Adhikarana अध्यायोपक्रमः · Śloka
🔊 Audio coming soon
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
इदानीं धूमपानादनन्तरं गण्डूषविधिरेव युक्तः| तदर्थमाह
Adhikarana अध्यायोपक्रमः · Śloka
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
इदानीं धूमपानादनन्तरं गण्डूषविधिरेव युक्तः| तदर्थमाह
Adhikarana गण्डूषादिविधिरध्यायः (२-३) · Śloka ३
अथातो गण्डूषादिविधिमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे||२|| )||३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-गण्डूषादयो विधीयन्तेऽस्मिन्निति गण्डूषादिविधिः| आदिशब्देन कवलादिपरिग्रहः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-गण्डूषादिविधिमध्यायं व्याख्यातुं प्रतिजानीते-अथेति| गण्डूषादीनि-गण्डूषकवलप्रतिसारणमुखालेपमूर्द्धतैलकर्णपूरणानि|
Adhikarana गण्डूषभेदाः (१) · Śloka १
चतुष्प्रकरो गण्डूषः स्निग्धः शमनशोधनौ| रोपणश्च|१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स्निग्धादिभेदेन चत्वारः प्रकाराः-भेदाः, यस्य स चतुष्प्रकारो गण्डूषो भवति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-गण्डूषभेदानाह-चतुष्प्रकार इति|
Adhikarana गण्डूषाणां दोषभेदेन विषयः (१-२) · Śloka २
| त्रयस्तत्र त्रिषु योज्याश्चलादिषु||१|| अन्त्यो व्रणघ्नः| |२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तत्र-तेषु गण्डूषेषु मध्ये, यथासङ्ख्यं पवनपित्तश्लेष्मसु त्रयः स्निग्धादयो गण्डूषा योज्याः| तत्र वाते स्निग्धो गण्डूषः, पित्ते शमनः, कफे शोधन इत्यर्थः| अन्त्यो-रोपणाख्यो व्रणघ्नो-व्रणसाधन उपयुज्यते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-गण्डूषाणां भेदेन विषयमाह-त्रयस्तत्रेति| अन्त्यो-रोपणः| व्रणघ्नो-मुखरोगघ्नः|
Adhikarana स्निग्धस्य द्रव्याणि (२) · Śloka २
इदानीमेषां लक्षणानि वक्तुमाह स्निग्धोऽत्र स्वाद्वम्लपटुसाधितैः| स्नेहैः|२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- अत्र-एषु गण्डूषेषु मध्ये, स्निग्धो मधुरादिसाधितैः स्नेहैर्भवति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-स्निग्धस्य द्रव्याण्याह-स्निग्धोऽत्रेति|
Adhikarana शमनस्य द्रव्याणि (२) · Śloka २
| संशमनस्तिक्तकषायमधुरौषधैः||२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शमनस्तिक्तादिभिरौषधैः-पटोलारिष्टजम्ब्वाम्रामधुकक्वाथशर्करोदकक्षौद्रादिभिः स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शमनस्य द्रव्याण्याह-संशमन इति|
Adhikarana शोधनस्य द्रव्याणि (३) · Śloka ३
शोधनस्तिक्तकट्वम्लपटूष्णैः| |३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शोधनो गण्डूषस्तिक्तकट्वम्लादिभिरौषधैर्भवति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शोधनस्य द्रव्याण्याह-शोधन इति|
Adhikarana रोपणस्य द्रव्याणि (३) · Śloka ३
रोपणः पुनः| कषायतिक्तकैः|३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रोपणस्तु गण्डूषः कषायतिक्तकैः स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-रोपणस्य द्रव्याण्याह-रोपणः पुनरिति|
Adhikarana गण्डूषार्थं द्रव्याणि (३-४) · Śloka ४
ननु, द्रव्याणां शुष्कत्वाद्गण्डूषानुपपत्तिरिति चेत्तत्राह | तत्र स्नेहः क्षीरं मधूदकम्||३|| शुक्तं मध्यं रसो मूत्रं धान्याम्लं च यथायथम्| कल्कैर्युक्तं विपक्वं वा यथास्पर्शं प्रयोजयेत्||४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तत्र-तेषु पूर्वोक्तेषु गण्डूषेषु मध्ये, स्नेहादिकं कल्कैर्यथास्वं युक्तं विपक्वं वा, यथास्पर्शं-शीतमुष्णं वा, प्रयोजयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-गण्डूषार्थं द्रव्याण्याह-तत्रेति| स्नेहादीनि नव योग्यतानुसारेण यथास्वं कल्कैः संयोज्य विपाच्य वा शीतान्युष्णानि वा प्रयोजयेत्| उक्तं च सङ्ग्रहे (सू.अ. ३१)-"तत्र स्वाद्वम्ललवणोष्णैरौषधैः सिद्धो युक्तो वा नात्युष्णः स्नेहो मांसरसस्तिलकल्कोदकं क्षीरं वा स्नेहिकः| तिक्तकषायमधुरशीतैः पटोलारिष्टजम्ब्वाम्रमालतीपल्लवोत्पलमधुकक्वाथसितोदक क्षौद्रक्षीरेक्षुरसघृतादिभिः शमनः| कठ्वम्ललवणोष्णैः शिरोविरेचनादिद्रव्यैः शुक्तमद्यधान्याम्लमूत्रान्यतमकल्कितालोडितैः शोधनः|" इति|
Adhikarana दन्तहर्षादौ गण्डूषः (५-६) · Śloka ६
दन्तहर्षे दन्तचाले मुखरोगे च वातिके| सुखोष्णमथवा शीतं तिलकल्कोदकं हितम्||५|| गण्डूषधारणे| |६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दन्तहर्षादौ कवोष्णमथवा शीतं दोषवशात् तिलकल्कोदकं हितम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-दन्तहर्षादौ गण्डूषमाह-दन्तहर्ष इति|
Adhikarana स्वस्थे गण्डूषः (६) · Śloka ६
नित्यं तैलं मांसरसोऽथवा| |६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-गण्डूषधारणे नित्यं तैलं मांसरसो वा हितः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-स्वस्थे गण्डूषमाह-नित्यमिति|
Adhikarana ऊषादाहमुखपाकादौ गण्डूषः (६-७) · Śloka ७
| ऊषादाहान्विते पाके क्षते चागन्तुसम्भवे||६|| विषे क्षाराग्निदग्धे च सर्पिर्धार्यं पयोऽथवा| |७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ऊषादियुक्ते पाके क्षते चागन्तुजे, तथा विषे क्षाराग्निभ्यां दग्धे च, सर्पिर्गण्डूषे हितं क्षीरं वा|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-ऊषादाहमुखपाकादौ गण्डूषमाह-ऊषादाहान्वित इति| ऊषा-क्षारेणेव| दाहः-अग्निनेव| पाकादयो मुख एव|
Adhikarana मुखपैच्छिल्यादौ गण्डूषः (७-८) · Śloka ८
| वैशद्यं जनयत्याशु सन्दधाति मुखे व्रणान्||७|| दाहतृष्णाप्रशमनं मधुगण्डूषधारणम्| |८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-माक्षिकगण्डूषधारणं मुखे वैशद्यं-अपैच्छित्यं, जनयति, मुखव्रणांश्च सन्दधाति| तथा, दाहं तृष्णां च प्रशमयति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मुखपैच्छित्यादौ गण्डूषमाह-वैशद्यमिति|
Adhikarana मुखवैरस्यादौ गण्डूषः (८) · Śloka ८
| धान्याम्लमास्यवैरस्यमलदौर्गन्ध्यनाशनम्||८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-धान्याम्लं गण्डूष उपयुक्तं वदनवैरस्यं तथा मलं दौर्गन्ध्यं चापनयति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मुखवैरस्यादौ गण्डूषमाह-धान्याम्लमिति|
Adhikarana मुखशोषे गण्डूषः (९) · Śloka ९
तदेवालवणं शीतं मुखशोषहरं परम्| |९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तदेव-काञ्जिकं, अलवणं शीतं परं-अतिशयेन, आस्यशोषहरम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मुखशोषे गण्डूषमाह-तदेवेति| तत्-धान्याम्लम्| अर्थात् पूर्वं च लवणोष्णम्|
Adhikarana श्लेष्मसञ्चये गण्डूषः (९) · Śloka ९
| आशु क्षाराम्बुगण्डूषो भिनत्ति श्लेष्मणश्चयम्||९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-क्षारेण-स्वर्जिकादिना, युक्तं जलं कफस्य चयमाशु भिनत्ति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-श्लेष्मसञ्चये गण्डूषमाह-आश्विति| क्षाराम्बु-क्षारगालनोदकम्|
Adhikarana मुखगौरवे गण्डूषः (१०) · Śloka १०
सुखोष्णोदकगण्डूषैर्जायते वक्त्रलाघवम्| |१०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कोष्णपानीयगण्डूषैर्वदनलाघवं सम्पद्यते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मुखगौरवे गण्डूषमाह-सुखोष्णोदकगण्डूषैरिति|
Adhikarana गण्डूषविधिः (१०-११) · Śloka ११
| निवाते सातपे स्विन्नमृदितस्कन्धकन्धरः||१०|| गण्डूषमपिबन् किञ्चिदुन्नतास्यो विधारयेत्| |११|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वातरहिते रविकरालोके स्थाने| स्कन्धौ च कन्धरा च स्कन्धकन्धरम्| पूर्वं खिन्नं पश्चान्मृदितं स्कन्धकन्धरं यस्य स एवम्| तथा गण्डूषमपिबन्, तथा किञ्चिदुन्नतं मुखं यस्य स एवंविधः सन्, गण्डूषं धारयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-गण्डूषविधिमाह-निवात इति| सङ्ग्रहे तु (सू.अ.३१)-"सुखोपविष्टस्तन्मनाः स्विन्नमृदितगलकपोलललाटदेशो वरमध्यावरां क्रमाद्वक्त्रार्धभागत्रिभागचतुर्भागपूरणीं द्रवमात्रां कल्कं वा कोलप्रमाणम्| कवले तु पर्यायेण कपोलौ कण्ठं च सञ्चारयेत्| अयमेव कवलगण्डूषयोर्विशेषः| पुनश्चास्य स्वेदमर्दनान्याचरेत्| एवमुत्क्लिष्टकफो वक्त्रं प्रतिपद्यते|" इति|
Adhikarana गण्डूषधारणावधिः (११) · Śloka ११
कियन्तं कालं ? इत्याह | कफपूर्णास्यता यावत्स्रवद्घ्राणाक्षताऽथवा||११||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कफेन पूर्णं कफपूर्णमास्यं यस्य स कफपूर्णास्यः, तस्य भावः कफपूर्णास्यता,-कफपूर्णमुखता, यावद्भवेत्| अथवा स्रवद्घ्राणाक्षि यस्य स स्रवद्घ्राणाक्षः, "बहुव्रीहौ सक्थ्यक्ष्णोः" इति षच्| तस्य भावः स्रवद्घ्राणाक्षता यावत्स्यात्, तावद्गण्डूषान् धारयेत्| एवं गण्डूषाः पञ्च सप्त वा धारयितव्याः, यावत्स्वास्थ्यं स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-गण्डूषधारणावधिमाह-कफपूर्णास्यतेति| सङ्ग्रहे तु (सू. अ. ३१)-"भेषजस्यानुपहतिः कफेन| एवं त्रीन् पञ्च सप्त वा गण्डूषान् धारयेत्| यावद्वा सम्यग्धूमपीतलिङ्गोत्पत्तिः| तस्य स्वास्थ्येन योगं, जाड्यरसाज्ञानारुचिप्रसेकोपलेपैरयोगं, मुखशोषपाकक्लमारुचिहृदयद्रवस्वरसादकर्णनादैरतियोगमुपलक्षयेत्| तेषां यथास्वं प्रतिकुर्वीत|" इति|
Adhikarana गण्डूषकवलयोर्भैदः (१२) · Śloka १२
असञ्चार्यो मुखे पूर्णे गण्डूषः, कवलोऽन्यथा| |१२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मुखे पूर्णे सति यः सञ्चारयितुमशक्यः स्यात् स गण्डूष उच्यते| अन्यथा-मुखेऽपूर्णे सति यः सञ्चारयितुं शक्यते, स कवल उच्यते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-गण्डूषकवलयोर्भेदमाह-असञ्चार्य इति| अपूर्णे-किञ्चिदूने, सङ्ग्रहे तथैवोक्तत्वात्| कवलोऽन्यथा-कपोलौ कण्ठं च सञ्चार्यः|
Adhikarana कवलस्य विषयः (१२) · Śloka १२
मन्याशिरःकर्णमुखाक्षिरोगाः प्रसेककण्ठामयवक्त्रशोषाः| हृल्लासतन्द्रारुचिपीनसाश्च साध्या विशेषात्कवलग्रहेण||१२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मन्यादीनां रोगेण सम्बन्धः| प्रसेकादीनां द्वन्द्वः| आमयशब्दस्य कण्ठेन सम्बन्धो विविधकण्ठरोगसूचनार्थः| मन्यारोगादयो विशेषेण कवलधारणेन साध्याः-चिकित्स्याः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कवलस्य विषयमाह-मन्याशिर इति|
Adhikarana प्रतिसारणम् (१३) · Śloka १३
| कल्को रसक्रिया चूर्णस्त्रिविधं प्रतिसारणम्||१३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कल्कादिभेदेन प्रतिसारणं त्रिधा स्यात्| कल्को-जलदिपिष्टः| माक्षिकादिना यद्रवीक्रियते द्रव्यं सा रसक्रिया| चूर्णं तु-प्रथितमेव|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-प्रतिसारणमाह-कल्क इति| रसक्रियाअवलेहः|
Adhikarana प्रतिसारणस्य विषयो द्रव्याणि च (१) · Śloka १
युञ्ज्यात्तत् कफरोगेषु गण्डूषविहितौषधैः| ||१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तत्-प्रतिसारणं, श्लेष्मरोगेषु गण्डूषोक्तैरौषधैर्योज्यम्| सामान्योक्तावपि कफयोगविषयत्वात् शोधनगण्डूषोक्तैरौषधैरिति वेद्यम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-प्रतिसारणस्य विषयं द्रव्याणि चाह-युञ्ज्यादिति| गण्डूषविहितैः-शोधनगण्डूषोक्तैः| प्रतिसारणं-अङ्गुल्या घर्षणम्| सङ्ग्रहे तु (सू.अ. ३१)-"तदभिष्यन्दाधिमन्थगलशुण्डिकादिषु युक्त्या प्रयोज्यम्| अतिप्रसारणादूषाशोषदाहक्लेदशोफादयो भवन्ति|" इति|
Adhikarana मुखालेपभेदाः (१४) · Śloka १४
| मुखालेपस्त्रिधा दोषविषहा वर्णकृच्च|१४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मुखालेपस्त्रिप्रकारः, दोषघ्नो विषघ्नो वर्णकरश्च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मुखालेपभेदानाह-मुखालेप इति| दोषघ्नो विषघ्नो वर्ण्यश्चेति त्रिधा|
Adhikarana वातघ्नकफघ्नावुष्णौ कार्यौ, पित्त्तघ्नविषन्घवर्ण्याः शीताः कार्याः (१४-१५) · Śloka १५
| सः||१४|| उष्णो वातकफे शस्तः, शेषेष्वन्यर्थशीतलः| |१५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स च-मुखालेपो, वातश्लेष्मण्युष्णो हितः| शेषेषु पित्ते विषे (वर्णे) च, अतिशयेन शिशिरो हितः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वातघ्नकफघ्नावुष्णौ कार्यावित्याह-स इति| पित्तघ्नविषघ्नवर्ण्याः शीताः कार्या इत्याह-शेषेष्विति|
Adhikarana मुखालेपप्रमणम् (१५) · Śloka १५
| त्रिप्रमाणश्चतुर्भागत्रिभागार्द्धाङ्गुलोन्नतिः||१५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-चतुर्भागत्रिभागार्द्धाङ्गुलोन्नतिः| उन्नतिः-उत्सेधः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-हीनमध्योत्तमभेदेन मुखालेपप्रमाणमाह त्रिप्रमाण इति|
Adhikarana मुखालेपावधिः,मुखालेपापनयनम् (१६) · Śloka १६
अशुष्कस्य स्थितिस्तस्य, शुष्को दूषयति च्छविम्| तमार्द्रयित्वाऽपनयेत्तदन्तेऽभ्यङ्गमाचरेत्||१६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तस्य-मुखालेपस्य, अशुष्कस्य स्थितिः| शुष्कस्तु मुखालेपश्छविं-त्वचं, दूषयति| तं-मुखालेपं, आर्द्रयित्वा-तीमयित्वा, अपसारयेत्| तस्यान्ते-तस्मिन्नपनीते, अभ्यङ्गं कुर्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मुखालेपावधिमाह-अशुष्कस्येति| मुखालेपापनयमाह-तमार्द्रयित्वेति|
Adhikarana मुखालेपवर्ज्यानि (१७) · Śloka १७
विवर्जयेद्दिवास्वप्नभाष्याग्न्यातपशुक्क्रुधः| |१७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मुखालेपी च दिवास्वप्नादि वर्जयेत्| अहःस्वप्नादिसेवनात् कण्डूत्वकूशोषपीनसदृष्ट्युपघातादिभयं स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मुखालेपवर्ज्यान्याह-विवर्जयेदिति| शुक्-शोकः|
Adhikarana पीनसादौ मुखालेपनिषेधः (१७-१८) · Śloka १८
| न योज्यः पीनसेऽजीर्णे दत्तनस्ये हनुग्रहे||१७|| अरोचके जागरिते| |१८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पीनसादौ मुखलेपो न योज्याः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पीनसादौ मुखालेपं निषेधति-न योज्य इति|
Adhikarana मुखालेपस्य फलम् (१८) · Śloka १८
स तु हन्ति सुयोजितः| अकालपलितव्यङ्गवलीतिमिरनीलिकाः||१८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स च-मुखालेपः, सुयोजितो-विधिना सेवितः, अकालपलितादीन् पराकरोति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मुखालेपस्य फलमाह-स त्विति| नीलिकालिङ्गनाशोपद्रवः|
Adhikarana कोलमज्जादयः षण्मुखालेपा,हेमन्तादिषु षडृतुषु योज्याः (१९-२२) · Śloka २२
कोलमज्जा वृषान्मूलं शाबरं गौरसर्षपाः| सिंहीमूलं तिलाः कृष्णा दार्वीत्वङ्निस्तुषा यवाः||१९|| दर्भमूलहिमोशीरशिरीषमिशितण्डुलाः| कुमुदोत्पलकह्लारदूर्वामधुकचन्दनम्||२०|| कालीयकतिलोशीरमांसीतगरपद्मकम्| तालीसगुन्द्रापुण्ड्राह्वयष्टीकाशनतागुरु||२१|| इत्यार्द्धार्द्धोदिता लेपा हेमन्तादिषु षट् स्मृताः| |२२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कोलमज्जादयोऽर्द्धश्लोकोक्ताः षट् मुख़ालेपाः षट्सु हेमान्तादिषु ॠतुषु स्मृताः| मुनीन्द्रैरिति शेषः| तत्र बदरमज्जादयो हेमन्ते, व्याघ्र्यादयः शिशिरे, दर्भमूलादयो वसन्ते, कुमुदादयो ग्रीष्मे, कालीयकादयः प्रावृषि, तालीसादयः शरदि, इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वर्ण्यस्य मुख़ालेपस्य तु भेदेन द्रव्याण्याह-कोलमज्जेति| शाबरं-लोध्रम्| तन्दुलाः-शालीनाम्| कालीयकं-पीतचन्दनम्|
Adhikarana वर्ण्यमुखालेपशीलनस्य फलम् (२२-२३) · Śloka २३
| मुखालेपनशीलानां दृढं भवति दर्शनम्||२२|| वदनं चापरिम्लानं श्लक्ष्णं तामरसोपमम्| |२३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मुखालेपाभ्यासवतां नराणां दर्शनं-दृष्टिः, दृढं स्यात्| मुखं च विकसितमिव तथा कोमलं पद्मतुल्यं भवति-जायते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वर्ण्यमुखालेपशीलनस्य फलमाह-मुखालेपनशीलानामिति|
Adhikarana मूर्द्धतैलभेदाः (२३-२४) · Śloka २४
| अभ्यङ्गसेकपिचवो बस्तिश्चेति चतुर्विधम्||२३|| मूर्द्धतैलम्| |२४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अभ्यङ्गादिभेदात् चतुर्धा शिरसि तैलं स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मूर्द्धतैलभेदानाह-अभ्यङ्गेति|
Adhikarana अभ्यङ्गादीनां तारतम्यम् (२४) · Śloka २४
बहुगुणं तद्विद्यादुत्तरोत्तरम्| |२४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तच्चोत्तरोत्तरं बहुगुणं विद्यात्| अभ्यङ्घात् सेको बहुगुणाः, ततोऽपि पिचुः, तस्मादपि बस्तिः, इति क्रमेण|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अभ्यङ्गादीनां तारतम्यमाह-बहुगुणमिति|
Adhikarana अभ्यङ्गस्य विषयः (२४) · Śloka २४
| तत्राभ्यङ्गः प्रयोक्तव्यो रौक्ष्यकण्डूमलादिषु||२४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तत्र-तेषु मध्ये, रौक्ष्यादीष्वभ्यङ्गः प्रयोज्यः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अभ्यङ्गस्य विषयमाह-तत्राभ्यङ्ग इति|
Adhikarana सेकस्य विषयः (२५) · Śloka २५
अरूंषिकाशिरस्तोददाहपाकव्रणेषु तु| परिषेकः|२५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अरूंषिकादिषु परिषेकः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सेकस्य विषयमाह-अरुंपिकेति|
Adhikarana पिचोर्विषयः (२५-२६) · Śloka २६
| पिचुः केशशातस्फुटनधूपने||२५|| नेत्रस्तम्भे च| |२६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-केशशातादिषु पिचुः प्रयोक्तव्यः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पिचोर्विषयमाह-पिचुरिति| शातः-सदनम्| धूपनं-धूमोद्गम इव| पिचुः-स्नेहार्द्रपिचुधारणम्|
Adhikarana बस्तेर्विषयः (२६) · Śloka २६
बस्तिस्तु प्रसुप्त्यर्दितजागजे| नासास्यशोषे तिमिरे शिरोरोगे च दारुणे||२६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बस्तिः पुनः प्रसुप्त्यादौ योज्यः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-बस्तेर्विषयमाह-बस्तिरिति| प्रसुप्तिः-स्पर्शाज्ञानम्| जागरो-निद्रानाशः| दारुणे-तीव्रे|
Adhikarana शिरोबस्तिविधिः (२७-३०) · Śloka ३०
विधिस्तस्य निषण्णस्य पीठे जानुसमे मृदौ| शुद्धाक्तस्विन्नदेहस्य दिनान्ते गव्यमाहिषम्||२७|| द्वादशाङ्गुलविस्तीर्णं चर्मपट्टं शिरःसमम्| आकर्णबन्धनस्थानं ललाटे वस्त्रवेष्टिते||२८|| चैलवेणिकया बद्ध्वा माषकल्केन लेपयेत्| ततो यथाव्याधि श्रुतं स्नेहं कोष्णं निषेचयेत्||२९|| ऊर्ध्वं केशभुवो यावदङ्गुलम्| |३०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तस्य-शिरोबस्तेर्विधानमुच्यते| निषण्णस्य-उपविष्टस्य नरस्य| क्व ? पीठे जानुतुल्ये, तथा मृदौ-अकठिने| किम्भूतस्य नरस्य ? शुद्धो-वमनादिना, अक्तः-तैलादिना, खिन्नः-खेदेन, देहो यस्य तस्य शुद्धाक्तखिन्नदेहस्य| कदा ? दिनान्ते,-अपराह्ने विभावर्यां वा| चर्मपट्टं-गव्यं माहिषं वा, तथा द्वादशाङ्गुलविस्तीर्णं, तथा शिरस्तुल्यं, तथाऽऽकर्णं-यावत्, बन्धनस्थानं यस्य, तदेवंविधं चर्मपट्टं चैलवेणिकया संयम्य माषकल्केन लेपयेत्| कदा ? ललाटे वस्त्रवेष्टिते| सङ्ग्रहे तूक्तम् (सू.अ.३१)-"अथ शुद्धतनोः सायं रात्रौ वा निवातस्थस्य स्वभ्यक्तखिन्नस्य सोपाश्रयासनोपविष्टस्य केशान्ते श्लक्ष्णं त्र्यङ्गुलं माषपिष्टेन सुसूक्ष्मेण सद्यः सुखाम्बुना मृदितेनोभयतः प्रदिग्धं वस्त्रपट्टं बध्नीयात्| ततस्तस्योपरि सन्धाय बस्तिमाकर्णं बस्तिमूलं च दृढमवलीकं समं चैलवेणिकया बद्ध्वा पुनर्माषपिष्टेनापरिस्त्रावि कृत्वा यथाव्याधिदोषदूष्यहितं सिद्धमन्यतमं स्नेहं सुखोष्णमासेचयेत्|" इति| तत एवं कृते सति व्याधिवशेन पक्वं स्नेहं कोष्णमुपरिच्चिद्रेणावसेचयेत्| केशभूमेरुपरिष्टादङ्गुलं यावत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शिरोबस्तिविधिमाह-विधिस्तस्येति| ललाटशब्देन केशरहितः प्रदेशः, तस्मिन् वस्त्रवेष्टिते| आकर्णं-कर्णादधो न वेष्टयेदित्यर्थः, आबन्धनस्थानं-यावति प्रदेशे बस्तेर्बन्धनं तावन्तं प्रदेशं वेष्टयेत्| शिरःसमं-शिरःपरिधिमित्यर्थः| वेष्टनवस्त्रमप्युभयतो माषकल्केन लेपयेत्| उक्तं हि सङ्ग्रहे (सू.अ. ३१)-"केशान्तेश्लक्ष्णं त्र्यङ्गुलं सुपूक्ष्मेण माषपिष्टेन सद्यः सुखाम्बुमृदितेनोभयतः प्रदिग्धं वस्त्रपट्टं बध्नीयात्|" इति|
Adhikarana बस्तिधारणावधिः (३०-३१) · Śloka ३१
स च स्नेहः कियत्कालं धार्यः ? इत्याह धारयेच्च तम्| आवक्त्रनासिकोत्क्लेदाद्दशाष्टौ षट् चलादिषु||३०|| मात्रासहस्राण्यरुजे त्वेकं| |३१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तं च-स्नेह, यावद्वक्त्रनासिकास्रुतिः स्यात्तावद्धारयेत्| चल आदिर्येषां ते चलादयः, तेषु यथासङ्ह्ख्यं दशाष्टौ षट् मात्रासहस्राणि यावत्स्नेहं धारयेत्| वाते दश मात्रासहस्राणि, पित्तेऽष्टौ मात्रासहस्राणि, कफे षण्मात्रासहस्राणीत्यर्थः| अरुजे तु-स्वस्थवृते, एकं मात्रासहस्रं धारयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-बस्तिधारणावधिमाह-धारयेदिति| अरुजेत्वेकं मात्रासहस्रम्| मात्रामानं क्लेदासम्भवे| क्लेदे त्वर्वागपि निवर्तते|
Adhikarana बस्त्यन्ते कृत्यम् (३१) · Śloka ३१
स्कन्धादि मर्दयेत्| मुक्तस्नेहस्य|३१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मुक्तस्नेहस्य-अपनीतशिरोबस्तेः, स्कन्धशिरोग्रीवादि मर्दयेत्| स्नेहबस्तिर्हि स्नेहशब्देनात्र गृह्यते| ततः "उष्णोदकोपचारी स्यात् " इत्यादिकमाचरेत्| तत्र ह्यवोचत् (हृ.सू.अ.१६|२८)-"सर्वकर्मस्वयं प्रायो व्याधिक्षीणेषु च क्रमः|" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-बस्त्यन्ते कृत्यमाह-स्कन्धादीति|
Adhikarana बस्त्यावृत्त्यवधिः (३१) · Śloka ३१
| परमं सप्ताहं तस्य सेवनम्||३१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तस्य च-स्नेहबस्तेः, परमः सेकः सप्त दिनानि| तस्मात्त्रीणि पञ्च सप्त वाऽहानि कार्यः शिरोबस्तिरित्यवतिष्ठते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-बस्त्यावृत्त्यवधिमाह-परममिति| सङ्ग्रहे तु (सू.अ. ३१)-"उष्णाम्बुना स्नातं च यथार्हं भोजयेत्| स्नेहोक्तं चास्याचारमादिशेत्| एवं त्रीणि पञ्च सप्त वा दिनानि योजयेदिति|" तथा (सं.सू.अ. ३१)-"सापाश्रयं पीठं, सायं रात्रिर्वा कालः, वेदनोपशमो वाऽवधिः|" इति|
Adhikarana कर्णपूरणेविधिर्मानं च मात्रालक्षणम् (३२) · Śloka ३२
धारयेत्पूरणं कर्णे कर्णमूलं विमर्दयन्| रुजः स्यान्मार्दवं यावन्मात्राशतमवेदने||३२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कर्णे पूरणं धारयेत्| किं कुर्वन् ? कर्णमूलं विमर्दयन्| कियन्तं कालम् ? यावत्पीडाया मार्दवं भवेत्| स्वस्थवृते तु मात्राशतं यावद्बिभृयात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कर्णपूरणे विधिं मानं चाह-धारयेदिति|
Adhikarana मात्रालक्षणम् (३३) · Śloka ३३
अथ मात्रायाः किं प्रमाणं ? इत्याह यावत्पर्येति हस्ताग्रं दक्षिणं जानुमण्डलम्| निमेषोन्मेषकालेन समं मात्रा तु सा स्मृता||३३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दक्षिणं हस्ताग्रं कर्तृ यावत् दक्षिणं जानुमण्डलं पर्येति-परिवर्तते| दक्षिणशब्दोऽत्र काकाक्षिगोलकन्यायेन द्वयोरपि युज्यते| कियत्कालेन ? इत्याह-निमेषोन्मेषमात्रेण समं,-न तु विश्रम्य| सा मात्रा स्मृतेति| मुनिभिरिति शेषः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मात्रालक्षणमाह-यावदिति|
Adhikarana मूर्द्धतैलशीलनस्य फलम् (२२) · Śloka २२
कचसदनसितत्वपिञ्जरत्वं परिफुटनं शिरसः समीररोगान्| जयति, जनयतीन्द्रियप्रसादं स्वरहनुमूर्द्धबलं च मूर्द्धतैलम्||३४|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने गण्डूषादिविधिर्नाम द्वाविंशोऽध्यायः||२२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कचानां सदनादिभिः सम्बन्धः| परिफुटनं-कचानामेव, प्रकृतत्वात्| शिरसो मरुदामयांश्च हन्ति| इन्द्रियाणां-चक्षुरादीनां, प्रसादं जनयति| तथा, स्वरादिबलं च मूर्द्धतैलं जनयति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचिटयामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने गण्डूषादिविधिर्नाम द्वाविंशतितमोऽध्यायः समाप्तः|| २२||
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मूर्द्धतैलशीलनस्य फलमाह-कचसदनेति| इति हेमाद्रिटीकायामायुर्वेदरसायने| गण्डूषादिप्रकरणं सामस्त्येन निरूपितम्|| २२||