Adhikarana अध्यायोपक्रमः · Śloka
🔊 Audio coming soon
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
"शुद्धिभिर्निर्ह्रियन्ते" इत्युक्तम्| कास्ताः शुद्धयः ? इति शुद्ध्यर्थं वमनविरेचनाधिकारः - - - -
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana अध्यायोपक्रमः · Śloka
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
"शुद्धिभिर्निर्ह्रियन्ते" इत्युक्तम्| कास्ताः शुद्धयः ? इति शुद्ध्यर्थं वमनविरेचनाधिकारः - - - -
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana वमनविरेचनविधिरध्यायः (२) · Śloka २
"शुद्धिभिर्निर्ह्रियन्ते" इत्युक्तम्| कास्ताः शुद्धयः ? इति शुद्ध्यर्थं वमनविरेचनाधिकारः - - - - अथातो वमनविरेचनविधिमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे||२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अथात इत्यादि| वमनं च विरेचनं च, तयोर्विधिः| शेषं पूर्ववद्व्याख्येयम्| तत्र यथोद्देशतया निर्देश इति पूर्वं वमनविधिमाचष्टे| अथवा विरेकात्पूर्वं वमनस्योपन्यासो युक्तः, हृतकफस्य हि सम्यग्विरेका भवन्ति| तथा चोक्तम् (चरके सि. अ. १|८) - "विरिच्यते मन्दकफस्तु सम्यक्" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-क्रमप्राप्तं वमनविरेचनविधिमध्यायं व्याख्यातुं प्रतिजानीते-अथेति| वमनविरेचनयोर्लक्षणमुक्तं सङ्ग्रहे (सू. अ. २७) -"दोषहरणमुर्ध्वभागं वमनाख्यम्, अधोभागं विरेचनाख्यम्, उभयं वा मलविरेचनाद्विरेचनमित्युच्यते| तत्रोष्णतीक्ष्णसूक्ष्मव्यवायिविकाशीन्यौषधानि स्ववीर्येण हृदयमुपेत्य सौक्ष्म्याव्द्यवायित्वाच्च धमनीरनुसृत्य स्नेहेन मृदूकृतेऽन्तःशरीरे स्वेदोष्मणाऽऽर्द्रदारुवद्विष्यन्दिते स्थूलाणुस्रोतोभ्यः सकलमपि दोषसङ्घातमौष्ण्यात् पुनर्विष्यन्दयन्ति| तैक्ष्ण्याद्विकाशित्वाच्च विच्छिन्दयन्ति| स विष्यन्नविच्छिन्नो दोषसङ्घातः परिप्लवन् स्नेहाक्तभाजनस्थ इवोदकाञ्जलिरसज्जन्ननुप्रवणभावादामाशयमागम्योदानप्रणुन्नोऽग्निवाय्वात्मकत्वादुर्ध्वभागप्रभावाच्चौषधस्योर्ध्वं प्रवर्तते| सलिलपृथिव्यात्मकत्वादधोभागप्रभावाच्चौषधस्याधः| उभयतश्चोभयगुणत्वादुभयभागप्रभावाच्च|" इति|
Adhikarana वमनविरेचनयोः सामान्यतो विषयः (१) · Śloka १
अतो वमनविधिमाह - - - - कफे विदध्याद्वमनं संयोगे वा कफोल्बणे| तद्वद्विरेचनं पित्ते|१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-श्लेष्मणि वमनं कुर्यात्, संयोगे च कफाधिके| तत्र च पित्तकफवान् वमनं कुर्यात्| यथा,-कफे कफाधिके संयोगे वमनं कुर्यात् तथैव पित्ते पित्ताधिके वा संयोगे विरेचनं कुर्यादिति तद्वच्छब्दस्यार्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वमनविरेचनयोः सामान्यतो विषयमाह कफे विदध्यादिति| तद्वत्-पित्तोल्बणे वा संयोगे|
Adhikarana वमनस्य विशेषतो विषयः (१-३) · Śloka ३
| विशेषेण तु वामयेत्||१|| नवज्वरातिसाराधःपित्तासृग्राजयक्ष्मिणः| कुष्ठमेहापचीग्रन्थिश्लीपदोन्मादकासिनः||२|| श्वासहृल्लासवीसर्पस्तन्यदोषोर्ध्वरोगिणः|३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-विशेषेण पुनर्नवज्वरातिसारादीन् ऊर्ध्वरोगपर्यन्तान् वामयेत्| [ नवज्वरादीनां यक्ष्मान्तानां द्वन्द्व इनिः| एवं च कुष्ठादीनां कासान्तानां श्वासादीनामूर्ध्वरोगान्तानां च द्वन्द्वे इनी कार्यौ|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वमनस्य विशेषतो विषयमाह-विशेषेणेति, नवज्वरेति, कुष्ठमेहेति, श्वासेति| ऊर्ध्वरोगाः-जत्रूर्ध्वरोगाः| सङ्ग्रहे तु (सू. अ. २७) - "विषपीतदष्टदिग्धविद्धविरुद्धाजीर्णान्नविषूचिकालसकाविपाकारोचकार्बुदमेदोगदापस्मारपाण्डुरोगा दोषभेदीयोक्ताश्च श्लेष्मव्याधयः|" इत्यधिकाः| युक्तिश्च, (सं. सू. अ. २७) -"एते हि परं वमनेन नाशमुपयान्ति, सलिलापगमादनिष्पन्नशाल्यादिवत्|" इति|
Adhikarana अवाम्याः विशेषतो विषयः विषद्याभ्यवहारे तु वमनम् (३-६) · Śloka ६
| अवाम्या गर्भिणी रूक्षः क्षुधितो नित्यदुःखितः||३|| बालवृद्धकृशस्थूलहृद्रोगिक्षतदुर्बलाः| प्रसक्तवमथुप्लीहतिमिरक्रिमिकोष्ठिनः||४|| ऊर्ध्वप्रवृत्तवाय्वस्रदत्तबस्तिहतस्वराः| मूत्राघात्युदरी गुल्मी दुर्वमोऽत्यग्निरर्शसः||५|| उदावर्तभ्रमाष्ठीलापार्श्वरुग्वातरोगिणः| ऋते विषगराजीर्णविरुद्धाभ्यवहारतः||६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-गर्भिण्यादयो वातरोगान्ता अवाम्याः| अर्शांसि विद्यन्ते यस्य सोऽर्शसः| "अर्शआदिभ्यश्च" इत्यच्| तत्र गर्भिण्या वमनाद्गर्भव्यापद्गर्भभ्रंशश्च (शाच्च) दारुणरोगस्य रक्तपित्तादेरिद्भूतिः| रूक्षस्य वायुः वाग्घनुहस्तादीनां व्यापारायतीर्हत्वा हन्वादीनां ग्रहं कुर्यात्| क्षुधितस्य नित्यदुःखितस्य च वायुना क्षपितशरीरत्वाद्बलक्षयः स्यात्| बालादीनामौषधबलाक्षमत्वात् बलोपरोधः स्यात्| हृद्रोगादीनां हृदयोपरोधः| प्रसक्तच्छर्दीनामुदानो वायुरुत्क्षिप्य प्राणानपि हिंस्यात्| एवमन्यत्रापि रोगोद्गमश्चिन्त्यः| [ किं सर्वदैव गर्भिण्यादयोऽवाम्याः ? उत कस्याञ्चिदवस्थायां वाम्याः, इत्याह- ] ऋत इत्यादि| विषाद्यभ्यवहारमन्तरेण| विषाद्यभ्यवहारे तु वाम्या एवैते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अवाम्यानाह-अवाम्या इति, बालेति, प्रसक्तेति, ऊर्ध्वेति, मूत्राघातीति, उदावर्तेति, ऋत इति| प्रसक्तवमथुः-छर्द्यनुरोधनात्| कृमिकोष्ठी_कृमिबहुलकोष्ठः| ऊर्ध्वं प्रवृत्तो वायुरस्रं च यस्य| हतस्वरादयः उदावर्तादयश्च| विषादिभ्य ऋते| विषपानादौ तु गर्भिण्यादयोऽपि वाम्याः| विरुद्धाभ्यवहारः-"आनूपमामिषं माष" (हृ. सू. अ. ७|३०) इत्याद्युक्तः| सङ्ग्रहे तु (सू. अ. २७) - "तत्र गर्भिण्या गर्भव्यापदामगर्भभ्रंशाच्च दारुणरोगप्राप्तिः स्यात्| सुकुमारस्य हृदयविकर्षणादूर्ध्वमधो वा रुधिरप्रवृत्तिः| अन्यकार्यव्यग्रस्यौषधं न प्रवर्तते, कृच्छ्रेण वा प्रवर्तमानमयोगदोषान् कुर्यात्| रूक्षस्य वायुरङ्गग्रहणम्| रूक्षाशनप्रायस्य वायुना क्षपितदोषत्वाद्बलक्षयः स्यात्| तथाऽतिदीप्ताग्नेरग्निबलेन| भाराध्वकर्मनित्ययानक्लान्तानां प्रयासेन| क्षतस्य भूयः क्षणनाद्रक्तातिप्रवृत्तिः| क्षीणादीनामौषधबलाक्षमत्वाद्देहबलोपरोधोऽन्तःक्षतभयं च| प्रसक्तच्छर्द्यूर्ध्वरक्तपित्तयोरुदानमुत्क्षिप्य प्राणान् हरेत्, रक्तवाऽतिप्रवर्तयेत्| ऊर्ध्ववातास्थापितानुवासितानामुर्ध्ववातादिप्रवृत्तिः| संवृतकोष्ठस्य दुश्च्छर्दस्य चातिमात्रप्रवाहणादन्तःकोष्ठे समुत्क्लिष्टैर्दोषैर्विसर्पस्तम्भजाड्यवैचित्यानि मरणं वा| हृद्रोगिणो हृदयोपरोधः| उदावर्तादिभिरर्तानामर्दितादिभिश्छ यथायथमामयवृद्धिर्मरणं वा| कृमिकोष्ठस्यास्थापनेनाधः पूर्वमनिर्हृतैः कृमिभिरतिबहुत्वादशेषानिःसरणेन हृदयमतिकर्षद्भिश्च्छर्दिषोऽतिप्रवृत्तिः स्यात्|" इति|
Adhikarana केचिद्धूमान्तैः कर्मभिर्वर्ज्याः अजीर्णिनः सर्वैः कर्मभिर्वर्ज्याः (७) · Śloka ७
प्रसक्तवमथोः पूर्वे प्रायेणामज्वरोऽपि च| धूमान्तैः कर्मभिर्वर्ज्याः, सर्वैरेव त्वजीर्णिनः||७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-प्रसक्तवमथोः पूर्वे-पूर्वस्थिता दुर्बलान्ता एकादशातुराः, तथाऽऽमज्वरश्च| ते सर्वे धूमान्तैः कर्मभिः प्रायेण वर्ज्याः, न केवलं वमनेनैव| धूमग्रहणं गण्डूषादिकर्मणः परिहारार्थम्| प्रायोग्रहणमष्टमासाया गर्भिण्या निरूहा न वर्ज्या इति सूचनार्थम्| तथा, सद्योभुक्तस्य ज्वरितस्य सतो वमनानुज्ञानार्थम्| तु-पुनः, अजीर्णिनः पुरुषाः सर्वैरेव-वमनादिभिर्गण्डूषादिभिश्च वर्ज्याः| आमदोषभयात्तैर्वमनादयो न सेव्या इत्यर्थः| अत्रापि प्रायोग्रहणमनुवर्तते| सद्योऽजीर्णिनां हि वमनमनुज्ञातमेव|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-प्रसङ्गाद्गर्भिण्यादिष्वेकादशसु नवज्वरे च विरेचनबस्तिनस्यधूमान्निषेधति-प्रसक्तवमथोरिति| अजीर्णिनां सर्वाणि कर्माणि निषेधति-सर्वैरेवेति| सर्वैः-विरेचनाद्यैर्गण्डूषान्तैश्च| वमनं तु विशेषतो विधानात् कर्तव्यम्| सङ्ग्रहे तु (सू. अ. २७) -"अजीर्णी तु सर्वैरेव वमनवर्ज्यैरामदोषभयात्, नवज्वरश्च दोषस्तम्भभयादिति|" इति|
Adhikarana विरेचनस्य विशेषतो विषयः (८-१०) · Śloka १०
विरेकसाध्या गुल्मार्शोविस्फोटव्यङ्गकामलाः| जीर्णज्वरोदरगरच्छर्दिप्लीहहलीमकाः||८|| विद्रधिस्तिमिरं काचः स्यन्दः पक्वाशयव्यथा| योनिशुक्राश्रया रोगाः कोष्ठगाः कृमयो व्रणाः||९|| वातास्रमूर्ध्वगं रक्तं मूत्राघातः शकृद्ग्रहः| वाम्याश्च कुष्ठमेहाद्याः|१०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-विरेकेण साध्याः-उपक्रम्याः, गुल्मादयः शकृद्ग्रहपर्यन्ताः| पक्वाशये व्यथा पक्वाशयव्यथा| वाम्याश्चेति चः समुच्चये| ये च कुष्ठाद्या ऊर्ध्वरोगपर्यन्ता वमनार्हा उक्तास्ते च विरेच्याः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-विरेचनस्य विशेषतो विषयमाह-विरेकसाध्या इति, जीर्णज्वरेति, विद्रधिरिति, योनीति, वातास्रमिति, वाम्याश्चेति| सङ्ग्रहे तु (सू. अ. २७) -"भगन्दराक्षिपाकक्षाराग्निदग्धशिरःशूलोदावर्ता दोषभेदीयोक्ताश्च पित्तव्याधयः|" इत्यधिकम्| युक्तिश्च, (सं. सू. अ. २७) -"एते हि परं विरेचनेन नाशमुपयान्त्यग्न्यपनयनेनाग्निगृहतापवत्|" इति|
Adhikarana अविरेच्याः विशेषतो विषयः (१०-११) · Śloka ११
| न तु रेच्या नवज्वरी||१०|| अल्पाग्र्यधोगपित्तास्रक्षतपाय्वतिसारिणः| सशल्यास्थापितक्रूरकोष्ठातिस्निग्धशोषिणः||११||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तुरवधारणे| नवज्वरो नैव रेच्यः| तस्य हि विरेचनमपक्वान् दोषाननिर्हरन् वातकोपायैव स्यात्| यक्ष्मादीनां त्ववस्थावशान्मृदुविरेच्यत्वमनुज्ञातमेव| यथा च पठिष्यति (हृ. चि. अ. ५|१)- "बलिनो बहुदोषस्य स्निग्धस्विन्नस्य शोधनम्| ऊर्ध्वाधो यक्ष्मिणः कुर्यात्सस्नेहं यन्न कर्शनम्||" इति [ यक्ष्मणः ]| तथा (हृ. चि. अ. ९|४) - "अपि चाध्मानगुरुताशूलस्तैमित्यकारिणि| प्राणदा प्राणदा दोषे विबद्धे सम्प्रवर्तिनी||" इत्यादिनाऽतीसारस्यापि मृदुविरेचनमनुज्ञातम्| नैवं नवज्वरस्य स्वल्पविरेच्यत्वं कदाऽपि| अल्पाग्न्यादयः शोष्यन्ता न विरेच्याः| तत्राल्पाग्निरबलत्वाद्भेषजवेगं न सहते| अधोगरक्तपित्तातिसारिणोरतिप्रवृत्त्या हन्यात्| क्षतपायोः प्राणोपरोधकरीं रुजां जनयेत्| सशल्यस्य क्षते वायुराश्रितो जीवितं हिंस्यात्| आस्थापितस्य भेषजवेगासहनाद्बलोपरोधः स्यात्| क्रूरकोष्ठस्यौषधोद्धता दोषा ह्यप्रवर्तमाना हृदयशूलपर्वभेदानाहच्छर्दिमूर्च्छाक्लमान् जनयित्वा प्राणान् हन्युः| अतिस्निग्धस्यातियोगाय स्यात्| शोषिणः क्षीणधातुतया मलबलत्वम्, तदभावाद्देहविनाशः स्यादिति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अविरेच्यानाह-न तु रेच्या इति| क्षतपायुः-क्षतगुदः| सशल्यः-अनुद्दृतशल्यः| आस्थापितः-कृतनिरूहः| शोषी-राजयक्ष्मी| सङ्ग्रहे तु (सू. अ. २७) -"तत्र नवज्वरस्याविपक्वान् दोषान् न निर्हरेत्, वातमेव च कोपयेत्| अतिसार्यधोगरक्तपित्तयोरतिप्रवृत्त्या हन्यात्| क्षतगुदस्य गुदे प्राणोपरोधकरीं रुजां जनयेत्| लङ्घितादयो भेषजवेगं न सहेरन्| राजयक्ष्मार्तस्य क्षीणधातुतया मलबलत्वम्, तदभावाद्देहनाशः स्यात्| मदात्ययार्तस्य मद्यक्षीणे देहे वायुः प्राणोपरोधाय| आध्मातस्य पुरीषाशये निचितो वायुर्विसर्पन् सहसा तीव्रतरमाध्मानं मरणं वा जनयेत्| सशल्याभिहतयोः क्षते वायुराश्रितो जीवितं हिंस्यात्| अतिस्निग्धस्यातियोगो भवेत्| क्रूरकोष्ठस्यौषधोद्धता दोषा ह्यप्रवर्तमाना हृदयशूलपर्वभेदानाहच्छर्दिमूर्च्छाक्लमान् जनयित्वा प्राणान् हन्युः| गर्भिण्यादीनां पूर्वोक्तो दोषः स्यात्|" इति| पूर्वोक्तो-वमनोक्तः|
Adhikarana वमनविधिः (१२-१८) · Śloka १८
अथ साधारणे काले स्निग्धस्विन्नं यथाविधि| श्वोवम्यमुत्क्लिष्टकफं मत्स्यमाषतिलादिभिः||१२|| निशां सुप्तं सुजीर्णान्नं पूर्वाह्णे कृतमङ्गलम्| निरन्नमीषत्स्निग्धं वा पेयया पीतसर्पिषम्||१३|| वृद्धबालाबलक्लीबभीरून् रोगानुरोधतः| आकण्ठं पायितान्मद्यं क्षीरमिक्षुरसं रसम्||१४|| यथाविकारविहितां मधुसैन्धवसंयुताम्| कोष्ठं विभज्य भैषज्यमात्रां मन्त्राभिमन्त्रिताम्||१५|| "ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानिलानलाः| ऋषयः सौषधिग्रामा भूतसङ्घाश्च पान्तु वः||१६|| रसायनमिवर्षीणाममराणामिवामृतम्| सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते||१७|| औम् नमो भगवते भैषज्यगुरवे वैडूर्यप्रभराजाय| तथागतायार्हते सम्यक्सम्बुद्धाय| तद्यथा| औम् भैषज्ये भैषज्ये महाभैषज्ये समुद्रते स्वाहा| " प्राङ्मुखं पाययेत्| |१८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-एतत् पूर्वोक्तं रेच्यारेच्यत्वमवगम्यानन्तरं साधारणे-श्रावणादौ काले, यथाविधि-स्नेहस्वेदाध्यायोदितेन क्रमेण, स्निग्धस्विन्नं पुरुषं भैषज्यमात्रां प्राङ्मुखं पाययेदिति वक्ष्यमाणेन सम्बन्धः| कीदृशम् ? श्वोवम्यं-प्रातर्वमनार्हम्| वम्यमिति "अर्हेकृत्यतृचश्च" इत्यर्हार्थे पोरदुपधादिति यत्| उत्क्लिष्टः-स्थानाच्चलितः, कफो यस्य तमुत्क्लिष्टकफम्| कैः? मत्स्यादिभिः| अन्तर्भावितण्यर्थोऽत्र| उत्क्लेशितकफमित्यर्थः| तथा, निशां सुप्तम्| "कालाध्वनोः" इति द्वितीया| अत एव यथोचितः सकलनिशास्वापोऽत्रोपलक्ष्यते| तथा, सुष्ठु जीर्णमन्नं-आहारो यस्य तम्| कदा पाययेत् ? पूर्वाह्णे-प्रातःकाले| किम्भूतम् ? कृतं मङ्गलं-स्वस्त्ययनादि, यस्य तम्| मङ्गलमित्युपलक्षणार्थम्,- कृतदेवद्विजाग्निगुरुवृद्धार्चनमपीति द्रष्टव्यम्| तथा, निरन्नं-अकृताहारम्| आतुरवशाद्वा किञ्चित्स्निग्धम्| कथम् ? इत्याह-पेयया पीतसर्पिषम्| वृद्धेत्यादि| तथा, असौ वाम्यो वृद्धो वा बालो वा दुर्बलो वा क्लीबः-खेदासहिष्णुर्वा भवति, भीरुर्वा-कातरो भवति| तदा रोगानुरोधादाकण्ठं-अतिमात्रं मद्यक्षीरादिकं पाययेत्| तदनन्तरं भैषज्यमात्रां पाययेत्| सङ्ग्रहेऽप्युक्तम् (सू. अ. २७) - "भीरुकृशबालवृद्धसुकुमारान्वा दोषानुरोधेनाकण्ठं पीतयूषेक्षुरसक्षीरतक्रमांसरसमद्यतुषोदकयवागूमण्डान्यतमम्" इति| किम्भूतां मात्राम् ? यथाविकारविहितां,- रोगानुसारेण साधिताम्| तथा, मधुसैन्धवाभ्यां युताम्| किं कृत्वा ? कोष्ठं-मृदुमध्यक्रूरलक्षणं, विभज्य-विचार्य| श्लेष्माधिक्येन मृदुत्वं, श्लेष्ममध्यत्वेन मध्यत्वं, श्लेष्महीनत्वेन क्रूरत्वं वमने कोष्ठस्य बोध्यम्| तथा चोक्तम् चरके (सि. अ. १|८) - "श्लेष्मोत्तरश्च्छर्दयते ह्यदुःखम्" इति| किम्भूतां भैषज्यमात्राम् ? मन्त्राभिमन्त्रिताम्| तानेव मन्त्रानाह-ब्रह्मेत्यादिग्रन्थेन|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वमनविधिमाह-अथेति| कृतस्नेहनादिकमातुरं प्राङ्मुखं भैषज्यमात्रां पाययेदित्यन्वयः| श्वोवम्यमिति वमनदिनात्पूर्वदिने, उत्क्लिष्टकफम्| सम्यक्स्निग्धं चेन्निरन्नम्| ईषत्स्निग्धं चेत् पेयया पीतसर्पिषम्| वृद्धादिष्वन्यतमश्चे(मं चे) द्रोगानुसारेण मद्यादिष्वन्यतममाकण्ठं पायितम्| ब्रह्मेत्यादिस्वाहान्तेन मन्त्रेणाभिमिन्त्रिताम्| अयं चौषधपानविधिर्विशेषपरिहारेण सर्वेष्वौषधेशु ज्ञेयः| सङ्ग्रहे तु (सू. अ. २७) -"स्नातानुलिप्तं स्रग्विणमहतवाससं देवताग्निद्विजगुरुवृद्धवैद्यानर्चितवन्तं कृतहोमबलिमङ्गलप्रायश्चित्तस्वस्तिवाचनं जानुसमसंस्तृतसोपधानोपाश्रयासनोपविष्टं पीततक्रयूषतुषोदकयवागूमण्डान्यतमं नक्षत्रतिथिकरणमुहूर्त्तोदये प्रशस्ते|" इति (इत्यधिकम्)|
Adhikarana पानानन्तरं विधिः (१८) · Śloka १८
पीतो मुहूर्तमनुपालयेत्| तन्मनाः|१८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-भैषज्यमात्रां पीतः सन्नातुरः मुहूर्तं तन्मनाः-वमिगतचित्तः, अनुपालयेत्-प्रतीक्षेत|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पानानन्तरं विधिमाह-पीते मुहूर्तमिति| तन्मनाः-वमनैकचित्तः|
Adhikarana प्रवृत्तवमनस्य कृत्यम् (१८-२१) · Śloka २१
| जातहृल्लासप्रसेकश्च्छर्दयेत्ततः||१८|| अङ्गुलिभ्यामनायस्तो नालेन मृदुनाऽथवा| गलताल्वरुजन् वेगानप्रवृत्तान् प्रवर्तयन्||१९|| प्रवर्तयन् प्रवृत्तांश्च जानुतुल्यासने स्थितः| उभे पार्श्वे ललाटं च वमतश्चास्य धारयेत्||२०|| प्रपीडयेत्तथा नाभिं पृष्ठं च प्रतिलोमतः| |२१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ततः-अनन्तरं, सञ्जातहृल्लासप्रसेकः सन् छर्दयेत्| हृल्लासो-हृदुपरोधः| प्रसेको-निष्ठीवनम्| कथं वमेत् ? अङ्गुलिभ्यां द्वाभ्याम्| यद्वा, कोमलेन सुवर्चलैरण्डादिजेन-नालेन मृदुना वमेत्| कीदृशः ? अनायस्तः,- अनायासेनेत्यर्थः| अपरं गलताल्वपीडयन्| तथा, अप्रवृत्तान् वेगान् प्रवर्तयन् प्रवृत्ताश्च प्रवर्तयन्| जानुप्रमाणे पीठे स्थितः| च-अपरं, अस्य-नरस्य, वमनं कुर्वतो द्वे पार्श्वे ललाटं च धारयेत्| परिचारक इति शेषः| नाभिं च पीडयेत्| पृष्ठं च प्रतिलोमतः-असन्मार्गेण पीडयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र० प्रवृत्तवमनस्य कृत्यमाह-जातहृल्लासेत्यादि| अङ्गुलीभ्यां संहताभ्यां, मृदुना नालेन, प्रवृत्तान् सविबन्धान् प्रवर्तयन्, न त्वप्रवृत्तान् प्रवर्तयन्, छर्दयेदित्यन्वयः| अनायस्तः-आयासरहितः| पृष्ठं च प्रतिलोमतः-त्रिकादारभ्योर्ध्वं प्रपीडयेत्| सङ्ग्रहे तु (सू. अ. २७) -"स यदा जानीयात् स्वेदप्रादुर्भावेन दोषं प्रविलयमापद्यमानं, रोमहर्षेण च स्थानेभ्यो विचलितं, कुक्ष्याध्मानेन च कुक्षिमनुसृतं, क्रमात् हृदयोपमर्दहृल्लासास्यसंस्रवणैश्चोर्ध्वमभिमुखीभुतम्| अथ समुपस्थापितानेकप्रतिग्राहो विवृतोऔष्ठतालुकण्ठो नातिमहता व्यायामेन वेगानुदीरयन् वमेत्| नात्युन्नतो नात्यवनतो न पार्श्ववृत्तो वा| तत्रात्युन्नतस्य पृष्ठहृदयपीडा भवति| अत्यवनतस्य शिरःकोष्ठपीडा| पार्श्वावृत्तस्य पार्श्वकोष्ठहृदयोर्ध्वजत्रुपीडेति|" इति|
Adhikarana दोषभेदेन वमनद्रव्यभेदः (२१-२२) · Śloka २२
| कफे तीक्ष्णोष्णकटुकैः पित्ते स्वादुहिमैरिति||२१|| वमेत् स्निग्धाम्ललवणैः संसृष्टे मरुता कफे| |२२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कफे तीक्ष्णोष्णकटुकैर्द्रव्यैर्वमेत्| पित्ते स्वादुशीतैर्द्रव्यैर्वमेत्| स्निग्धाम्ललवणैर्वायुना युक्ते कफे वमेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-दोषभेदेन वमनद्रव्यभेदमाह-कफ इत्यादि| इति-उक्तेन प्रकारेण|
Adhikarana वमनावधिः (२२) · Śloka २२
कियन्तं कालं वमेत् ? इत्याह - - - - | पित्तस्य दर्शनं यावच्छेदो वा श्लेष्मणो भवेत्||२२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यावत् पित्तस्य दर्शनं स्यात्, कफस्य वा छेदः-अन्तः स्यात्, तावद्वमेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वमनावधिमाह-पित्तस्य दर्शनमिति|
Adhikarana हीनवेगस्यौषधम् (२३) · Śloka २३
हीनवेगः कणाधात्रीसिद्धार्थलवणोदकैः| वमेत्पुनःपुनः|२३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-हीनवेगो नरः कणाधात्रीसिद्धार्थलवणोदकैरसकृद्वमेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-हीनवेगस्यौषधमाह-हीनवेग इति| पिप्पल्यादिमिश्रमुदकं पुनःपुनः पीत्वा वमेत्| सङ्ग्रहे तु (सू. अ. ७) - "प्रभूतवमनासहिष्णुर्व्द्यहं त्र्यहं वा विश्रम्य, असात्म्यबीभत्सदुर्दशदुर्गन्धानि वमनानि विदध्यात्| विपरीतानि विरेचनानि|" इति|
Adhikarana हीनयोगलक्षणाम् हीनयोगजा रोगाः (२३-२४) · Śloka २४
| तत्र वेगानामप्रवर्तनम्||२३|| प्रवृत्तिः सविबन्धा वा केवलस्यौषधस्य वा| अयोगस्तेन निष्ठीवकण्डूकोठज्वरादयः||२४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तत्र-तेषु सम्यग्योगातियोगायोगेषु मध्यात्, वेगानामप्रवर्तनमसावयोगः| सविबन्धा च या प्रवृत्तिः सोऽप्ययोगः| केवलस्य-दोषादिरहितस्यौषधस्य या प्रवृत्तिः सोऽप्ययोगः| तेन-अयोगेन, निष्ठीवादयः स्युः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-हीनयोगलक्षणमाह-तत्रेति| हीनयोगजान् रोगानाह - तेनेति| आदिशब्दादरोचकगौरवाध्मानस्फोटालस्य-शूलप्रतिश्यायरोमहर्षशोफादयः|
Adhikarana सम्यग्योगलक्षणम् (१-२५) · Śloka २५
निर्विबन्धं प्रवर्तन्ते कफपित्तानिलाः क्रमात्| (मनःप्रसादः स्वास्थ्यं चावस्थानं च स्वयं भवेत्| वैपरीत्यमयोगानां न चातिमहति व्यथा||१|| ) सम्यग्योगे|२५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सम्यग्योगे कफपित्तानिलाः क्रमेण निर्विबन्धं-निःसङ्गं प्रवर्तन्ते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सम्यग्योगलक्षणमाह-निर्विबन्धमिति| स ङ्ग्रहे तु (सू. अ. २७) -"नातिमहती व्यथा स्वयं चावस्थानम्| ततश्च स्वस्थता मनःप्रसादः स्वरविशुद्धिररोचकादिवैपरीत्यं च|" इति|
Adhikarana अतियोगलक्षणम् (२५-२६) · Śloka २६
| अतियोगे तु फेनचन्द्रकरक्तवत्||२५|| वमितं क्षामता दाहः कण्ठशोषस्तमो भ्रमः| घोरा वाय्वामया मृत्युर्जीवशोणितनिर्गमात्||२६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अतियोगे पुनः फेनचन्द्रकरक्तवद्वमितं-वमनं भवति| फेनश्च चन्द्रकश्च रक्तं च, तानि विद्यन्ते यस्य वमितस्य तदेवम्| तथा, क्षामतादयो भवन्ति| तमः-तिमिरदर्शनं, दारुणाश्च वातरोगाः| तथा मृत्युर्भवति, जीवाख्यस्य शोणितस्य निर्गमात्-निष्कासात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अतियोगलक्षणमाह-अतियोगे त्वित्यादि| फेनादियुक्तं वमितम्| चन्द्रकाः-मयूरपिच्छेष्विव| तमः-अज्ञानम्| भ्रमः-चक्राधिरूढस्येव| जीवशोणितं-ओजः| सङ्ग्रहे तु (सू. अ. २७) - "स्वरक्षयमोहोन्मादमूर्च्छाशिरःशून्यताहृदयधूमायनगात्रशूलसुप्तितृष्णोर्ध्वानिलप्रकोपकर्णशूलार्दितवाक्सङ्गहनुसंहननजिह्वाप्रवेशनिर्गमाक्षिव्यावृत्तिविसंज्ञाता- निद्राबलाग्निहानयो भवन्ति|" इति|
Adhikarana सम्यग्वान्तस्योपचारः (२७) · Śloka २७
सम्यग्योगेन वमितं क्षणमाश्वास्य पाययेत्| धूमत्रयस्यान्यतमं स्नेहाचारमथादिशेत्||२७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सम्यग्योगेन वमिते सति मुहूर्तमाश्वास्य-शीतवातादिना, धूमत्रयस्य-स्निग्धमध्यतीक्ष्णाख्यस्य, अन्यतमं-एकं, पाययेद्वैद्यः| अथ-अनन्तरं, स्नेहाचारं-"उष्णोदकोपचारी स्यात्" इत्यादिकं, आदिशेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सम्यग्वान्तस्योपचारमाह-सम्यग्योगेनेति| धूमत्रयस्य-स्निग्धमध्यतीक्ष्णभेदात्| सङ्ग्रहे तु (सू. अ. २७) - "सुविशोधितपाणिपादमुखं धूमं पाययित्वा पुनरुपस्पृष्टोदकं सम्मानितसुरभिताम्बूलं निर्वातागारशय्यास्थितम्|" इति|
Adhikarana सम्यग्वान्तस्य पेयादिक्रमेण भोजनम् (२८) · Śloka २८
ततः सायं प्रभाते वा क्षुद्वान् स्नातः सुखाम्बुना| भुञ्जानो रक्तशाल्यन्नं भजेत्पेयादिकं क्रमम्||२८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ततः-ऊर्ध्वं, सायं-अपराह्णे, प्रभाते-पूर्वाह्णे वा, बभुक्षित उष्णोदकेन स्नातो रक्तशाल्यन्नं भुञ्जानः पेयादिकं क्रमं भजेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सम्यग्वान्तः पेयादिक्रमेण भुञ्जीतेत्याह-ततः सायमिति| दीप्ताग्निश्चेत्सायं, मन्दाग्निश्चेत्परदिने प्रातः, पेयादिकं क्रमं भजेत्,- पेयादिक्रमेण रक्तशाल्यन्नं भुञ्जीत|
Adhikarana पेयादिक्रमः (२९) · Śloka २९
तमेव पेयादिकं क्रममाह - - - - पेयां विलेपीमकृतं कृतं च यूषं रसं त्रीनुभयं तथैकम्| क्रमेण सेवेत नरोऽन्नकालान् प्रधानमध्यावरशुद्धिशुद्धः||२९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-प्रधाना च मध्या चावरा च प्रधानमध्यावराः| प्रधानमध्यावराश्च ताः शुद्धयश्च, ताभिः शुद्धो नरः क्रमेण-यथासङ्ख्यं, पेयां त्रीनन्नकालान् द्वावन्नकालावेकन्नकालं भजेदिति| विलेप्यादिष्वप्येवं योज्यम्| एतदेव स्पष्टीकृत्योच्यते| यथा,-प्रधानशुद्ध्या शुद्धो नरो द्वावन्नकालावेकस्मिन् दिने पेयां भजेत्| द्वितीयेऽहन्येकमन्नकालं पेयां द्वितीयमन्नकालं विलेपीम्| तृतीये वासरे द्वावन्नकालौ विलेपीमेव| चतुर्थे दिवसे अकृतं-शुण्ठीलवणाद्यसंस्कृतं यूषं, कृतं-शुण्ठीलवणादिसंस्कृतं यूषं च द्वावन्नकालौ भजेत्, पञ्चमेऽह्नि प्रथमेऽन्नकाले च| चः समुच्चये| त्रिष्वपि कालेष्वकृतं कृतं च यूषं भजेत्, विभज्य तावद्गम्यते| एवं कालत्रयं कृताकृतं रसं विभज्य भोजयेत्| सप्तरात्रेण (सप्ताहात्) प्रकृतिभोजनं क्रमेण सेवेत| एवं यथास्वं मध्यशुद्धिशुद्धस्यावरशुद्धिशुद्धस्य च योजना कार्या| मुनिस्त्वाह (च. सू. अ. १५|१७) - "अथैनं सायाह्ने परे वाऽह्नि सुखोदकपरिषिक्तं पुराणानां लोहितशालितण्डुलानां स्ववक्लिन्नां मण्डपूर्वां सुखोष्णां यवागूं पाययेदग्निबलमभिसमीक्ष्य| एवं द्वितीये तृतीये चान्नकाले| चतुर्थे त्वन्नकाले तथाविधानामेव शालीनां सुस्विन्नां विलेपीमुष्णोदकद्वितीयामस्नेहलवणामल्पस्नेहलवणां वा भोजयेत्| एवं पञ्चमे षष्ठे चान्नकाले| सप्तमे त्वन्नकाले तथाविधानामेव शालीनां द्विप्रसृतं सुस्विन्नमोदनमुष्णोदकानुपानं तनुना तनुस्नेहलवणोपपन्नेन मृद्गयूषेण भोजयेत्| एवमष्टमे नवमे चान्नकाले| दशमे त्वन्नकाले लावकपिञ्जलादीनामन्यतमस्य मांसस्य रसेनौदकलावणिकेन नातिसारवता भोजयेदुष्णोदकानुपानम्| एवमेकादशे द्वादशे चान्नकाले| अत ऊर्ध्वमन्नगुणान् क्रमेणोपयुञ्जानः सप्ताहात् प्रकृतिभोजनमागच्छेत्|" इति| त्रीनिति "कालाध्वनोरत्यन्तसंयोगे" इति द्वितीया|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पेयादिक्रममाह-पेयामिति| उत्तमशुद्ध्या शुद्धः पेयादिक त्रींस्त्रीन् अन्नकालान् भुञ्जीत| मध्याशुद्ध्या शुद्धौ द्वौ द्वौ| अवरशुद्ध्या शुद्ध एकैकम्| अकृतः-स्नेहादिभिरसंस्कृतो, यूषः| कृतः-संस्कृतः|
Adhikarana पेयादिक्रमस्य फलम् (३०) · Śloka ३०
अधुना पेयादिक्रमस्य फलं वक्ति - - - - यथाऽणुरग्निस्तृणगोमयाद्यैः सन्धुक्ष्यमाणो भवति क्रमेण| महान् स्थिरः सर्वपचस्तथैव शुद्धस्य पेयादिभिरन्तराग्निः||३०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यथा बाह्योऽग्निरणुः-अत्यल्पः, तृणगोमयकाष्ठदलादिभिः सन्धुक्ष्यमाणः-उद्दीप्यमानो, महान् स्थिरः-चिरकालस्थायी, सर्वपचः-स्थूलसूक्ष्मगुरुलघुपाचकः, क्रमेण भवति| तथैव-तेनैव प्रकारेण, शुद्धस्य नरस्य पेयादिभिरन्तराग्निः-औदर्योऽग्निः, महान् स्थिरः सर्वपचश्च भवति| सर्वपच इति पचेरजन्तस्य सर्वशब्देन सह षष्ठीसमासः| खरनादेऽप्युक्तम्-"विरेके वमने श्रेष्ठे पेयादीनां क्रियाक्रमः| त्रिशो, द्विशो मध्यमे स्यादेकशस्तु कनीयसि||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पेयादिक्रमस्य फलमाह-यथाऽणुरिति|
Adhikarana त्रिविधस्य वमनस्य वेगमानम्, त्रिविधस्य विरेकस्य तुलामानम् (३१) · Śloka ३१
जघन्यमध्यप्रवरे तु वेगा- श्चत्वार इष्टा वमने षडष्टौ| दशैव ते द्वित्रिगुणा विरेके प्रस्थस्तथा स्याद्द्विचतुर्गुणश्च||३१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जघन्यं च मध्यं च प्रवरं च तस्मिन् वमने क्रमेण वेगाश्चत्वारः षडष्टेष्टाः| तन्त्रकृतामिति शेषः| ते वेगा दशैव द्वित्रिगुणा जघन्यमध्यप्रवरे विरेके क्रमेण भवन्ति| तथेति समुच्चये| न केवलं वेगा मानम्, प्रस्थश्च द्विचतुर्गुणो मानं स्यादिति तथाशब्दस्यार्थः| त्रीण्येतान्युपजातिवृत्तानि|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-त्रिविधस्य वमनस्य वेगमानमाह-जघन्येति| त्रिविधस्य विरेकस्य वेगमानमाह-दशैवेति| द्विगुणाः-विंशतिः| त्रिगुणाः-त्रिंशत्| त्रिविधस्य विरेकस्य तुलामानमाह-प्रस्थ इति| प्रस्थोऽत्र न द्वात्रिंशत्पलः| "वमने च विरेके च तथा शोणितमोक्षणे| सार्द्धत्रयोदशपलं प्रस्थमाहुर्मनीषिणः||" इति वचनात्| एकः प्रस्थो, द्वौ प्रस्थौ, चत्वारः प्रस्थाः, इति त्रीणि मानानि|
Adhikarana वमनस्य पित्तावसानत्वं सम्यक्त्वम्, त्रिविधस्य वमनस्य तुलामानम्, विरेकस्य कफावसानत्वं सम्यक्त्वम् (३२) · Śloka ३२
पित्तावसानं वमनं विरेकादर्द्धं, कफान्तं च विरेकमाहुः| - |३२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पित्तान्तं वमनं वदन्ति| विरेकादर्द्धं वमनं कथयन्ति| विरेचनं कफान्तमाहुः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-त्रिविधस्यापि वमनस्य पित्तावसानत्वमेव सम्यक्त्वमित्याह-पित्तावसानमिति| त्रिविधस्य वमनस्य तुलामानमाह-विरेकादर्धमिति| अर्द्धं-अर्धप्रस्थः प्रस्थः प्रस्थद्वयं चेति| त्रिविधस्यापि विरेकस्य कफावसानत्वमेव सम्यक्त्वमाह - कफान्तं चेति|
Adhikarana वेगमाने तुलामाने चापोह्यमानम् (३२) · Śloka ३२
| द्वित्रान् सविट्कानपनीय वेगान् मेयं विरेके, वमने तु पीतम्||३२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-द्वौ वा त्रयो वा द्वित्राः| "सङ्ख्ययाऽव्यया" इति बहुव्रीहिः| "बहुव्रीहौ सङ्ख्येये डच्" इति डच् वा समासान्तः| सह विशा-पुरीषेण वर्तन्त इति सविट्काः| द्वित्रान् वेगान् सविट्कानपनीय-गणनायामनुपारुह्य, विरेके मेयं-मातव्यम्| वमने पुनः पीतं यदौषधं तदपनीय मेयम्| इन्द्रवज्रावृत्तम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वेगमाने तुलामाने चापोह्यमानमाह-द्वित्रानिति| वमने तु वमनार्थं यत्पीतं तदपनीय मेयम्|
Adhikarana विरेचनविधिः (३३) · Śloka ३३
अथैनं वामितं भूयः स्नेहस्वेदोपपादितम्| श्लेष्मकाले गते ज्ञात्वा कोष्ठं सम्यग्विरेचयेत्||३३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-एनं-नरं वामितं, भूयः-पुनरपि, स्नेहस्वेदाभ्यामुपपादितमनन्तरं सम्यग्विरेचयेत्| कदा ? श्लेष्मणः कालः-सत्रिभागः प्रहरः, तस्मिन् गते सति| किं कृत्वा ? कोष्ठं-मृदुमध्यक्रूरलक्षणं, ज्ञात्वा-अवगम्य|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-विरेचनविधिमाह-अथैनमिति| स्नेहस्वेदाभ्यां पुनरप्युपपादितं-शोधनयोग्यतां नीतं, विरेचयेत्-विरेचनौषधं दद्यात्| सङ्ग्रहे तु (सू. अ. २७) - "न त्वकृतवमनमन्यत्रातिक्रूरकोष्ठात्| अकृतवमनस्य हि श्लेष्मणोपहतमौषधमूर्ध्वं प्रवर्तते| उरसि वा रुद्धमवतिष्ठते| ततो नालं विरेचनाय| सम्यग्विरिक्तस्यापि चाधःस्ररतः श्लेष्मा ग्रहणीं छादयित्वा गौर्ववमापादयति प्रवाहिकां वा| न त्वेष दोषोऽतिक्रूरकोष्ठस्य वाय्वात्मकत्वात्| श्लेष्मकालेऽप्यकृतवमनोक्तो दोषः| शूलाध्मानगौरवाणि वा कृत्वा क्षीणे श्लेष्मण्यपराह्णे रात्रौ वा विरेचयेत्| तेनान्नावृतमपि तुल्यम्| छर्दिं च पुनस्तज्जनयति| अविरिक्तस्य तु श्लेष्मकाले च वमन योज्यम्, तथोर्ध्वं सुखेन निर्हरणात्|" इति|
Adhikarana मृदुकोष्ठस्य लक्षणम् (३४) · Śloka ३४
बहुपित्तो मृदुः कोष्ठः क्षीरेणापि विरिच्यते| |३४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यो बहुपित्तः कोष्ठः स मृदुर्भवति| स च क्षीरेण विरिच्यते| अपिशब्दादारग्वधादिभिरपि|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- मृदुकोष्ठस्य लक्षणमाह-बहुपित्त इति| सङ्ग्रहे तु (सू. अ. २७) - "इक्षुरसाम्लतक्रमस्तुगुडकृशरा-सर्पिर्नवमद्योष्णोदकपीलुद्राक्षापूगफलादिभिः|" इति|
Adhikarana क्रूरकोष्ठस्य लक्षणम् (३४) · Śloka ३४
| प्रभूतमारुतः क्रूरः कृच्छ्राच्छ्यामादिकैरपि||३४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-प्रभूतमारुतः क्रूरः कोष्ठो भवति| स च कृच्छ्रेण-कथञ्चिदपि, श्यामादिकैर्विरिच्यते| आदिशब्देन कङ्कुष्ठसुधादीनां ग्रहणम्| अपिशब्दादारग्वधादिभिर्न विरिच्यते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ रं-क्रूरकोष्ठस्य लक्षणमाह-प्रभूतमारुत इति| आदिशब्दान्त्रिफलातिल्वकनीलिनीफलादयः| सङ्ग्रहे तु (सू. अ. २७) -"बहुश्लेष्मा समदोषश्छ मध्यः, स साधारणः| ये च स्निह्यन्त्यच्छपानेन प्रायशस्त्रिसप्तपञ्चरात्रैरिति|" इति|
Adhikarana दोषभेदेन विरेचनभेदः (३५) · Śloka ३५
कषायमधुरैः पित्ते विरेकः, कटुकैः कफे| स्निग्धोष्णलवणैर्वायौ|३५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कषायमधुरैः-आरग्वधादिभिः, पित्ते विरेकः| कटुकैः कफे विरेकः| स्निग्धोष्णलवणैः-एरण्डतैलादिभिर्वायौ विरेकः कार्यः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-दोषभेदेन विरेचनभेदमाह-कषायमधुरैरिति| सङ्ग्रहे तु (सू. अ. २७) - "पीतमात्र एव चौषधे छर्दिविघाताय शीताम्बुना मुखमस्य सहसा सिञ्चेत्| ततश्चोष्णोदकेन सोऽन्तर्मुखं विशोध्य, आर्द्रसुरभिमृन्मातुलुङ्गजम्बीरसुमनःसौगन्धिकादीनि ह्यद्यगन्धान्युपजिघ्रेत्| निवातसुखशय्यास्थितश्चाविबन्धार्थमल्पाल्पमुष्णोदकमनुकण्ठयंस्तन्मना वेगान्न धारयन् ईरयमाणश्च स्वयं शय्यासने(न्ने)षु प्रतिग्राहेष्वशीतस्पृग्विरिच्यते| यथा च वमने स्वेदप्रसेकौषधकफपित्तानिलाः क्रमेण प्रवर्तन्ते| तथा विरेचने वातमूत्रपुरीषपित्तकफाः| पुनश्चान्ते वायुः| दोषाणां हि देहे तथा सन्निवेशान्मार्गवैपरीत्याच्च शोधनयोरिति|" इति|
Adhikarana विरेचनप्रवृत्तौ प्रवर्तनोपायः (३५-३६) · Śloka ३६
| अप्रवृत्तौ तु पाययेत्||३५|| उष्णाम्बु, स्वेदयेदस्य पाणितापेन चोदरम्| ||३६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अप्रवृत्तिः-मन्दा प्रवृत्तिः| नञ् ईषदर्थे| विरेकाप्रवृत्तावुष्णाम्बु पाययेद्वैद्यः| अस्य चातुरस्य पाणितापेन जठरं स्वेदयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-विरेचनाप्रवृत्तौ प्रवर्तनोपायमाह-अप्रवृत्ताविति|
Adhikarana उपायेनाप्यप्रवृतौ कृत्यम् (३७-३८) · Śloka ३८
| उत्थानेऽल्पे दिने तस्मिन्भुक्त्वाऽन्येद्युः पुनः पिबेत्| अदृढस्नेहकोष्ठस्तु पिबेदूर्ध्वं दशाहतः| भूयोऽप्युपस्कृततनुः स्नेहस्वेदैर्विरेचनम्||३७|| यौगिकं सम्यगालोच्य स्मरन्पूर्वमतिक्रमम्| |३८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तस्मिन्-विरेकस्य दिने, अल्प उत्थाने-स्तोकायां प्रवृत्तौ सत्यां, भुक्त्वाऽन्नमन्येद्युः-अन्यस्मिन् दिने पुनर्विरेचनौषधं पिबेदातुरः| स्नेहनं-स्नेहः| दृढः स्नेहकोष्ठो यस्य स दृढस्नेहकोष्ठः| न दृढस्नेहकोष्ठोऽदृढस्नेहकोष्ठः| स भूयोऽपि स्नेहस्वेदैः संस्कृतशरीरो दशाहादूर्ध्वं यौगिकं विरेचनं पिबेत्| [ सम्यगालोच्य- ] यथावन्निरूप्य, पूर्वमनुक्रमं-"भैषज्यमात्रां मन्त्राभिमन्त्रिताम्" इत्यादिकं, तथा "अप्रवृत्तौ तु पाययेत्| उष्णाम्बु स्वेदयेदस्य पाणितापेन चोदरम्|" इत्यादिकं च, स्मरन् पिबेदिति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-उपायेनाप्यप्रव्रुत्त्तौ किं कृत्यम्? इत्यत आह-उत्थान इति| उत्थाने-प्रवर्तने अल्पे सति तस्मिन् दिने भुक्त्वा द्वितीयदिने पुनर्विरेचनं पिबेत्| यस्तु निवृत्तस्नेहवान्न विरिच्यते स पुनः स्निग्धस्विन्नो दशाहादूर्ध्वं विरेचनं पिबेत्| पूर्वमतिक्रमं-प्रथमविरेचने सामग्रीवैकल्यं, स्मरन् सम्यगालोच्य यद्योग्यं स्यात्तत्पुनर्देयम्, न प्रथममेव| सङ्ग्रहे तु (सू. अ. २७) - "ह्रीभयलोभैश्च वेगाघातशीला प्रायशस्त्रियो राजसमीपस्था वणिजश्च भवन्ति| तस्मादेते वेगधारणात् प्रवृद्धवातत्वात् सदाऽऽतुरा दुर्विरेच्याश्च| तान् सुस्निग्धान् शोधयेत्, अन्यानपि चाकालनिर्हारविहाराहारान्| अतश्चैषां सदातुरत्वादल्पोऽप्यामयो दुःसाध्यो भवति|" इति|
Adhikarana विरेचने हीनयोगलक्षणणम् (३८-३९) · Śloka ३९
| हृत्कुक्ष्यशुद्धिररुचिरुत्क्लेशः श्लेष्मपित्तयोः||३८|| कण्डूविदाहः पिटिकाः पीनसो वातविङ्ग्रहः| अयोगलक्षणम्|३९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अयोगलक्षणं हृत्कुक्ष्यशुद्धिरित्यादिकम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-विरेचने हीनयोगलक्षणमाह-हृत्य्कुक्ष्यशुद्धिरिति| सङ्ग्रहे तु (सू. अ. २७) "आध्मानप्रसेकच्छर्दिभ्रमगौरवाग्निसादतन्द्रास्तैमित्यमूत्रसङ्गाः|" इति (इत्यधिकम्)|
Adhikarana विरेचने सम्यग्योगलक्षणम् (३९) · Śloka ३९
| योगो वैपरीत्ये यथोदितात्||३९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यथोक्ताद्वैपरीत्ये-हृत्कुक्षिशुद्धिरित्यादिको(के), योगो-योगलक्षणम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सम्यग्योगलक्षणमाह-योग इति| वैपरीत्येहृत्कुक्षिशुद्धिरुच्यादौ|
Adhikarana विरेचने अतियोगलक्षणम् (४०-४२) · Śloka ४२
विट्पित्तकफवातेषु निःसृतेषु क्रमात्स्रवेत्| निःश्लेष्मपित्तमुदकं श्वेतं कृष्णं सलोहितम्||४०|| मांसधावनतुल्यं वा मेदःखण्डाभमेव वा| गुदनिःसरणं तृष्णा भ्रमो नेत्रप्रवेशनम्||४१|| भवन्त्यतिविरिक्तस्य तथाऽतिवमनामयाः| |४२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अतिविरिक्तस्य विट्पित्तकफवातेषु क्रमान्निःसृतेषु जलं स्रवेत्| किम्भूतम् ? निःश्लेष्मपित्तं, तथा श्वेतं किञ्चित्कृष्णं सलोहितं-ईषद्रक्तं, अथवा मांसप्रक्षालनसदृशमथवा मेदःशकलाभं स्रवेत्| तथा गुदनिःसरणादयोऽतिवमनामयाश्च-क्षामतादयो भवन्ति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अतियोगलक्षणमाह-विट्पित्तकफवातेष्विति| अतिवमनामयाः-क्षामतादयः| सङ्ग्रहे तु (सू. अ. २७) - "परिकर्तिका हृदयोद्वेष्टनं पिपीलिकासञ्चार इवाङ्गे|" इति (इत्यधिकम्)|
Adhikarana सम्यग्विरिक्तस्य सम्यग्वान्तविधिः (४२-४३) · Śloka ४३
| सम्यग्विरिक्तमेनं च वमनोक्तेन योजयेत्||४२|| धूमवर्ज्येन विधिना| |४३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-एनं च-नरं सम्यग्विरिक्तं, वमनविहितेन विधिना विधूमेनोपपादयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सम्यग्विरिक्तस्य सम्यग्वान्तविधिमतिदिशति-सम्यग्विरिक्तमिति|
Adhikarana प्रकृतिभोजनमपि क्रमेण कुर्यात् (४३) · Śloka ४३
ततो वमितवानिव| क्रमेणान्नानि भुञ्जानो भजेत्प्रकृतिभोजनम्||४३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ततः-अनन्तरं, क्रमेण-पूर्वोक्तेन, रक्तशाल्यन्नसहितपेयोदीन्यन्नान्यश्नन् प्रकृतिभोजनं भजेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पेयादिक्रमानन्तरं प्रकृतिभोजनमपि क्रमेण कुर्यादित्याह-तत इति| क्रमेण-"पादेनापथ्यम्" इत्याद्युक्तेन| वमितवानिवेति दृष्टान्तबलेन वमितेऽप्ययं क्रमो ज्ञेयः|
Adhikarana मन्दवह्न्यादिभिः शोधनदिने उपवासः कार्यः (४४) · Śloka ४४
मन्दवह्निमसंशुद्धमक्षामं दोषदुर्बलम्| अदृष्टजीर्णलिङ्गं च लङ्घयेत्पीतभेषजम्||४४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पीतभेषजान् मन्दवह्न्यादीन् पञ्च लङ्घयेत्| अदृष्टं जीर्णलिङ्गं पीतभेषजस्य यस्येति योज्यम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मन्दवह्न्यादिभिः शोधनदिने उपवासः कार्य इत्याह-मन्दवह्निमिति| असंशुद्धं-हीनयोगिनम्| अक्षामं-शुद्धिकृतकार्श्यरहितम्| दोषदुर्बलं-दोषवृद्ध्या क्षीणबलम्| अदृष्टजीर्णलिङ्गं-जीर्णोउषधलक्षणरहितम्| तानि च (च. सि. अ. ६/२२) -"अनुलोमोऽनिलः स्वास्थ्यं क्षुत्तृष्णा सुमनस्कता| लघुत्वमिन्द्रियोद्गारशुद्धिर्जीर्णौषधाकृतिः|| क्लमो दाहोऽङ्गसदनं भ्रमो मूर्च्छा शिरोरुजा| अरतिर्बलहानिश्च सावशेषौषधाकृतिः||" इत्यतो ज्ञेयानि|
Adhikarana लङ्घनस्य फलम् (४५) · Śloka ४५
एवं लङ्घिते यो गुणो भवति, तमाह - - - - स्नेहस्वेदौषधोत्क्लेशसङ्गैरिति न बाध्यते| |४५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-उत्क्लेशाश्च सङआश्चोत्क्लेशसङ्गाः| स्नेहश्च स्वेदश्चौषधं च तानि, तेषामुत्क्लेशसङ्गाः स्नेहस्वेदौषधोत्क्लेशसङ्गाः तैः| इति-एवं लङ्घिते सति, मन्दाग्न्यादिर्न बाध्यते-न पीड्यते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-लङ्घनस्य फलमाह-स्नेहस्वेदेति| स्नेहस्वेदौर्षधैर्जाता ये दोषोत्क्लेशास्तेषां निर्हृतशेषाणां ये सङ्गाः स्रोतसां स्युः, तैः|
Adhikarana पेयादिक्रमे युक्तिः (४५-४६) · Śloka ४६
| संशोधनास्रविस्रावस्नेहयोजनलङ्घनैः||४५|| यात्यग्निर्मन्दतां तस्मात् क्रमं पेयादिमाचरेत्| |४६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-संशोधनादिभिर्यतोऽग्निर्मन्दतां याति, अतो हेतोः पेयादिक्रममाचरेत्| संशोधनं-सम्यक्शुद्धिः| अस्रविस्रावो-रक्तस्रुतिः| स्नेहयोजनं- स्नेहोपयोगः| ननु, शुद्ध्याग्निमान्द्यमिहोच्यते| वक्ष्यति च (श्लो. ६०) - "बुद्धिप्रसादं" इत्यादिना "ज्वलनस्य दीप्तिं संशोधनं करोति" इति| तदिमे वचसि परस्परं व्याघ्नाते| अत्रोच्यते| कालभेदाददोषः| संशोधने क्रियमाणेऽग्निमान्द्यं भवति| कृते च संशोधनेऽथ पेयादिक्रममासेवमानस्याग्निदीप्तिरिति न कश्चिदत्र व्याघातः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पेयादिक्रमे युक्तिमाह-संशोधनेति| स्नेहयोजनं-शमनस्नेहप्रयोगः| लङ्घनं-उपवासः|
Adhikarana स्रुताल्पपित्तादौ पेयानिषेधः, निषिद्धपेयानां पेयास्थाने मन्थः (४६-४७) · Śloka ४७
| स्रुताल्पपित्तश्लेष्माणं मद्यपं वातपैत्तिकम्||४६|| पेयां न पाययेत्तेषां तर्पणादिक्रमो हितः| |४७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स्रुतौ-पतितौ, अल्पौ पित्तश्लेष्माणौ यस्य तं, तथा मद्यपो यो नरस्तं मद्यपं. तथा वातपैत्तिकं, एतांस्त्रीनपि पेयां न पाययेत्| तर्ह्येषां किं कार्यम् ? इत्याह-तेषामित्यादि| प्रथमेऽन्नकाले लाजसक्तवो द्वितीयेऽन्नकाले मांसरसौदन(?)मित्येष तर्पणादिक्रमस्तेषां हितः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-स्रुताल्पपित्तादिषु पेयां निषेधति-स्रुताल्पपित्तेति| निषिद्धपेयानां पेयास्थाने मन्थो योज्य इत्याह-तेषामिति|
Adhikarana वमनविरेचनयोः स्वकार्यप्रतीक्षावधिः (४७-४८) · Śloka ४८
ननु, विरेचनस्येव वमनस्य कस्मात् पाको न प्रतीक्ष्यते ? इत्याह - - - - | अपक्वं वमनं दोषान् पच्यमानं विरेचनम्||४७|| निर्हरेद्वमनस्यातः पाकं न प्रतिपालयेत्| |४८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वमनमपक्वं सत् दोषान्निर्हरेत्| विरेचनं तु पच्यमानं दोषान्निर्हरेत्| अतो वमनस्य पाको न प्रतिपाल्यते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वमनविरेचनयोः स्वकार्यप्रतीक्षावधिमाह-अपक्वमिति| अर्थात् विरेचनस्य पाकं प्रतिपालयेत्|
Adhikarana दुर्बलादित्वाहारैरेव शोध्यः (४८-४९) · Śloka ४९
| दुर्बलो बहुदोषश्च दोषपाकेन यः स्वयम्||४८|| विरिच्यते भेदनीयैर्भोज्यैस्तमुपपादयेत्| |४९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दुर्बलो नरो बहुदोषश्च दोषपाकेन हेतुना स्वयं-औषधमन्तरेण, यो विरिच्यते-भिद्यते, तं-नरं, भेदनीयैर्भोज्यैः-भक्ष्यैर्योजयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-दुर्बलत्वादिविशिष्टस्त्वाहारैरेव शोध्य इत्याह-दुर्बल इति| भेदनीयैः-यवक्षारादिभिः| सङ्ग्रहे तु (सू. अ. २७) -"ऊर्ध्वाधोरेचनं युक्तं वैपरीत्येन जायते| यदा, तदा छर्दयतः सिञ्चेदुष्णेन वारिणा|| पादौ शीतेन चोर्ध्वाङ्गं विपरीतं विरेचने (विरिच्यतः)| [पीते प्रस्कन्दिते दोषाननिर्हृत्य जरां गते|| वमिते चौषधे सम्यक् पाययेत न तं पुनः| मन्दाग्निं बहुस्दोषं तु दृढस्नेहगुणाशयम्|| दुःशुद्धं तदहर्भुक्तं श्वो भूयः पाययेत तम्|]" इति|
Adhikarana दुर्बलादीनां मृद्वल्पमौषधम् अल्पदोषस्य दुर्बलस्य शमनम् (४९-५१) · Śloka ५१
| दुर्बलः शोधितः पूर्वमल्पदोषः कृशो नरः||४९|| अपरिज्ञातकोष्ठश्च पिबेन्मृद्वल्पमौषधम्| वरं तदसकृत्पीतमन्यथा संशयावहम्||५०|| हरेद्बहूंश्चलान् दोषानल्पानल्पान् पुनःपुनः| दुर्बलस्य मृदुद्रव्यैरल्पान् संशमयेत्तु तान्||५१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दुर्बलादयः पञ्च मृद्वल्पं विरेचनौषधं पिबेयुः| किमित्याह-यस्मात् तत्-विरेचनौषधं, असकृत्-पुनःपुनः, पीतं वरम्, न बहु| अन्यथा-बहु तीक्ष्णं चौषधं पीतं, संशयावहं-प्राणसन्देहकारि| तथा, पुनःपुनः प्रयुक्तमौषधं चलान् बहून् दोषानल्पानल्पान् हरेत्| एवं बलहानिं विना दोषनिर्हारः कृतः स्यात्| तुरवधारणे| दुर्बलस्य नरस्य मृदुद्रव्यैरल्पानेव तान् दोषान् सम्यक् शमयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-दुर्बलादीनां पञ्चानां मृद्वल्पं चौषधं देयमित्याह-दुर्बल इति| यद्यपि मृदल्पं न शोधयेत् तथाऽपि तदेवासकृत्पेयम्, न तु बहुतीक्ष्णम्, जीवितसंशयात्| बहुप्रचलितदोषस्यापि दुर्बलस्यशोधनं मृद्वल्पमेवेत्याह-हरेदिति| अल्पप्रचलितदोषस्य दुर्बलस्य शमनमेवेत्याह-अल्पान् संशमयेदिति|
Adhikarana बहुदोषस्य शमने बाधकम् (५२) · Śloka ५२
ननु, बहवो दोषाः कस्मान्न शाम्यन्ते ? इत्याह - - - - क्लेशयन्ति चिरं ते हि हन्युर्वैनमनिर्हृताः| |५२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-हि-यस्मात्, ते-बहवो दोषाः, अनिर्हृताश्चिरमेनं-आतुरं, क्लेशयन्ति| हन्युर्वा-अनिर्हृता मारयेयुः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-बहुप्रचलितदोषस्य शमने बाधकमाह-क्लेशयन्तीति| सङ्ग्रहे तु मृदुतीक्ष्णयोर्लक्षणमुक्तम् (सू. अ. २७) -"सुखं क्षिप्रं महावेगमसक्तं यत्प्रवर्तते| नातिग्लानिकरं नाति हृदि पायौ च रुक्करम्|| अन्तराशयगं क्लिन्नं कृत्स्नं दोषं निरस्यति| विरेचनं निरूहो वा तत्तीक्ष्णमिति निर्दिशेत्|| जलाग्निकीटैरस्पृष्टं देशकालगुणान्वितम्| नवं मात्राधिकं किञ्चित् तुल्यवीर्यैः सुभावितम्|| स्नेहस्वेदोपपन्नस्य तीक्ष्णत्वं याति भेषजम्| अतो विपर्यये मन्दं मन्दतां च प्रपद्यते|| तीक्ष्णो मध्यो मृदुर्व्याधिः सर्वमध्याल्पलक्षणः| बलापेक्षं हितं तेषु तीक्ष्णं मध्यं मृदु क्रमात्|| अप्रवर्त्य मलान् द्रव्यं सत्म्यीभूतं हि जीर्यति| वमनं वा विरेको वा तस्मात्सात्म्यं न योजयेत्|| विभ्रंशो विषवत्सम्यग्योगो यस्यामृतोपमः| कालेऽवश्यं प्रयोज्यं च तस्माद्यत्नेन तत्पिबेत्||" इति|
Adhikarana मन्दादग्निक्रूरकोष्ठयोः शोधने पूर्वाङ्गम् (५२-५३) · Śloka ५३
| मन्दाग्निं क्रूरकोष्ठं च सक्षारलवणैर्घृतैः||५२|| सन्धुक्षिताग्निं विजितकफवातं च शोधयेत्| |५३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मन्दाग्निं क्रूरकोष्ठं च नरं सह क्षारलवणाभ्यां वर्तन्ते यानि घृतानि तैर्यथासङ्ख्यमुद्दीपितानलं विजितकफवातं च शोधयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मन्दाग्निक्रूरकोष्ठयोः शोधने पूर्वाङ्गमाह-मन्दाग्निमिति|
Adhikarana रूक्षादीनां विरेचनमपि न विरेचयति ते कथं विरेच्याः? (५३-५५) · Śloka ५५
| रूक्षवह्वनिलक्रूरकोष्ठव्यायामशीलिनाम्||५३|| दीप्ताग्नीनां च भैषज्यमविरेच्यैव जीर्यति| तेभ्यो बस्तिं पुरा दद्यात्ततः स्निग्धं विरेचनम्||५४|| शकृन्निर्हृत्य वा किञ्चित्तीक्ष्णाभिः फलवर्तिभिः| प्रवृत्तं हि मलं स्निग्धो विरेको निर्हरेत्सुखम्||५५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रूक्षादीनां भैषज्यमविरेच्यैव-विरेचनमकृत्वैव, परिणमति| तेभ्यो-रूक्षादिभ्यः, पूर्वं बस्तिं दद्यात्| अनन्तरं स्निग्धं-एरण्डतैलबिन्दुघृतादिकं, विरेचनं योजयेत्| अथवा फलवर्तिभिस्तीक्ष्णाभिः पुरीषं किञ्चित्-अल्पं, निर्हृत्य-निःसार्य, स्निग्धं विरेचनं दद्यात्| किमिति बस्तिना तीक्ष्णाभिः फलवर्तिभिश्च किञ्चिच्छकृन्निर्हारः क्रियते ? इत्याह-प्रवृत्तं हीत्यादि| यस्मान्मलं प्रवृत्तं सन्तं किञ्चित्पतितं स्निग्धो विरेकः सुखं-अकृच्छ्रेण निर्हरेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-रूक्षादीनाम् पञ्चानां विरेचनमपि न विरेचयतीत्याह-रूक्षेति| ते कथं विरेच्या इत्यत आह-तेभ्य इति| बस्ति-निरूहम्|
Adhikarana विषाद्यार्तैषु शोधनम् (५६) · Śloka ५६
विषाभिघातपिटिकाकुष्ठशोफविसर्पिणः| कामलापाण्डुमेहार्तान्नातिस्निग्धान् विशोधयेत्||५६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नातिशब्दोऽत्रेषदर्थे| "नातिशीतगुरुस्निग्धं" (हृ. सू. अ. ६|६३) इत्यत्र यथा| विषाद्यार्तानीषत्स्निग्धान् विशोधयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-विषादिषु नवसु ईषत्स्निग्धस्य शोधनमित्याह-विषाभिवातेति| अभिघातः-शस्त्रघातादिः|
Adhikarana सर्वेषां स्नेहविरेचनम् स्नेहभावितानां रूक्षं विरेचनम् (५७) · Śloka ५७
सर्वान् स्नेहविरेकैश्च, रूक्षैस्तु स्नेहभावितान्| |५७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सर्वान्-ईषत्सिग्धान् विषार्तादीनीषद्रूक्षान् वा, स्नेहविरेकैः शोधयेत्| स्नेहभावितांश्च पुरुषान् रूक्षैर्विरेकैः शोधयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सर्वेषां विरेच्यानां स्नेहविरेचनं देयमित्याह-सर्वानिति| स्नेहभावितानां रूक्षं विरेचनमित्याह-रूक्षैस्त्विति|
Adhikarana प्रतिकर्मं स्नेहस्वेदौ कार्यौ,सर्वकर्मान्ते पुनः स्नेहनम् (५७-५८) · Śloka ५८
| कर्मणां वमनादीनां पुनरप्यन्तरेऽन्तरे||५७|| स्नेहस्वेदौ प्रयुञ्जीत, स्नेहमन्ते बलाय च| |५८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वमनादीनां कर्मणामन्तरेऽन्तरे-मध्ये मध्ये, पुनरपि-भूयः, स्नेहस्वेदौ प्रयुञ्जीत| अन्ते च कर्मणां बलाय-शरीरस्य बलाधानार्थं, स्नेहं प्रयुञ्जीत| तदयमर्थोऽत्र बोध्यः,-आदौ स्नेहस्वेदौ ततो वमनं, पुनः स्नेहस्वेदौ ततो विरेचनं, पुनः स्नेहस्वेदौ ततोऽनुवासनं, पुनः स्नेहस्वेदौ ततो निरूपणं, पुनः स्नेहस्वेदौ ततोऽनुवासनमिति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-प्रतिकर्म स्नेहस्वेदौ कार्यावित्याह-कर्मणामिति| सर्वकर्मान्ते पुनः स्नेहनं कार्यमित्याह-स्नेहमन्त इति|
Adhikarana स्नेहस्वेदाभ्यासे युक्तिः (५८-५९) · Śloka ५९
किमित्येवं विधीयते ? इत्याह - - - - | मलो हि देहादुत्क्लेश्य ह्रियते वाससो यथा||५८|| स्नेहस्वेदैस्तथोत्क्लिष्टः शोध्यते शोधनैर्मलः| |५९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यतो देहादुत्क्लेश्य-पतनोन्मुखं कृत्वा मलो विरेचनादिभिर्ह्रियते| कथमिव ? वाससो-वस्त्राद्यथा,- मर्दनिकायां वस्त्रं मर्दयित्वा जलादिना मलो निर्ह्रियत इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-स्नेहस्वेदनाभ्यासे युक्तिमाह-मल इति| स्निग्धस्विन्नाद्वस्स्त्रादिवोत्क्लिष्टो मलो ह्नियते|
Adhikarana स्नेहस्वेदनाभ्यासे दोषः (५९-६०) · Śloka ६०
ननु, स्नेहस्वेदावन्तरेणापि कस्मान्मलः शोधनैर्न शोध्यते ? इत्याह - - - - | स्नेहस्वेदावनभ्यस्य कुर्यात्संशोधनं तु यः||५९|| दारु शुष्कमिवानामे शरीरं तस्य दीर्यते||५९|| १/२||६०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यो नरः स्नेहस्वेदावनभ्यस्य-अशीलयित्वा, संशोधनं कुर्यात्, तस्य शरीरं दीर्यते| कथमिव ? आनामे-आनमने, काष्ठं शुष्कं यथा दीर्यत इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-स्नेहस्वेदानभ्यासे दोषमाह-स्नेहस्वेदाविति|
Adhikarana सम्यक् शोधनस्य फलम् (१७) · Śloka १८
साम्प्रतं संशुद्धेः फलमाह - - - - बुद्धिप्रसादं बलमिन्द्रियाणां धातुस्थिरत्वं ज्वलनस्य दीप्तिम्| चिराच्च पाकं वयसः करोति संशोधनं सम्यगुपास्यमानम्| ६० १/२| इति श्री वैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने वमनविरेचनविधिर्नामाष्टादशोऽध्यायः||१८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-संशोधनं सम्यक् क्रियमाणं बुद्धिप्रसादादीन् पञ्च करोति| बुद्धिप्रसादो-धीपाटवम्| वयसो-यौवनादेः, पाकः-परिणाम इति| उपजातिर्वृत्तम्| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने वमनविरेचनविधिर्नामाष्टादशोऽध्यायः समाप्तः|| १७||
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सम्यक् शोधनस्य फलमाह-बुद्धिप्रसादमिति| वयसः पाकं-जराम्| इति हेमाद्रिटीकायामायुर्वेदरसायने| वान्तिरेकप्रकरणं सामस्त्येन निरूपितम्|| १८||