Skip to content

१५. उदरचिकित्सिताध्यायः

Adhikarana अध्यायोपक्रमः · Śloka

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

अस्मादनन्तरमुदरचिकित्सितं प्रक्रम्यते| सम्बन्धश्चास्य गुल्मोत्पत्तौ किल यथा वायुः प्रधानं कारणं प्रायः, तथा स एवोदराणामपि, इत्याह-

Adhikarana उदरचिकित्सिताध्यायः उदरे नित्यं विरेचनम् (२-१) · Śloka

अथात उदरचिकित्सितं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२| ) दोषातिमात्रोपचयात्स्रोतोमार्गनिरोधनात्| सम्भवत्युदरं तस्मान्नित्यमेनं विरेचयेत्||१||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-दोषाणामतिमात्रमुपचयो-वृद्धिः, तस्मात् स्रोतसां मार्गाः-मुख़रूपाणि छिद्राणि, तेषां निरोधाच्च भवत्युदरं यतः, तस्मादेनं-उदरिणं, अभीक्ष्णं विरेचयेत्| प्रायेण वातप्रधानत्वादस्य व्याधेः स्निग्धं विरेचनमाह-

Adhikarana उदरे एरण्डतैलम् उदरे गव्यं माहिषं वा उदरे गोकरभीक्षीरवृत्तिः (२-३) · Śloka

पाययेत्तैलमैरण्डं समूत्रं सपयोऽपि वा| मासं द्वौ वाऽथवा गव्यं मूत्रं माहिषमेव वा||२|| पिबेद्गोक्षीरभुक् स्याद्वा करभीक्षीरवर्तनः| दाहानाहातितृण्मूर्च्छापरीतस्तु विशेषतः||३||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तैलमैरण्डं गोमूत्रान्वितं क्षीरयुतं वा मासमेकमथवा द्वौ मासौ पाययेत्| दोषादिवशाद् गव्यं मूत्रं माहिषं वा मूत्रं पिबेत्| अथवा गोक्षीरभुग्भवेत्| करभीक्षीरवर्तनो वा स्यात्| दाहादियुतस्तु विशेषेणैवंवृत्तिः स्यात्|

Adhikarana उदरे रूक्षत्वादियुते घृतानि (४) · Śloka

रूक्षाणां बहुवातानां दोषसंशुद्धिकाङ्क्षिणाम्| स्नेहनीयानि सर्पींषि जठरघ्नानि योजयेत्||४||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-रूक्षादीनां स्नेहनीयानि सर्पींष्युदरहन्तॄणि योजयेत्|

Adhikarana उदरे षट्फलं दशमूलादिसिद्धम् (५) · Śloka

षट्पलं दशमूलाम्बुमस्तुह्याढकसाधितम्| |५|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-"पञ्चकोलयवक्षार" (हृ. चि. अ. ५|२२) इति षट्पलं दशमूलाम्बुना मस्तुनो ह्याढकेन च संधितं घृतप्रस्थं षट्पलोपलक्षणलक्षितं योजयेत्|

Adhikarana उदरे नागरादि घृततैलम् (५-६) · Śloka

| नागरत्रिपलं प्रस्थं घृततैलात्तथाऽऽढकम्||५|| मस्तुनः साधयित्वैतत्पिबेत्सर्वोदरापहम्| कफमारुतसम्भूते गुल्मे च परमं हितम्||६||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-शुण्ठ्याः पलत्रयं, प्रस्थं घृततैलात्, मस्तुन आढकमेतत्साधयित्वा सर्वोदरापहं पिबेत्| कफमारुतोत्थे च गुल्मे सुष्ठु हितमेतत्|

Adhikarana उदरे गोमूत्र घृतम् (७) · Śloka

चतुर्गुणे जले मूत्रे द्विगुणे चित्रकात्पले| कल्के सिद्धं घृतप्रस्थं सक्षारं जठरी पिबेत्||७||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सर्पिषः प्रस्थं तदपेक्षया चतुर्गुणे जले गोमूत्रे द्विगुणे चित्रकपले कल्के सिद्धं सयवक्षारमुदरी पिबेत्|

Adhikarana उदरे यवादिसिद्धं घृतम् (८) · Śloka

यवकोलकुलत्थानां पञ्चमूलस्य चाम्भसा| सुरासौवीरकाभ्यां च सिद्धं वा पाययेद्धृतम्||८||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-यवादिक्वाथेन सुराकाञ्जिकाभ्यां सिद्धं वा घृतं पाययेत्|

Adhikarana उदरे स्निग्धाय अल्पोक्तं विरेचनम् (९) · Śloka

एभिः स्निग्धाय सञ्जाते बले शान्ते च मारुते| स्रस्ते दोषाशये दद्यात्कल्पदृष्टं विरेचनम्||९||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-एभिः स्नेहैः स्निग्धाय नराय बले च सञ्जाते सति पवने च शान्ते स्रस्ते दोषाशये सति कल्पोक्तं विरेचनं दद्यात्|

Adhikarana उदरे पटोलमूलादिचूर्णम् (१०-१२) · Śloka १२

पटोलमूलं त्रिफलां निशां वेल्लं च कार्षिकम्| कम्पिल्लनीलिनीकुम्भभागान् द्वित्रिचतुर्गुणान्||१०|| पिबेत्सञ्चूर्ण्य मूत्रेण पेयापूर्वं ततो रसैः| विरिक्तो जाङ्गलैरद्यात्ततः षड्दिवसं पयः||११|| शृतं पिबेद्व्योषयुतं पीतमेवं पुनःपुनः| हन्ति सर्वोदराण्येतच्चूर्णं जातोदकान्यपि||१२||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पटोलमूलादि कार्षिकं कम्पिल्लादीनां भागान् क्रमेण द्वित्रिचतुर्गुणान् सञ्चूर्ण्य गोमूत्रेण पिबेत्| अनन्तरं विरिक्तः सन् पेयां भुक्त्वा जाङ्गलमांसरसैः शाल्यादिकमद्यात्| ततः-अनन्तरं, षड्दिवसानि क्वथितं क्षीरं त्रिकटुयुतं पिबेत्| एवं पुनःपुनरेतत्पीतं सर्वोदराणि जातसलिलान्यपि हन्ति|

Adhikarana उदरे गवाक्ष्यादि चूर्णम् (१३) · Śloka १३

गवाक्षीं शङ्ख़िनीं दन्तीं तिल्वकस्य त्वचं वचाम्| पिबेत्कर्कन्धुमृद्वीकाकोलाम्भोमूत्रसीधुभिः||१३||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-गवाक्ष्यादिकं चूर्णं कर्कन्ध्वादिजलमूत्रसीध्वन्यतमेन पिबेत्|

Adhikarana उदरे नारायणचूर्णम् (१४-२१) · Śloka २१

यवानि हपुषा धान्यं शतपुष्पोपकुञ्चिका| कारवी पिप्पलीमूलमजगन्धा शठी वचा||१४|| चित्रकोऽजाजिकं व्योषं स्वर्णक्षीरी फलत्रयम्| द्वौ क्षारौ पौष्करं मूलं कुष्ठं लवणपञ्चकम्||१५|| विडङ्गं च समांशानि दन्त्या भागत्रयं तथा| त्रिवृद्विशाले द्विगुणे सातला च चतुर्गुणा||१६|| एष नारायणो नाम चूर्णो रोगगणापहः| नैनं प्राप्याभिवर्धन्ते रोगा विष्णुमिवासुराः||१७|| तक्रेणोदरिभिः पेयो गुल्मिभिर्बदराम्बुना| आनाहवाते सुरया वातरोगे प्रसन्नया||१८|| दधिमण्डेन विट्सङ्गे दाडिमाम्भोभिरर्शसैः| परिकर्ते सवृक्षाम्लैरुष्णाम्बुभिरजीर्णके||१९|| भगन्दरे पाण्डुरोगे कासे श्वासे गलग्रहे| हृद्रोगे ग्रहणीदोषे कुष्ठे मन्देऽनले ज्वरे||२०|| दंष्ट्राविषे मूलविषे सगरे कृत्रिमे विषे| यथार्हं स्निग्धकोष्ठेन पेयमेतद्विरेचनम्||२१||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-यवान्यादीनि विडङ्गपर्यन्तानि समांशानि| दन्त्या भागास्त्रयः| त्रिवृद्विशालयोर्द्वौ द्वौ भागौ| सातलायाश्च चत्वारः| एष चूर्णो नारायणो नाम रोगगणापहः| एनं चूर्णं प्राप्य रोगा नाभिवर्धन्ते| कं क[इव] ? यथा विष्णुमिवासुराः| उदरिभिरेष तक्रेण पेयः| गुल्म्यादिभिर्बदराम्ब्वादिभिः पेयः| भगन्दरादिष्वेतद्यथार्हं स्नेहपीतेन विरेचनं पेयम्|

Adhikarana उदरे हपुषादिचूर्णम् (२२-२५) · Śloka २५

हपुषां काञ्चनक्षीरीं त्रिफलां नीलिनीफलम्| त्रायन्तीं रोहिणीं तिक्तां सातलां त्रिवृतां वचाम्||२२|| सैन्धवं काललवणं पिप्पलीं चेति चूर्णयेत्| दाडिमत्रिफलामांसरसमूत्रसुख़ोदकैः||२३|| पेयोऽयं सर्वगुल्मेषु प्लीह्नि सर्वोदरेषु च| श्वित्रे कुष्ठेष्वजरके सदने विषमेऽनले||२४|| शोफार्शःपाण्डुरोगेषु कामलायां हलीमके| वातपित्तकफांश्चाशु विरेकेण प्रसाधयेत्||२५||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-हपुषादिकमेतचूर्णं दाडिमादिरसैः पेयम्| गुल्मादिषु विरेकेण चैतदाशु वातपित्तकफान् सम्प्रसाधयेत्| काललवणं-कृष्णलवणम्|

Adhikarana उदरे नीलिन्यादि चूर्णम् (२६) · Śloka २६

नीलिनीं निचुलं व्योषं क्षारौ लवणपञ्चकम्| चित्रकं च पिबेच्चूर्णं सर्पिषोदरगुल्मनुत्||२६||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-नीलिन्यादिकं चूर्णं सर्षिषा पिबेत्| उदरगुल्मघ्नम्|

Adhikarana उदरे आत्ययिके स्नेहविरेचकः (२७-२८) · Śloka २८

पूर्ववच्च पिबेद्दुग्धं क्षामः शुद्धोऽन्तराऽन्तरा| कारभं गव्यमाजं वादद्यादात्ययिके गदे||२७|| स्नेहानेव विरेकार्थे दुर्बलेभ्यो विशेषतः| |२८|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पूर्ववच्च-यथा पटोलमूलादिके चूर्णे (श्लो. १०) कथितं, तथैव शुद्धः क्षामः सन् जाङ्गलरसादनन्तरमन्तराऽन्तरा-मध्ये मध्ये, दुग्धं पिबेत्| कारभं गव्यं छागं वा क्षीरम्| स०-आत्ययिके रोगे विरेकार्थे स्नेहानेव दद्यात्| दुर्बलेभ्यो वा विशेषेण|

Adhikarana उदरे आत्ययिके हरीतकीघृतम् (२८-३१) · Śloka ३१

| हरीतकीसूक्ष्मरजःप्रस्थयुक्तं घृताढकम्||२८|| अग्नौ विलाप्य मथितं खजेन यवपल्लके| निधापयेत्ततो मासादुद्धृतं गालितं पचेत्||२९|| हरीतकीनां क्वाथेन दध्ना चाम्लेन संयुतम्| उदरं गरमष्ठीलामानाहं गुल्मविद्रधी||३०|| हन्त्येतत्कुष्ठमुन्मादमपस्मारं च पानतः| |३१|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-हरीतकीसूक्ष्मचूर्णप्रस्थयुक्तं घृतस्याढकमग्नौ विलाप्य खजेनालोडितं यवपल्लके-यवराशिमध्ये, निधापयेत्| ततो मासादनन्तरमुद्धृतं गालितं हरीतकीनां क्वाथेन-सामान्यपरिभाषोक्तप्रमाणेन, अम्लेन दध्ना संयुतं च पचेत्| एतच्च पानेनोदरादीन् हन्ति|

Adhikarana उदरे आत्ययिके स्नुक्क्षीरघृतम् (३१-३२) · Śloka ३२

| स्नुक्ऽऽक्षीरयुक्ताद्गोक्षीराच्छृतशीतात् ख़जेनाहतात्||३१|| यज्जातमाज्यं स्नुक्ऽऽक्षीरसिद्धं तच्च तथागुणम्| |३२|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-स्नुक्षीरमिश्रिताद्गोक्षीराच्छृतशीतात् ख़जेनाहतात् यज्जातं सर्पिस्तत्स्नुक्क्षीरपक्वं पूर्वगुणम्|

Adhikarana उदरे आत्ययिके त्रिवृत्सिद्धं घृतम् (३२-३३) · Śloka ३३

| क्षीरद्रोणं सुधाक्षीरप्रस्थार्धसहितं दधि||३२|| जातं मथित्वा तत्सर्पिस्त्रिवृत्सिद्धं च तद्गुणम्| |३३|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-क्षीरद्रोणं स्नुक्क्षीरप्रस्थार्घेन युतं दधि जातं मथित्वा तत्सर्पिस्त्रिवृतापक्वं पूर्वगुणम्|

Adhikarana उदरे आत्ययिके पयः सिद्धं घृतम् (३३-३४) · Śloka ३४

| तथा सिद्धं घृतप्रस्थं पयस्यष्टगुणे पिबेत्||३३|| स्नुक्क्षीरपलकल्केन त्रिवृताषट्पलेन च| |३४|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तथा सिद्धं-पूर्ववत्पक्वं, घृतप्रस्थं क्षीरेऽष्टगुणे स्नुक्षीरपलकल्केन त्रिवृताषट्पलेन च सिद्धं पिबेत्|

Adhikarana उदरे आत्ययिके घृतादीनां पश्चात् पेयादिपानम् (३४) · Śloka ३४

| एषां चानु पिबेत्पेयां रसं स्वादु पयोऽथवा||३४||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-एषां च घृतादीनां पश्चात् पेयादीन् पिबेत्|

Adhikarana उदरे जीर्णे घृते विरिक्तस्य शुण्ठी जलादि पानम् (३५) · Śloka ३५

घृते जीर्णे विरिक्तश्च कोष्णं नागरसाधितम्| पिबेदम्बु ततः पेयां ततो यूषं कुलत्थजम्||३५||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-घृते जीर्णे विरिक्तश्च सन् कोष्णं शूण्ठीसाधितं जलं पिबेत्| अनन्तरं पेयां पिबेत्| कुलत्थयूषं च पिबेत्|

Adhikarana उदरे एवं त्र्यहं रूक्षत्वे पुनः पुनः सर्पिष्पानम् (३६) · Śloka ३६

पिबेद्रूक्षस्त्र्यहं त्वेवं भूयो वा प्रतिभोजितः| पुनःपुनः पिबेत्सर्पिरानुपूर्व्याऽनयैव च||३६||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-एवं त्र्यहं रूक्षः सन् पुनरपि प्रतिभोजितः पुनःपुनरनेनैव क्रमेण सर्पिः पिबेत्|

Adhikarana उदरे एतानि घृतानि गुल्मादीनां शान्तये (३७) · Śloka ३७

घृतान्येतानि सिद्धानि विदध्यात्कुशलो भिषक्| गुल्मानां गरदोषाणामुदराणां च शान्तये||३७||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-एतानि-प्रागुक्तानि, सिद्धानि घृतानि कुशलो वैद्यः कुर्वीत गुल्मादीनां शान्तये|

Adhikarana उदरे आनाहभेदनं घृतम् (३८) · Śloka ३८

पीलुकल्कोपसिद्धं वा घृतमानाहभेदनम्| तैल्वकं नीलिनीसर्पिः स्नेहं वा मिश्रकं पिबेत्||३८||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पीलुकल्कपक्वं घृतमानाहभेदनं पिबेत्| तैल्वकं (हृ. चि. अ. २१|३२) वा नीलिनीघृतं (हृ. चि. अ. १४|५५) मिश्रकं (हृ. चि. अ. १४|८९) वा स्नेहं पिबेत्|

Adhikarana उदरे हृतदोषे शाल्योदनम् (३९) · Śloka ३९

हृतदोषः क्रमादश्नन् लघुशाल्योदनप्रति| |३९|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-हृतदोषः क्रमेण शाल्योदनमतिलघुगुणयुक्तमल्पं खादेत्| एवं संसर्जनक्रम आदरितव्यः|

Adhikarana उदरे दोष शेषनिवृत्तये हरीतकीसहस्रम् उदरे दोष पिप्पलीसहस्रम् उदरे दोष पिप्पलीवर्धमानम् उदरे दोष शिलाजतुः उदरे दोष गुग्गुलुः उदरे दोष तुल्यार्द्रकरसं क्षीरम् (३९-४१) · Śloka ४१

| उपयुञ्जीत जठरी दोषशेषनिवृत्तये||३९|| हरीतकीसहस्रं वा गोमूत्रेण पयोनुपः| सहस्रं पिप्पलीनां वा स्नुक्ऽऽक्षीरेण सुभावितम्||४०|| पिप्पलीवर्धमानं वा क्षीराशी वा शिलाजतु| तद्वद्वा गुग्गुलुं क्षीरं तुल्यार्द्रकरसं तथा||४१||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-जठरी दोषशेषस्य निवृत्तये हरीतकीसहस्रं गोमूत्रेणासकृद्भावितं पयोनुपः सन् ख़ादेत्| अथवा, स्नुहीदुग्धेनासकृद्भावितं पिप्पली सहस्रमुपयुञ्जीत| पिप्पलीवर्धमानं वा रसायनविधानेनोपयुञ्जीत| अथवा, दुग्धाशनः सन्नद्रिजमुपयुञ्जीत| तथैव गुग्गुलुं प्रयुञ्जीत| तथा, तुल्यार्द्रकरसं क्षीरमुपयुञ्जीत|

Adhikarana उदरे दोष चित्रकदेवदारूकल्कः (४२) · Śloka ४२

चित्रकामरदारुभ्यां कल्कं क्षीरेण वा पिबेत्| मासं युक्तस्तथा हस्तिपिप्पलीविश्वभेषजम्||४२||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अथवा, चित्रकदेवदारुणोः कल्कं क्षीरेण पिबेत्| तथा, मासं हस्तिपिप्पलीविश्वभेषजकल्कं युक्तो-नियतः सन्, क्षीरेण पिबेत्|

Adhikarana उदरे विडङ्गादिकल्कयुक्तं पयः (४३) · Śloka ४३

विडङ्गं चित्रको दन्ति चव्यं व्योषं च तै पयः| कल्कैः कोलसमैः पीत्वा प्रवृद्धमुदरं जयेत्||४३||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-विडङ्गादिभिः कल्कैः कोलप्रमाणैरालोडितं पयः पीत्वा प्रवृद्धमुदरं जयेत्|

Adhikarana उदरे स्नुहीक्षीरादियुक्तम्न्नम् उदरे स्नुहीक्षीरादिकृता उत्कारिका (४४) · Śloka ४४

भोज्यं भुञीत वा मासं स्नुहीक्षीरघृतान्वितम्| उत्कारिकां वा स्नुक्क्षीरपीतपथ्याकणाकृताम्||४४||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-स्नुक्क्षीरघृतान्वितं भोज्यं-आहारं, मासं वा भुञ्जीत| स्नुक्क्षीरसिद्धं घृतं स्नुक्क्षीरघृतम्, स्नुक्क्षीरयुतं वा घृतं स्नुक्क्षीरघृतम्| उत्कारिकां वा स्नुक्क्षीरयुतां भुञ्जीत| उत्कारिकां-रोटिकाम्|

Adhikarana उदरे पार्श्वशूलादौ बिल्वक्षास्तैलमुदरे पार्श्व टिण्कादिक्षारतैलम् (४५-४६) · Śloka ४६

पार्श्वशूलमुपस्तम्भं हृद्ग्रहं च समीरणः| यदि कुर्यात् ततस्तैलं बिल्वक्षारान्वितं पिबेत्||४५|| पक्वं वा टिण्टुकबलापलाशतिलनालजैः| क्षारैः कदल्यपमार्गतर्कारीजैः पृथक्कृतैः||४६||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-समीरणः पार्श्वशूलादिकं यदि कुर्यात् ततस्तैलं बिल्वादियुतं पिबेत्| अथवा, मयूरजङ्घादिजैः क्षारैः कदल्यपामार्गतर्कारीजैः पृथक्कृतैः पक्वं तैलं पिबेत्|

Adhikarana उदरे वातावृते कफादौ एरण्डतैलम् (४७) · Śloka ४७

कफे वातेन पित्ते वा ताभ्यां वाऽप्यावृतेऽनिले| बलिनः स्वौषधयुतं तैलमेरण्डजं हितम्||४७||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कफे वातेनावृते, ताभ्यां-कफपित्ताभ्यां वाऽऽवृतेऽनिले सति, बलिनो नरस्य स्वौषधयुतमेरण्डतैलं हितम्|

Adhikarana उदरे वातावृते कफादौ देवदार्वादिलेपः (४८) · Śloka ४८

देवदारुपलाशार्कहस्तिपिप्पलिशिग्रुकैः| साश्वकर्णैः सगोमूत्रैः प्रदिह्यादुदरं बहिः||४८||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-देवदार्वादिभिर्गोमूत्रसहितैरुदरं बाह्यतः प्रलिम्पेत्|

Adhikarana उदरे वातावृते वृश्चिकाल्यादि क्वाथसेचनम् (४९) · Śloka ४९

वृश्चिकालीवचाशुण्ठीपञ्चमूलपुनर्नवात्| वर्षाभूधान्यकुष्ठाच्च क्वाथैर्मूत्रैश्च सेचयेत्||४९||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-वृश्चिकाल्यादीनां क्वाथैर्मूत्रैश्च जठरं सेचयेत्|

Adhikarana उदरे विरिक्तम्लाने स्वेदो वेष्टनं च (५०) · Śloka ५०

विरिक्तम्लानमुदरं स्वेदितं साल्वणादिभिः| वाससा वेष्टयेदेवं वायुर्नाध्मापयेत्पुनः||५०||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-उदरं विरिक्तम्लानं साल्वणादिभिः स्वेदितं ततो वस्त्रेण वेष्टयेत्| एवं कृते सति वायुर्न पुनराध्मापयेत्|

Adhikarana उदरे पुनराध्माने स्निग्धा निरूहाः (५१) · Śloka ५१

सुविरिक्तस्य यस्य स्यादाध्मानं पुनरेव तम्| सुस्निग्धैरम्ललवणैर्निरूहैः समुपाचरेत्||५१||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सुविरिक्तस्य नरस्य यस्य पुनराध्मानं स्यात्, तं-उदारिणं नरं, पुनरेव निरूहैः सुस्निग्धैरम्ललवणैश्चोपाचरेत्|

Adhikarana उदरे सावरणे तीक्ष्णा निरूहाः (५२) · Śloka ५२

सोपस्तम्भोऽपि वा वायुराध्मापयति यं नरम्| तीक्ष्णाः सक्षारगोमूत्राः शस्यन्ते तस्य बस्तयः||५२||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सहोपस्तम्भेन-कफाद्याधारकेण, वर्तते सोपस्तम्भो वायुर्यं नरमाध्मापयति, तस्य तीक्ष्णा बस्तयः क्षारगोमूत्राभ्यां सह शस्यन्ते|

Adhikarana उदरे इति सामान्यचिकित्सा (५३) · Śloka ५३

इति सामान्यतः प्रोक्ताः सिद्धा जठरिणां क्रियाः| |५३|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-इति-एवं, सामान्येनोदरिणां क्रियाः सिद्धाः प्रोक्ताः|

Adhikarana वातोदरे विदार्यादिघृतेन स्निग्धं स्वेदितं तैल्वकादिना विरेचयेत् (५३-५४) · Śloka ५४

| वातोदरेऽथ बलिनं विदार्यादिशृतं घृतम्||५३|| पाययेत ततः स्निग्धं स्वेदिताङ्गं विरेचयेत्| बहुशस्तैल्वकेनैनं सर्पिषा मिश्रकेण वा||५४||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-वातोदरे सति बलवन्तं पुरुषं विदार्यादिगणेन पक्वं घृतं पाययेत्| अनन्तरं स्निग्धं स्वेदितशरीरमेनं बहुशस्तैल्वकेन घृतेन (हृ. चि. अ. २१|३२) विरेचयेत्| मिश्रकेण (हृ. चि. अ. १४|८९) वा घृतेन विरेचयेत्|

Adhikarana उदरे संसर्जने कृते बलार्थं क्षीरम्,उदरे लब्धे बले क्षीरवर्जनम् (५५) · Śloka ५५

कृते संसर्जने क्षीरं बलार्थमवचारयेत्| प्रागुत्क्लेशान्निवर्त्यं च बले लब्धे क्रमात्पयः||५५||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कृते संसर्जने सति क्षीरं बलदानाय दद्यात्| उत्क्लेशात् प्राक्-प्रायेण कफोपचितेरुत्क्लेशं दृष्ट्वाऽनन्तरं, बले लब्धे सति क्रमेण क्षीरं निवर्तयेत्-न सहसैव|

Adhikarana उदरे ततो यूषादिभिरग्निवर्धनम् उदरे सोदावर्तै आस्थापनम् (५६-५७) · Śloka ५७

यूषै रसैर्वा मन्दाम्ललवणैरेधितानलम्| सोदावर्तं पुनः स्निग्धस्विन्नमास्थापयेत्ततः||५६|| तीक्ष्णाधोभागयुक्तेन दाशमूलिकबस्तिना| |५७|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-ततः-अनन्तरमुदीरिणं यूषादिभिः समिद्धाग्निमुदावर्तवन्तं पुनरपि स्निग्धस्विन्नं दाशमूलिकबस्तिना निरूहयेत्| दाशमूलिको बस्तिः-"द्विपञ्चमूलत्रिफलाफलबिल्वानि पाचयेत्|" (हृ. क. अ. ४|३४) इत्यादिः कल्पोक्तः| तेन किम्भूतेन ? तीक्ष्णाधोभागयुक्तेन| अधोभागो-अधस्ताच्छरीरे, युक्तो-योग्यः| तीक्ष्णाश्चासावधोभागयुक्तश्च, तेन|

Adhikarana उदरे रूक्षत्वादियुक्ते अनुवासनम् उदरे अविरेच्यत्वे शमना बस्त्वादयः (५७-५९) · Śloka ५९

| तिलोरुबूकतैलेन वातघ्नाम्लशृतेन च||५७|| स्फुरणाक्षेपसन्ध्यस्थिपार्श्वपृष्ठत्रिकार्तिषु| रूक्षं बद्धशकृद्वातं दीप्ताग्निमनुवासयेत्||५८|| अविरेच्यस्य शमना बस्तिक्षीरघृतादयः| |५९|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-रूक्षं बद्धशकृद्वातं दीप्तानलं तिलैरण्डतैलेन वातघ्नैर्द्रव्यैरम्लैश्च शृतेनानुवासयेत्| स्फुरणादिसद्भावे सत्यविरेच्यस्योदरिणो नरस्य शमना बस्त्यादयः प्रयोज्याः| [ अविरेच्याः- ] "न तु रेच्यो नवज्वरी " (हृ. सू. अ. १८|१०) इत्यादयो विरेचनविधावुक्ताः|

Adhikarana पित्तोदरे स्वादुसिद्धघृतेन स्नेहनम् पित्तोदरे स्यामादिघृतेन विरेचनम् पित्तोदरे न्यग्रोधादिकाथेन विरेचनम् पित्तोदरे न्यग्रोधादिस्नेहेन अनुवासनम् (५९-६१) · Śloka ६१

| बलिनं स्वादुसिद्धेन पैत्ते संस्नेह्य सर्पिषा||५९|| श्यामात्रिभण्डीत्रिफलाविपक्वेन विरेचयेत्| सितामधुघृताढ्येन निरूहोऽस्य ततो हितः||६०|| न्यग्रोधादिकषायेण स्नेहबस्तिश्च तच्छृतः| |६१|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-बलवन्तं पुरुषं पैत्ते जठरे सति मधुरवर्गसिद्धेन घृतेन संस्नेह्य श्यामादिभिर्विपक्वेन सर्पिषा विरेचयेत्| श्यामा-मालविका त्रिवृत्| त्रिभण्डी-काशी त्रिवृत्| अनन्तरं शर्करामाक्षिकघृतबहुलेन न्यग्रोधादिकषायेणास्य-आतुरस्य, निरूहो हितः| [ तथा, ] तेनैव-न्यग्रोधादिना, [शृतो- ] विपक्वः, स्नेहबस्तिः-अनुवासनो, हितः| ननु, बलिनमित्ययुक्तम्| यतः प्रागभ्यधायि (हृ. नि. अ. १२|४)- "नष्टचेष्टाबलाहाराः" इति| अत्रोच्यते| भेषजवेगसहिष्णुमात्रत्वमत्र बलवत्त्वं परिकल्प्य बलिनमित्युक्तम्, न तु प्रकृष्टबलवन्तमित्यदोषः|

Adhikarana पित्तोदरे दुर्बलस्य पूर्वमनुवास्य क्षीरबस्तिभिः शोधनम् (६१) · Śloka ६१

| दुर्बलं त्वनुवास्यादौ शोधयेत्क्षीरबस्तिभिः||६१||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-दुर्बलं तु नरं प्रागनुवास्य क्षीरबस्तिभिः शोधयेत्|

Adhikarana पित्तोदरेअग्निबले जाते पुनः पुनः त्रिवृत्कल्कक्षीरादि ना विरेचनम् पित्तोदरे सकफे समूत्रक्षीरेण पित्तोदरे सवातेसतिक्ताज्य क्षीरेण पित्तोदरे एषामन्यतमक्षीरेणान्नभोजनम् पित्तोदरे पायसेन जठरोपनाहः (६२-६४) · Śloka ६४

जाते चाग्निबले स्निग्धं भूयो भूयो विरेचयेत्| क्षीरेण सत्रिवृत्कल्केनोरुबूकशृतेन वा||६२|| सातलात्रायमाणाभ्यां शृतेनारग्वधेन वा| सकफे वा समूत्रेण सतिक्ताज्येन सानिले||६३|| पयसाऽन्यतमेनैषां विदार्यादिशृतेन वा| भुञ्जीत जठरं चास्य पायसेनोपनाहयेत्||६४||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अग्निबले च जाते स्निग्धं सन्तं पुनःपुनर्विरेचयेत्| केन ? क्षीरेण| त्रिवृच्चूर्णयुतेनैरण्डशृतेन वा क्षीरेण सातलात्रायन्तीभ्यां वा शृतेन कर्णिकारेण वा शृतेन| पित्तोदरिणः सुतरां बलापेक्षित्वाद्ऽऽदुर्बलमित्युक्तम्| कफयुते पित्ते समूत्रेण क्षीरेणैषामन्यतमेन शृतेन, सानिले पित्ते तिक्ताज्येन सह पयसा पूर्वोक्तद्रव्याणामन्यतमेन शृतेन विरेचयेत्| तिक्तद्रव्ययुतमाज्यं तिक्ताज्यम्, कुष्ठोक्तं तिक्तघृतं वा| विदार्यादिशृतेन वा पयसा भुञ्जीत-भोजनं कुर्वीत| जठरं चास्य पायसेनोपनाहयेत्|

Adhikarana पित्तोदरे क्षीरबस्तिविरेचननि पुनःपुनः (६५) · Śloka ६५

पुनः क्षीरं पुनर्बस्तिं पुनरेव विरेचनम्| क्रमेण ध्रुवमातिष्ठन् यत्तः पित्तोदरं जयेत्||६५||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पुनः क्षीरं पुनर्बस्तिं पुनरेव विरेचनं क्रमेण ध्रुवमातिष्ठन्-आचरन्, यत्तो-यत्नवान् सन्, पित्तोदरं जयेत्| पुनः क्षीरमित्यादिषु पुनःशब्दो वीप्सार्थः| एतच्च क्रमेण ध्रुवमातिष्ठन्नित्यतो लब्धम्|

Adhikarana कफोदरे वत्सकादिघृतेनस्नेहनम् कफोदरे स्विग्ने स्नुक्षीरघृतेन विरेचनम् कफोदरे कटुक्षारयुक्तैरन्नैः संसर्जनम् (६६-६७) · Śloka ६७

वत्सकादिविपक्वेन कफे संस्नेह्य सर्पिषा| स्विन्नं स्नुक्षीरसिद्धेन बलवन्तं विरेचितम्||६६|| संसर्जयेत्कटुक्षारयुक्तैरन्नैः कफापहैः| |६७|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कफे-कफोदरे, वत्सकादिविपक्वेन सर्पिषा संस्नेह्य स्विन्नं सन्तं स्नुक्षीरसिद्धेन घृतेन बलिनं विरेचितं सन्तं संसर्जयेत्-पेयाद्यन्नैरुपक्रमेत्| किम्भूतैः ? कटुक्षारद्रव्ययुतैरन्नैः कफघ्नैः| कटुक्षारयुतानां कफघ्नत्वेऽपि कफघ्नैरित्युक्तमतिशयार्थम्|

Adhikarana कफोदरे मुष्ककादिक्वाथेन निरूहः कफोदरे एतछृतस्नेहेन अनुवासनम् कफोदरे व्योषदुग्धादिना भोजनम् (६७-६८) · Śloka ६८

| मूत्रत्र्यूषणतैलाढ्यो निरूहोऽस्य ततो हितः||६७|| मुष्ककादिकषायेण स्नेहबस्तिश्च तच्छृतः| भोजनं व्योषदुग्धेन कौलत्थेन रसेन वा||६८||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-ततः-संसर्जनादनन्तरं, निरूहो गोमूत्रत्रिकटुकतैलबहुलो मुष्ककादिवर्गक्वाथेनास्य-कफोदरिणो, हितः| स्नेहबस्तिः-अनुवासनम्, तेनैव शृतो हितः| भोजनं व्योषयुक्तेन दुग्धेन सह हितं कुलत्थरसेन वा|

Adhikarana कफोदरे स्तैमित्यादौ अरिष्टक्षाराः (६९) · Śloka ६९

स्तैमित्यारुचिहृल्लासे मन्देऽग्नौ मद्यपाय च| दद्यादरिष्टान् क्षारांश्च कफस्त्यानस्थिरोदरे||६९||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मद्यपाय नराय मन्देऽग्नौ स्तैमित्यादौ च सत्यरिष्टान् क्षारांश्च दद्यात्| कफेन स्त्यानं जठरं यस्य तस्मिन्निदं कार्यम्|

Adhikarana कफोदरे स्तैमित्यादौ हिङ्ग्वादिक्षाराःऔ (७०-७३) · Śloka ७३

हिङ्गूपकुल्ये त्रिफलां देवदारु निशाद्वयम्| भल्लातकं शिग्रुफलं कटुकां तिक्तकं वचाम्||७०|| शुण्ठीं माद्रीं घनं कुष्ठं सरलं पटुपञ्चकम्| दाहयेज्जर्जरीकृत्य दधिस्नेहचतुष्कवत्||७१|| अन्तर्धूमं ततः क्षाराद्बिडालपदकं पिबेत्| मदिरादधिमण्डोष्णजलारिष्टसुरासवैः||७२|| उदरं गुल्ममष्ठीलां तून्यौ शोफं विसूचिकाम्| प्लीहहृद्रोगगुदजानुदावर्तं च नाशयेत्||७३||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-हिड्ग्वादिकं जर्जरीकृत्य दधिस्नेहचतुष्कयुतमन्तर्धूमं दाहयेत्| तस्मात् क्षाराद्बिडालपदकं मदिरादिभिः पिबेत्| एष च क्षार उदरगुल्मादीन् नाशयेत्|

Adhikarana कफोदरे अरिष्टगोमूत्रादयः (७४) · Śloka ७४

जयेदरिष्टगोमूत्रचूर्णायस्कृतिपानतः| सक्षारतैलपानैश्च दुर्बलस्य कफोदरम्||७४||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-दुर्बलस्य नरस्य कफोदरमरिष्टादिपानेन जयेत्| अयस्कृतिः-प्रमेहचिकित्सिते (अ. १२|२९) प्रोक्ता, क्षारयुततैलपानैश्च जयेत्|

Adhikarana कफोदरे मूलकबीजादिभिरूपनाहः कफोदरे अभीक्ष्णं स्वेदः (७५) · Śloka ७५

उपनाह्यं ससिद्धार्थकिण्वैर्बीजैश्च मूलकात्| कल्कितैरुदरं स्वेदमभीक्ष्णं चात्र योजयेत्||७५||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तथा, उपनाह्यं जठरमस्यैतैः मूलकबीजैः कल्कितैः ससर्षपकिण्वैः| तथा, नित्यं स्वेदमत्र योजयेत्|

Adhikarana सनिपातोदरे प्रत्याख्यायक्रिया (७६) · Śloka ७६

सन्निपातोदरे कुर्यान्नातिक्षीणबलानले| दोषोद्रेकानुरोधेन प्रत्याख़्याय क्रियामिमाम्||७६||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सन्निपातोदरे-अर्थात्सन्निपातोदरवति नरे, नातिक्षीणबलानलेऽधिदोषानुरोधेन-तद्वशेनैव, क्रियामिमां-अनन्तरोक्तां, कुर्यात्| किं कृत्वा ? प्रत्याख़्याय,-एतदुदरमशक्यप्रतीकारमित्येवमुक्त्वा| अथोपक्रममाह-

Adhikarana सनिपातोदरे दन्तीद्रवन्तीतैलपानम् (७७) · Śloka ७७

दन्तीद्रवन्तीफलजं तैलं पाने च शस्यते| |७७|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-दन्त्यादितैलं पाने च शस्यते|

Adhikarana सनिपातोदरे क्रियानिवृत्ते काकादन्यादिकल्कः (७७-७८) · Śloka ७८

| क्रियानिवृत्ते जठरे त्रिदोषे तु विशेषतः||७७|| दद्यादापृच्छ्य तज्ज्ञातीन् पातुं मद्येन कल्कितम्| मूलं काकादनीगुञ्जाकरवीरकसम्भवम्||७८||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-क्रियामतिक्रान्ते जठरे विशेषेण त्रिदोषजे तस्य-उदरिणो बन्धून्, पृष्ट्वा-यथैतद्विषं विषमं किं जीवयत्युत मारयतीति सन्देह इत्याद्युक्त्वा, प्रयोज्यं वक्ष्यमाणं चैतत्| पातुमित्यादि| काकादन्यादिजं मूलं कल्कितं मद्येन पातुं दद्यात्| ककादनी-काकणन्तिका|

Adhikarana सनिपातोदरे क्रियास्थावरं विषं सर्पविषं वा (७९-८१) · Śloka ८१

पानभोजनसंयुक्तं दद्याद्वा स्थावरं विषम्| यस्मिन् वा कुपितः सर्पो विमुञ्चति फले विषम्||७९|| तेनास्य दोषसङ्घातः स्थिरो लीनो विमार्गगः| बहिः प्रवर्तते भिन्नो विषेणाशु प्रमाथिना||८०|| तथा व्रजत्यगदतां शरीरान्तरमेव वा| |८१|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अथवा पानभोजनसंयुक्तं स्थावरं विषं दद्यात्| तेन यस्मिन् फले सर्पः कुपितो विषं मुञ्चति तद्वा दद्यात्| तेन-विषेण प्रमाथिना, अस्य दोषसङ्घातो भिन्नो बहिः प्रवर्तते| किम्भूतः ? स्थिरस्तथा लीनो धात्वादिषु तथा उन्मार्गगामी| तथा-तेन प्रकारेणानुष्ठितेन, उदर्यगदतां-निर्व्याधितां, व्रजति| शरीरान्तरं वा याति-म्रियत इत्यर्थः|

Adhikarana सनिपातोदरे हृतदोष शीताम्बुस्नानं पयः पानं पेयां वातेत्रिवृच्छाका दिभक्षणं (८१-८३) · Śloka ८३

| हृतदोषं तु शीताम्बुस्नातं तं पाययेत्पयः||८१|| पेयां वा त्रिवृतः शाकं मण्डूक्या वास्तुकस्य वा| कालशाकं यवाख़्यं वा ख़ादेत्स्वरससाधितम्||८२|| निरम्ललवणस्नेहं स्विन्नास्विन्नमनन्नभुक्| मासमेकं ततश्चैव तृषितः स्वरसं पिबेत्||८३||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-हृतदोषं च तं शीतजलेन स्नातं सन्तं पयः शीतं पाययेत्| पेयामथवा त्रिवृच्छाकं मण्डूकीशाकं वास्तुकशाकं कालशाकं यवशाकं वा ख़ादेत्| किम्भूतम् ? स्वरसेन साधितम्, तथाऽम्ललवणस्नेहवर्जितम्, तथा स्विन्नास्विन्नम्| अनन्नभोजी सन्, स्विन्नास्विन्नमिति "क्तेन नविशिष्टेन" इति समासः, मासमेकं यावदेतदश्नीयात्| तृषितः सन् स्वरसं-प्रकृतत्वात्तच्छाकस्य, पिबेत्|

Adhikarana सनिपातोदरे एवं निर्हते दोषे औष्ट्रं क्षीरम् (८४) · Śloka ८४

एवं विनिर्हृते शाकैर्दोषे मासात् परं ततः| दुर्बलाय प्रयुञ्जीत प्राणभृत्कारभं पयः||८४||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-एवं शाकविशेषेण दोषे निर्हृते-प्रायेण जलाख़्ये, ततः-अनन्तरं, मासात् परं दुरलाय पुरुषाय कारभं क्षीरं प्राणकरं प्रयुञ्जीत|

Adhikarana प्लीहोदरे वामबाहौ सिरामोक्षः (८५) · Śloka ८५

प्लीहोदरे यथादोष स्निग्धस्य स्वेदितस्य च| सिरां भुक्तवतो दध्ना वामबाहौ विमोक्षयेत्||८५||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-प्लीहोदरे दोषानुसारेण स्निग्धस्य स्वेदितस्य च दध्ना भुक्तवतः सिरां वामे बाहौ विमोक्षयेत्|

Adhikarana प्लीहोदरे लब्धबले समुद्रशुक्तिक्षारः प्लीहोदरे लब्धकरञ्जक्षारः प्लीहोदरे लब्ध शिग्रुक्वाथः प्लीहोदरे लब्धहिङ्ग्वादिचूर्णक्षाराज्यम् (८६-८८) · Śloka ८८

लब्धे बले च भूयोऽपि स्नेहपीतं विशोधितम्| समुद्रशुक्तिजं क्षारं पयसा पाययेत्तथा||८६|| अम्लस्रुतं बिडकणाचूर्णाढ्यं नक्तमालजम्| सौभाञ्जनस्य वा क्वाथं सैन्धवाग्निकणान्वितम्||८७|| हिड्ग्वादिचूर्णं क्षाराज्यं युञ्जीत च यथाबलम्| |८८|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-बले च जाते पुनरपि स्नेहपीतं विशोधितं सन्तं क्षारं समुद्रशुक्तयुत्थं पयसा पाययेत्| तथा करञ्जजं क्षारमम्लैः-काञ्जिकादिभिः स्रुतं, बिडकणाचूर्णभूयिष्ठं पाययेत्| अथवा, सौभाञ्जनस्य क्वाथम् सैन्धवादियुतं पिबेत्| हिड्ग्वादिजं चूर्णं क्षारं तथा घॄतं-षट्पलादि, यथाबलं प्रयुञ्जीत| ननु, यथाबलं इहोच्यते| प्राक् चाभ्यधायि (हृ. नि. अ. १२|४)- "नष्टचेष्टाबलाहाराः" इति| तदिमे वाक्ये परस्परं व्याघ्नाते| ब्रूमः| बलशब्देनेह भेषजबलं सोढुं शक्तं यद्बलमात्रं तदिह परिकल्पितम्| पूर्वं च प्रकृष्टं यद्बलं तद्विवक्षितमिति नात्र पूर्वापरव्याहतत्वम्|

Adhikarana प्लीहोदरे लब्धबले पिप्पल्यादिचूर्णम् (८८-८९) · Śloka ८९

| पिप्पलीनागरं दन्तीसमांशं द्विगुणाभयम्||८८|| बिडार्धांशयुतं चूर्णमिदमुष्णाम्बुना पिबेत्| |८९|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पिप्पलीनागरयोर्द्वावंशौ, दन्त्या द्वौ भागौ, हरीतक्याश्च द्वौ भागौ, बिडलवणस्यार्धभागः, इत्येवं चूर्णमुष्णाम्बुना पिबेत्|

Adhikarana प्लीहोदरेलब्धबले विडङ्गादिभूतिः (८९-९०) · Śloka ९०

| विडङ्गं चित्रकं सक्तून् सग़ृतान् सैन्धवं वचाम्||८९|| दग्ध्वा कपाले पयसा गुल्मप्लीहापहं पिबेत्| |९०|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-विडङ्गादिकं कपाले-कर्परे, दग्ध्वा क्षीरेण गुल्मप्लीहग़्नं पिबेत्|

Adhikarana प्लीहोदरे लब्धबले बदरकपत्रलेपः (९०-९१) · Śloka ९१

| तैलोन्मिश्रैर्बदरकपत्रैः सम्मार्दितैः समुपनद्धः||९०|| मुसलेन पीडितोऽनु च याति प्लीहा पयोभुजो नाशम्| |९१|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-बदरकस्य पत्रैस्तैलमिश्रितैः सुष्रु मर्दितैः समुपनद्धः, अनु-पश्चाच्च, मुसलेन पीडितः प्लीहा क्षीराशिनो नाशं व्रजति| उपगीतिः|

Adhikarana प्लीहोदरेलब्धबले रोहीतकलतायोगः (९१-९२) · Śloka ९२

| रोहीतकलताः क्लृप्ताः ख़ण्डशः साभया जले||९१|| मूत्रे वाऽऽसुनुयात्तच्च सप्तरात्रस्थितं पिबेत्| कामलाप्लीहगुल्मार्शः कृमिमेहोदरापहम्||९२||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

रोहीतकलताः लताः ख़ण्डं क्लृप्ताः सहरीतकीर्जले मूत्रे वाऽऽसुनुयात्| तच्च सप्तरात्रं स्थितं जलं मूत्रं वा पिबेत्| हरीतक्यश्च लेहवद्भुञ्जीत| तत्पीतं कामलादिघ्नम्|

Adhikarana प्लीहोदरेलब्धबले रोहीतकघृतम् (९३-९५) · Śloka ९५

रोहीतकत्वचः कृत्वा पलानां पञ्चविंशतीम्| कोलद्विप्रस्थसंयुक्तं कषायमुपकल्पयेत्||९३|| पालिकैः पञ्चकोलैस्तु तैः समस्तैश्च तुल्यया| रोहीतकत्वचा पिष्टैर्घृतप्रस्थं विपाचयेत्||९४|| प्लीहाभिवृद्धिं शमयत्येतदाशु प्रयोजितम्| |९५|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-रोहीतकत्वचः पलानां पञ्चविंशतिं कृत्वा बदरप्रस्थद्वयसंयुक्तं कषायमवतारयेत्| पञ्चकोलैः पालिकैस्तैः समस्तैः पञ्चकोलैः रोहीतकत्वचा तुल्यया पिष्टैर्घृतप्रस्थं विपाचयेत्| एतद्धृतं प्रयोजितं प्लीहाभिवृद्धिं द्रागेव शमयति|

Adhikarana प्लीहोदरेलब्धबले कदल्यादितैलम् (९५-९६) · Śloka ९६

| कदल्यास्तिलनालानां क्षारेण क्षुरकस्य च||९५|| तैलं पक्वं जयेत्पानात्प्लीहानं कफवातजम्| |९६|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कदल्यादीनां क्षारेण तैलं पक्वं पानेन कफवातोत्थं प्लीहानं पराकरोति|

Adhikarana प्लीहोदरेलब्धबले वातकफोल्बणे गुल्मवदग्निकर्म (९६-९७) · Śloka ९७

| अशान्तौ गुल्मविधिना योजयेदग्निकर्म च||९६|| अप्राप्तपिच्छासलिले प्लीह्नि वातकफोल्बणे| |९७|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-एवमप्यनुपशान्तौ वातकफोत्थे प्लीह्न्यसञ्जातपिच्छोदके गुल्मविधानेनाग्निकर्म योजयेत्|

Adhikarana प्लीहोदरे लब्धबले पित्तोल्बणे जीवनीयसर्पिरादि (९७-९८) · Śloka ९८

| पैत्तिके जीवनीयानि सर्पींषि क्षीरबस्तयः||९७|| रक्तावसेकः संशुद्धिः क्षीरपानं च शस्यते| |९८|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

पैत्तिके-पित्तेल्बणे, प्लीह्नि जीवनीयगणसाधितानि सर्पींषि तथा क्षीरबस्तिरक्तावसेकादि च शस्यते| "सिरां भुक्तवतो दध्ना वामबाहौ विमोक्षयेत्|" (श्लो. ८५) इत्यनेनैव रक्तावसेकस्योक्तत्वात् पुनर्वचनं प्रकर्षार्थम्| पित्ताधिक्ये हि रक्तातिवृद्धिः| तस्मादतिरक्तस्रावो योज्य इति प्रतिपादनार्थमेतदुक्तम्|

Adhikarana यकृदुदरे दक्षिणभुजे सिरामोक्षः (९८) · Śloka ९८

| यकृति प्लीहवत्कर्म दक्षिणे तु भुजे सिराम्||९८||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-यकृति प्लीहवत् कर्म कार्यम्| सिरां पुनर्दक्षिणे बाहौ दद्यात्|

Adhikarana यकृदुदरे अन्यत्सर्वं प्लीहवत् बद्धोदरे स्वेदा न्रूहोऽनुवासनं च बद्धोदरे परिस्त्रंसीन्यन्नानि बद्धो तीक्ष्णं विरेचनम् बद्धो उदावर्तहरं वातन्धं च कर्म (९९-१००) · Śloka १००

स्विन्नाय बद्धोदरिणे मूत्रतीक्ष्णौषधान्वितम्| सतैललवणं दद्यान्निरूहं सानुवासनम्||९९|| परीस्रंसीनि चान्नानि तीक्ष्णं चास्मै विरेचनम्| उदावर्तहरं कर्म कार्यं यच्चानिलापहम्||१००||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-बद्धोदरिणे पुरुषाय स्विन्नाय गोमूत्रतीक्ष्णौषधयुतं तैलसैन्धवाभ्यां सह निरूहं दद्यात्, सानुवासनं-पूर्वमनुवासनं पश्चाच्चेत्यर्थः| उदरीणः स्वेदनिषेधाद्बद्धोदरिणः स्वेदानुज्ञानमपवाद इति नैतत्पूर्वापरव्याहतम्| परिस्रंसीनि-अनुलोमकारण्यन्नानि, अस्मै च-जठरिणे, तीक्ष्णं च विरेचनं दद्यात्| उदावर्तहरं कर्म कार्यम्| यच्च वात्घ्नं तच्च कार्यम्|

Adhikarana छिद्रोदरे स्वेदं विना कफो दरवत् छिद्रो जातं जातं जलं स्वाव्यम् (१०१) · Śloka १०१

छिद्रोदरमृते स्वेदाच्छ्लेष्मोदरवदाचरेत्| जातं जातं जलं स्राव्यमेवं तद्यापयेद्भिषक्||१०१||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-छिद्रोदरं स्वेदमन्तरेण श्लेष्मोदरवदुपक्रमेत्| यदा तु कथञ्चिद्रसश्छिद्रेभ्यः परिस्रवन् जठरमापूरयित्वा जलं भवेत्तदा तज्जातं सलिलं स्राव्यम्| न च सकृदेव स्राव्यमिति प्रतिपादनार्थं वीप्सा, जातं जातं जलं स्राव्यमिति| कियन्तं कालं स्राव्यम् ? इत्याह-एवमित्यादि| एवं-अनेन प्रकारेण, तत्-बद्धोदरं, यापयेत्| स्वास्थ्यमिति योग्यतयाऽत्र सम्बध्यते, तेनैव स्वास्थ्यं प्रापयेदिति बोध्यम्| न तु याप्यं विदध्यादिति व्याख़्येयम्, न हि याप्यमुदरमस्ति|

Adhikarana उदकोदरे अब्दोषहराणि उदकोदरेदीपनीयः कफघ्नश्चाहारः (१०२-१०३) · Śloka १०३

अपां दोषहराण्यादौ योजयेदुदकोदरे| मूत्रयुक्तानि तीक्ष्णानि विविधक्षारवन्ति च||१०२|| दीपनीयैः कफघ्नैश्च तमाहारैरुपाचरेत्| |१०३|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-उदकोदरे पूर्वमपां दोषहराणि योजयेत्| तानि सर्वाणि गोमूत्रयुक्तानि तथा तीक्ष्णानि तथा विविधाः क्षारा विद्यन्ते येषु तानि विविधक्षारवन्ति, अनेकक्षारयुक्तानीत्यर्थः| ननु, अपामित्यनर्थकम्, "योजयेदुदकोदरे" इत्यनेनैवोदकहरत्वस्य सिद्धत्वात्| अत्रोच्यते| अपां च हर्णानि यश्च तत्र संसृष्टो दोषोऽद्भिस्तस्य च हरणानि जलसंसृष्टदोषहरणानीति प्रतिपादयितुमुक्तम्| आदाविति निर्देशात् पश्चाद्वातादिदोषानुसारेण चोपक्रमः कार्य इति द्योतयति| तथा भोजनैर्दीपनीयैः कफापहैश्चोपाचरेत्|

Adhikarana उदकोदरे छागकरीषक्षारादिगुटिकाओ (१०३-१०६) · Śloka १०६

| क्षारं छोगकरीषाणां स्रुतं मूत्रेऽग्निना पचेत्||१०३|| घनीभवति तस्मिंश्च कर्षांशं चूर्णितं क्षिपेत्| पिप्पली पिप्पलीमूलं शुण्ठी लवणपञ्चकम्||१०४|| निकुम्भकुम्भत्रिफलास्वर्णक्षीरीविषाणिकाः| स्वर्जिकाक्षारषड्ग्रन्थासातलायवशूकजम्||१०५|| कोलाभा गुटिकाः कृत्वा ततः सौवीरकाप्लुताः| पिबेदजरके शोफे प्रवृद्धे चोदकोदरे||१०६||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-क्षारं छागकरीषाणां मूत्रे स्रुतं चाग्निना पचेत्| अस्मिंश्च क्षारजले घनीभवति सति कर्षांशं रजीकृतं पिप्पल्यादिकं क्षिपेत्| ततः-तस्मात्क्षारात्, गुलिकाः कोलाभाः कृत्वा सौवीरकालोडिता अजरकादौ पिबेत्|

Adhikarana बद्धच्छिद्रोदकोदरेषु औषधैरप्रशमेषु शस्त्रकर्म (१०७) · Śloka १०७

इत्यौषधैरप्रशमे त्रिषु बद्धोदरादिषु| प्रयुञ्जीत भिषक् शस्त्रमार्तबन्धुनृपार्थितः||१०७||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-इति-एवं, औषधैरशान्तौ सत्यां त्रिषु बद्धच्छिद्रोदकोदरेषु वैद्य आर्तज्ञातिभिर्नृपेण चाभ्यार्थितः सन् शस्त्रं प्रयुञ्जीत|

Adhikarana बद्धच्छिद्रोदकोदरेषु शस्त्रकर्म विधिः (१०८-११२) · Śloka ११२

स्निग्धस्विन्नतनोर्नाभेरधो बद्धक्षतान्त्रयोः| पाटयेदुदरं मुक्त्वा वामतश्चतुरङ्गुलात्||१०८|| चतुरङ्गुलमानं तु निष्कास्यान्त्राणि तेन च| निरीक्ष्यापनयेद्बालमललेपोपलादिकम्||१०९|| छिद्रे तु शल्यमुद्धृत्य विशोध्यान्त्रपरिस्रवम्| मर्कोटैर्दंशयेच्छिद्रं तेषु लग्नेषु चाहरेत्||११०|| कायं मूर्ध्नोऽनु चान्त्राणि यथास्थानं निवेशयेत्| अक्तानि मधुसर्पिर्भ्यामथ सीव्येद्बहिर्व्रणम्||१११|| ततः कृष्णमृदाऽऽलिप्य बध्नीयाद्यष्टिमिश्रया| निवातस्थः पयोवृत्तिः स्नेहद्रोण्यां वसेत्ततः||११२||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-बद्धक्षतान्त्रयोः-बद्धोदरे छिद्रोदरे च, स्निग्धस्विन्नशरीरस्य नाभेरध उदरं चतुरङ्गुलाद्वामेन मुक्त्वा चतुरङ्गुलप्रमाणं पाटयेत्| तेन च-छिद्रेण, अन्त्राणि बहिर्निष्कास्य बालमललेपोपलादिकमपनयेदिति बद्धोदरोपक्रमः| छिद्रोदरोपक्रममाह-छिद्रे तु परीस्राविणि शल्यमुद्धृत्य परिस्रवमात्रं विशोध्यानन्तरं मर्कोटैश्छिद्रं दंशयेत्| तेषु च-मर्कोटेषु, भक्षयितुं लग्नेषु मूर्ध्नः-शिरसोऽपरं, कायं मर्कोटानामाकर्षेत्| अनु [च]-पश्चाच्च, अन्त्राणि मधुसर्पिर्भ्यामक्तानि यथास्थानं स्थापयेत्| [अथ-] अनन्तरं, बहिर्व्रणं सीव्येत्| बहिःशब्दनिर्देशादाभ्यन्तरगतं न सीव्येदिति गम्यते| ततः-अनन्तरं, कृष्णमृदा मधुयष्टिकामिश्रयाऽऽलिप्य बध्नीयात्| अनन्तरं निवातस्थः क्षीरवृत्तिः सन् स्नेहद्रोण्यां वसेत्| अधुना जलोदरस्यान्येषामपि जातजलानां जठराणां चिकित्सार्थमाह-

Adhikarana सजले उदरे जलस्रावणविधिः सजले निःस्रुते पेया (११३-११७) · Śloka ११७

सजले जठरे तैलैरभ्यक्तस्यानिलापहैः| स्विन्नस्योष्णाम्बुनाऽऽकक्षमुदरे पट्टवेष्टिते||११३|| बद्धच्छिद्रोदितस्थाने विध्येदङ्गुलमात्रकम्| निधाय तस्मिन्नाडीं च स्रावयेदर्धमम्भसः||११४|| अथास्य नाडीमाकृष्य तैलेन लवणेन च| व्रणमभ्यज्य बध्वा च वेष्टयेद्वाससोदरम्||११५|| तृतीयेऽह्नि चतुर्थे वा यावदाषोडशं दिनम्| तस्य विश्रम्य विश्रम्य स्रावयेदल्पशो जलम्||११६|| विवेष्टयेद्गाढतरं जठरं वाससा श्लथम्| निःस्रुते लङ्घितः पेयामस्नेहलवणां पिबेत्||११७||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सजले जठरिणो जठरे तैलैः-तिलानां तैलैः सर्षपैरण्डतैलादिभिश्च, अनिलघ्नैरभ्यक्तस्य तथोष्णाम्बुना स्विन्नस्याकक्षं-कक्षान्तं यावत्, उदरे पट्टेन-वस्त्रेण वेष्टिते, तदुदरं वस्त्रेणैव वेष्टयित्वा बद्धच्छिद्रोदरयोर्यत्कथितं स्थानं तस्मिन् स्थानेऽङ्गुलप्रमाणं विध्येत्| तस्मिंश्च छिद्रे नाडीं निधाय जलस्योदरस्थस्यार्धं स्रावयेत्| जलस्रावादनन्तरमस्य-उदरिणो, नाडीमाकृष्य सलवणेन तैलेन व्रणमभ्यज्य बद्ध्वा च वाससा जठरं वेष्टयेत्| तृतीये दिवसेऽथवा चतुर्थे यावदाषोडशं दिनं तस्य-उदरिणो, विश्रम्य विश्रम्याल्पशः-अल्पमल्पं कृत्वा, जलं-दोषं, स्रावयेत्| सहसा हि प्रचुरजलस्रावणादपायः स्यात्| तस्मात् स्रुतिदिवसादनन्तरं तृतीये चतुर्थे पञ्चमादौ वा दिने शरीरबलाबलमपेक्ष्य षोडशदिनं मर्यादीकृत्य जलस्रावणं कार्यम्| जठरं च शिथिलं वाससा गाढतरं विवेष्टयेत्| निःस्रुते च जलेऽसौ जठरी लङ्घितः सन् पेयामस्नेहलवणां&ल्त्; पिबेत्| नञत्र ईषदर्थः| ईषत् स्नेहलवणं क्लेदरक्षार्थं वातकोपरक्षार्थं च| अन्यथा हि 'रूक्षां निर्लवणां पिबेत्' इत्येवं निर्देशमाचार्यः कुर्यात्|

Adhikarana सजले उदरे आसंवत्सरं वर्तनक्रमः (११८-११९) · Śloka ११९

स्यात्क्षीरवृत्तिः षण्मासांस्त्रीन् पेयां पयसा पिबेत्| त्रींश्चान्यान् पयसैवाद्यात् फलाम्लेन रसेन वा||११८|| अल्पशोऽस्नेहलवणं जीर्णं श्यामाककोद्रवम्| प्रयतो वत्सरेणैवं विजयेत जलोदरम्||११९||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-षण्मासान् क्षीरवृत्तिः स्यात्| त्रीन् मासान् क्षीरपेयां पिबेत्| त्रींश्चान्यान् मासान् पयसैव जीर्णं श्यामाककोद्रवमद्यात्| फलाम्लेन वा मांसरसेन| कथम् ? अल्पमल्पम्| तथा, ईषत् स्नेहलवणम्| [एवं-] अनेन प्रकारेण, प्रयतः सलिलोदरं वत्सरेण विजयेत्|

Adhikarana सजले उदरे पथ्ये यन्त्रितो जितेन्द्रियश्चौदरे (१२०) · Śloka १२०

वर्ज्येषु यन्त्रितो दिष्टे नात्यदिष्टे जितेन्द्रियः| |१२०|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-वर्ज्येष्वाहारविहारादिष्वत्यर्थोष्णाम्ललवणादिषु (श्लो. १२५) यन्त्रित उदरी स्यात्| दिष्टे-कथितेऽन्नपानादौ, नातियन्त्रितः स्यात्| अदिष्टे-अकथिते पुनरन्नपानादौ, जितेन्द्रियः स्यात्-अलोलुपेन तत्र भवितव्यमित्यर्थः| जलोदरचिकित्साप्रसङ्गेन सर्वोदरचिकित्सामाह-

Adhikarana सर्वोदरे वातादिशमनी क्रिया (१२०-१२१) · Śloka १२१

| सर्वमेवोदरं प्रायो दोषसङ्घातजं यतः||१२०|| अतो वातादिशमनी क्रिया सर्वत्र शस्यते| |१२१|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सर्वमेवोदरं बाहुल्येन दोषसङ्घातोत्थं यस्मात्तस्मात् सर्वत्रोदरे वातादिशमनी क्रिया प्रशस्यते| प्रायोग्रहणं किञ्चित् प्राक्तनकर्मनिमित्तमुदरं नावश्यं दोषसङ्घातजमिति|

Adhikarana सर्वोदरे दीपनो लघुश्चाहारः (१२१-१२२) · Śloka १२२

| वह्निर्मन्दत्वमायाति दोषैः कुक्षौ प्रपूरिते||१२१|| तस्माद्भोज्यानि भोज्यानि दीपनानि लघूनि च| सपञ्चमूलान्यल्पाम्लपटुस्नेहकटूनि च||१२२||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-वह्निर्मन्दत्वं यत आगच्छति दोषैरुदरे प्रपूरिते सति तस्मात्कारणात् भोज्यानि-आहाराः, भोज्यानि-भक्षयितव्यानि, जठरिभिर्दीपनानि लघूनि च| तथा सह पञ्चमूलेन तथाऽल्पाम्लादयो येषु तानि|

Adhikarana सर्वोदरे गोमूत्रभावितषष्टिकतण्डुलयवागूभोजनम् (१२३-१२४) · Śloka १२४

भावितानां गवां मूत्रे षष्टिकानां च तण्डुलैः| यवागूं पयसा सिद्धां प्रकामं भोजयेन्नरम्||१२३|| पिबेदिक्षुरसं चानु जठराणां निवृत्तये| स्वं स्वं स्थानं व्रजन्त्येषां वातपित्तकफास्तथा||१२४||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-गोमूत्रे भावितानां षष्टिकानां तण्डुलैर्यवागूं क्षीरेण सिद्धां प्रकामं-इच्छया, नरं भोजयेत्| अनु-पश्चात्, इक्षुरसं च पिबेदुदराणां शान्त्यर्थम्| तथा वातपित्तकफाश्चैषां-उदरिणां, स्वं स्वं स्थानं व्रजन्ति|

Adhikarana सर्वोदरे तदनु दक्षुरसपानम् सर्वो वर्ज्यानि (१२५-१२६) · Śloka १२६

अत्यर्थोष्णाम्ललवणं रूक्षं ग्राहि हिमं गुरु| गुडं तैलकृतं शाकं वारि पानावगाहयोः||१२५|| आयासाध्वदिवास्वप्नयानानि च परित्यजेत्| |१२६|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अत्यर्थोष्णाम्ललवणादिकं जठरी त्यजेत्| वारि पानावगाहयोर्यदि त्यजेत् तर्हि किं पेयम् ? इत्याह-

Adhikarana सर्वोदरे तक्रपानम् अष्टोदरेषु तक्रविशेषः (१२६-१२९) · Śloka १२९

| नात्यच्छसान्द्रमधुरं तक्रं पाने प्रशस्यते||१२६|| सकणालवणं वाते, पित्ते सोषणशर्करम्| यवानीसैन्धवाजाजीमधुव्योषैः कफोदरे||१२७|| त्र्यूषणक्षारलवणैः संयुतं निचयोदरे| मधुतैलवचाशुण्ठीशतह्वाकुष्ठसैन्धवैः||१२८|| प्लीह्नि, बद्धे तु हपुषायवानीपट्वजाजिभिः| सकृष्णामाक्षिकं छिद्रे, व्योषवत्सलिलोदरे||१२९||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तक्रमीषदच्छसान्द्रमधुरं पाने प्रशस्यते| तच्च पवने सपिप्पलीसैन्धवं श्रेष्ठम्| पित्ते समरिचशर्करम्| यवान्यादिभिः सह्स् कफोदरे हितम्| त्रिकटुकादिभिः संयुक्तं सन्निपातोदरे| मधुतैलादिभिः प्लीहोदरे| हपुषादिभिर्युतं बद्धोदरे| पिप्पलीमधुयुतं छिद्रोदरे| जलोदरे व्योषयुतं श्रेष्ठम्|

Adhikarana अष्टोदरेषु गौरवादियुक्तानां वातकफार्तानां तक्रामॄतम् (१३०) · Śloka १३०

गौरवारोचकानाहमन्दवह्न्यतिसारिणाम्| तक्रं वातकफार्तानाममृतत्वाय कल्पते||१३०||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-वातकफार्तानां गौरवारोचकादियुतानां तक्रममृतत्वाय कल्पते-सम्पद्यते| एतच्च ब्रुवन् वातकफयोः शुद्धावपि देयमिति द्योतयति|

Adhikarana अष्टोदरेषु सर्वेषां प्रयोगाणामनु क्षीरम् (१३१) · Śloka १३१

प्रयोगाणां च सर्वेषामनु क्षीरं प्रयोजयेत्| स्थैर्यकृत्सर्वधातूनां बल्यं दोषानुबन्धहृत्||१३१||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सर्वेषां च प्रयोगाणामनु क्षीरं प्रयोजयेत्| तच्च क्षीरं सर्वधातूनां स्थिरत्वं करोति| तथा बल्यं स्याद्दोषानुबन्धत्वं हरति|

Adhikarana अष्टोदरेषु भेषजक्षीणाङ्गानां क्षीरं अमृतम् (१५) · Śloka १५

भेषजापचिताङ्गानां क्षीरमेवामृतायते| १३१ १/२| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे चिकित्सितस्थाने उदरचिकित्सितं नाम पञ्चदशोऽध्यायः||१५||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-भेषजेनापचितं शरीरं येषां तेषां क्षीरमेवामृतत्वाय सम्पद्यत इति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख़्यायां चतुर्थे चिकित्सितस्थाने उदरचिकित्सितं नाम पञ्चदशोऽध्यायः समाप्तः|| १५||