्येके वदन्ति तु||४३|| प्रक्षाल्य पयसा दिग्धं तृणशोणितपांसुभिः| प्रवेशयेत्क्लृप्तनखो घृतेनाक्तं शनैः शनैः||४४||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अन्त्रमभिन्नं निष्क्रान्तं प्रवेशनीयमन्तरे| न त्वतोऽन्यथा-भिन्नमित्यर्थः| अन्ये त्वेवमाचक्षते,-उत्पङ्गिलशिरसामर्कोटशीर्षेण, ग्रस्तं भिन्नमप्यन्त्रं प्रवेश्यम्| सं-अन्त्रं निष्क्रान्तं तृणादिभिर्दिग्धं पयसा प्रक्षाल्य सर्पिषाऽभ्यक्तं क्लृप्तनखः शनैः शनैः प्रवेशयेत्|

Adhikarana अन्नप्रवेशविधिः (४५-४६) · Śloka ४६

क्षीरेणार्द्रीकृतं शुष्कं भूरिसर्पिःपरिप्लुतम्| अङ्गुल्या प्रमृशेत्कण्ठं जलेनोद्वेजयेदपि||४५|| तथाऽन्त्राणि विशन्त्यन्तस्तत्कालं पीडयन्ति च| |४६|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-शुष्कमन्त्रं क्षीरेणार्द्रीकृतं बहुघृतपरिप्लुतमङ्गुल्या गलं प्रमृशेत् जलेनोद्वेजयेत्| तथा-एवं, अन्त्राण्यन्तः प्रविशन्ति तत्कालं च पीडयन्ति|

Adhikarana यथास्थानं स्यितेऽन्त्रे व्रणं सीव्येत् ,स्थानाच्युतेऽन्त्रे मरणम् कुपितेऽन्त्रे पट्टेन वेष्टयेत्वा धृतेन परिपेचयेत् कुपिते ततश्छित्रातैलपयसा पानम् कुपिते व्रणयन्त्रणां वर्षमनुवर्तेत (४६-५०) · Śloka ५०

| व्रणसौक्ष्म्याद्बहुत्वाद्वा कोष्ठमन्त्रमनाविशत्||४६|| तत्प्रमाणेन जठरं पाटयित्वा प्रवेशयेत्| यथास्थानं स्थिते सम्यगन्त्रे सीव्येदनु व्रणम्||४७|| स्थानादपेतमादत्ते जीवितं कुपितं च तत्| वेष्टयित्वाऽनु पट्टेन घृतेन परिषेचयेत्||४८|| पाययेत ततः कोष्णं चित्रातैलयुतं पयः| मृदुक्रियार्थं शकृतो वायोश्चाधःप्रवृत्तये||४९|| अनुवर्तेत वर्षं च यथोक्तां व्रणयन्त्रणाम्| |५०|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-व्रणसूक्ष्मात्वादन्त्रस्य बहुत्वात् [वा] कोष्ठमनाविशदन्त्रं जठरं तत्प्रमाणेन पाटयित्वा प्रवेशयेत्| यथास्थानं स्थिते सम्यगन्त्रे सति पश्चाद् व्रणं सीव्येत्| स्थानाच्च्युतमन्त्रं जीवितं हरति| कुपितं च तत्-अन्त्रं, पट्टेन वेष्टयित्वा पश्चाद्घृतेन परिषेचयेत्| अनन्तरं चित्रातैलान्वितं कोष्णं क्षीरं पिबेत्| शकृतो म्ऱृदूकरणाय पवमानस्य च प्रवर्तनाय| यथोक्तां च व्रणयन्त्रणां संवत्सरं यावदनुवर्तेत|

Adhikarana उदरान्मेदोवर्तिनिर्गमने चिकित्सा (५०-५४) · Śloka ५४

| उदरान्मेदसो वर्तिं निर्गतां भस्मना मृदा||५०|| अवकीर्य कषायैर्वा श्लक्ष्णैर्मूलैस्ततः समम्| दृढं बध्वा च सूत्रेण वर्द्धयेत्कुशलो भिषक्||५१|| तीक्ष्णेनाग्निप्रतप्तेन शस्त्रेण सकृदेव तु| स्यान्दन्यथा रुगाटोपो मृत्युर्वा छिद्यमानया||५२|| सक्षौद्रे च व्रणे बद्धे सुजीर्णेऽन्ने घृतं पिबेत्| क्षीरं वा शर्कराचित्रालाक्षागोक्षुरकैः शृतम्||५३|| रुग्दाहजित्सयष्ट्याह्वैः परं पूर्वोदितो विधिः| मेदोग्रन्थ्युदितं तत्र तैलमभ्यञ्जने हितम्||५४||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-जठरान्मेदसो वर्तिं निर्गतां भस्मना वा मृदाऽवकीर्याथवा श्लक्ष्णचूर्णैः कषायैर्मूलैरवकीर्य ततो मूलेन समं दृढं च कृत्वा सूत्रेण बध्वा तीक्ष्णेन वह्निप्रतप्तेन शस्त्रेण कुशलो वैद्यः सकृदेव वर्द्धयेत्| अन्यथा छिन्नया रुजाऽऽटोपो मृत्युर्वा स्यात्| ततो व्रणे समाक्षिके बद्धेऽन्ने च सुजीर्णे सति घृतं पिबेत्| अथवा शर्करादिभिः शृतं दुग्धं पिबेत्| तच्च घृतं क्षीरं वा रुजादाहहृत्| अनन्तरं पूर्वोक्तो विधिः| तत्र मेदोग्रन्थिषु कथितं तैलमभ्यञ्जने हितम्|

Adhikarana सद्योव्रणेषु तालीसादितैलं रोपणम् (५५-५६) · Śloka ५६

तालीसं पद्मकं मांसीहरेण्वगुरुचन्दनम्| हरिद्रे पद्मबीजानि सोशीरं मधुकं च तैः||५५|| पक्वं सद्योव्रणेषूक्तं तैलं रोपणमुत्तमम्| |५६|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तालीसादिभिः कल्कितैः पक्वं तैलं सद्योव्रणेषु रोपणं परमुक्तम्|

Adhikarana गूढप्रहाराभिहतादौ वातास्त्रजित् कर्म (५६-५७) · Śloka ५७

| गूढप्रहाराभिहते पतिते विषमोच्चकैः||५६|| कार्यं वातास्रजित् तृप्तिमर्दनाभ्यञ्जनादिकम्| |५७|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-गूढप्रहारेणाभिहते, तथा विषमं पतिते, तथोच्चकैः पतिते च, वातरक्तहरादिकं कार्यम्|

Adhikarana विश्लिष्टदेहादौ तैलद्रोण्यां वासयेत् (२६) · Śloka २६

| विश्लिष्टदेहं मथितं क्षीणं मर्माहतं हतम्||५७|| वासयेत्तैलपूर्णायां द्रोण्यां मांसरसाशिनम्| ५७ १/२| इति श्रीवैद्यपतिसिंहगुप्तसूनूश्रीमद्वाग्भटविर- चितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तर- स्थाने सद्योव्रणप्रतिषेधो नाम ष- ड्विंशोऽध्यायः||२६||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-विश्लिष्टदेहादिकं नरं तैलद्रोण्यां मांसरसाशिनं वासयेदिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामाष्टाङ्गहृदयटी- कायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तरस्थाने सद्योव्रणप्रति- षेधो नाम षड्विंशोऽध्यायः समाप्तः|| २६||