Adhikarana अध्यायोपक्रमः · Śloka
🔊 Audio coming soon
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स्वस्थवृत्तेऽप्रवृत्तस्य वेगधारणशीलस्य च स्वास्थ्यासम्भवः| अतो वेगधारणप्रतिषेधेन या रोगानुत्पत्तिस्तामधिकृत्याध्याय आरभ्यते--
Adhikarana अध्यायोपक्रमः · Śloka
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स्वस्थवृत्तेऽप्रवृत्तस्य वेगधारणशीलस्य च स्वास्थ्यासम्भवः| अतो वेगधारणप्रतिषेधेन या रोगानुत्पत्तिस्तामधिकृत्याध्याय आरभ्यते--
Adhikarana रोगानुत्पादनीयाध्यायश्चतुर्थः (२) · Śloka २
अथातो रोगा|१]नुत्पादनीयाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे||२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-व्याख्याऽत्र प्रथमाध्यायवद्बोद्धव्या| रोगाणामनुत्पादः- अनुत्पादनम्, तस्मै हितो रोगानुत्पादनीयः| उपदर्शनं चेदम्| निदर्शनाख्यया तन्त्रयुक्त्या चोत्पन्नरोगोपशमनेएयोऽपि, वातादिरोधोत्थानां रोगाणामुपशमस्याभ्युपदेशात्| तथा च वक्ष्यति (अस्मिन्नेवाध्याये श्लो.३४)- "अनुत्पत्त्यै समासेन विधिरेषः प्रदर्शितः| निजागन्तुविकाराणामुत्पन्नानां च शान्तये||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-रोगानुत्पादनीयमध्यायं व्याख्यातुं प्रतिज्ञानीते-अथेति| यतः पूर्वयोरध्याययोर्नियतकालो विहारो व्याख्यातः| इहानियतकालः| स च पञ्चधा,-वेगधारणं, वेगोदीरनं, शोधनं, बृंहणं, भूताद्यस्पर्शनं चेति| तेषां च [२]हानोपादानाभ्यां रोगाणामनुत्पादनम्, प्रागभावप्रध्वंसहेतुत्वात्| तत्र धारणोदीरणयोर्हानात् प्रागभावः, शोधनाद्युपादानादुभयम्| अत एवायं रोगानुत्पादनहेतुत्वाद्रोगानुत्पादनीयः| ननु, रोगानुत्पादनीयो [३]यद्ययमध्याय[४]स्तर्ह्यौषधस्कन्धे प्रणिधीयताम्| सत्यम्| य एव हि हेतवः, तान्येवौषधानि| असम्यग्योगसम्यग्योगावेवात्र भेदकौ| किन्त्वनुत्पन्नेषु व्याधिषु ये विहाराहारा रागतो विधितो वा प्राप्ताः प्रायः सेव्यन्ते, ते हेतुस्कन्धे विधीयन्ते| तेषामेव हि प्रमादात्प्रतिकूलदैवाद्वा सत्यसम्यग्योगे हेतुत्वम्| य उत्पन्नेषु, ते भेषजस्कन्धे| तेषामेव ह्यप्रमादादनुकूलदैवाद्वा सति सम्यग्योगे भेषजत्वम्| [५]पूर्वयोरुत्तरेषां च षण्णामध्यायानामनेनैवाभिप्रायेण हेतुस्कन्धे प्रणिधानमिति सकलमनाकुलम्| रोगानुत्पादनीयत्वं च यद्यपि सर्वेषामेवाध्यायानाम्, तथाप्यस्यैव संज्ञाकरणमतिशयद्योतनार्थम्|
Adhikarana वातादिवेगधारणनिषेधः (१) · Śloka १
वेगान्न धारयेद्वातविण्मूत्रक्षवतृट्क्षुधाम्| निद्राकासश्रमश्वासजृम्भाश्रुच्छर्दिरेतसाम्||१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
वातादेएनां वेगान्न धारयेत्| सर्वत्र द्वन्द्वसमासः| क्षवः- छिक्क| ६ श्रमो- व्यायामायासः, तेन श्वासः श्रमश्वासः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तत्र वेगधारणं निषेधति-वेगान्नेति| प्रवृत्युन्मुखत्वं वेगः| वातशब्देनाधोवात ऊर्ध्ववातश्च| क्षवः-क्षवथुः| श्रमेण श्वासः श्रमश्वासः| अश्रु-आनन्दजं शोकजं वा नेत्रोदकम्|
Adhikarana अधोवातरोधेन गुल्मादिरोगोत्त्पत्तिः (२) · Śloka २
वातस्य प्राधान्यात्तध्रोधजान् रोगान् पूर्वं नि १ दर्शयन्नाह अधोवातस्य रोधेन गुल्मोदावर्तरुक्क्लमाः| वातमूत्रशकृत्सङ्गदृष्ट्यग्निवधहृद्गदाः २ ||२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अधोवातस्य रोधेन गुल्मादयो जायन्ते| ऊर्ध्ववातस्य- उद्गाररूपस्य रोधात् सुखसाध्या अरुच्यादयः| अत एवाधोवातरोधाद्ये रोगा अतिप्रत्यपायरूपा गुल्मादयः, तेऽत्र पूर्वं निर्दिष्टाः| उदावर्तः- अर्शोनिदाने वक्ष्यते| रुक्- पीडा| क्लमो- ग्लानिः| वातमूत्रशकृत्सङ्गो- वातादीनामप्रवृत्तिः| दृष्टेरग्नेश्च वधो- नाशः| हृद्गदो- हृद्रोगः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तत्र निषेधातिक्रमे दोषं दर्शयन् वेगधारणजान् रोगानाह| तत्राधोवातरोघजान् रोगानाह-अधोवातस्येति| रुक्-कोष्ठशूलम्| वातादीनां सङ्गः-स्वाभाविक प्रवृत्तिरोधः| दृष्टिवधः-तिमिरम्| अग्निवधः-अग्निमान्द्यम्| हृद्गदो-हृद्रोगः|
Adhikarana शकृतो रोधे पिण्डकोद्वेष्टादयः (३-४) · Śloka ४
शकृतः पिण्डिकोद्वेष्टप्रतिश्यायशिरोरुजः| ३ ऊर्ध्ववायुः परीकर्तो हृदयस्योपरोधनम्||३|| मुखेन विट्प्रवृत्तिश्च पूर्वोक्ताश्चामयाः स्मृताः| |४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शकृतो रोधेन पिण्डिकोद्वेष्टादयो जायन्ते| उद्वेष्टनमिवोद्वेष्टः| पिण्डिकोद्वेष्टः| पिण्डिका-जङ्घाकाण्डस्य पश्चिमे भागे पिण्डाकृति कठिनं मांसम्| तत्रोद्वेष्टनेनेव रुग्भवतीत्यर्थः| प्रतिश्यायः-पीनसः| चः समुच्चये| न केवलमेत एव, यावत्पूर्वोक्ताः-गुल्मादयश्च, स्मृताः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अधोवातरोधजानन्तरमूर्ध्ववातरोधजेषु वाच्येषु शकृन्मूत्ररोधजानां वचनमधोवातरोधज १ तुल्यरोगयोगत्वात्| तत्र विड्रोधजानाह-शकृत इति| जङ्घायाः पश्चिमे भागे पिण्डिकाकूतिमांसं पिण्डिका, तस्या उद्वेष्टनं-उद्वेष्ट २ मानायामिव दुःखम्| पूर्वोक्ताः-अधोवातरोधजाः|
Adhikarana मूत्रस्य रोधादङ्गभङ्गादयः (४-५) · Śloka ५
| अङ्गभङ्गाश्मरीबस्तिमेढ्रवंक्षणवेदनाः||४|| मूत्रस्य रोधात्पूर्वे च प्रायो रोगाः| |५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मूत्रस्य रोधादङ्गभङ्गादयो जायन्ते| अङ्गानां भङ्गः स्फोटनमिवाङ्गभङ्गः| बस्त्यादीनां वेदनया सम्बन्धः| मेढ्रंशिश्र्नम्| पूर्वे च प्रायो रोगाः-अधोवातशकृद्रोधजाः, तेऽपि मूत्रस्य रोधाज्जायन्ते| प्रायोग्रहणात् वातादिरोधजाः केचिदेवोत्पद्यन्ते केचिन्नेति बोधयति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मूत्ररोधजानाह-अङ्गभङ्गेति| अङ्गभङ्गो-भज्यमानेष्विवाङ्गेषु दुःखम्| बस्त्यादीनां च वेदनाः| पूर्वे रोगाः-अधोवातविड्रोधजाः| ते च प्रा ३ योग्रहणान्न सर्वे|
Adhikarana वातादिरोधजानामौषधम् (५) · Śloka ५
तदौषधम्| वर्त्यभ्यङ्गावगाहाश्च स्वेदनं बस्तिकर्म च||५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तदौषधं-तेषां वातादिरोधजानां रोगाणामौषधं चिकित्सितं भवति| किं तत् ? इत्याह-वर्तीत्यादि| वर्तिः-मदनफलादिकृता फलवर्तिसंज्ञा| अभ्यङ्गः-अभ्यञ्जनम्| अवगाहो वातहरद्रव्यसाधिते द्रवे द्रोण्यां निहिते पायुदेशस्यावस्थापनम्| स्वेदनं-स्वेदः| बस्तिकर्म-मलप्रवृत्तये बस्तिविधौ वक्ष्यमाणम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-उक्तानां वातादिरोधजानां रोगाणामौषधमाह-तदौषधमिति| कर्म चेत्यन्तेन| तेषां-अधोवातविण्मूत्ररोधजानामौषधम्| वर्तिः-गुदे प्रणिधेया फलवर्तिसंज्ञा| वत्रिः-गुदे प्रणिधेया फलवर्तिसंज्ञा| अवगाहः-तैलादिपूर्णद्रोण्यां निमज्जनम्|
Adhikarana पुरीषरोधजानामौषधम् (६) · Śloka ६
पुरीषरोधोत्थेष्वन्यमप्यसाधारणमुपक्रममाह अन्नपानं च विड्भेदि विड्रोधोत्थेषु यक्ष्मसु| |६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पुरीषवेगधारणजेषु यक्ष्मसु-रोगेषु, विशः-पुरीषस्य, भेदि-भेदकमन्नपानं यावकमस्तुवास्तुकादिकमौषधम्| चशब्दात्पूर्वोक्तं वर्त्यादि च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-विड्रोधजानां विशेषमाह-अन्नपानं चेति| विड्भेदि-यवमस्त्वादिकम्| यक्ष्मसु-रोगेषु| चकारः सामा ४ न्यानुप्रवेशार्थः| अन्यथा 'ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्याय' इतिवत् सामान्यबाधः स्यात्|
Adhikarana मूत्रजानामौषधम् (६-७) · Śloka ७
मूत्रजेषु तु पाने च प्राग्भक्तं शस्यते घृतम्||६|| जीर्णान्तिकं चोत्तमया मात्रया योजनाद्वयम्| अवपीडकमेतच्च संज्ञितं|७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मूत्ररोधजेषु पुनः प्राग्भक्तं-भोजनात्पूर्वं, घृतं पाने शस्यते| जीर्णान्तिकं घृतं च शस्यते| कथम् ? उत्तमया मात्रया-अहोरात्रजरणलक्षणया| योजनाद्वयमेतच्चावपीडकसंज्ञितं-अवपीडकमुच्यते| योजनयोर्द्वयं योजनाद्वयं,-प्राग्भक्तस्नेहयोजना जीर्णान्तिकस्नेहयोजना च| तत्र, प्राग्भक्तं-यत्र घृतपानसमनन्तरं भक्तं भुज्यते, जीर्णान्तिकं-यत् ह्यस्तनेऽन्ने जीर्णे घृतं प्रयुज्यते| प्रदेशान्तरेष्ववपीडकशब्देन योजनाद्वयमेतदस्मिंस्तन्त्रे वेद्यम्| तथा च वक्ष्यति (हृ. चि. अ. ८/१२४)- "रसैः कोष्णैश्च सर्पिर्भिरवपीडकयोजितैः" इति| तथाऽष्टाङ्गावतारे मूत्रोदावर्तचिकित्सायाम्-"अवपीडकसर्पिश्च विशेषान्मूत्रजे गदे" इति| ननु, वेगधारणेन बाहुल्येन मरुत एव कोपः| तथा च वक्ष्यति (अस्मिन्नेवाध्याये श्लो.२३)- "ततश्चानेकधा प्रायः पवनो यत्प्रकुप्यति" इति| पवनविजये च तैलं यथा वरं न तथा घृतम्| अतस्तैलस्यैवावपीडकयोजन मत्रोचितम्, न सर्पिषः| अत्रोच्यते| तैलस्य वातजितोऽपि बद्धविट्काल्पमूत्रस्वभावत्वादत्रायोग्यं पानम्| तथा च वक्ष्यति (हृ.सू.अ. ५/५५)- "तैलं स्वयोनिवत्" इत्यारभ्य यावत् "बद्धविट्कम्" इति| स्वयोनिवदित्युक्तेश्चाल्पमूत्रत्वम्| तथा च वक्ष्यति (हृ. सू. अ. ६/२१)- "उष्णस्त्वच्यो हिमः स्पर्शे केश्यो बल्यस्तिलो गुरुः| अल्पमूत्रः" इति| तदेवं तैलस्य बद्धविट्काल्पमूत्रस्वभावतया तदीयोऽवपीडको मूत्ररोधोत्थेषु रोगेष्वौषधत्वेन न युक्तः, अपि तु सर्पिष एव युक्तः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मूत्ररोधजानां विशेषमाह-मूत्रजेष्विति| अवपीडको द्विविधः,- हृस्वया मात्रया प्राग्भक्तप्रयोगः, उत्तमया अनन्नप्रयोगश्च| उक्तं हि सङ्ग्रहे (सू. अ. ५)- "मूत्रजेषु तु पाने च प्राग्भक्तं शस्यते घृतम्| जीर्णान्तिकं चोत्तमया मात्रया योजनाद्वयम्| अवपीडकमेतच्च संज्ञितं" इति| चकारः सामान्यानुप्रवेशार्थः|
Adhikarana उद्गारस्य रोधादरूच्यादयःउद्गाररीधजानामौषधम् (७-८) · Śloka ८
धारणात्पुनः||७|| उद्गारस्यारुचिः कम्पो विबन्धो हृदयोरसोः| आध्मानकासहिध्माश्च हिध्मावत्तत्र भेषजम्||८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पुनरिति व्यतिरेके| उद्गारस्य धारणादरुच्यादयो भवन्ति| उरो-वक्षः, तस्याधो हृदयम्, तयोर्विबन्धः-अन्तस्तम्भ इव| तत्र-तेषु रोगेषु, हिध्मावद्भेषजम्-श्वासहिध्माचिकित्सिते हिध्मायाश्चिकित्सितं वक्ष्यति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-ऊर्ध्ववातरोधजानाह-उद्गारस्येति| रोधेनेति प्रकृतत्वाल्लभ्यते| कम्पः सर्वाङ्गानाम्| हृदयोरसोर्विबन्धः-रज्ज्वादिभिर्बध्यमानयोरिव दुःखम्| आध्मानं-उदरापूरणम्| उद्गाररोधजानामौषधमाह-हिध्मावदिति| हिध्मायामिव हिध्मावत्|
Adhikarana क्षुतिरोधाच्छिरोर्त्यादयः (९) · Śloka ९
शिरोर्तीन्द्रियदौर्बल्यमन्यास्तम्भार्दितं क्षुतेः| |९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-क्षुतेः-क्षवथोः, धारणाच्छिरोर्त्यादयः स्युः| दुर्बलस्य भावो दौर्बल्यम्, गुणवचनेत्यादिना ष्यञ्| इन्द्रियाणां-दर्शनादीनां, दौर्बल्यं-विषयग्रहणाशक्तित्वम्, इन्द्रियदौर्बल्यम्| ननु च, पूरणगुणेत्यादिना समासप्रतिषेधेन भवितव्यम्| अत्रोच्यते| य एव गुणशब्दा गुणिनावच्छिन्ना गुणमात्रे वर्तन्ते कदाचिद् गुणिन्यपि, त एव प्रतिषेधस्य विषयाः| यथा-पटस्य शुक्लो, गुडस्य मधुरः, इत्यादयः| ये तु गुणमात्र एव वर्तन्ते न गुणिनि, ते समासस्य यथा-पटहशब्दः, पुत्रस्पर्शः, कन्यारूपम्, द्राक्षारसः, चन्दनगन्ध इत्यादयः| तथेन्द्रियदौर्बल्यमित्यादावपि भावप्रत्ययान्तस्य सदा व्यतिरेककारणत्वाद्गुणाभिधायित्वमेव| तस्मादेवमादौ "तत्स्थैश्च गुणैः षष्ठी समस्यते" इति समासः| तस्यायमर्थः-तेषु गुणेष्वेव तिष्ठन्तीति तत्स्थाः| एतदुक्तं भवति-गुण एव ये गुणा वर्तन्ते न द्रव्यात्मनि, तैः सह षष्ठी समस्यत इति| शुक्लादिशब्दानां तु कदाचिद्द्रव्यवृतित्वात् सामानाधिकरण्येनापि वृत्तिर्द्दष्टा| यथा-शुक्लः पट इति| गुणवृत्तित्वाच्च वैयधिकरण्येनापि| यथा-पटस्य शुक्ल इति| तदेषां प्रतिषेधविषयत्वम्| पटहशब्दादीनां तु तत्स्थत्वात्समासविषयत्वमिति स्थितम्| नन्वेवं सति बलाकायाः शौक्ल्यमित्यत्रापि पूर्वोक्तान्न्यायात्समासः प्राप्नुयात्| अत्रोच्यते| भाष्यकारवचनान्न भविष्यति| स हि "गुणवचनग्रहणमेव कस्मान्न क्रियते" इत्युक्त्वाऽभ्यधात्-"बलाकायाः शौक्ल्यमित्यत्रापि यथा स्यात्" इति समासस्यात्राभावः| अर्दितं-वातव्याधिनिदाने वक्ष्यते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-क्षवथुरोधजानाह-शिरोर्तीति| शिरोर्तिः-शिरोव्यथा| इन्द्रियाणां दौर्बल्यं-विषयग्रहणाशक्तिः| अर्दितं-एकायामः| क्षुतेः-क्षवथोः|
Adhikarana क्षुतिरोधजानामौषधनम् (९-१०) · Śloka १०
तीक्ष्णधूमाञ्जनाघ्राणनावनार्कविलोकनैः||९|| प्रवर्तयत्क्षुतिं सक्तां स्नेहस्वेदौ च शीलयेत्| |१०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-क्षुतिं सक्तां-अप्रवर्तमानां, तीक्ष्णधूमादिभिः प्रवर्तयेत्| तीक्ष्णधूमो-धूमपानविधौ वक्ष्यते| तीक्ष्णं चाञ्जनंअक्षिरोगेषु| तीक्ष्णाघ्राणां-यन्नासया मरीचादिग्रहणम्| तीक्ष्णं नावनं-नस्यविधौ वक्ष्यति| स्नेहश्च स्वेदश्च तौ च शीलयेत्-अभ्यसेत्| क्षुतिं क्षुतम्| सुश्रुते चोक्तम् (शा. अ. ४/५० टीकायाम्)- "प्राणोदानौ समौ स्यातां मूर्ध्नि स्रोतःपथे स्थितौ| नस्तः प्रवर्तते शब्दः क्षुतं तच्च विनिर्दिशेत्||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-क्षवथुतेधजानामौषधमाह-तीक्ष्णधूमेति| क्षुत्यवरोधजेष्ववरुद्धां क्षुतिं तीक्ष्णैर्धूमादिभिः सूर्यविलोकनेन च प्रवर्तयेत्| तथा स्नेहस्वेदौ च शीलयेत्| सङ्ग्रहे तु (सू. अ. ५) "योज्यं वातघ्नमन्नं च घृतं चोत्तरभक्तकम्|" इति|
Adhikarana तृष्णानिरोधाच्छोषादयःतृषारोधजानामौषधम् (१०-११) · Śloka ११
शोषाङ्गसादबाधिर्यसम्मोहभ्रमहृद्गदाः||१०|| तृष्णाया निग्रहात्तत्र शीतः सर्वो विधिर्हितः| |११|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तृष्णाया निग्रहात्-निरोधात्, शोषादयो भवन्ति| तत्र-तृष्णाया रोधजेषु विकारेषु, सर्वः शीतो विधिः-स्नानान्नपानादिको हितः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तृड्रोधजानाह-शोषाङ्गसादेति| शोषो-मुखशोषः| अङ्गसादः-अङ्गवैक्लव्यम्| सम्मोहो-ज्ञानाभावः| भ्रमः-चक्रारूढस्येव भ्रमणम्|| हृद्रदो-हृद्रोगः| तृड्रोधजानामौषधमाह तत्र शीत इति| तत्र-तृड्रोधजेषु|
Adhikarana क्षुधो रोधादङ्गभङ्गादयः क्षुद्रोधजानामौषधम् (११-१२) · Śloka १२
अङ्गभङ्गारुचिग्लानिकार्श्यशूलभ्रमाः क्षुधः||११|| तत्र योज्यं लघु स्निग्धमुष्णमल्पं च भोजनम्| |१२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-क्षुध इति-निग्रहादित्यनुवृत्तिः, निग्रहापेक्षया षष्ठी| एवं निद्राया इत्यत्रापि योज्यम्| क्षुधो-बुभुक्षायाः, निग्रहादङ्गभङ्गादयः षट् भवन्ति| सामान्येनापि शूलशब्दनिर्देशे पक्वाशयगतः शूलो गृह्यते| क्षुद्वेगनिग्रहेण निरावरणः प्रभञ्जनः कुप्यति| तस्य च स्थान पक्वाशयः| वक्ष्यति हि (हृ. सू. अ. १२/१)- "पक्वाशयकटी" इत्यारभ्य यावत् "पक्वाधानं विशेषतः" इति| तत्र-क्षुन्निग्रहे, भोजनं लघु स्निग्धमुष्णमल्पं च योज्यम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-क्षुद्रोधजानाह-अङ्गभङ्गारुचीति| ग्लानिःक्लमः| शूलं-कोष्ठशूलम्| क्षुद्रोधजानामाषधमाह-तत्रेति| तत्र-क्षुद्रोधजेषु|
Adhikarana निद्रारोधान्मोहादयः निद्रारोधजानामौषधम् (१२-१३) · Śloka १३
निद्राया मोहमूर्धाक्षिगौरवालस्यजृम्भिकाः||१२|| आङ्गमर्दश्च, तत्रेष्टः स्वप्नः संवाहनानि च| |१३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-निद्राया निग्रहान्मोहादयो भवन्ति| तत्र-निद्रावेगरोधोत्थे विकारे, स्वप्न इष्टः| संवाहनानि-स्वल्पानि मर्दनानि च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-निद्रारोधजानाह-निद्राया इति| मूर्ध्नोऽक्ष्णोश्च गौरवम्| आलस्यं-अनुत्साहः| अङ्गमर्दः-अङ्गभङ्गः| निद्रारोधजानामौषधमाह-तत्रेष्ट इति| स्वप्नः-शयनम्| संवाहनं-सुखस्पर्शमर्दनम्|
Adhikarana कासरोधात्तद्वृद्धिः कासरोधजानामौषधम् (१३-१४) · Śloka १४
कासस्य रोधात्तद्वृद्धिः श्वासारुचिहृदामयाः||१३|| शोषे हिध्मा च, कार्योऽत्र कासहा सुतरां विधिः| |१४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कासस्य-कासवेगस्य, रोधात्तद्वृद्धिः तस्य-कासस्य वृद्धिः-आधिकय स्यात्| तथा, श्वासादयः| तत्र कासहाकासचिकित्सितोक्तः, सुतरां-अतिशयेन, विधिः कार्यः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कासरोधजानाह-कासस्येति| तद्वृद्दिः-कासवृद्धिः| शोषो-राजयक्ष्मा| कासरोधजानामौषधमाह- कार्योऽत्रेति| अत्र कासरोधजेषु|
Adhikarana श्रमश्चासरोधाद्रुल्मादयः श्रमश्चासरोधजानामौषधम् (१४-१५) · Śloka १५
गुल्महृद्रोगसम्मोहाः श्रमश्वासाद्विधारितात्||१४|| हितं विश्रमणं तत्र वातघ्नश्च क्रियाक्रमः| |१५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-श्रमेण-अध्वव्यायामादिना साहसेन, सद्यो जातः श्वासः श्रमश्वासः| तस्माद्विधारितात्-तद्वेगरोधात्, गुल्मादयः स्युः| तत्र विश्रमणं हितम्| वातघ्नश्च क्रियाक्रमो हितः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-श्रमश्वासरोधजानाह-गुल्महृद्रोगेति| श्रमश्वासरोधजानामौषधमाह-हितं विश्रमणमिति|
Adhikarana जृम्भाया रोधात्क्षुतिवद्रोगाः जृम्भारोधजानामौषधम् (१५) · Śloka १५
| जृम्भायाः क्षववद्रोगाः, सर्वश्चानिलजिद्विधिः||१५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जृम्भाया रोधात् क्षुतिवद्रोगाः| तत्र सर्वा च वातघ्नी क्रिया, हितेति शेषः| जृम्भा-मुखविकासो गात्रविनामः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-जृम्भारोधजानाह-जृम्भाया इति| क्षववत्क्षवथोरिव शिरोर्त्यादयः| जृम्भारोधजानामौषधमाह-सर्वश्चेति| प्रकृतत्वाज्जृम्भा रोधजानाम्|
Adhikarana बाष्परोधात्पीनसादयः बाष्परोधजानामौषधम् (१६) · Śloka १६
पीनसाक्षिशिरोहृद्रुङ्मन्यास्तम्भारुचिभ्रमाः| सगुल्मा बाष्पतस्तत्र स्वप्नो मद्यं प्रियाः कथाः||१६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बाष्पतः-अश्रुणो विधारितात्, पीनसादयो भवन्ति| पीनसो-नासास्रावः| अक्षिशिरोहृदां रुजा सम्बन्धः| सगुल्मा इति सशब्दश्चार्थे, गुल्माश्चेत्यर्थः| तत्र स्वप्नादिका चिकित्सा|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-बाष्परोधजानाह-पीनसाक्षीति| अक्षिरोगः शिरोरोगो हृद्रोगश्च| बाष्पः-अश्रु| बाष्परोधजानामौषधमाह-तत्र स्वप्न इति| तत्र-बाष्परोधजेषु| प्रियाः-मनोहराः|
Adhikarana वमेर्निरोधे विसर्पादयः वमीरोधजानामौषधम् (१७) · Śloka १७
विसर्पकोठकुष्ठाक्षिकण्डूपाण्ड्वामयज्वराः| सकासश्वासहृल्लासव्यङ्गश्वयथवो वमेः||१७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वमेः-छर्दिशो विधारितायाः, विसर्पादयः स्युः| कोठो-लोहितं कठिनं च मण्डलम्| आक्षिकण्डूपाण्डूनामामयेन सम्बन्धः| व्यङ्गानि-मुखे श्यामानि मण्डलानि|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वमिरोधजानाह-विसर्पेति| कोठः-क्षुद्ररोगविशेषः| अक्ष्यामयः कण्ड्वामयः पाण्ड्वामयश्च| हृल्लासःहृदयादीषयथासहिताल्लवणपानीयोद्गिरणम्| व्यङ्गं-क्षुद्ररोगविशेषः|
Adhikarana वमीरोधजानामौषधम् (१८-१९) · Śloka १९
गण्डूषधूमानाहारा रूक्षं भुक्त्वा तदुद्वमः| व्यायामः स्रुतिरस्रस्य शस्तं चात्र विरेचनम्||१८|| सक्षारलवणं तैलमभ्यङ्गार्थं च शस्यते| |१९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तत्र गण्डूषादयः शस्ताः| अनाहारः-अभोजनम्| एतेषां द्वन्द्वः| तथा रूक्षं भुक्त्वा, तस्य-रूक्षस्य, उद्वमः-छर्दनम्| एवं प्राणो वायुः स्वमार्गं प्रत्येति| ततो व्यायामाद्यत्र शस्तम्| तथा, क्षारलवणाभ्यां युक्तं तैलमभ्यङ्गार्थं शस्यते-हितं भवति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-छर्दिरोधजानामौषधमाह-गण्डूषेति| अनाहारः-उपवासः| रूक्षमन्नं भुक्त्वा, तस्यैवान्नस्य उद्वमः-वमनम्| अस्रस्य स्रुतिः-रक्तस्रावः|
Adhikarana शुक्ररोधाच्छुक्रस्त्रवणादयः (१९-२०) · Śloka २०
शुक्रात्तत्स्रवणं गुह्यवेदनाश्वयथुज्वराः||१९|| हृद्व्यथामूत्रसङ्गाङ्गभङ्गवृद्ध्यश्मषण्ढताः| |२०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शुक्राद्विधारितात् तस्य-शुक्रस्य स्रवणम्| तथा, गुह्यवेदना-पायुवृषणमेहनानां शूलम्| तथा, श्वयथुः प्रकृतत्वाद्गुह्य एवेति योज्यम्| वृद्धिः-वर्ध्म| अश्मशब्देनाश्मरी कथ्यते| षण्ढता_स्त्रीगमनाशक्तित्वम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शुक्ररोधजानाह-शुक्रादिति| तत्स्रवणं-शुक्रस्रावः| गुह्यस्य-मेढ्रस्य वेदना श्वयथुश्च| वृद्धिः-मुष्कवृद्धिः| अश्म-अश्मरी| षण्ढता-अपत्यजननासामर्थ्यम्|
Adhikarana शुक्ररोधजानां औषधम् (२०-२१) · Śloka २१
ताम्रचूडसुराशालिबस्त्यभ्यङ्गावगाहनम्||२०|| बस्तिशुद्धिकरैः सिद्धम् भजेत्क्षीरं प्रियाः स्त्रियः| |२१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तत्र ताम्रचूडादिकं भजेत्| तथा, बस्तिशुद्धिकरैः कूष्माण्डादिभिः, सिद्धं क्षीरं भजेत्| प्रियाश्च कान्ताः| प्रियत्वेन हि तद्विशेषं निरनुबन्धं रभसेन प्रवर्तते शुक्रम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शुक्ररोधजानामौषधमाह-ताम्रचूडेति| ताम्रचूडः-कुक्कुटः| बस्तिः-बस्तिकर्म| बस्तिशुद्धिकरैः-मूत्राशयशोधनैर्यवक्षारादिभिः, सिद्धं(?) क्षीरं भजेत्| एवं वेगरोधजा रोगा उक्ताः|
Adhikarana तृडार्ताद्या वेगरोधिनो न चिकित्स्याः (२१) · Śloka २१
वेगरोधिनो ये न चिकित्स्याः, तान्दर्शयन्नाह | तृट्शूलार्तं त्यजेत् क्षीणं विड्वमं वेगरोधिनम्||२१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तृट् च शूलं च ताभ्यामार्तं-पीडितम्, तथा, क्षीणंक्षीणदेहम्, वेगरोधिनं त्यजेत्-न चिकित्सेत्| तथा, विशं यो वमति, तं च वेगरोधिनं त्यजेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तृडाद्युपद्रुतस्य वेगरोधिन उपक्रमं निषेधतितृट्शूलार्तमिति| क्षीणं-क्षीणधातुम्| विड्वमं-पुरीषं वमन्तम्|
Adhikarana वेगोदीरणधारणैः सर्वेपि रोगाः (२२) · Śloka २२
अथ किमेत एव रोगा वेगोदीरणधारणाद्भवन्ति ? नेत्याह रोगाः सर्वेऽपि जायन्ते वेगोदीरणधारणैः| |२२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सर्वेऽपि रोगा जायन्ते न केवलं पूर्वोक्ता एव| वेगानां-पुरीषादिसम्बन्धिनां, यान्युदीरणानि-अनागतानां प्रवर्तनानि, तैः| तथा, तेषामेवागतानां यानि विधारणानिअनुत्सर्गलक्षणानि, तैः| अत्रेयं युक्तिः-वेगोदीरणधारणं नाम वायोः कर्म, तस्य क्रियावत्त्वात्| तेन च वेगोदीरणधारणलक्षणेन स्वकर्मणा स एव वायुः कोप्यते| स कुपितः सर्वानेव विकारान् जनयति| तथा चोक्तम् (हृ. सू. अ. १९/८५)- "शाखागताः कोष्ठगताश्च रोगा मर्मोर्ध्वसर्वावयवाङ्गजाश्च| ये सन्ति तेषां न तु कश्चिदन्यो वायोः परं जन्मनि हेतुरस्ति|| विट्श्लेष्मपित्तादिमलोच्चयानां विक्षेपसंहारकरः स यस्मात्" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वेगधारणवत्सर्वरोगहेतुत्वकथनद्वारा वेगोदीरणं निषेधति-रोगा इति| उक्तानां वेगानामुदीरणैर्धारणैश्च सर्वेऽपि रोगा जायन्ते, न पुनः पूर्वोक्ता एव| प्रवृत्तावनुन्मुखस्य (वेगस्य) बलादुन्मुखीकरणं-उदीरणम्| वेगधारणवत्सर्वरोगहेतुत्वाद्वेगोदीरनमपि त्यजेदित्यर्थसिद्धम्|
Adhikarana तत्र साधनमनुक्तसाधनानां सामान्यसाधनम् (२२-२३) · Śloka २३
निर्दिष्टं साधनं तत्र भूयिष्ठं ये तु तान् प्रति||२२|| ततश्चानेकधा प्रायः पवनो यत्प्रकुप्यति| अन्नपानौषधं तस्य युञ्जीतातोऽनुलोमनम्||२३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तत्र-तेषु वेगोदीरणधारणोत्थेषु सर्वेषु मध्ये, ये तु भूयिष्ठं-बाहुल्येन भवन्ति गुल्मोदावर्तादयः, तान् प्रति "वर्त्यभ्यङ्ग" इत्यादिना, साधनं निर्दिष्टं-चिकित्सोक्ता| ततश्च-वेगोदीरणधारणात्, अनेकधावायुर्यस्मात्कुप्यति| अतः-अस्माद्धेतोः, तस्यानुलोमनं-मार्गयोजकं, अन्नपानौषधं युञ्जीत| यद्यपि वेगोदीरणधारणात् "सर्वे रोगा जायन्ते" इत्युक्तम्| तथापि, यथा वेगधारणाच्चिरकालभाविनः सप्रत्यपाया रोगा भवन्ति, न तथोदीरणात्| अत एव तन्त्रकारोऽधोवातस्य रोधेनामीरोम्गा भवन्ति, शकृतो रोधादमी भवन्तीत्युवाच| न तु तदुदीरणादमी रोगा भवन्तीति| प्रायोग्रहणं क्वचित् कफादेरपि प्रकोप इति समापादयति| तथा च वमिनिग्रहे उक्तम् "विसर्पकोठकुष्ठाक्षि" इत्यादि| तत्र "गण्डूषधूमानाहाराः" इत्यादिचिकित्सा| न चैवंरूपो विधिर्वायावुपदिश्यते| तस्मात्प्रायोग्रहणम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सर्वेषां साधनानुक्तौ हेतुमाह-निर्दिष्टमिति| सर्वेषां साधने वक्तव्ये, यत्केषांचिद्गुल्मोदावर्तादीनां साधनमुक्तम्, तत्रायं हेतुः-यद्गुल्मादयो बहुलमुत्पद्यन्ते| इतरे तु विरलम्| अनुक्तसाधनानां सामान्येन साधनमाह-ततश्चानेकधेति| यत्-यस्मात्, ततः-ताभ्यां वेगोदीरणधारणाभ्यां, पवनः प्रकुप्यति| अनेकधा-अनेकव्याधिरूपेण| प्रायोग्रहणात् पित्तकफावपि| अतः-अस्मात्कारणात्, तस्य-वायोः, अनुलोमनमन्नपानौषधं प्रयुञ्जीत|
Adhikarana लोभादिवेगानां धारणमेव (२४) · Śloka २४
यदि वेगरोधाद्रोगा जायन्ते, तर्हि लोभादीनामपि नरकादिहेतूनां वेगा न धार्या इति प्राप्ते सतीदमाह धारयेत्तु सदा वेगान् हितैषी प्रेत्य चेह च| लोभेर्ष्याद्वेषमात्सर्यरागादीनां जितेन्द्रियः||२४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तुशब्दोऽवधारणे| सदा-सर्वकालम्, लोभेर्ष्यादीनां वेगान् धारयेदेव| हितैषी-यः पुरुषः स्वहितमिच्छन्| क्व ? प्रेत्य चेह च,-परलोके तथेहलोके च| किम्भूतः सन् ? जितानि-दान्तानि, इन्द्रियाणि-मनःषष्ठानि चक्षुरादीनि, विषयाणामनभिलाषुकतया येन, स जितेन्द्रियः| जितेन्द्रियशब्देन लोभादिवेगविधारणे उपायं दर्शयति| जितेन्द्रिय एवैतान् धारयितुं शक्तो नान्य इत्यर्थः| लोभः-गृहतृष्णेत्यादिः| ईर्ष्या-असूया| द्वेषो-वैरम्| मात्सर्यं-परगुणासहिष्णुत्वम्| रागः-प्रीतिः| आदिशब्देनाभिध्यादिपरिग्रहः| प्रेत्येह चेति कर्तव्ये द्विश्चकारकरणं लोभादीनां वेगविधारणेन प्रेत्य तथाऽस्मिन् लोके तुल्यकक्षत्वज्ञापनार्थम्| अन्यथा प्रेत्येत्यस्य पूर्वनिर्देशाद्भूयसैषां लोभादीनां विधारणं प्रेत्य हितम्, न तथेह लोके| पश्चान्निर्दिष्टत्वात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-लोभादिवेगधारणं विधत्ते-धारयेत्विति| प्रेत्य-परलोके| इह-इहलोके| लोभो-लोलुपत्वम्| ईर्ष्यापरोत्कर्षासहनम्| द्वेषः-परापकारेच्छा| मात्सर्यं-क्रोधः| रागो-विषयासक्तिः| आदिशब्दाच्छोकादयः| जितेन्द्रियः सन्-इन्द्रियजयवान् धारयेत्, न तु भयादिना| भयादिधृतानां रोगहेतुत्वात्| इति वेगोदीरणधारणप्रकरणम्|
Adhikarana वातादीनां यथाकालशोधनम् (२५) · Śloka २५
अन्यच्च हितैशी किं कुर्यात् ? इत्याह यतेत च यथाकालं मलानां शोधनं प्रति| अत्यर्थसञ्चितास्ते हि ऋद्धाः स्युर्जीवितच्छिदः||२५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मलानां-वातपित्तश्लेष्मपुरीषादीनाम्, यथाकालं शोधनं प्रति यतेत-यत्नं कुर्यात्| यो यस्य मलस्य शोधनकालः, स तस्मिन्काले शोधनीय इत्यर्थः| किमर्थं मलानां शोधनं कार्यम् ? इत्याह-अत्यर्थेत्यादि| हि-यस्मात्, ते-मलाः, अत्यर्थसञ्चिताः-अतिशयेन स्वस्थानेवृद्धिं गताः, कुतोऽप्याहार विहाररूपात् कोपहेतोः कुद्धाः-कुपिताः सन्तः, कदाचिज्जीवितच्छिदः स्युः-भवेयुः| तस्मात्ते शोधनीयाः| अत्यर्थसञ्चितग्रहणेनैतद्द्योतयति| यद्येते मला अत्यर्थसञ्चिताः स्युः, तदैव तेषामन्योपक्रमेभ्यः शोधनाख्य उपक्रमो ज्यायान्| लङ्घनपाचने तूपक्रममात्रे|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शोधनं विधत्ते-यतेत चेति| मलानां-वातपित्तकफानां, शोधनार्थं प्रयत्नं कुर्यात्| हि-यस्मात्, ते शोधनं विना, अत्यर्थं सञ्चिताः स्युः, ततः क्रुद्धाः स्युः, ततो जीवितच्छिदः स्युः| यथाकालं-यस्य यस्य दोषस्य यस्य यस्य शोधनस्य च यो यः कालः, तदा तदा तस्य तस्य दोषस्य तत्तच्छोधनं कुर्यात्, अत्यर्थसञ्चयाद्यथा जीवितच्छित्वं न स्यात्| यथोक्तं सङ्ग्रहे (सू. अ. ५)- "चयकाष्ठामुपारुह्य कुर्वते ते ह्युपेक्षिताः| प्रायशः सुचिरेणापि भेषजद्वेषिणो गदान्|| अतिस्थौल्याग्निसदनकुष्ठमेहहृतौजसः| स्रोतोरोधाक्षविभ्रंशश्वासश्वथुपाण्डुताः|| आमोरुस्तम्भजठरकृच्छ्रालसकदण्डकान्| तृप्तिप्रमीलकालस्यग्रहण्यर्शोभगन्दरान्|| प्लीहविद्रधिवीसर्पमदसंन्यासपीनसान्| छर्दिगण्डकृमिग्रन्थितन्द्रादुःस्वप्नदर्शनम्|| कण्ठामयान् मूर्धरुजः प्रणाशं बुद्धिनिद्रयोः| तेजोवर्णबलानां च तृप्यतो बृंहणैरपि|| उचितैरपि चाहारैर्यस्मादस्य वहन्ति न| दोषोपलिप्तवदना रसं रसवहाः शिराः|| वमनादीनतो युञ्ज्यात्स्वस्थस्यैव यथाविधि||" इति| ननु, "भिषजः शोधनं प्राहुर्वर्ज्यं स्वस्थेन सर्वदा| पन्नगस्येव घोरस्य दोषस्य समुदीरणम्||" इति सुश्रुतादिभिः स्वस्थस्य शोधनं निषिद्धम्, इह तु विहितमिति विरोधः| मैवम्| विषयभेदात्| द्विविधो हि स्वस्थः, सञ्चितदोषोऽसञ्चितदोषश्च| तत्राद्यो विधेर्विषयोऽपरः प्रतिषेधस्येति| ननु, सञ्चयो-वैषम्यम् च-रोगः, निरोगश्च-स्वस्थः, इति सञ्चितदोषस्य न स्वास्थ्यम्| मैवम्| (हृ.सू.अ. १२/२२)-"चयो वृद्धिः स्वधाम्न्येव प्रद्वेषो वृद्धिहेतुषु| विपरीतगुणेच्छा च कोपस्तून्मार्गगामिता|| लिङ्गानां दर्शनं स्वेषामस्वास्थ्यं रोगसम्भवः|" इति कोपलक्षणेष्वस्वास्थ्यं रोगसम्भवश्च पठताऽऽचार्येण चयलक्षणेषु स्वास्थ्यं रोगासम्भवश्चेति ज्ञापितम्, अतः सञ्चितदोषोऽपि स्वस्थ इति|
Adhikarana शोधनस्य प्राधान्यम् (२६) · Śloka २६
तदेवैतच्चेतसि कृत्वा, "दोषाः" इत्यादि, ग्रन्थकृदुवाच दोषाः कदाचित्कुप्यन्ति जिता लङ्घनपाचनैः| ये तु संशोधनैः शुद्धा न तेषां पुनरुद्भवः||२६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दोषाः-वातादयः, लङ्घनपाचनैर्जिताः-प्रकृतिं प्रापिताः सन्तः, कदाचित्-कस्मिन्नपि काले, कुप्यन्ति| ये पुनः संशोधनैः शुद्धास्तेषां न पुनरुद्भवः-उत्थानं न भवति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शमनाच्छोधनस्य प्राधान्यमाह-दोषाः कदाचिदिति| लङ्घनमत्रोपवासः, पाचनस्य पृथगुपादानात्| सप्तसु शमनेषु द्वयोर्ग्रहणं प्रधानत्वात् प्रधानाद्धि प्राधान्यमुक्तमप्रधानात्सुतरां लभ्यते| इति शोधनमुक्तम्|
Adhikarana शोधनादूर्ध्वं रसायनवाजीकरणविधानम् (२७) · Śloka २७
यथाक्रमं यथायोगमत ऊर्ध्वं प्रयोजयेत्| रसायनानि सिद्धानि वृष्ययोगांश्च कालवित्||२७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- कालवित्-वैद्यः, अतः-संशोधनादूर्ध्वं रसायनानि प्रयोजयेत्| कालशब्दो देशबलशरीराहारसात्म्यसत्त्वप्रकृतीनामुपलक्षणार्थः| न हि कालमात्रवित् रसायनप्रयोगं सम्यग्विधा पयितुं शक्तः| किम्भूतानि रसायनानि ? सिद्धानि,-बहुशो दृष्टप्रत्ययानि ब्राह्मवासिष्ठादीनि| कथं योजयेत् ? इत्याह-यथा-क्रममिति| यथाक्रमं यथायोगमित्यनेन रसायनवाजीकरणोक्तं स्मारयति| तत्रैष रसायनक्रमः (हृ. उ. अ. ३९/११)- "हरीतकीमामलकं सैन्धवं नागरं वचाम्|" इत्यारभ्य यावत् "इत्थं संस्कृतकोष्ठस्य रसायनमुपाहरेत्|" इति| एतदुक्तं भवति| यद्यप्येवं वमनविरेचनास्थापनानुवासननावनैः पञ्चभिरपि कर्मभिः संस्कृतोर्ध्वाधःसकलकायः, तथाप्येष रसायनिको भूयः शरीरसंस्कारः करणीयः| तस्य तत्पूर्वकत्वात्| अत एव संशुद्धदेहोऽयमिति कृत्वा त्रिवृद्दन्त्यादीनतिविरेचनात्मकान्नोपदिशति| तथा वाजीकरणेऽप्याह (हृ. उ. अ. ४०/७)- "अथ स्निग्ध विशुद्धानां निरुहान् सानुवासनान्| घृततैलरसक्षीरशर्कराक्षौद्रसंयुतान्|| योगविद्योजयेत्पूर्वं क्षीरमांसरसाशिनाम्| ततो वाजीकरान् योगान्" इति| तथा, यथायोगं-यो यस्य युज्यते , दातुमित्यर्थः| यथा-इदं रसायनं वातप्रकृतेर्योग्यमिदं पित्तप्रकृतेरिदं श्लेष्मप्रकृतेरित्यादि| तथाऽमुष्मिन् देशेऽमुष्मिन् काले वाऽमुष्मिन् वयस्यमुष्मिन् देहे रसायनं योग्यमिदमिति यथा योगार्थः| एवं वृष्ययोगेऽपि योज्यम्| अत्र च रसायनानि वातातपिकानि योजयेत्, न कुटीप्रवेशिकानि| स्वस्थवृत्ताधिकारत्वात् तद्विधानस्य|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ बृंहणम्| तत्त्रिविधम्,-रसायनं वाजीकरणमाहारादिप्रयोगश्च| तत्र शुद्धस्य रसायनवाजीकरणे विधत्ते-यथाक्रममिति| यथाक्रमं-स्वस्वविध्युक्तक्रमानति क्रमेण| यथायोगं-प्रकृत्यादियोग्यतानतिक्रमेण| सिद्धानि बहुशो दृष्टफलानि| कालवित्-अवस्थाविज्ञाता| रसायनानन्तरं वृष्ययोगांश्च-वाजीकरणोक्तान् योजयेत्|
Adhikarana शोधनक्षीणस्य बृंहणम् (२८-२९) · Śloka २९
भेषजक्षपिते पथ्यमाहारैर्बृंहणं क्रमात्| शालिषष्टिकगोधूममुद्गमांसघृतादिभिः||२८|| हृद्यदीपनभैषज्यसंयोगाद्रुचिपक्तिदैः| साभ्यङ्गोद्वर्तनस्नाननिरूहस्नेह बस्तिभिः||२९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-भेषजेन क्षपिते-नरे शोधनकार्षते सति, आहारैः-भोज्यैर्बृंहणं पथ्यं-हितं, क्रमात्-न सहसैव| कैराहारैः ? इत्याह-शाल्यादिभिः| किम्भूतैः ? हृद्यानि च तानि दीपनानि भैषज्यानि-औषधानि च शुण्ठीपिप्पल्यार्द्रकत्वगेलादीनि, तैः संयोगो-मिश्रता, तस्मात् हृद्यदीपनभैषज्यसंयोगात्, रुचिपक्ती ददति-अभिलाषपाकाबुत्पादयन्ति ये शाल्यादयस्तै रुचिपक्तिदैराहारैर्बृंहणं भेषजक्षपिते पथ्यम्| किम्भूतैराहारैः ? साभ्यङ्गेत्यादि| सहाभ्यङ्गदिभिर्वर्तन्त इति साभ्यङ्गादय आहारास्तैः, आहारैरभ्यङ्गादिभिश्चेत्यर्थः| स्नेहबस्तिः-अनुवासनम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शोधनक्षीणस्य बृंहणं विधत्ते-भेषजक्षपित इति| भेषजेन-प्रकृतत्वाच्छोधनेन, अतिसंचयनिर्हरणादतियोगाद्वा क्षपितः-कर्शितः, तस्मिन्, आहारैः-भोज्यैः, बृंहणं पथ्यं-हितम्| यस्तु शोधनेनाक्षपितः, तस्य रसायनाद्यैर्बृंहणं कर्तव्यमित्यर्थः| क्रमात्-बलानलाद्यनुसारेण| हृद्यानां भैषज्यानां संयोगाद्रुचिदैः, दीपनानां पक्तिदैः| स्नेहबस्तिः-अनुवासनम्| निरुहानुवासनावत्र बृंहणौ ग्राह्यौ| शोधनेऽतिवाच्ये भेषजग्रहणं सर्वत्र लङ्घनपाचनादिभेषजक्षपितस्याप्येतद्बृंहणप्राप्त्यर्थम्|
Adhikarana शोधनादिप्रयोगस्य फलम् (३०) · Śloka ३०
तथा स लभते शर्म सर्वपावकपाटवम्| धीवर्णेन्द्रियवैमल्यं वृषतां दैर्घ्यमायुषः||३०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तथा-तेन प्रकारेण पूर्वं शोधनं ततो बृंहणं ततो रसायनप्रयोग इत्येवंरूपेण, सः-शोधनादिसेवी पुरुषः, शर्म-स्वास्थ्यं, लभते| तथा सर्वेत्यादि| सर्वे च ते पावकाश्च सर्वपावकाः, तेषां पाटवं-शक्तिं लभते| तत्र (हृ. शा. अ. ३/५९)-"भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः" इति पञ्च महाभूताग्नयः, सप्त धात्वग्नयः, त्रयोदशो जाठराग्निरिति| धीवर्णेत्यादि| धीवर्णयोश्चक्षुरादीन्द्रियाणां च वैमल्यं लभते| तथा, वृषतां-स्त्रीगमनसामर्थ्यं लभते| तथा, दैर्ध्यमायुषः-जीवितस्याधिक्यं लभते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शोधनादिप्रयोगस्य फलमाह-तथा स इति| शर्म-सुखम्| सर्वपावकाः-जाठराग्निभूताग्निधात्वग्नयः| वृषतां-सम्भोगक्षमत्वम्| इति बृंहणप्रकरणम्|
Adhikarana आगन्तुरोगाः (३१) · Śloka ३१
अधुनाऽऽगन्तुरोगान् सोपक्रमान्निर्दिशति ये भूतविषवाय्वग्निक्षतभङ्गादिसम्भवाः| रागद्वेषभयाद्याश्च ते स्युरागन्तवो गदाः||३१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-भूतानि च विषं च वायुश्चाग्निश्च क्षतं च भङ्गश्चेति द्वन्द्वः| त आदिर्येषामागन्तुकरोगहेतूनां त एवम्, तेभ्यः सम्भवो येषामागन्तुकगदानां ज्वरादीनां ते भूतादिसम्भवा आगन्तवो रोगाः स्युः| आगन्तुहेतुप्रभवत्वादागन्तवो गदा उच्यन्त इत्यर्थः| न केवलमेत एव गदाः, किन्तु रागद्वेषभयाद्याश्चागन्तवो गदाः स्युः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ भूताद्यस्पर्शनम्| तत्र भूतादीनां रोगहेतुत्वमाह-ये भूतेति| भूतो-ग्रहः| वायुः-जञ्झामारुतादिः| क्षतं-शस्त्रक्षतम्| भङ्गः-स्खलनादिहेतुको गात्रभङ्गः| आदिशब्दात् श्रमादयः| आद्यशब्दात् शोकादयः|
Adhikarana एषां चिकित्सा (३२-३४) · Śloka ३४
अधुनैषां चिकित्सां निर्दिशति त्यागः प्रज्ञापराधानामिन्द्रियोपशमः स्मृतिः| देशकालात्मविज्ञानं सद्वृत्तस्यानुवर्तनम्||३२|| अथर्वविहिता शान्तिः प्रतिकूलग्रहार्चनम्| भूताद्यस्पर्शनोपायो निर्दिष्टश्च पृथक् पृथक्||३३|| अनुत्पत्त्यै समासेन विधिरेषः प्रदर्शितः| निजागन्तुविकाराणामुत्पन्नानां च शान्तये||३४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-प्रज्ञाया अपराधाः-असाध्वाचरणानि, तेषां त्यागः| तथा, इन्द्रियाणां-चक्षुरादीनामुपशमो-रूपदिविषयेऽतिप्रवृत्तानां संयमनम्, अशुभरूपे वा विषये प्रवृत्तानां संयमनम्, अलोलुपतेत्यर्थः| तथा, स्मृतिः-अतीतार्थादिस्मरणम्| देशेत्यादि| तथा, देशादीनां विज्ञानम्| देशो-जाङ्गलादिः, कालः-शीतादिः, आत्मा च-वातप्रकृत्यादिः, एषां विज्ञानं-अवबोधः| तथा च, सतां वृत्तं-चरितं सद्वृत्तम्, तस्यानुवर्तनं-अनुष्ठानम्| निजानामागन्तूनां च विकाराणामनुत्पत्त्यै-रोगाणामनुत्पादनाय, समासेन-सङ्क्षेपेण, विधिरेषः-त्यागः प्रज्ञापराधानामित्यादि सद्वृत्तस्यानुवर्तनमित्येवमन्तः, प्रदर्शितः-सम्यगुक्तः| उत्पन्नानामित्यादि| च समुच्चये| न केवलं निजागन्तूनां रोगाणामनुत्पत्त्यै विधिरेषः प्रोक्तः, यावदुत्पन्नानां-जातानां च, शान्तये विधिः प्रोक्तः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-भूताद्यस्पर्शनोपायमाह-त्याग इति, देशेति, अथर्वविहितेति| "कायवाङ्मानोभेदेन त्रिविधमप्यहितं कर्मप्रज्ञापराधः" इत्युक्तं सङ्ग्रहे (सू.अ.२२)| तेषां त्यागो त्रजनम्| स्मृतिः-नक्तंदिनानि मे यान्तीत्युक्ता| ग्रहाः-सूर्यादयः| प्रज्ञापराधत्यागादिर्भूतादीनां-आगन्तूनां हेतू नाम्, अस्पर्शने असम्बन्धे, उपायः| तथा, पृथक् पृथक् भूतप्रातषेधादौ यो निर्दिष्टः सोऽप्युपायः| "अथर्वविहिता शान्तिः" इत्याद्यममुं श्लोकं केचिदत्र न पठन्ति| तदसत्, पूर्वश्लोकस्यानन्वितत्त्वापत्तेः| अध्यायार्थमुपसंहरति-अनुत्पत्त्या इति| एषः-वेगधारणनिषेधादिः| समासेनेति रोगाणामनुत्पत्तिहेतुत्वेन उत्पन्नशान्तित्वेन च कार्त्स्न्येन वक्तुमशक्यत्वात् इत्येवंपरम्| न त्वत्र समास उत्तरत्र तन्त्रान्तरे वा व्यास इत्येवंपरम्, विस्तरप्रस्तावात्| नन्वेवं चेत् पूर्वयोरध्याययोरनारम्भः, न हि निजागन्तुभ्योऽन्ये रोगाः सन्ति, यदर्थं तदारम्भः| मैवम्| विषयभेदात्| कालार्थकर्मणां हि रोगहेतुत्वम्| तत्र कर्महेतवो रोगानुत्पादनीयस्य विषयः, कालहेतव ऋतुचर्यायाः, अर्थहेतवो दिनचर्यायाः|
Adhikarana मलानां शोधनकालाः (३५) · Śloka ३५
शीतोद्भवं दोषचयं वसन्ते विशोधनं ग्रीष्मजमभ्रकाले| घनात्यये वार्षिकमाशु सम्यक् प्राप्नोति रोगानृतुजान्न जातु||३५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शीतशब्देन हेमन्तशिशिराख्यावृतू द्वावपि गृह्येते| तत्रोद्भवो-जन्म यस्य दोषचयस्यासौ शीतोद्भवो दोषचयः| तं वसन्ते विशोधयन्-निर्हरन्, ग्रीष्मजमभ्रकाले-वर्षाकाले दोषचयं विशोधयन्, तथा वार्षिकं घनात्यये-शरदि दोषचयं विशोधयन्, आशु-यथोक्तं कालमनुल्लङ्घयन्, सम्यक्-यथावत्, त्रिविधमपि दोषचयं विशोधयन्नृतुजान् रोगान् न जातु-कदाचित्, प्राप्नोति-आसादयति| वसन्ते विशोधयन्नित्यत्र वसन्तप्रारम्भ एव चैत्रे मासि विशोधयन्निति बोध्यम्, प्रत्यवायभयात्| तथा हि ऋतुद्वयसञ्चितस्य दोषचयस्य चैत्रे विशोधनमक्रियमाणं रोगानीकं कुर्यात्| घनात्यये वार्षिकमित्यत्रात्यन्तघनविनाशे शरत्पश्चिमे भागे विशोधयेदिति बोध्यम्| वार्षिको हि दोषचय एकर्तुज एव| तस्माद्विश्रब्धं कृत्वा साधारणे कार्तिके मासि स विशोधयितुं युक्तः| अपि चाग्रे हेमन्तशिशिरकालजो दोषचयो वसन्ते शोधयितव्यः| तस्मादाश्वयुजे मासि वार्षिको दोषचयो यदि विशोध्येत तदानीमतितरां बहुरग्रे दोषचयः स्यात्, कालस्य बहुत्वात्| ग्रीष्मजमभ्रकाल इत्यत्र कालग्रहणेन वर्षाप्रारम्भमात्र एवेति बोध्यम्| तथा च शास्त्रकारो वक्ष्यति (हृ. सू. अ. १३/३३)- "श्रावणे कार्तिके चैत्रे मासि साधारणे क्रमात्| ग्रीष्मवर्षाहिमचितान्वाय्वादीनाशु निर्हरेत्||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तत्र ऋतुचर्यायाः कालहेतुविषयत्वं दर्शयतिशीतोद्भवमिति| वसन्ताभ्रकालघनात्ययशब्दैस्तदवयवाश्चैत्रश्रावणकार्तिका लक्ष्यन्ते| वक्ष्यति हि (हृ.सू.अ.१३/३३)-"श्रावणे कार्तिके चैत्रे मासि साधारणे क्रमात्| ग्रीष्मवर्षाहिमचितान् वाय्वादीनाशु निर्हरेत्||" इति|
Adhikarana हिताहारविहारसेवनम् (४) · Śloka ४
नित्यं हिताहारविहारसेवी समीक्ष्यकारी विषयेष्वसक्तः| दाता समः सत्यपरः क्षमावा- नाप्तोपसेवी च भवत्यरोगः||३६|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने रोगानु- त्पादनीयो नाम चतुर्थोऽध्यायः||४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नित्यं-सदैव, हिताहारविहारौ सेवते तच्छीलो यः स एवम्भूतो नरः| तथा, समीक्ष्यकारी-विमृश्यविधायी, इदं कृत्वेदं सम्पद्यते, एवं च कृत्वैतत्सम्पद्यते, एवं बुद्ध्वा शुभं करोत्यशुभं वर्जयति| तथा, विषयेषु-शब्दादिषु, असक्तः-अलोलुपः| तथा, दाता-त्यागवान्| तथा, समः-सर्वेषु भूतेषु समचित्तः| तथा, सत्यपरः-अबितथवाक्| तथा, क्षमावान्-यः शक्तोऽपि कृतापराधं दण्डेनानुरूपेण न योजयति| तथा, आप्तानुपसेवते तच्छीलो यः स आप्तोपसेवी चारोगो भवति| न केवलं प्राक्तनविध्यनुष्ठानेनारोगः सम्पद्यते, यावदाप्तोपसेवी चेति चशब्दार्थः| "येषां त्रिकालममलं ज्ञानमव्याहतं सदा| आप्ताः शिष्टा विबुद्धास्ते तेषां वाक्यमसंशयम्||" इति (चरके सू. अ. ११/९८) आप्तलक्षणमिति| उपजातिवृत्ते| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्ग- हृदयटीकायां सर्वाङ्गसुन्दराख़्यायां सूत्रस्थाने चतुर्थोऽध्यायः समाप्तः|| ४||
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-दिनचर्याया अर्थहेतुविषयत्वं दर्शयति-नित्यमिति| विषयेष्वसक्तः पुमानरोगो भवति-असात्म्येन्द्रियार्थसंयोगजान् रोगान्न प्राप्नोति, यो हि नित्यं हितावेवाहारविहारौ सेवते, समीक्ष्य कार्यं करोति, पात्रेभ्यो ददाति, सर्वेषु साम्येन वर्तते, सत्यं भाषते, क्रोधहेतावपि न क्रुध्यति, आप्तांश्च गुर्वादीनुपसेवत इति| उक्तं च दिनचर्यायाम् (हृ. सू. अ. २/२९)- "न पीडयेदिन्द्रियाणी न चैतान्यतिलालयेत्" इत्यादि| सङ्ग्रहे तु (सू.अ. ५)-"अर्थेष्वलभ्येष्वकृतप्रयत्नं कृतादरं नित्यमुपायवत्सु| जितेन्द्रियं नानुपतन्ति रोगास्तत्कालयुक्तं यदि नास्ति दवम्|| कालोऽनुकूलो विषया मनोज्ञा धर्म्याः क्रियाः कर्म सुख़ानुबन्धि| सत्त्वं विधेयं विशदा च बुद्धिर्भवन्ति धीरस्य सदा सुख़ाय||" इति| इति हेमाद्रिटीकायामायुर्वेदरसायने| रोगानुत्पादनाध्यायः सामस्त्येन निरूपितः|| ४||