Adhikarana अध्यायोपक्रमः · Śloka
🔊 Audio coming soon
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
कासचिकित्सितादनन्तरं श्वासहिध्माचिकित्सितं व्याख्यायते| सम्बन्धोऽत्र निदान एवोक्तः |
Adhikarana अध्यायोपक्रमः · Śloka
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
कासचिकित्सितादनन्तरं श्वासहिध्माचिकित्सितं व्याख्यायते| सम्बन्धोऽत्र निदान एवोक्तः |
Adhikarana श्वासहिध्माचिकित्सिताध्यायः श्वासचिकित्सितं हिध्मास्वपि कर्तव्यम् (२-१) · Śloka १
अथातः श्वासहिध्माचिकित्सितं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२| श्वासहिध्मा यतस्तुल्यहेत्वाद्याः, साधनं ततः| तुल्यमेव|१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यस्मात् श्वासहिध्मास्तुल्यहेत्वाद्याः| आदिग्रहणात् प्राग्रूपादयो गृह्यन्ते| निदाने ह्युक्तम् (हृंइ.अ.४/१८)-"श्वासैकहेतुप्राग्रूपसङ्ख्याप्रकृतिसंश्रयाः|" इति| ततः-तस्माद्धेतोः, साधनं- चिकित्सितं, श्वासहिध्मयोस्तुल्यमेव विहितम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ श्वासचिकित्सितम्| श्वासचिकित्सितं हिध्मास्वपि कर्तव्यमित्याह-श्वासहिध्मा इति| आद्यशब्दात् दोषदूष्यस्थानानि|
Adhikarana तत्र प्रथमं स्वेदः (१-२) · Śloka २
| तदार्थं च पूर्वं स्वेदैरुपाचरेत्||१|| स्निग्धैर्लवणतैलाक्तं| |२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तदार्तं-श्वासहिध्मातुरं, पूर्वं-उपक्रमेभ्यः सर्वेभ्योऽपि प्राक्, स्वेदैरुपाचरेत्| किम्भूतैः ? स्निग्धैः-न रूक्षैः, वातकोपभयात्| किम्भूतम् ? लवणान्वितेन तैलेनाभ्यक्तम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तत्र प्रथमं स्वेदमाह तदार्तं चेति| तदार्तं श्वासहिध्मार्तम्|
Adhikarana स्वेदफलम् (२-३) · Śloka ३
किमेवं सति स्यात् ? इत्याह तैः ख़ेषु ग्रथितः कफः| सुलीनोऽपि विलीनोऽस्य कोष्ठं प्राप्तः सुनिर्हरः||२|| स्रोतसां स्यान्मृदुत्वं च मरुतश्चानुलोमता| |३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-तैः-स्वेदैः, ख़ेषु-स्रोतःसु, योऽस्य-श्वासहिध्मावतो, ग्रथितः-पिण्डितः, कफः सुलीनोऽपि-अतिशयेन श्लिष्टोऽन्त र्भूतः, अनयेतिकर्तव्यतया विलीनोऽस्य कोष्ठं प्राप्तः सुनिर्हरः स्यात्-सुख़ेन निर्हर्तुं शक्यते| तथा, स्रोतसां-वायुस्तब्धानां, मृदुत्वं च स्यात्| मरुतश्चानुलोमता-स्वमार्गगामित्वं स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-स्वेदफलमाह तैः खेष्विति| खेषु-स्रोतःसु| ग्रथितो-घनीभूतः| सुलीनः-स्रोतोभिरेकतां गतः| एवंविधोऽपि कफः स्वैदैर्विलीनतां-द्रवतां नीतः, कोष्ठं प्राप्तः सुखं शोध्यो भवति|
Adhikarana स्विन्नभोजनम् (३-५) · Śloka ५
| स्विन्नं च भोजयेदन्नं स्निग्धमानूपजै रसैः||३|| दध्युत्तरेण वा, दद्यात्ततोऽस्मै वमनं मृदु| विशेषात्कासवमथुहृद्ग्रहस्वरसादिने||४|| पिप्पलीसैन्धवक्षौद्रयुक्तं वाताविरोधि यत्| |५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स्निन्नं च सन्तमातुरं स्निग्धं-शाल्यादिकं न रूक्षं यवादिकम्, आनूपजैः-सूकरादिमांसजै रसैः सह, भोजयेत्| अथवा स्वेदादनन्तरमस्मै-श्वासहिध्मावते, दध्युत्तरेण-दधिसरेण, वमनं मृदु दद्यात्| विशेषेण कासादिमते वमनं दद्यात्| तच्च वमनं पिप्पलीसैन्धवक्षौद्रयुक्तं वाताविरोधि-वातं न करोति, यत्तद्दद्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-स्विन्नभोजनमाह स्विन्नं चेति| स्निग्धं-स्निग्धैः शाल्यदिभिः कृतम्| दध्युत्तरेण-दधिसरेण| वमनमाह-दद्यादिति| अस्मै-श्वासिने| कासाद्युपद्रवयुक्ताय तु विशेषात्-अतिशयेन,वमनं दद्यात्| पिप्पल्यादिभिस्त्रिभिर्युक्त मदनफलादिवच्च| वाताविरोधि-वमनकल्पोक्तम्|-
Adhikarana वमनफलम् (५-६) · Śloka ६
| निर्हृते सुख़माप्न्पोति स कफे दुष्टविग्रहे||५|| स्रोतःसु च विशुद्धेषु चरत्यविहतोऽनिलः| |६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-निर्हृते कफेऽसौ (सः)-श्वासहिध्मावान्, सुख़मश्रुते, रुङ्क्षिवृत्तेः| किम्भूते कफे ? दुष्टो विग्रहः-शरीरं, येन तस्मिन्| तथा, स्रोतःसु विशुद्धेषु-उपलेपादिरहितेषु, वायुरविहतो-न केनचिद्रुद्धगतिः, स्रोतःसु चरति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र-वमनफलमाह निर्हृत इति| दुष्टो विग्रहः-शरीरं, येन|
Adhikarana विरेचनम् (६-७) · Śloka ७
| ध्मानोदावर्ततमके मातुलुङ्गाम्लवेतसैः||६|| हिङ्गुपीलुबिडैर्युक्तमन्नं स्यादनुलोमनम्| ससैन्धवं फालाम्लं वा कोष्णं दद्याद्विरेचनम्||७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ध्मानं-आनाहः| उदावर्तः-शकृदादीनामप्रवृत्तिः| तमकः-श्वासविशेषः| ध्मानं चोदावर्तश्च तमकश्च ध्मानोदावर्ततमकम्, तस्मिन्-प्रकृतत्वात् तथाविधे हिध्माश्वासवति| मातुलुङ्गाद्यैस्तथा हिङ्गुपीलुबिडैर्युक्तमन्नमनुलोमकारि स्यात्| अथवा, अस्यामवस्थायां सैन्धवेन सह फलाम्लं फलेन-वातानुलोमनेन बीजपूरादिना, अम्लं-अम्लीकृतं, तथा कोष्णं-ईषदुष्णं, विरेचनं दद्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-विरेचनमाह ध्मानोदावर्ततमक इति| ध्मानं-आध्मानम्| तमकः-तमःप्रवेशनम्| ध्मानादियुक्ते श्वासे विरेचनम्| तच्च मातुलुङ्गाद्युक्तमन्नान्तेन| यो न विरिच्यते तस्मै विरेचनं-त्रिवृन्मूलादि| फलैः-मातुलुङ्गादिभिरम्लं, ससैन्धवं च| योगरत्ने-"हिंग्वम्लवेतसव्योषसौवर्चलफलत्रिकम्| तुल्यं त्रिवृद्द्विगुणितं तैः सर्वैः शर्करा समा|| स्रंसनं श्वासहिक्काघ्नं पिबेत्तद्भक्षयेदथ|" इति|
Adhikarana शोधने युक्तिः (८-९) · Śloka ९
स्रोतःशुद्ध्यर्थं किमेवं क्रियते ? इत्याह एते हि कफसंरुद्धगतिप्राणप्रकोपजाः| तस्मात्तन्मार्गशुद्ध्यर्थमूर्ध्वाधः शोधनं हितम्||८|| उदीर्यते भृशतरं मार्गरोधाद्वहज्जलम्| यथा तथाऽनिलस्तस्य मार्गमस्माद्विशोधयेत्||९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यस्मादेते-हिध्माश्वासाः| कफेन संरुद्धा गतिर्यस्य स एवम्, कफसंरुद्धगतिश्वासौ प्राणाश्च, तस्य प्रकोपः, ततो जाताः| यत एवं तस्माद्धेतोस्तन्मार्गशुद्ध्यर्थं-तस्य प्राणस्य वायोर्मार्गविशुद्धिनिमित्तं, ऊर्ध्वमधश्च शोधनं हितम्| एतच्च दृष्टान्तद्वारेण स्पष्टयति-उदीर्यत इत्यादि| यथा मार्गस्य रोधाज्जलं वहत् भृशतरं-सुतरां, उदीर्यते-वृद्धिं याति| तथाऽनिलः स्वभावतो वहन् मार्गरोधात्-मार्गस्यावरणात्, भृशतरमुदीर्यते| तस्य-वायोः, मार्गमस्मात्-यथोक्तात्कारणात्, विशोधयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- शोधने युक्तिमाह एते हीति| एते-श्वासाः| उदीर्यते-उन्मार्गतां याति| वङ्गसेने तु (श्वासाधिकारे श्लो. ३०)-"स्नेहबस्तिं विना केचिदूर्ध्वं चाधश्च शोधनम्| मृदु प्राणवतां श्रेष्ठं श्वासिनामादिशन्ति हि||" इति| प्राणो-बलम्|
Adhikarana शोधनेनाशान्तौ धूमः कर्तव्यः (१०) · Śloka १०
अशान्तौ कृतसंशुद्धेर्धूमैर्लीनं मलं हरेत्| |१०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पूर्वस्यां क्रियायां कृतायामप्यशमे सति, कृतसंशुद्धेः-श्वासहिध्मार्तस्य, लीनं-सूक्ष्मस्रोतःश्लिष्टं, मलं-कफाख़्यं, धूमैः-वक्ष्यमाणैः, हरेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शोधनेनाशान्तौ धूमः कर्तव्य इत्याहअशान्ताविति|
Adhikarana धूमप्रयोगाः (१०-१४) · Śloka १४
| हरिद्रापत्रमेरण्डमूलं लाक्षां मनःशिलाम्||१०|| सदेवदार्वलं मांसीं पिष्ट्वा वर्तिं प्रकल्पयेत्| तां घृताक्तां पिबेद्धूमं यवान् वा घृतसंयुतान्||११|| मधूच्छिष्टं सर्जरसं घृतं वा गुरु वाऽगुरु| चन्दनं वा तथा शृङ्गं वालान्वा स्नाव वा गवाम्||१२|| ऋक्षगोधकुरङ्गैणचर्मशृङ्गखुराणि वा| गुग्गुलुं वा मनोह्वां वा शालिनिर्यासमेव वा||१३|| शल्लकीं गुग्गुलुं लोहं पद्मकं वा घृताप्लुतम्| |१४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-हरिद्रादीनि पिष्ट्वा जलेन वर्तिं प्रकल्पयेत्| तां-वर्ति, घृताक्तां कृत्वा धूमं पिबेत्, सामर्थ्यादग्निप्लुष्टाम्| अथवा यवान् घृताक्तान् धूमं पिबेत्| मधूच्छिष्टं-सिक्थकं, सर्जरसं घृतं वा एकीकृत्य धूमं पिबेत्| अथवा, गुरु-श्रेष्ठं, अगुरु कृष्णागरु, धूमं पिबेत्| अथवा, चन्दनम् [ धूमं पिबेत् ]| अथवा, गवां शृङ्गं धूमं पिबेत्| अथवा, गवां वालान्-गलकम्बलजानि रोमणि, धूमं पिबेत्| स्नाव वा-स्नायु वा गवामेव, धूमं पिबेत्| रूक्षादीनां चर्मादीनि वा धूमं पिबेत्| खुरशब्दस्यार्धर्चादित्वान्नपुंसकत्वम्| गुग्गुलुं वा, अथवा मनः शिलां शालनिर्यासं वा धूमं पिबेत्| शल्लक्यादि घृताप्लुतं वा|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-धूमानाह हरिद्रापत्रमिति| [ अत्र ]...दश धूमाः| तत्राद्यः सप्तभिः, तृतीयपञ्चमौ द्वाभ्याम्, नवमस्त्रिभिः, शेषा एकेन (?), सर्वे सघृताः|
Adhikarana स्वेदप्रयोगाः (१४-१६) · Śloka १६
| अवश्यं स्वेदनीयानामस्वेद्यानामपि क्षणम्||१४|| स्वेदयेत्ससिताक्षीरसुख़ोष्णस्नेहसेचनैः| उत्कारिकोपनाहैश्च स्वेदाध्यायोक्तभेषजैः||१५|| उरः कण्ठं च मृदुभिः| |१६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अवश्यं स्वेदनीयानां तथाऽस्वेदार्हाणामपि क्षणमुरः कण्ठं च मृदुभिः स्वेदैः स्वेदयेत्| कैः ? सशर्कराक्षीरैः सुख़ोष्णैः स्नेहसेचनैः| तथा, स्वेदाध्याये यान्युक्तानि द्रव्याणि तत्कृतैरुत्कारिकोपनाहैश्च स्वेदयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-[स्वेदमाह]- अवश्यमिति| स्वेद्यानां श्वासिनामुरः कण्ठं चावश्यं-निर्भयं, स्वेदयेत्| अस्वेद्यानां च सभयम्, यद्यपि न सहते तथाऽपि क्षणमेकं स्वेदयेत्| स्नेहं ससिताक्षीरसुखोष्णैः कुर्यात्| तेन सिञ्चेत्|-
Adhikarana सामे आमविधिः (१६) · Śloka १६
सामे त्वामविधिं चरेत्| |१६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सामे च श्वासहिध्मावत्यामविधिं-लङ्घनपाचनादिकं, चरेत् निरामीकरणाय|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-...सामे त्वामविधिं चरेदिति| आमविधिं-लङ्घनपाचनादिकम्|
Adhikarana श्लेष्मौषधातियोद्दतवातस्यौषधम् (१६-१७) · Śloka १७
| अतियोगोद्धतं वातं दृष्ट्वा पवननाशनैः||१६|| स्निग्धै रसाद्यैर्नात्युष्णैरभ्यङ्गैश्च शमं नयेत्| |१७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अतियोगाद्वमनविरेचनयोर्नराणामुद्धतं वातं दृष्ट्वा पवननाशनैः स्निग्धै रसाद्यैः-मांसरसघृतक्षीरादिभिराहारैः, तथा किञ्चिदुष्णैरभ्यङ्गैश्च शमं नयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ०र०-श्लेष्मौषधातियोगोद्धतवातस्यौषधमाहअहियोगोद्धतमिति| रसाद्यैःकाञ्चलिकैः|
Adhikarana शोधनानर्हाणां शमनम् क्षयाद्युत्पन्नस्यौषधम् (१७-१८) · Śloka १८
| अनुत्क्लिष्टकफास्विन्नदुर्बलानां हि शोधनात्||१७|| वायुर्लब्धास्पदो मर्म संशोष्याशु हरेदसून्| कषायलेहस्नेहाद्यैस्तेषां संशमयेदतः||१८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अनुत्क्लिष्टकफानामस्विन्नानां दुर्बलानां च शोधनाद्धेतोः पवनो लब्धास्पदः सन् अन्यस्थानाश्रयवशादासादित सामर्थ्योऽत एवामन्दः शोषणस्वभावत्वाद् मर्म-हृदयाख़्यं, संशोष्य शीघ्रमसून् हरेत्| तस्मादेवंविधान् हिध्माश्वासवतो न शोधयेत्| अतोऽन्यथाभूतांश्च शोधयेदित्यर्थादुक्तं भवति| तथा च तेषां संशोधनादारोग्यं सम्पद्यते| अनुत्क्लिष्टकफादीनां शोधनायोग्यानां तर्हि किं कार्यम् ? इत्याह-कषायेत्यादि| यतो यस्मात्ते संशोधनायोग्यास्तस्मात्तेषां कषायादिभिः संशमयेत्, श्वासहिध्मा इति शेषः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शोधनमहानर्हाणां(?)शमनमाहअनुत्क्लिष्टेति| त्वात्| आस्पदं-कारणम्| मर्म-हृदयम्| तेषां-अशोध्यानां, श्वासम्|
Adhikarana क्षयाद्युत्पन्नस्यौषधम् (१९) · Śloka १९
क्षीणक्षतातिसारासृक्पित्तदाहानुबन्धजान्| मधुरस्निग्धशीताद्यैर्हिध्माश्वासानुपाचरेत्||१९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-क्षीणक्षतातिसारासृक्पित्तदाहानुबन्धजान् हिध्माश्वासान् मधुरादिभिरुपक्रमेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-क्षयाद्युत्पन्नस्य श्वासस्यौषधमाह-क्षीणक्षतेति| क्षीणादीनामनुबन्धो-दीर्घकालत्वम्, तस्माज्जातान्|
Adhikarana अन्नपानानि तत्र रसाः (२०) · Śloka २०
कुलत्थदशमूलानां क्वाथे स्युर्जाङगला रसाः| यूषाश्च|२०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कुलत्थदशमूलानां क्वाथे जाङ्गलरसा यूषाश्च स्युः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथान्नपानानि| तत्र रसानाहकुलत्थदशमूलानामिति|
Adhikarana यूषाः यूषान्तरम् यूषान्तरम् (२०-२२) · Śloka २२
| शिग्रुवार्ताककासघ्नवृषमूलकैः||२०|| पल्लवैर्निम्बकुलकबृहतीमातुलुङ्गजैः| व्याघ्रीदुरालभाशृङ्गीबिल्वमध्यत्रिकण्टकैः||२१|| सामृताग्निकुलत्थैश्च यूषः स्यात्क्वथितैर्जले| तद्वद्रास्नाबृहत्यादिबलामुद्गैः सचित्रकैः||२२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शिग्र्वादिभिश्च जले क्वथितैर्यूषः स्यात्| तथैव रास्नादिभिर्यूषः स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-यूषानाह यूषाश्चेति| चकारात्पूर्वस्मिन् क्वाथे सिद्धाः| शिग्व्रादीनां मुद्गादिभिः सह प्रक्षेपः| तत्र निम्बादीनां पल्लवाः, इतरेषां यथास्वं प्रसिद्दोऽवयवः| यूषान्तरमाह-व्याघ्रीदुरालभेति| व्याघ्र्यादिक्वथितैर्जलैर्मुद्गादीनां यूषः| यूषान्तरमाह-[ तद्वदिति| सङ्ग्रहे तु (चि. अ. ६)- "शिरीषकुन्दकदलीकुसुमं पिप्पलीयुतम्| तण्डुलाम्बुप्लुतं हिध्माश्वासकासहरं परम्|| आरनालेन पिष्ट्वा वा मातुलुङ्गरसान्वितान्| हिङ्गुसौवर्चलकणाकोलमुद्गान् जलेन वा|| क्षारं वा त्रिफलापाठाबृहतीफलमूलजम्| मुक्ताप्रवालवैदूर्यशङ्खसौगन्धिकाञ्जनम्|| मसारगल्लस्फटिककाचैलालवणद्वयम्| अपामार्गफलं ताम्रमयो रूप्यं शणात् फलम्|| ज्योतीरसेन तल्लिह्यादयो वैकं मधुद्रवम्| लिह्याद्वा पिप्पलीद्राक्षा पथ्याशृङ्गीदुरालभाः|| घृतमाक्षिकतैलैर्वा त्र्यूषणं क्षारसंयुतम्| पिप्पलीक्षौद्रयुक्तौ वा रसौ धात्रीकपित्थयोः|| सितोपला त्वामलकी द्राक्षा गोश्वशकृद्रसः| जीवन्ती चोरकः शृङ्गी पौष्करं सुरसः शठी|| पिप्पलीत्वग्बिडक्षारशुण्ठीहिङ्ग्वम्लवेतसम्| एलातामलकीभार्ङ्गीवृक्षाम्लं चेति चुर्णितम्|| रसेन मातुलुङ्गस्य मद्येन हविषाऽथवा| लीढं प्रयुक्तमन्ने वा केवलं चोपयोजितम्||] हिध्माश्वासविबन्धार्शःकासहृत्पार्श्वशूलजित्|" इति| वङ्गसेने (श्वासा. श्लो. ७५)- "शतं सङ्गृह्य भार्ग्यास्तु दशमूल्यास्तथा परम्| शतं हरीतकीनां च पचेत्तोये चतुर्गुणे|| पादावशेषे तस्मिंस्तु रसे वस्त्रपरिस्रुते| आलोड्य तत्र च तुलां गुडस्य त्वभयाश्च ताः|| पुनः पचेत्तु मृद्वगौ यावल्लेहत्वमागतः| शीते च मधुनश्चात्र षट्पलानि प्रदापयेत्| त्रिकटु त्रिसुगन्धं च पलिकानि पृथक् पृथक्| कर्षद्वयं यवक्षरं सञ्चूर्ण्य प्रक्षिपेत्ततः|| भक्षयेदभयामेकां लेहस्यार्धपलं लिहेत्| श्वासं सुदारुणं हन्ति कासं पञ्चविधं तथा|| स्वरवर्णप्रदो ह्येष जठराग्नेश्च दीपनः|| कुलत्थं दशमूलं च तथैव द्विजयष्स्टिकम्| शतं शतं च सङ्गृह्य जलद्रोणे विपाचयेत्|| पादावशेषे तस्मिंस्तु गुडस्यार्धतुलां क्षिपेत्| शीतीभूते च पक्वे च मधुनोऽष्टौ पलानि तु|| षट्पलानि तुगाक्षीर्याः पिप्पल्याश्च पलद्वयम्| त्रिसुगन्धि सुगन्धी च खादेदग्निबलं प्रति|| श्वासं कासं ज्वरं हिक्कां नाशयेत्तमकं तथा||" इति| जलद्रोणेऽत्र प्रतिशतं, तेन द्रोणद्वये क्वाथः|
Adhikarana पेयाद्वयम् (२३) · Śloka २३
पेया च चित्रकाजाजीशृङ्गीसौवर्चलैः कृता| दशमूलेन वा कासश्वासहिध्मारुजापहा||२३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पेया च चित्रकादिभिः कृताऽथवा दशमूलेन कृता, सा च कासदिहरा|
Adhikarana कषायः पेया च (२४-२५) · Śloka २५
दशमूलशठीरास्नाभार्गीबिल्वर्द्धिपौष्करैः| कुलीरशृङ्गीचपलातामलक्यमृतौषधैः||२४|| पिबेत्कषायं जीर्णेऽस्मिन् पेयां तैरेव साधिताम्| |२५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दशमूलादिभिः कषायं पिबेत्| अस्मिन्कषाये परिणते तैरेव-दशमूलादिभिः, साधितां पेयां हिध्माश्वासी पिबेत्|
Adhikarana अन्नं शाल्यादि (२५-२६) · Śloka २६
| शालिषष्टिकगोधूमयवमुद्गकुलत्थभुक्||२५|| कासहृद्ग्रहपार्श्वार्तिहिध्माश्वासप्रशान्तये| |२६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तथा शाल्यादिभुक् स्यात्, कासादिशान्त्यर्थम्|
Adhikarana यवसक्तवः (२६-२७) · Śloka २७
| सक्तून् वाऽर्काङ्कुरक्षीरभावितानां समाक्षिकान्||२६|| यवानां दशमूलादिनिष्क्वाथलुलितान् पिबेत्| |२७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अथवाऽर्काङ्कुरक्षीरभवितानां यवानां सम्बन्धिनः सक्तून् समाक्षिकान् दशमूलशठीत्यादिनिर्यूहान्वितान् पिबेत्|
Adhikarana अन्ने क्षारादियोजनम् (२७-२८) · Śloka २८
| अन्ने च योजयेत् क्षारहिङ्ग्वाज्यबिडदाडिमान्||२७|| सपौष्करशठीव्योषमातुलुङ्गाम्लवेतसान्| |२८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अन्ने-आहारे च, क्षारादीन् योजयेत्|
Adhikarana तृषितस्य दशमूलक्काथादिपानम्,तृषितस्य वारूणीमण्डपानम् (२८-२९) · Śloka २९
| दशमूलस्य वा क्वाथमथवा देवदारुणः||२८|| पिबेद्वा वारुणीमण्डं हिध्माश्वासी पिपासितः| |२९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-हिध्माश्वासवान् पिपासितो दशमूलस्य क्वाथं देवदारुणो वा, अथवा वारुणीमण्डं पिबेत्|
Adhikarana तृषितस्य तक्रविशेषपानम् (२९-३०) · Śloka ३०
| पिप्पलीपिप्पलीमूलपथ्याजन्तुघ्नचित्रकैः||२९|| कल्कितैर्लेपिते रूढे निःक्षिपेद्धृतभाजने| तक्रं मासस्थितं तद्धि दीपनं श्वासकासजित्||३०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पिप्पल्यादिभिः कल्कितैर्लेपिते घृतभाजने रूढे-शुष्के, तक्रं निःक्षिपेत्| तच्च तक्रं मासस्थितं दीपनं श्वासकासजित्|
Adhikarana तृषितस्य सुरामण्डपानम्तृषितस्य भार्गीशुण्ठ्चम्बु पानम् तृषितस्य बाष्पिकाक्काथपानम् (३१-३२) · Śloka ३२
पाठां मधुरसां दारु सरलं च निशि स्थितम्| सुरामण्डेऽल्पलवणं पिबेत्प्रसृतसम्मितम्||३१|| भार्गीशुण्ठ्यो सुख़ाम्भोभिः क्षारं वा मरिचान्वितम् स्वक्वाथपिष्टां लुलितां बाष्पिकां पाययेत वा||३२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पाठादिकं सुरामण्डे निशि स्थितं किञ्चिल्लवणं प्रसृतसम्मितं-पलद्वयमात्रं, पिबेत्| अथवा, भार्गीशुण्ठ्यावुष्णाम्बुना पिबेत्| यवक्षारं मरिचयुक्तं वा| बाष्पिकां-हिङ्गुपत्रिकां, हिङ्गु पत्रिक्वाथेन पिष्टां तेनैवालोडितां वा पाययेत्|
Adhikarana पित्तकफानुरोगे हिध्माश्वासे सप्तपर्णादिस्वरसौ पित्तानुदे उत्कारिका वातपित्तानुगे क्षीरम् वातापित्तानुगे क्षीरान्तरम् (३३-३६) · Śloka ३६
स्वरसः सप्तपर्णस्य पुष्पाणां वा शिशीषतः| हिध्माश्वासे मधुकणायुक्तः पित्तकफानुगे||३३|| उत्कारिका तुगाकृष्णामधूलीघृतनागरैः| पित्तानुबन्धे योक्तव्या, पवने त्वनुबन्धिनि||३४|| श्वाविच्छशामिषकणाघृतशल्यकशोणीतैः| सुवर्चलारसव्योषसर्पिर्भिः सहितं पयः||३५|| अनु शाल्योदनं पेयं वातपित्तानुबन्धिनि| चतुर्गुणाम्बुसिद्धं वा छागं सगुडनागरम्||३६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सप्तपर्णस्य-अयुग्मच्छदस्य स्वरसः, शिरीषात् पुष्पाणां वा स्वरसः, एतौ मधुकणायुतौ पित्तकफानुगे हिध्माश्वासे सति पाययेत्| पित्तानुबन्धिनि हिध्माश्वासे तुगादिभिरुत्कारिका योज्या| मधूली-जलजा मधुयष्टी, गोधूमविशेषो वा| पवने पुनरनुबन्धिनि श्वाविदादिभिरुत्कारिका निष्पादिता योज्या| हिध्माश्वासे वातपित्तानुबन्धिनि सति सुवर्चलारसादिभिः सिद्धं पयोऽनु शाल्योदनं भुक्त्वा पश्चात् क्षीरं पेयम्, गव्यं छागं वा देशसात्म्यादिवशात्| अथवा चतुर्गुणाम्बुसिद्धं वा पयश्छागं सगुडनागरं पिबेत्|
Adhikarana पिप्पलीमूलादिलेहः (३७) · Śloka ३७
पिप्पलीमूलमधुकगुडगोश्वशकृद्रसान्| हिध्माभिष्यन्दकासघ्नान् लिह्यान्मधुघृतान्वितान्||३७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पिप्पलीमूलादीन् मधुघृतान्वितान् सम्मिश्र्य हिध्माभिष्यन्दकासघ्नान् लिह्यात्|
Adhikarana कफोल्बणे गोगजादिशकृद्रसलेहाः कफोल्बणे चतुष्पाच्चर्मादिमषीलेहः कफोल्बणे अश्वगन्धामषीलेहः कफोल्बणे शठ्चादिलेहः कफोल्बणे पौष्करपिप्पलीलेहः कफोल्बणे गैरिकादिलेहः कफोल्बणे कपित्थस्वरसलेहः कफोल्बणे धात्र्यादिलेहः कफोल्बणे पथ्यादिलेहः कफोल्बणे कोलादिलेहः कफोल्बणे गुडादिलेहः कफोल्बणे उक्तलेह औषधचूर्णानां रसादिभिः पानम् (३८-४३) · Śloka ४३
गोगजाश्ववराहोष्ट्रखरमेषाजविड्रसम्| समध्वेकैकशो लिह्याद्बहुश्लेष्माऽथवा पिबेत्||३८|| चतुष्पाच्चर्मरोमास्थिखुरशृङ्गोद्भवां मषीम्| तथैव वाजिगन्धाया लिह्याच्छ्वासी कफोल्बणः||३९|| शठीपौष्करधात्रीर्वा पौष्करं वा कणान्वितम्| गैरिकाञ्जनकृष्णा वा स्वरसं वा कपित्थजम्||४०|| रसेन वा कपित्थस्य धात्रीसैन्धवपिप्पलीः| घृतक्षौद्रेण वा पथ्याविडङ्गोषणपिप्पलीः||४१|| कोललाजामलद्राक्षापिप्पलीनागराणि वा| गुडतैलनिशाद्राक्षाकणारास्नोषणानि वा||४२|| पिबेद्रसाम्बुमद्याम्लैर्लेहौषधरजांसि वा| |४३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-गोगजादीनां शकृद्रसं बहुकफः समाक्षिकमेकैकशो लिह्यात्, अथवा पिबेत्| अथवा, चतुष्पदां चर्मादिजां मषीं पिबेत्| श्वासी कफाधिकोऽश्वगन्धायाश्च मषीं तद्वत्-मधुना, लिह्यात्| शठीपौष्करादिण् वा मधुना लिह्यात्| पौष्करं सकणं वा लिह्यात्| गैरिकादीन् वा लिह्यात्, कपित्थजं स्वरसं वा| कपित्थस्वरसेन धात्र्यादीन् लिह्यात्| पथ्याविडङ्गादीन् घृतक्षौद्रेण वा लिह्यात्| कोलादीन् वा पूर्ववल्लिह्यात्, गुडादीन् वा| अथवा, लेहस्य-अगस्त्यादेः, औषधानां चूर्णानि मांसरसादिभिः पिबेत्|
Adhikarana जीवन्त्यादिकं द्विगुणशर्करं चूर्णम् (४३-४५) · Śloka ४५
| जीवन्तीमुस्तसुरसत्वगेलाद्वयपौष्करम्||४३|| चण्डातामलकीलोहभार्गीनागरवालकम्| कर्कटाख़्याशठीकृष्णानागकेसरचोरकम्||४४|| उपयुक्तं यथाकामं चूर्णं द्विगुणशर्करम्| पार्श्वरुग्ज्वरकासघ्नं हिध्माश्वासहरं परम्||४५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जीवन्त्यादिकं चूर्णं भुक्तं पार्श्वरुगादिघ्नं सुष्ठु हिध्मादिहरम्| लोहं-अगुरु|
Adhikarana शठ्यादिकं अष्टगुणशर्करं चूऱ्नम् (४६) · Śloka ४६
शठीतामलकीभार्ङ्गीचण्डावालकपौष्करम्| शर्कराष्टगुणं चूर्णं हिध्माश्वासहरं परम्||४६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शठ्यादिकं चूर्णं पूर्वगुणम्|
Adhikarana नस्यानि गुडनागरनस्यम् (४७) · Śloka ४७
तुल्यं गुडं नागरं च भक्ष्येन्नावयेत वा| |४७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तुल्यां सगुडशुण्ठीं च भक्षयेत् नस्यं वा दद्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ नस्यानि| तत्र गुडनागरनस्यमाह-तुल्यं गुडमिति| नावयेत्-नासायां निषेचयेत्| भक्षणमपि श्वासघ्नम्|
Adhikarana लशुनमूलादिनस्यचतुष्कम् मक्षिकाविष्ठादिनस्यत्रयम् स्तन्यसिद्दं घृतम् क्षीरम् विरेचनौषधसिद्दं घृतम् (४७-५०) · Śloka ५०
| लशुनस्य पलाण्डोर्वा मूलं गृञ्जनकस्य वा||४७|| चन्दनाद्वा रसं दद्यान्नारीक्षीरेण नावनम्| स्तन्येन मक्षिकाविष्ठामलक्तकरसेन वा||४८|| ससैन्धवं घृताच्छं वा, सिद्धं स्तन्येन वा घृतम्| कल्कितैर्मधुरद्रव्यैस्तत्पिबेन्नावयेत वा||४९|| सकृदुष्णं सकृच्छीतं व्यत्यासात् ससितामधु| तद्वत्पयस्तथा सिद्धमधोभागौषधैर्घृतम्||५०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-लशुनादीनां मूलं पिष्ट्वा नारीक्षीरेण पृथक् पृथक् नावनं च स्यात् हिध्माश्वासार्ताय| चन्दनाद्वा रसं नारीक्षीरेण सह नस्यं दद्यात्| मक्षिकाविष्ठां स्तन्येन सह नस्यं दद्यात्, अलक्तकरसेन वा|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-नस्यचतुष्कमाह लशुनस्येति| नारीक्षीरं चतुर्ष्वपि| नस्यत्रयमाह-स्तन्येनेति| माक्षिकाविष्ठां-मधु| घृताच्छं-घृतमण्डम्| नस्यान्तरमाह-सिद्धं स्तन्येनेति| मधुरैः-जीवन्त्यादिभिः| तद्धृतं पाने नस्ये च योज्यम्| तच्च व्यत्यासात्-प्रथममुष्णं ततः शीतं ततः पुनरुष्णं ततः पुनः शीतमित्यादि| यदोष्णं तदा ससितम्| यदा शीतं समधु| क्षीरमाह-तद्वत्पय इति| तद्वत्-कल्कितैर्मधुरैः सिद्धं व्यत्यासात्प्रयोज्यम्| घृतमाह-तथा सिद्धमिति| अधोभागौषधानि-श्यामादिवेरेचनानि| तथा-पूर्ववत्प्रयोज्यम्|-
Adhikarana कणादिघृतम् जीवनीयघृतम् (५१-५२) · Śloka ५२
कणासौवर्चलक्षारवयस्थाहिङ्गुचोरकैः| सकायस्थैर्घृतं मस्तुदशमूलरसे पचेत्||५१|| तत्पिबेज्जीवनीयैर्वा लिह्यात्समधु साधितम्| |५२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कणादिभिः कल्कैर्मस्तुदशमूलरसे स्नेहपानविध्युक्तपरिभाषामाश्रित्य घृतं पक्त्वा हिध्माश्वासार्तः पिबेत्| जीवनीयैर्वा द्रव्यैः कल्कैर्घृतं पक्त्वा समाक्षिकं लिह्यात्-न पिबेत्| विषयभेदादेवं कार्यम्| अथवा, वस्तुस्वभावादेकस्मिन्नपि विषये कणादिभिः पक्वं घृतं पीतं हिध्माश्वासार्तानामारोग्याय, जीवनीयैः पुनः कल्कैः पक्वं घृतं लीढं तेषामारोग्यायेति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-घृतान्तरमाह कणासौर्वर्चलेति| वयस्था-आमलकी| कायस्था-हरीतकी| घृतान्तरमाह| जीवनीयैर्वेति| जीवनीयैः साधितं घृतं मधुना सह लिह्यात्|
Adhikarana तेजोवत्यादिघृतम् (५२-५५) · Śloka ५५
| तेजोवत्यभया कुष्ठं पिप्पली कटुरोहिणी||५२|| भूतीकं पौष्करं मूलं पलाशश्चित्रकः शठी| पटुद्वयं तामलकी जीवन्ती बिल्वपेशिका||५३|| वचा पत्रं च तालीसं कर्षांशैस्तैर्विपाचयेत्| हिङ्गुपादैर्घृतप्रस्थं पीतमाशु निहन्ति तत्||५४|| शाखानिलार्शोग्रहणीहिध्माहृत्पार्श्ववेदनाः| |५५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तेजोवत्यादिभिः कल्कैः कर्षांशैर्हिङ्गुपादैर्हिङ्गुनः पादः-चतुर्थांशो, येषां तैरेवंविधैर्घृतं पचेत्| तत्पीतं दुष्टकफावृतस्रोतसां प्रमाथितया तेषां विवृतत्वमुत्पादयन् शाखानिलादीन् हन्ति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-घृतान्तरमाह तेजोवत्यभयेति| भूतीकं-कत्तृणम्| पादः-कर्षचतुर्थांशः| सङ्ग्रहे तु (चि.अ. ६)- "सिद्धं वा पुरमञ्जिष्ठालाक्षासर्जरसैः पिबेत्| सपद्मकमनोह्वालैर्घृतप्रस्थं पिचून्मितैः|| वत्सकादिप्रतीवापं सिद्धं वा प्रथमे गणे| सपञ्चलवणं सर्पिः श्वासकासावपोहति|| प्रथमे-विदार्यादौ| हिंस्राविडङ्गपूतीकत्रिकटुत्रिफलाग्निकैः| कोलमात्रैर्घृतप्रस्थं पाचयेत्सलिलाढके|| क्षीरप्रस्थद्वयोपेतं तत्कासश्वासपीनसान्| अर्शांस्यरोचकं गुल्मं क्षयं हिध्मां च नाशयेत्||" इति| कोलं-कर्षः|
Adhikarana अर्धांशक्षारघृतम् अर्धांशलवणघृतम् धान्वन्तरादिघृतचतुष्कस्यातिदेशः (५५-५६) · Śloka ५६
| अर्धांशेन पिबेत्सर्पिः क्षारेण पटुनाऽथवा||५५|| धान्वन्तरं वृषघृतं दाधिकं हपुषादि वा| |५६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-धान्वन्तरादिघृतस्यार्धांशेन क्षारेण, अथवा पटुना-लवणेन चार्धांशेन, सर्पिः पिबेत्| धान्वन्तरं-प्रमेहोक्तम् (हृ. चि. अ. १२/१९)| वृषघृतं-रक्तपित्तोक्तम् (हृ. चि. अ. २/४०)| दाधिकं-गुल्मोक्तम् (हृ. चि. अ. १४/१३)| हपुषादिकं-उदरोक्तम् (हृ. चि. अ. १५/२२)|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-घृतन्तरमाह अर्धांशेनेति| सर्पिः-पुराणम्, उक्तं हि सङ्ग्रहे (चि. अ. ६)-"सैन्धवार्धांशसंयुक्तं पुराणं प्राययेद्धृतम्||" इति| घृतचतुष्कमतिदिशति-धान्वन्तरमिति| [ धान्वन्तरादीनि-] प्रमेहरक्तपित्तगुलम्जठरोक्तानि| वङ्गसेने (श्वासाश्लो. ५९)- "सौवर्चलयवक्षारकटुकाव्योषचित्रकैः| घृतं वचाविडङ्गैश्च साधितं श्वासशान्तये|| कुलत्थरससंयुक्तं पञ्चकोलशृतं घृतम्| दीपनं श्वासकासघ्नं कफव्याधिहरं परम्|| तिक्तासौवर्चलक्षारपथ्यात्रिकटुहिङ्गुभिः| समालूरैर्घृतं सिद्धं सक्षीरं श्वासकासनुत्| गुल्मानाहं(हौ) च शमयेत्प्रवृद्धान् गुदजानपि|| सुवहाकालिका भार्गी शुगाख्या निचुलं फलम्| काकादनी शृङ्गबेरं वर्षाभूर्बृहतीद्वयम्|| कोलमात्रैर्घृतप्रस्थं पचेदेतैर्जलाढके| कदुष्णं पीतमेतद्विश्वासामयविनाशनम्|| तैलं दशगुणे सिद्धं भृङ्गराजरसे शुभे| पीयमानं यथान्यायं कासश्वासौ व्यपोहति||" इति|
Adhikarana चित्तक्षोभणमौषधम् (५६-५७) · Śloka ५७
| शीताम्बुसेकः सहसा त्रासविक्षेपभीशुचः||५६|| हर्षेर्ष्योच्छ्वासरोधाश्च हितं कीटैश्च दंशनम्| |५७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सहसा-झटित्येवाज्ञातसङ्केतस्यैव, हिध्माश्वासार्तस्य शीताम्बुना सेको हितः| त्रासः-चित्तस्योद्वेगकृत्कर्म, विक्षेपः-अवधूननम्, भीः-भयम्, शुक्-शोकश्चेतसः सन्तापः, त्रासादयश्चतस्रस्तामसगुणोद्भवाः, ईर्ष्या-असूया परगुणासहिष्णुता, इयं रजोगुणोदया, तथा उच्छ्वासस्य रोधः, एते च सर्वे हिध्माश्वासार्ताय हिताः| तथा, कीटैः-पिपीलिकादिभिः, तस्मिन् दंशनं हितम्, वातवेगविघाताय|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-चित्तक्षोभणमौषधमाहशीताम्बुसेक इति| विक्षेपेण वैयग्र्यम्|-
Adhikarana अनुक्तसंग्राहार्थं सामान्य चिकित्सा (५७-५९) · Śloka ५९
एवं हिध्माश्वासानां विशेषेण चिकित्सामुक्त्वा सामान्येनाह यत्किञ्चित्कफवातघ्नमुष्णं वातानुलोमनम्||५७|| तत्सेव्यं प्रायशो यच्च सुतरां मारुतापहम्| |५९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यत्किञ्चित्-आहारविहारौषधादिकं, कफवातौ-पृथक् सहितौ वा, निहन्ति तत्कफवातघ्नम्| तथा, उष्णं-न-शीतम्| कफवातघ्नं हि प्रायेणोष्णमेव भवति| उष्णमिति यदिह कृतं तदतिशयेनोष्णं न त्वीषदुष्णमिति प्रतिपादनार्थम्| तथा, वातानुलोमनं कफवातघ्नत्वेनैव वातानुलोमनकारित्वे लब्धे प्राधान्येन वातप्रतिपक्षेण स्निग्धेन यद्युक्तं तद्धिध्माश्वासार्तैः कफवातघ्नमधिकोष्णं सेव्यमिति प्रतिपादनायेति| अत एवाह-प्रायश इत्यादि| प्रायशो-बाहुल्येन, यत् सुतरां मारुतशमनं तत् हिध्माश्वासार्तैः सेव्यम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अनुक्तसङ्ग्रहार्थमाह यत्किञ्चिदिति| यन्मारुतापहं तत्सुतरां सेव्यम्, कफकृन्न चेति| उक्तं हि सङ्ग्रहे (चि. अ. ६)-"वातकृद्वा कफहरं कफकृद्वाऽनिलापहम्| कार्यं नैकान्तिकं ताभ्यां प्रायः श्रेयोऽनिलापहम्||" इति|
Adhikarana शमनबृंहणैश्चोपचारः (५८-५९) · Śloka ५९
किमित्येवं क्रियते ? इत्याह- | सर्वेषां बृंहणे ह्यल्पः शक्यश्च प्रायशो भवेत्||५८|| नात्यर्थं शमनेऽपायो भृशोऽशक्यश्च कर्षणे| शमनैर्बृंहणैश्चातो भूयिष्ठं तानुपाचरेत्||५९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सर्वेषां-हिध्माश्वासार्तानां, हि-यस्मात्, बृंहणे विधीयमाने कदाचिद्दैववशात् योऽपायो-रोगाधिक्यमन्यरोगप्रादुर्भावो वा, भवेत् स प्रायशोऽल्पस्तथा शक्यः-साधयितुं सुख़साध्यः| तथा, तेषां, शमने भेषजादौ क्रियमाणेऽपायो यदि दैवात्स्यात् स नात्यर्थं-नातिशयेन| किं तर्हि ? मध्यमया वृत्त्या| हिध्माश्वासशान्त्यर्थं कर्षणे भेषजादौ क्रियमाणे योऽपायो जायते स भृशो-दुःसहः, अत एवाशक्यः-साधयितुं न शक्यते| यत एवं कर्षणे भृशोऽशक्यश्चापयो भवति| अतः-अस्मात्कारणात्, तान्-हिध्माश्वासान्, भूयिष्ठं-बाहुल्येन, शमनैर्भेषजैस्तथा बृंहणैरुपाचरेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शमनबृंहणकर्शनानां क्रमद्धीनत्वमाह सर्वेषामिति| यन्न बृंहणं न च कर्शनं तच्छमनम्| तत्र नात्यर्थमपायः-अपायस्यात्यन्ताभावः| अपायो बृंहणे तु कदाचिद्भवेत्, स चाल्पः, स च शक्यः| कर्शने तु सदा, स चानल्पः स चाशक्यः| अतः कर्शनं न कार्यमित्याह-शमनैर्बृंहणैरिति| प्रथमं शमनैस्तैरनुपशमे बृंहणैः| भूयिष्ठग्रहणात्कस्याञ्चिदवस्थायां कर्शनैरपि|
Adhikarana कासादीनामन्योन्यभेषजम् (४) · Śloka ४
अधुना कासादीनां पञ्चानामप्येषां सामान्येन चिकित्सितं वक्तुमाह कासश्वासक्षयच्छर्दिहिध्माश्चान्योन्यभेषजैः| ५९ १/२| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे चिकित्सितस्थाने श्वासहिध्माचिकित्सितं नाम चतुर्थोऽध्यायः||४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कासोक्तैर्भेषजैः श्वासादीनुपाचरेत्| श्वासाद्युक्तैः कासानुपाचरेत्| एवं परस्परं सर्वैर्यथोक्तैर्भेषजैः सर्वानेतानुपाचरेदिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदय- टीकायां सर्वाङ्गसुन्दराख़्यायां चतुर्थे चिकित्सितस्थाने श्वासहिध्माचिकित्सितं नाम चतुर्थोऽध्यायः समाप्तः||४||
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कासादिभेषजमन्योन्यमतिदिशतिकासश्वासेति| उपाचरेदित्यनुवर्त्यम्| [ वङ्गसेने तु- (हिक्काधिकारे श्लो. १८)-"प्राणावरोधतर्जनविस्मापनभयभाषकैश्चघोरैः| कथाप्रयोगैः शमयेद्धिक्कां घोरां मनोघातैः|| हिक्कार्तस्य पयश्च्छागं हितं नागरसाधितम्| रसं पिबेत्फलिन्या ]श्च लाजसक्तून् ससैन्धवान्|| प्रवालशङ्खत्रिफलाचूर्णं मधुघृताप्लुतम्| पिप्पली गैरिकं चेति लेहो हिक्कानिवारणः|| कोलमज्जाऽञ्जनं लाजा तिक्ता काञ्चनगैरिकम्| कृष्णा धात्री सिता शुण्ठी कासीसं दधिनाम च|| पाटल्याः सफलं पुष्पं कृष्णा खर्जूरमुस्तकम्| षडेते पादिका लेहा हिक्काघ्ना मधुसंयुताः|| निर्धूमाङ्गारनिक्षिप्तश्लक्ष्णमाषरजोभवः| हिक्काः पञ्च निहन्त्याशु धूमः पीतो न संशयः||" इति| इति हेमाद्रिटीकायामायुर्वेदरसायने| श्वासहिक्काप्रकरणं सामस्त्येन निरूपितम्|| ४||