Adhikarana अध्यायोपक्रमः · Śloka
🔊 Audio coming soon
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अस्मादनन्तरं क्रमप्राप्तो भङ्गप्रतिषेधः शस्यते _
Adhikarana अध्यायोपक्रमः · Śloka
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अस्मादनन्तरं क्रमप्राप्तो भङ्गप्रतिषेधः शस्यते _
Adhikarana भङ्गप्रतिषेधाध्यायः अस्थिभङ्गो द्विधा सन्धिभङ्गस्य लक्षणम् असन्दिभ्ङ्गस्य लक्षणम् (२-४) · Śloka ४
अथातो भङ्गप्रतिषेधं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे||२|| ) पातघातादिभिर्द्वेधा भङ्गोऽस्थ्नां सन्ध्यसन्धितः| प्रसारणाकुञ्चनयोरशक्तिः सन्धिमुक्तता||१|| इतरस्मिन् भृशं शोफः सर्ववस्थास्वतिव्यथा| अशक्तिश्चेष्टितेऽल्पेऽपि पीड्यमाने सशब्दता||२|| समासादिति भङ्गस्य लक्षणं, बहुधा तु तत्| भिद्यते भङ्गभेदेन तस्य सर्वस्य साधनम्||३|| यथा स्यादुपयोगाय तथा तदुपदेक्ष्यते| |४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पातादिभिरस्थ्नां भङ्गः| स च द्वेधा-द्विप्रकारः, सन्धीनां भङ्गोऽसन्धेर्वा| सन्धिभङ्गे प्रसारण आकुञ्चने चाशक्तिः सन्धिमुक्तता च| इतरस्मिन्-असन्धिभङ्गे, अतिशोफः, सर्वास्ववस्थास्वतिशयेन रुजा, अल्पेऽपि चेष्टितेऽशक्तिः, पीड्यमाने च सशब्दता, स्यात्| इति सङ्क्षेपेण भङ्गस्य लक्षणमुक्तम्| तच्चभङ्गभेदेनानेकधा भिद्यते| सं-तस्य-भङ्गस्य, सर्वस्य साधनं-चिकित्सितं, यथोपयोगाय स्यात् तथोपदेक्ष्यते|
Adhikarana अस्थिभङ्गस्य दुःसाध्यत्वम् (४-७) · Śloka ७
| प्रज्याणुदारि यत्त्वस्थि स्पर्शे शब्दं करोति यत्||४|| यत्रास्थिलेशः प्रविशेन्मध्यमस्थ्नो विदारितः| भग्नं यच्चाभिघातेन किञ्चिदेवावशेषितम्||५|| उन्नम्यमानं क्षतवद्यच्च मज्जनि मज्जति| तद्दुःसाध्यं कृशाशक्तवातलाल्पाशिनामपि||६|| भिन्नं कपालं यत् कट्यां सन्धिमुक्तं च्युतं च यत्| जघनं प्रति पिष्टं च भग्नं यत्तद्विवर्जयेत्||७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-प्राज्याश्च तेऽणवश्च प्राज्याणवः,-प्रभूतसूक्ष्माः| तैर्द्राराः-दारणानि, विद्यन्ते यत्रास्थ्नि तत्| प्रभूताणुदारि यदस्थि तद्दुःसाध्यम्| यच्चास्थि स्पर्शे-स्पर्शने सति, शब्दं करोति तच्च दुःसाध्यम्| यत्रास्थिलेशो दारितः-पाटितः, अस्थ्नां मध्यं प्रविशेत् तच्च दुःसाध्यम्| यच्चाभिघातेन भग्नम्| किम्भूतम् ? किञ्चिदेवावशेषितं भवेत्, तच्च दुःसाध्यम्| यच्चोन्नम्यमानं क्षतसमं स्यात्, तच्च दुःसाध्यम्| तथा यन्मज्जनि मज्जति, तथा कृशादीनामपि यत्, तच्च दुःसाध्यम्| सं-कट्यां-कटिप्रदेशे, यत्कपालं भिन्नं विदारितं यच्च सन्धिविमुक्तं यच्च सन्धेश्चयुतं यच्च जघनं प्रति पिष्टं भग्नं च यत् तद्विवर्जयेत्-परिहरेत्|
Adhikarana अस्थिभङ्गस्य असाध्यत्वम् (८-११) · Śloka ११
असंश्लिष्टकपालं च ललाटं चूर्णितम् तथा| यच्च भग्नं भवेच्छङ्खशिरःपृष्ठस्तनान्तरे||८|| सम्यग्यमितमप्यस्थि दुर्न्यासाद्दुर्निबन्धनात्| सङ्क्षोभादपि यद्गच्छेद्विक्रियां तद्विवर्जयेत्||९|| आदितो यच्च दुर्जातमस्थिसन्धिरथापि वा| तरुणास्थीनि भुज्यन्ते, भज्यन्ते नलकानि तु||१०|| कपालानि विभिद्यन्ते, स्फुटन्त्यन्यानि भूयसा| |११|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ललाटमसंश्लिष्टकपालं-भिन्नं, चूर्णितं च नोपक्रमेत्| शङ्खशिरःपृष्ठस्तनानां मध्ये यच्छिन्नं भवेत्, तच्च वर्जयेत्| सं-तथाऽस्थि सम्यगुद्धृतमपि दुर्न्यासादिना यद् विक्रियां गच्छेत्, तच्च वर्जयेत्| आदितः-प्रथममेव, यच्चास्थि दुर्जातं-असम्यगुत्पन्नं स्यात्, तच्च दुःसाध्यम्| अथवाऽस्थिसन्धिर्यो दुर्जातः स्यात्, स च दुःसाध्यः| दुर्जातं च दुर्जातश्च दुर्जातम्| "नपुंसकमनपुंसकेन" इत्येकशेषः| सं-तथा तरुणास्थीनि-नासाकर्णाक्षिकोषाणि, भुज्यन्ते-कुटिलीक्रियन्ते| तथा नलकानि भङ्गं यान्ति| कपालानि च विदार्यन्ते| अन्यानि चास्थीनि बाहुल्येन स्फुटन्ति| एतत्सर्वं दुःसाध्यम्|
Adhikarana अवनताद्यस्न्थः उन्नमना दिनासम्यक् संस्थाप्य पट्टैर्वेष्टयित्वा कदम्बादिजैर्वल्कलादिभिः कुशाह्वथैः समं बन्धं कुर्यात् (११-१६) · Śloka १६
| अथावनतमुन्नम्यमुन्नतं चावपीडयेत्||११|| आच्छेदतिक्षिप्तमधोगतं चोपरि वर्तयेत्| आञ्छनोत्पीडनोन्नामचर्मसङ्क्षेपबन्धनैः||१२|| सन्धीन् शरीरगान् सर्वान् चलानप्यचलानपि| इत्येतैः स्थापनोपायैः सम्यक् संस्थाप्य निश्चलम्||१३|| पट्टैः प्रभूतसर्पिर्भिर्वेष्टयित्वा सुखैस्ततः| कदम्बोदुम्बराश्वत्थसर्जार्जुनपलाशजैः||१४|| वंशोद्भवैर्वा पृथुभिस्तनुभिः सुनिवेशितैः| सुश्लक्ष्णैः सप्रतिस्तम्भैर्वल्कलैः शकलैरपि||१५|| कुशाह्वयैः समं बन्धं पट्टस्योपरि योजयेत्| |१६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अथ-एषां भङ्गस्थितिं ज्ञात्वा, अवनतमस्थ्युन्नमनीयम्| उन्नतं चास्थ्यवपीडयेत्| अतिक्षिप्तमस्थ्याञ्छेत्| अधस्ताद्गतं चोपरि वर्तयेत्| सं-इति-एवंप्रकारैः, एतैः-आञ्छनादिभिः स्थापनोपायैः, सर्वाञ्छरीरगान् सन्धींश्चलानचलांश्च निश्चलं संस्थाप्य वस्त्रखण्डजैः पट्टैर्बहुसर्पिष्कैः सुखावहैर्वेष्टयित्वाऽनन्तरं कदम्बादिजैर्वल्कलैर्वंशोत्थैर्वा शकलैः-खण्डैः, विस्तीर्णैस्तथा तनुभिः-न तु स्थूलैः, सुनिवेशितैस्तथा कोमलैस्तथा प्रतिस्तम्भयुक्तैः कुशासंज्ञैः समं बन्धं पट्टस्योपरि कुर्यात्|
Adhikarana शिथिलबन्धेन सन्धेरस्तैर्यम् अतिगाढबन्धेन सन्धेरश्थैर्यम् (१६-१७) · Śloka १७
| शिथिलेन हि बन्धेन सन्धिस्थैर्यं न जायते||१६|| गाढेनाति रुजादाहपाकश्वयथुसम्भवः| |१७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-श्लथेन बन्धेन सन्धेः स्थैर्यं न सम्पद्यते| अतिगाढेन तु बन्धेन रुजाद्युद्भवः|
Adhikarana घर्मादौ त्र्यहादिना बन्धमोक्षणम् (१७-१८) · Śloka १८
| त्र्यहात्त्र्यहादृतौ घर्मे सप्ताहान्मोक्षयेद्धिमे||१७|| साधारणे तु पञ्चहाद् भङ्गदोषवशेन वा| |१८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-उष्णे ऋतौ त्र्यहात्त्र्यहान्मोक्षयेत्| शीते च ऋतौ सप्ताहान्मोक्षयेत्| साधारणे-शरद्वसन्ताख्ये, पञ्चहान्मोक्षयेत्| अथवा भाङ्गवशेन दोषवशेन मोक्षयेत्|
Adhikarana ततो न्यग्रोधादिकषायादिना सेचनम् (१८-२०) · Śloka २०
| न्यग्रोधादिकषायेण ततः शीतेन सेचयेत्||१८|| तं पञ्चमूलपक्वेन पयसा तु सवेदनम्| सुखोष्णं वाऽवचार्यं स्याच्चक्रतैलं विजानता||१९|| विभज्य देशं कालं च वातघ्नौषधसंयुतम्| |२०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ततो न्यग्रोधादिगणद्रव्यकषायेण शीतेन सेचयेत् भङ्गसन्धीन्| तं-सरुजं, पञ्चमूलशृतेन क्षीरेण सेचयेत्| सं-अवस्थादिविशेषं विज्ञाय चक्रतैलं वातघ्नौषधसंयुतं सुखोष्णं विजानता वैद्येन वाऽवचारणीयम्|
Adhikarana ततो भृशशीतलाः सेकलेपाः (२०) · Śloka २०
| प्रततं सेकलेपांश्च विदध्यात् भृशशीतलान्||२०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-प्रततं सेकादींश्च सुशीतलान् कुर्यात्|
Adhikarana भन्गनरस्य गृष्टिक्षिरादिपानम् (२१) · Śloka २१
गृष्टिक्षीरं ससर्पिष्कं मधुरौषधसाधितम्| प्रातः प्रातः पिबेद्भग्नः शीतलं लाक्षया युतम्||२१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-भग्नो नरो गृष्टिक्षीरं घृतसहितं मधुरद्रव्यसाधितं शीतलं लाक्षया युक्तं प्रातः पिबेत्|
Adhikarana सव्रणे भ्न्गे कषायईः प्रतिसारणम् (२२) · Śloka २२
सव्रणस्य तु भग्नस्य व्रणो मधुघृतोत्तरैः| कषायैः प्रतिसार्योऽथ शेषो भङ्गोदितः क्रमः||२२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सव्रणस्य भग्नस्य व्रणो मधुघृतोत्तरैः कषायैः प्रतिसारणीयः| अथ शेषः क्रमो भङ्गकथितो विधेयः|
Adhikarana लम्बानां व्र०णमांसानां सन्धानम् (२३) · Śloka २३
लम्बानि व्रणमांसानि प्रलिप्य मधुसर्पिषा| सन्धधीत व्रणान् वैद्यो बन्धनैश्चोप०पादयेत्||२३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-व्रणमांसानि लम्बानि मधुघृतेनालिप्य व्रणान् वैद्यः सन्दध्यात्| कृतसन्धानांश्च तान् यथास्वं बन्धैर्योजयेत्|
Adhikarana सुस्थिते व्रणे फलिन्यादिरव चूर्णनम् (२४-२५) · Śloka २५
तान् समान् सुस्थिताञ्ज्ञात्वा फलिनीरोध्रकट्फलैः| समङ्गाधातकीयुक्तैश्चूर्णितैरवचूर्णयेत्||२४|| धातकीरोध्रचूर्णैर्वा, रोहन्त्याशु तथा व्रणाः| इति भङ्ग उपक्रान्तः|२५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तान्-व्रणान्, सुस्थितान् समांश्च विदित्वा फलिन्यादिभी रजीकृतैराचूर्णयेत्| धातकीरोध्रयोश्चूर्णेन वा| तथा-एवं कृते सति, व्रणा द्रागेव रोहन्ति| सं-इति-अनेन प्रकारेण, भङ्गश्चिकित्सितः|
Adhikarana व्रणानां साध्यासाध्यत्वम् (२५-२६) · Śloka २६
| स्थिरधातोः ऋतौ हिमे||२५|| मांसलस्याल्पदोषस्य सुसाध्यो, दारुणोऽन्यथा| |२६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शीतर्तौ श्तिरधातोस्तथा मांसलस्य स्तोकदोषस्य व्रणः सुखसाध्यः| अन्यथा-अतो विपर्ययेण, दारुणः-कृच्छ्रसाध्योऽसाध्यो वा|
Adhikarana सन्धिशैर्यंकालः (२६-२७) · Śloka २७
| पूर्वमध्यान्तवयसामेकद्वित्रिगुणैः क्रमात्||२६|| मासैः स्थैर्यं भवेत्सन्धेर्यथोक्तं भजतां विधिम्| |२७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यथोक्तं विधिं कुर्वतां पूर्वमध्यान्तवयसामेकद्वित्रिगुणैर्मासैर्यथाक्रमं सन्धेः स्थैर्यं जायते|
Adhikarana कठ्चादिभन्गानां कपाठशयनादि (२७-२९) · Śloka २९
| कटीजङ्घोरुभग्नानां कपाटशयनं हितम्||२७|| यन्त्रणार्थ तथा कीलाः पञ्च कार्या निबन्धनाः| जङ्घोर्वोः पाऱ्श्वयोर्द्वौ द्वौ तल एकश्च कीलकः||२८|| शोर्ण्यां वा पृष्ठवंशे वा वक्षस्यक्षकयोस्तथा| |२९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कट्यादिभग्नानं कपाटेस्थिर्हिता| यन्त्रणार्थं च कीलाः-कीलकाः, पञ्च स्थिरस्थितिहेतवः कार्याः| तेषां च स्थानान्याह-जङ्घोर्वोद्वौ द्वौ कीलकौ, तल एकः कीलकः, श्रोण्यां भग्नस्य पृष्टवंशे तु भग्नस्य पार्श्वयोर्द्वौ द्वावेक इति| अत एवाह श्रोण्यां वेत्यादि| वक्त्रस्य(क्षस्य)क्षकयोश्च भग्नस्य पञ्चैव कीलका योज्याः| विशेषस्त्वतो नोपरिष्टात् कीलको योज्यो युक्तिवशात्|
Adhikarana भग्नसन्धीनां विमोक्षे एवं विधिः (२९) · Śloka २९
| विमोक्षे भग्नसन्धीनां विधिमेवं समाचरेत्||२९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-भग्नसन्धीनां विमोक्ष एवंप्रकारं विधिं समाचरेत्|
Adhikarana चिरविमुक्तसंधीनां स्नेहस्वेदादिना यथास्थाने स्थापनम् (३०) · Śloka ३०
सन्धीश्चिरविमुक्तांस्तु स्निग्धस्विन्नान् मृदूकृतान्| उक्तैर्विधानैर्बुद्ध्या च यथास्वं स्थानमानयेत्||३०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-चिरविमुक्तांस्तु सन्धीन् पूर्वं स्निग्धान् पश्चात् स्विन्नान् मृदूकृतान् यथोक्तैर्विधानैर्बुद्ध्या च विशेषेण यथात्मीयं स्थानं प्रापयेत्|
Adhikarana असन्धिभग्ने विषमोल्बणसाधिते रूढे च क्रिया (३१) · Śloka ३१
असन्धिभग्ने रूढे तु विषमोल्बणसाधिते| आपोथ्य भङ्गं यमयेत्ततो भग्नवदाचरेत्||३१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-असन्धौ भग्ने रूढे च विषमोल्बणसाधिते सति भङ्गमापोथ्य-भङ्क्त्वा, पश्चाद्भङ्गं यमयेत्| अनन्तरं भग्नवदाचरेत्|
Adhikarana भग्नं यथा पाकं नैति तथा प्रययेत (३२) · Śloka ३२
भग्नं नैति यथा पाकं प्रयतेत तथा भिषक्| पक्वमांससिरास्नायुः सन्धिः श्लेषं न गच्छति||३२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-भग्नं यथा पाकं न प्राप्नोति तथा वैद्यो यत्नं कुर्यात्| यतः सन्धिः पक्वमांससिरास्नायुः सन् श्लेषं न याति|
Adhikarana भग्नेवातव्याध्युक्ताः स्नेहाः बस्तिकर्म च (३३) · Śloka ३३
वातव्याधिविनिर्दिष्टान् स्नेहान् भग्नस्य योजयेत्| चतुष्प्रयोगान् बल्यांश्च बस्तिकर्म च शीलयेत्||३३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वातव्याधिकथितान् स्नेहान् (चि.अ. २१/६६) चतुष्प्रयोगान्-पाननस्याभ्यङ्गानुवासनैः, बल्यान्-बलाय हितान्, भग्नस्य योजयेत्| तथा बस्तिकर्म-"प्राक् स्नेह एकः पञ्चान्ते" (हृ.सू.आ. १९/६३) इत्यादिनोक्तं, अभ्यसेत्|
Adhikarana भग्ने पौष्टिकादि शाल्याद्यन्नम् (३४-३५) · Śloka ३५
शाल्याज्यरसदुग्धाद्यैः पौष्टिकैरविदाहिभिः| मात्रयोपचरेद्भग्नं सन्धिसंश्लेषकारिभिः||३४|| ग्लानिर्न शस्यते तस्य, सन्धिविश्लेषकृद्धि सा| |३५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-भग्नं नरं मात्रया शाल्यादिभिः पुष्टिकृद्भिः सन्धिसंश्लेषकारिभिरविदाहिभिरुपक्रमेत्| स०-तस्य-भग्नस्य, ग्लानिर्न शस्यते| यतः सा-ग्लानिः, सन्धिविश्लेषं कुरुते|
Adhikarana भग्ने लवणादि निषेधः (३५) · Śloka ३५
लवणं कटुकं क्षारमम्लं मैथुनमातपम्| व्यायामं च न सेवेत भग्नो रूक्षं च भोजनम्||३५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-भग्नो लवणादिकं रूक्षं चाहारं न सेवेत|
Adhikarana भग्ने गन्धतैलमस्थिस्थैर्यकृत् (२७) · Śloka २७
कृष्णांस्तिलान् विरजसो दृढवस्त्रबद्धान् सप्त क्षपा वहति वारिणि वासयेत्| संशोषयेदनुदिनं प्रविसार्य चैतान् क्षीरे तथैव मधुकक्वथिते च तोये||३६|| पुनरपि पीतपयस्कां- स्थान् पूर्ववदेव शोषितान् बाढम्| विगततुषानरजस्कान् सञ्चूर्ण्य सुचूर्णितैर्युञ्ज्यात्||३७|| नलदवालकलोहितयष्टिका- नखमिशिप्लवकुष्ठबलात्रयैः| अगुरुकुङ्कुमचन्दनसारिवा- सरलसर्जरसामरदारुभिः||३८|| पद्मकादिगणोपेतैस्तिलपिष्टं ततश्च तत्| समस्तगन्धभैषज्यसिद्धदुग्धेन पीडयेत्||३९|| शैलेयरास्नांशुमतीकसेरु- कालानुसारीनतपत्ररोध्रैः| सक्षीरशुक्लैः सपयः सदूर्वै स्तैलं पचेत्तन्नलदादिभिश्च||४०|| गन्धतैलमिदमुत्तममस्थि- स्थैर्यकृज्जयति चाशु विकारान्| वातापित्तजनितानतिवीर्यान्| व्यापिनोऽपि विविधैरुपयोगैः||४१|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविर चितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तर- स्थाने भाङ्गप्रतिषेधो नाम सप्त- विंशोऽध्यायः||२७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कृष्णान् तिलान् वहति-अस्थिरे जले, सप्तरात्रीर्विगतरेणूंस्तथा दृढवसनसंयतान् वासयेत्| एतांश्च प्रविरलान् विकीर्य प्रतिदिनं संशोषयेत्| तथैव-पूर्वोक्तेन प्रकारेण, क्षीरे स्थिताननुदिनं प्रतिसार्य शोषितान् सप्त रात्रीरेवं मधुयष्टीक्वथिते च जले वासयेद्विशोषयेच्च| वसन्ततिलकावृत्तम्| पुनरपि च पीतक्षीरांस्तांस्तिलान् पूर्ववदेवातिशयेन शोषितानपगततुषंस्तथा विरजसः सञ्चूर्ण्य नलदाद्यैः सुचूर्णितैर्योजयेत्| आर्या| तानेवाह-नलदेत्यादि| औपच्छन्दसिकम्| पद्मकादीत्यादि| किम्भूतैर्नलदादिभिः ? पद्मकादिगणसहितैः सुचूर्णितैर्योजयित्वा चैतत् तिलपिष्टं सकलचोरकादिगन्धद्रव्यसिद्धेन क्षीरेण सह पीडयेत्| ततस्तत्तैलं सैर्यका(शैलेया)दिभिर्नलदादिभिश्च कल्कीकृतैर्दुग्धसहितैः पचेत्| इन्द्रवज्रा| एतत् गन्धतैलमतिवीर्यमस्थिस्थिरत्वकृदामयाश्च पवनपित्तोत्थानतिवीर्यान् व्यापिनोऽप्याशु जयति विविधैः-पाननस्यादिभिः, उपयोगैः| स्वागता| श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदय- टीकायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तरस्थाने भङ्गप्रति- षेधो नाम सप्तविंशोऽध्यायः समाप्तः|| २७||