Adhikarana अध्यायोपक्रमः · Śloka
🔊 Audio coming soon
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
श्वासहिध्माचिकित्सितादनन्तरं राजयक्ष्मचिकित्सितारम्भः| यतः कासश्वासक्षयादीनन्योन्यभेषजैरुपाचरेदित्युक्तम्| क्षयश्च राजयक्ष्मा| तस्मादेतदारभ्यते-
Adhikarana अध्यायोपक्रमः · Śloka
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
श्वासहिध्माचिकित्सितादनन्तरं राजयक्ष्मचिकित्सितारम्भः| यतः कासश्वासक्षयादीनन्योन्यभेषजैरुपाचरेदित्युक्तम्| क्षयश्च राजयक्ष्मा| तस्मादेतदारभ्यते-
Adhikarana राजयक्ष्मादिचिकित्साताध्यायः यक्षिमणः शोधनम् (२-१) · Śloka १
अथातो राजयक्ष्मादिचिकित्सितं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२| ) बलिनो बहुदोषस्य स्निग्धस्विन्नस्य शोधनम्| ऊर्ध्वाधो यक्ष्मिणः कुर्यात्सस्नेहं यन्न कर्शनम्||१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-एवंभूतस्य राजयक्ष्मिण ऊर्ध्वाधः शोधनं-वमनं विरेचनं च कुर्यात्, अस्निग्धस्विन्नस्य शोधनानर्हत्वात्| स्निग्धस्विन्नग्रहणं त्वतिशयार्थम्| किम्भूतं शोधनम् ? सस्नेहं,-ईषत्स्निग्धम्, तथा यन्न कर्शनं-देहस्य न क्षपणम्| यक्ष्मण इति "द्वन्द्वोपताप" इत्यादिना इनिर्मित्वर्थांयः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ राजयक्ष्मचिकित्सितम्| तत्र शोधनमाह-बलिनो बहुदोषस्येति|
Adhikarana यक्षिमणः वमनम् (२-३) · Śloka ३
तत्र वमनमाह पयसा फलयुक्तेन मधुरेण रसेन वा| सर्पिष्मत्या यवाग्वा वा वमनद्रव्यसिद्धया||२|| वमेत्| |३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पयसा-क्षीरेण मदनफलान्वितेन, राजयक्ष्मी वमेत्| एवं तेन वमनं कार्यम्| मधुरेण वा मांसरसेन मदनफलयुक्तेन वमेत्| अथवा, यवाग्वा ग़ृतवत्या तथा वमनद्रव्येण-मदनफलादिना, सिद्धया वमेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वमनमाह पयसेति| रसेन-मांसरसेन|
Adhikarana यक्षिमणः विरेचनम् (३-४) · Śloka ४
विरेचनं दद्यात्रिवृच्छ्यामानृपद्रुमान्| शर्करामधुसर्पिर्भिः पयसा तर्पणेन वा||३|| द्राक्षाविदारीकाश्मर्यमांसानां वा रसैर्युतान्| |४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-त्रिवृदादीनेकैकशः शर्करामधुसर्पिर्युतान् विरेचनं दद्यात्| अथवा पयसा त्रिवृदादीन् दद्यात्| तर्पणेन वा सह त्रिवृदादीन् विरेचनं दद्यात्| रसैरिति बहुवचननिर्देशाद् द्राक्षादीनां पृथग्रसैरिति बोध्यम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-विरेचनमाह विरेचनमिति| शर्करादित्रिभिर्युक्तैः| द्राक्षादिचतुर्भिः पृथक्| वङ्गसेने (राजयक्ष्माधिकारे श्लो. ३०)-"बलिनो बहुदोषस्य पञ्चकर्माणि कारयेत्| यक्ष्मिणः क्षीणशुक्रस्य तत्कृतं स्याद्विषोपमम्|| शुक्रायत्तं बलं पुंसां मलायत्तं च जीवितम्| अतो विशेषात्संरक्षेद्यक्ष्मिणो मलरेतसी"|| इति|-
Adhikarana शुद्धस्य विधिः (४-५) · Śloka ५
| शुद्धकोष्ठस्य युञ्जीत विधिं बृंहणदीपनम्||४|| हृद्यानि चान्नपानानि वातघ्नानि लघूनि च| |५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शुद्धकोष्ठस्य सतो यक्ष्मणो बृंहणं दीपनं च विधिं प्रयुञ्जीत| तथाऽन्नपानानि हृद्यानि-हृदयप्रियाणि तथा वातघ्नानि लघूनि च युञ्जीत| बाहुल्येनैतदुक्तम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शुद्धस्य कृत्यमाहशुद्धकोष्ठस्येति|
Adhikarana यक्ष्मघ्नन्नपानम् (५-६) · Śloka ६
तथा चाह | शालिषष्टिकगोधूमयवमुद्गं समोषितम्||५|| |लघुम(चा)च्युतवीर्यं च सुजरं बलकृच्च यत्| ] आजं क्षीरं घृतं मांसं क्रव्यान्मांसं च शोषजित्| |६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तथा शाल्यादिकं वर्षोषितं युञ्जीत| आजं क्षीरं घृतं मांसं तथा क्रव्यान्मांसं च क्षयजित्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-यक्ष्मघ्नान्नपानमाहशालिषष्टिकेति| समा-संवत्सरः| क्रव्यान्मांसाशिनां मांसम्|
Adhikarana काकादिमांसभक्षणोपायः (६-७) · Śloka ७
काकोलूकवृकद्वीपिगवाश्वनकुलोरगम्||६|| गृध्राभासख़रोष्ट्रं च हितं छद्मोपसंहितम्| ज्ञातं जुगुप्सितं तद्धि छर्दिषे न बलौजसे||७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-काकोलूकादिकमेतन्मांसं हितम्| किम्भूतम् ? छद्मनोपसंहितम्-काकादयस्तित्तिर्यादिशब्देन देया इत्यर्थः| किमित्येवं क्रियते ? इत्याह-यस्मात्तत् जुगुप्सितं ज्ञातं सत् छर्दिषे सम्पद्यते, न बलाय न वौजसे|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-काकादिमांसभक्षणोपायमाहकाकोलूकेति|
Adhikarana मांसपाकप्रकारःयूषाः (८-१०) · Śloka १०
मृगाद्याः पित्तकफयोः पवने प्रसहादयः| वेसवारीकृताः पथ्या रसादिषु च कल्पिताः||८|| भृष्टाः सर्पषतैलेन सर्पिषा वा यथायथम्| रसिका मृदवः स्निग्धाः पटुद्रव्याभिसंस्कृताः||९|| हिता मौलककौलत्थास्तद्वद्यूषाश्च साधिताः| |१०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मृगाद्याः-मृगविष्किरप्रतुदा[दय]ः, पित्तकफयोर्हिताः| वाते [प्रसहादयः-] प्रसहमहामृगापूचरादयो, हिताः| किम्भूताः ? वेसवारीकृताः-पिष्टाः, पथ्याः| तथा, रसादयो-मांसरसादयः कल्पिताः| तथा, सर्षपतैलेन भृष्टाः, सर्पिषा वा देशकालाद्यपेक्षया यथायथं भृष्टाः| तथा, रसिकाः-प्रशस्तरसवन्तः, प्रशंसायां ह्येष मत्वर्थीयः| मृदवो-न तीक्ष्णाः| तथा स्निग्धाः सैन्धवादिभिः कृतसंस्कारा हिताः| तद्वत्-तथैव, मूलकादिकृता यूषाः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मांसपाकप्रकारमाह मृगाद्या इति| मृगाद्याश्चत्वारो वर्गाः| प्रसहाद्याश्चत्वारः| यथायथं-पित्ते सर्पिषा, कफवातयोः सर्षपतैलेन| रसिकाः-सुरसाः| पटु-द्रव्यलक्षणम्| यूषानाह-हिता इति| तद्वत्-मांसरसवत्|-
Adhikarana आजमांसरसः (१०-११) · Śloka ११
| सपिप्पलीकं सयवं सकुलत्थं सनागरम्||१०|| सदाडिमं सामलकं स्निग्धमाजं रसं पिबेत्| तेन षड्विनिवर्तन्ते विकाराः पीनसादयः||११||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पिप्पल्यादिभिः संस्कृतमाजं मांसरसं घृतादिस्नेहेन स्निग्धं पिबेत्, इत्यत्र मांसानामवश्यं स्निग्धत्वेऽपि स्निग्धग्रहणमेषां घृतादिस्नेहेन स्निग्धत्वं कार्यमिति प्रतिपादयति| तेन रसेन पीतेन, षट् विकाराः पीनसादयः-"पीनसश्वासकासां समूर्धस्वररुजः" (हृंइ.अ.५/१३), शाम्यन्ति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-आजमांसरसमाह सपिप्पलीकमिति| पीनसादयः-एकादशस्वाद्याः षट्| अस्य पाकविधिः [ सिद्धयोगे राजयक्ष्माधिकारे श्लो.३]-"द्रव्यतो द्विगुणं मांसं सर्वतोऽष्टगुणं जलम्| पादस्थं संस्कृतं चाज्ये षडङ्गो यूष उच्यते||" इति| सङ्ग्रहे तु (चि.अ. ७)-"कोलदाडिमनिर्यासपिष्टयाऽस्थिविहीनया| द्राक्षया स्वच्छधान्याम्लप्लुतालोडितकल्कया|| कार्यः सौवर्चलव्योषपत्रैलादीप्यकान्वितः| समाक्षिकः सकर्पूरः सलवङ्गः सकेसरः| चन्द्रकान्तो यथार्थाख्यः शोषहाऽग्निरुचिप्रदः| शुक्ताम्रधात्रीस्वरसैर्द्राक्षायाः कल्कितं पलम्|| गुडषट्पलसंयुक्तं युक्तं श्लक्ष्णैश्च कार्षिकैः| वृक्षाम्लधान्यद्रविडीराजिकादाडिमोषणैः| पलेन नागपुष्पस्य किञ्चित्सौवर्चलेन च| ससेव्यपत्रत्वक्तोयः सुरसारसमूर्च्छितः|| भूरिभूस्तृणको रागः कल्प्यो रुच्यः समाक्षिकः||" इति| द्रविडी-एला| तोयं-वालकम्| सुरसारसः-तुलसीरसः, तेन मूर्च्छितः-एकलोलीभाव नीतः| भूरि-उद्भूतरसगन्धि, भूस्तृणं यत्र स तथा| रागः-पानकभेदः|
Adhikarana मद्यम् पानीयचतुष्कम् पानीयमिदमन्नपाकेऽपि योज्यम् (१२-१४) · Śloka १४
पिबेच्च सुतरां मद्यं जीर्णं स्रोतोविशोधनम्| पित्तादिषु विशेषेण मध्वरिष्टाच्छवारुणीः||१२|| सिद्धं वा पञ्चमूलेन तामलक्याऽथवा जलम्| पर्णिनीभिश्चतसृभिर्धान्यनागरकेण वा||१३|| कल्पयेच्चानुकूलोऽस्य तेनान्नं शुचि यत्नवान्| |१४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अतितरां जीर्णं पुराणं, च मद्यं स्रोतोविशुद्धिकरं पिबेत्| पित्तादिषु पित्तकफवातेषु, यथायुक्त्या मध्वादीन् विशेषेण पिबेत्| अथवा, पञ्चमूलेन-ह्रस्वेन, सिद्धं जलं पिबेत्| तामलक्या वा जलं पर्णिनीभिश्चतसृभिर्वा जलं पक्वं पिबेत्| धान्यनागरकाभ्यां वा शृतं पिबेत्| अस्य च-यक्ष्मिणः, अनुकूलो यत्नवान् परिचारकोऽन्नं शुचि तेन-पञ्चमूलादिजलेन, कल्पयेत्| अनुकूलादिग्रहणमत्रातिशयार्थम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मद्यमाह पिबेच्चेति| सुतरां-अन्येभ्यो द्रव्येभ्यः| मधु-मार्द्वीकं,तत्पित्ते| अरिष्टं कफे| अच्छवारुणी वाते| पानीयमाह-सिद्धं वेति| एतानि चत्वारि जलान्यन्नपाकेऽपि योज्यानीत्याह-कल्पयेच्चेति| तेन-पञ्चमूलादिजलान्यतमेन| अनुकूलो यत्नवानिति पाचकविशेषणम्| शुचीति पाक्यविशेषणम्| यक्ष्मिणोऽन्ने तात्पर्यार्थम्|
Adhikarana बलागर्भं घृतं पञ्चप्रकारम् (१४-१५) · Śloka १५
| दशमूलेन पयसा सिद्धं मांसरसेन वा||१४|| बलागर्भं घृतं योज्यं क्रव्यान्मांसरसेन वा| सक्षौद्रं पयसा सिद्धं सर्पिर्दशगुणेन वा||१५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दशमूलक्वाथेन तथा पयसाऽथवा मांसरसेन बलाकल्केन साधितं घृतं योज्यम्| क्रव्यान्मांसरसेन वा बलागर्भं पक्वं घृतं योज्यम्| क्षीरेण वा दशगुणेन बलागर्भं सिद्धं घृतं सक्षौद्रं योज्यम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ घृतानि| तत्र घृतसप्त[क]माह-दशमूलेनेति| दशमूलगर्भे द्वे| बलागर्भमेकम्| दशमूलस्य क्वाथश्चेचत्वारि| बलागर्भागर्भहीनमेकमिति सप्त(?)| सक्षौद्राणि पेयानि|
Adhikarana जीवन्त्यादिघृतम् (१६-१७) · Śloka १७
जीवन्तीं मधुकं द्राक्षां फलानि कुटजस्य च| पुष्कराह्वं शठीं कृष्णां व्याघ्रीं गोक्षुरकं बलाम्||१६|| नीलोत्पलं तामलकीं त्रायमाणां दुरालभाम्| कल्कीकृत्य घृतं पक्वं रोगराजहरं परम्||१७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जीवन्त्यादीन् कल्कीकृत्य घृतं चतुर्गुणे जले पक्वं रोगराजहरं परम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-घृतान्तरमाह जीवन्तीमिति|
Adhikarana खर्जूरादिघृतम् (१८) · Śloka १८
घृतं खर्जूरमृद्वीकामधुकैः सपरूषकैः| सपिप्पलीकं वैस्वर्यकासश्वासज्वरापहम्||१८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कल्कीकृत्य पक्वमित्यनुवर्तते| खर्जूरादिभिः कल्कीकृत्य घृतं पक्वं पिप्पलीचूर्णेन युक्तं वैस्वर्यादिहरम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अन्यदाह घृतमिति| खर्जूरादिक्वाथेन पिप्पलीकल्केन|
Adhikarana दशमूलादिघृतम् (१९-२०) · Śloka २०
दशमूलशृतात्क्षीरात्सर्पिर्यदुदियान्नवम्| सपिप्पलीकं सक्षौद्रं तत्परं स्वरबोधनम्||१९|| शिरःपार्श्वांसशूलघ्नं कासश्वासज्वरापहम्| पञ्चभिः पञ्चमूलैर्वा शृताद्यदुदियाद्धृतम्||२०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दशमूलक्वथितात् क्षीराद्यत्सर्पिरुदियात्-उद्गच्छेत्, तत्-प्रत्यग्रं, पिप्पलीक्षौद्रान्वितमतिशयेन स्वरबोधनं शिरःपार्श्वांसशूलघ्नं कासादिहरम्| अथवा, पञ्चभिः पञ्चमूलैः शृतात्क्षीरात् यदुद्भवेद्धृतं तत्पूर्वगुणम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अन्यदाह दशमूलशृतादिति| नवं-प्रत्यहं कृतम्|
Adhikarana पञ्चपञ्चमूलादिघृतम् (२१) · Śloka २१
पञ्चानां पञ्चमूलानां रसे क्षीरचतुर्गुणे| सिद्धं सर्पिर्जयत्येतद्यक्ष्मणः सप्तकं बलम्||२१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पञ्चानां पञ्चमूलानां रसे क्षीरचतुर्गणे पक्वमेतद्यक्ष्मणः सप्तकं बलं-पीनसादिकं, एतद्धृतं जयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अन्यदाह पञ्चाभिः पञ्चमूलैर्वेति| रसक्षीरयोश्चतुर्गुणत्वं मिलितयोः, परिभाषया प्राप्तत्वात्|-
Adhikarana षट्पलं घृतम् (२२-२३) · Śloka २३
पञ्चकोलयवक्षारषट्पलेन पचेद्धृतम्| प्रस्थोन्मितं तुल्यपयः स्रोतसां तद्विशोधनम्||२२|| गुल्मज्वरोदरप्लीहग्रहणीपाण्डुपीनसान्| श्वासकासाग्निसदनश्वयथूर्ध्वानिलञ्जयेत्||२३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पञ्चकोलादिना षट्पलेन कल्केन घृतप्रस्थं तुल्यक्षीरं पचेत्| तत्स्रोतसां विशोधनं स्यात्| अत्र चानुक्तमपि जलं स्नेहाच्चतुर्गुणं त्रिगुणं वा देयं पूर्वोक्तन्यायात्| तथा गुल्मादीन् जयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-षट्फलं घृतमाह पञ्चकोलेति| षण्णां पलानि कल्कीकृतानाम्, पश्चात्कल्कीकरणे कल्काधिक्यत्| द्रवचातुर्गुण्यं जलेन पुरणीयम्, जलं विना मुक्तरसत्वाभावात्|
Adhikarana रास्नादिघृतम् (२४) · Śloka २४
रास्नाबलागोक्षुरकस्थिरावर्षाभुवारिणि| जीवन्तीपिप्पलीगर्भं सक्षीरं शोषजिद्धृतम्||२४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रास्नादिक्वाथे जीवन्तीपिप्पलीकल्कं क्षीरसहितं पक्वं घृतं शोषजित्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अन्यदाह रास्नाबलेति|
Adhikarana अश्वगन्धघृतम् (२५) · Śloka २५
अश्वगन्धाशृतात्क्षीराद्धृतं च ससितापयः| |२५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अश्वगन्धया शृतात् क्षीरादुद्भूतं घृतं शर्कराक्षीरयुतं पूर्वोक्तगुणम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अन्यदाह अश्वगन्धाशृतादिति| सितया कल्केन पयसा वैद्रेण (द्रवेण) सिद्धम्|
Adhikarana मांसघृतम् (२५-२७) · Śloka २७
| साधारणामिषतुलां तोयद्रोणद्वये पचेत्||२५|| तेनाष्टभागशेषेण जीवनीयैः पलोन्मितैः| साधयेत्सर्पिषः प्रस्थं वातपित्तामयापहम्||२६|| मांससर्पिरिदं पीतं युक्तं मांसरसेन वा| कासश्वासस्वरभ्रंशशोषहृत्पार्श्वशूलजित्||२७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-साधारणस्य-बिलेशयप्रसहानां मांसस्य, तुलां-पलशतं जलद्रोणद्वये पचेत्| तेनाष्टभागशेषेण क्वाथेन जीवनीयैः पालिकैः सर्पिषः प्रस्थं पचेत्| मांससर्पिःसंज्ञमेतत् केवलं पीतं मांसरसेन वा युक्तं पीतं वातपित्तघ्नं कासादिजित्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मांसघृतमाहसाधारणामिषतुलामिति| साधारणं-प्रसहबिलेशयानाम्| पीतं प्रातः, रसे[न]युक्तं भोजनम्| सङ्ग्रहे (चि.अ. ७)-"दुरालभां गोक्षुरकं चतस्रः पर्णिनीर्बलाम्| भागान् पलोन्मितान् कृत्वा पलं पर्पटकस्य च|| पचेद्दशगुणे तोये दशभागावशेषिते| पूते तस्मिन् घृतप्रस्थं क्षीरं च द्विगुणं पचेत्|| गर्भं दत्वा शठीकृष्णा भूनिम्बोत्पलसारिवाः| त्रायन्तीं पौष्करं मूलं सहपत्रफलां फलम्|| कुटजस्य जतेत्तद्धि शिरःपार्श्वांसवेदनाम्| तृष्णां छर्दिमतीसारकासदाहभ्रमज्वरान्|| उत्पलसारिवा-कृष्णसारिवा| यष्टीबलागुडूच्यल्पपञ्चमूलतुलां पचेत्| शूर्पेऽपामष्टभागस्थे तत्र पात्रं पचेद्घृतात्|| धात्रीविदारीक्षुरसत्रिपात्रे पयसोऽर्मणे| सम्पिष्टैर्जीवनीयैश्च पाराशरमिदं घृतम्|| ससैन्यं राजयक्ष्माणमुन्मूलयति शीलितम्| मुर्वाहरिद्राखदिरक्वाथं सर्पिः शकृद्रसम्|| गोगजाजाविहयजं पयस्तुल्यान् दश द्रवान्| स्वादुस्कन्धं त्रिकटुकं कल्कितं देवदारु च|| पचेत्तच्छ्वासशोषघ्नं तद्वद्वासावरीघृतम्| सपञ्चपटु पञ्चाजं क्षयी क्षीरानुपः पिबेत्|| द्विपञ्चमूलवरणयवबिल्वपुनर्नवाः| करञ्जबोटस्थविरकुलत्थबदराग्निकाः|| भल्लातकं च तत्क्वाथे षड्गुणे साधयेद्धृतम्| गर्भं दत्वा स्नुहीक्षीरं शुकाख्याचव्यसैन्धवम्|| हरीतकीं च तच्छोषशोफमेदोदरापहम्||" इति| तथा (सङ्ग्रहे चि. अ. ७)-"यवाग्वा वा पिबेन्मात्रां लिह्याद्वा मधुनाऽन्विताम्| सिद्धानां सर्पिषामेषामद्यादन्नेन वा सह||" इति| सर्वेषां सर्पिषां प्रयोगान्तरमेतत्| वङ्गसेने तु (राज.श्लो. ९५)-"गुडूचीसारिवाह्वस्वापञ्चमूलीबलावृषम्| समूलपत्रशाखं तु पृथग्दशपलांशिकम्|| जलद्रोणे विपक्तव्यं यावत्पादावशेषितम्| पिप्पली चन्दनं रोध्रं हीबेरोशीरपर्पटम्|| पाठाभूनिम्बयष्ट्याह्वत्रायन्तीनीलमुत्पलम्| मुस्तकेन्द्रयवाः शुण्ठी कटुकं सदुरालभम्|| त्वक्पत्रं वृषमूलं च कल्कैरर्धपलैर्भिषक्| अजाक्षीरेण तत्तुल्यं घृतप्रस्थं विपाचयेत्|| हन्ति यक्ष्माणमत्युग्रं रक्तपित्तं त्रिदोषजम्| श्वासकासक्षतक्षीणदाहशोषरुजापहम्|| वासामृतारिष्टनिदिग्धिकानां रसेऽश्वगन्धेभबलार्जुनानाम्| सिद्धं सपञ्चोषणपुष्कराणां कल्कैर्घृतं छागपयश्च शोषे||" इति| योगरत्ने-"मधुकस्य शतं दद्यात् काश्मर्याणां तथाऽऽढकम्| परूषकाणां द्राक्षायाः खर्जूरौदनपाक्ययोः|| मधूकपुष्पस्य तथा मुजातकाढकम्(?)| द्विद्रोणेऽपां विपक्तव्यं चतुर्भागावशेषितम्|| तस्मिन्कषाये पूते च पुनरग्नावधिश्रयेत्| आर्द्रामलककाश्मर्यविदारीक्षुरसाढकम्|| तैलाढकं तु संयोज्य पचेत्क्षीरे चतुर्गुणे| तस्मिंस्तथा पच्यमाने कल्कांश्चेमान् समावपेत्|| पिप्पलीं शृङ्गबेरं च कदलीं [ च स ] शर्कराम्| बलावालकदम्बं च सूक्ष्मैलां पद्मबीजकम्|| शृङ्गाटकं कसेरुं च जीवनीयानि यानि च| द्विपलीनं पृथग्दत्वा विपचेन्मृदुनाऽग्निना|| तत्सिद्धं स्रावयित्वा तु शीतं क्षौद्रेण संसृजेत्| नस्यमभ्यञ्जनं पानं प्रशस्तं बस्तिकर्मणि| वातव्याधिषु सर्वेषु क्षतक्षीणे शिरोग्रहे| वातश्चले(?)प्रमेहे च गुल्मे चार्शे भगन्दरे|| वातभग्नाङ्गहीनानां कासे श्वासे च हृद्ग्रहे| ज्वरातिसारेष्वरुचौ कर्णनादे स्वरक्षये|| सुकुमारमिदं तैलं बालवृद्धसुखावहम्| एतद्धि वृष्यं बल्यं [ च ] रक्तमांसविवर्धनम्|| स्वर्वर्णकरं चैव शोषिणाममृतोपमम्| निःपाकस्वस्य शैलस्य(?)सम्यक्सिद्धस्य योजयेत्|| उदस्विदिव दध्यर्थं सोऽपि कृत्यकरो भवेत्| एकादश च षट् चैव शोषिणां य उपद्रवाः|| सुकुमारं प्रशमयेन्मेध्यो(घो)ऽग्निरि(मि)व वृष्टिमान्||" इति| ओदनपाक्या-बला|
Adhikarana एलादिलेहरसायनम् (२८-३२) · Śloka ३२
एलाजमोदात्रिफलासौराष्ट्रीव्योषचित्रकान्| सारानरिष्टगायत्रीशालबीजकसम्भवान्||२८|| भल्लातकं विडङ्गं च पृथगष्टपलोन्मितम्| सलिले षोडशगुणे षोडशांशस्थितं पचेत्||२९|| पुनस्तेन घृतप्रस्थं सिद्धे चास्मिन्पलानि षट्| तवक्षीर्याः क्षिपोत्र्निंशत्सिताया द्विगुणं मधु||३०|| घृतात्र्निजातात्र्निपलं ततो लीढं खजाहतम्| पयोनुपानं तत्प्राह्णे रसायनमयन्त्रणम्||३१|| मेध्यं चक्षुष्यमायुष्यं दीपनं हन्ति चाचिरात्| मेहगुल्मक्षयव्याधिपाण्डुरोगभगन्दरान्||३२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-एलादि प्रत्येकमष्टपलप्रमाणं षोडशगुणे जले षोडशां शस्थितं-षोडशांशावशेषितं यथास्यात्तथा, पचेत्| तेन-क्वाथेन, पुनर्घ्रुतप्रस्थं पचेत्| सिद्धे चास्मिन् घृते तुगाक्षीर्याः पलानि षट्, सितायास्त्रिंशत्पलानि, माक्षिकं घृताद्द्विगुणं-प्रस्थौ द्वावित्यर्थः, त्रिजातकात् पलत्रयं तदेतस्मिन् क्षिपेत्| खजाहतं समीकरणाय दर्व्याऽऽलोडितं, पूर्वाह्णे लीढं पयोनुपानं रसायनमयन्त्रणं मेध्यादिगुणं च स्यात्| आश्वेव गुल्मादीन् हन्ति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ सर्पिर्गुडाः| तत्रैलादिसर्पिर्गुडमाह-एलाजमोदेति|
Adhikarana क्षतकासोक्तसर्पिर्गुडातिदेशः (३३) · Śloka ३३
ये च सर्पिर्गुडाः प्रोक्ताः क्षते योज्याः क्षयेऽपि ते| |३३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ये च क्षते सर्पिर्गुडा गदितास्ते च क्षयेऽपि योज्याः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-क्षतकासोक्तान् सर्पिर्गुडानतिदिशति ये चेति| वङ्गसेने (राज. श्लो. १२१)-"छागमांसतुलां गृह्य साधयेन्नल्वणेऽम्भसि| पादशेषेण तेनैव सर्पिःप्रस्थं विपाचयेत्|| ऋद्धिर्वृद्धिश्च मेदे द्वे तथाऋषभजीविते(वके)| काकोलीक्षीरकाकोली कल्कैः पृथक्पलोन्मितैः|| सम्यक्सिद्धे चावतार्य शीते तस्मिन् प्रदापयेत्| शर्करायाः पलान्यष्टौ मधुनः कुडवं क्षिपेत्|| पलं पलं लिहेत्प्रातर्यक्ष्माणं हन्ति दुस्तरम्| क्षतक्षयं च कासं च पार्श्वशूलमरोचकम्|| स्वरक्षयमुरोरोगं श्वासं हन्यात्सुदुस्तरम्| बलमांसकरं वृष्यमग्निसन्दीपनं परम्|| (श्लो. १३५)-वासकस्य रसप्रस्थं मानिका सितशर्करा| पिप्पली द्विपलं तद्वदाज्यं मृद्वग्निना पचेत्|| लेहीभूते ततः पश्चाच्छीते क्षौद्रपलाष्टकम्| दत्वाऽवचारयेद्वैद्यो मात्रया लेहमुत्तमम्|| निहन्ति राजयक्ष्माणं कासं श्वासं च दारुणम्| पार्श्वशूलं च हृच्छूलं रक्तपित्तं ज्वरं तथा|| त्वक्क्षीरीस्राविणीद्राक्षामूर्वर्षभकजीवकैः| वीरद्विक्षीरकाकोलीबृहतीकपिकच्छुभिः|| खर्जूरवृषमेदाभिः क्षीरपिष्टैः पलोन्मितैः| धात्रीविदारीक्षुरसप्रस्थैः प्रस्थं घृतात्पचेत्| शर्करार्धतुलां शीते क्षौद्रार्धप्रस्थमेव च|| दत्वा सर्पिर्गुडान् कुर्यात् कासहिक्काज्वरापहान्| यक्ष्माणं तमकं श्वासं रक्तपित्तं हलीमकम्|| शुक्रनिद्राक्षयं तृष्णां हन्युः कार्श्यं सकामलम्| तथैव च्यवनप्राशः पित्तोद्रेके प्रशस्यते||" इति|
Adhikarana त्वगादि (सितोपल) चूर्णम् (३३-३४) · Śloka ३४
| त्वगेलापिप्पलीक्षीरीशर्करा द्विगुणाः क्रमात्||३३|| चूर्णिता भक्षिताः क्षौद्रसर्पिषा वाऽवलेहिताः| स्वर्याः कासक्षयश्वासपार्श्वरुक्कफनाशनाः||३४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-त्वगेलादयः क्रमेण द्विगुणाश्चूर्णिता भुक्ता माक्षिकसर्पिर्भ्यां वाऽवलेहिताः स्वर्याः-स्वराय हिताः स्युः, कासादिघ्नाश्च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ चूर्णादीनि| तच्च(त्र) त्वगादिचूर्णमाह त्वगेलेति| क्षीरी-तुगाक्षीरी| सङ्ग्रहे (चि.अ. ७)- "खर्जूरपिप्पलीद्राक्षापथ्याशृङ्गीदुरालभाः| त्रिफलापिप्पलीमुस्तशृङ्गाटीगुडशर्कराः|| वीरा शठी पुष्कराख्या सुरसा शर्करा गुडः| नागरं चित्रको लाजाः पिप्पल्यामलकं गुडः|| विडङ्गसारश्चविका त्र्यूषणं च विचूर्णितम्| अर्धश्लोकैः स्मृता लेहाः पञ्चैते क्षौद्रसर्पिषा|| स्वर्याः कासक्षयश्वासपार्श्वरुक्कफनाशनाः|| तिलमाषाश्वगन्धा वा माक्षिकाजऋतद्रुताः| पूर्वोक्तेष्वेव [रोगेषु वातप्रायेषु ] पूजिताः||" इति| वङ्गसेने (राज. श्लो. ३६)- "धान्याकपिप्पलीविश्वदशमूलीजलं पिबेत्| पार्श्वशूलज्वरश्वासपीनसादिनिवृत्तये|| अश्वगन्धामृताभीरुदशमूलीबलावृषाः| पुष्करातिविषे घ्नन्ति क्षयं क्षीररसाशिनः|| कपिमांसं समादाय श्लक्ष्णचूर्णं तु कारयेत्| तत्पिबेत् क्षीरसंयुक्तं क्षयरोगहरं परम्|| हरिणः छागमांसं तु [ श्लक्ष्णचूर्णीकृतं शुभम्| अजाक्षीरेण पातव्यं क्षयव्याधिविनाशनम्|| दशमूलवचारास्ना ]पुष्करसुरदारुनागरैः क्वथितम्|| पेयं पार्श्वशिरोरुक्कासश्वासादिशान्तये सलिलम्| ककुभत्वङ्नागबलावानरिबीजानि चूर्णितं पयसि| पक्वं मधुघृतयुक्तं ससितं यक्ष्मादिकासहरम्|| द्विपञ्चमूलमगधाधान्यनागरजं जलम्| चातुर्जातकसंयुक्तं पिबेन्नित्यं क्षयातुरः| कासज्वरादिशमनं बलपुष्टिविवर्धनम्|| समूलपुष्पत्वक्पल्लवाया रसः प्रयोज्यो मदयन्तिकायाः| मासोपयोगेन समस्तलिङ्गं यक्ष्माणमुग्रं जयति प्रसह्य|| छागं मांसं पयश्छागं छागं सर्पिः सनागरम्| छागोपसेवा शयनं छागमध्ये तु यक्ष्मनुत्|| कूष्माण्डकफलोत्थेन रसेन परिपेषितम्| लाक्षाकर्षद्वयं पीत्वा जयेदुग्रं क्षयं नरः|| व्योषं शतावरी त्रीणि फलानि द्वे बले तथा| सर्वामयहरो योगः सोऽयं लोहरजोन्वितः|| एतद्वक्षःक्षतं हन्ति कण्ठजां विविधां रुजम्| राजयक्ष्माणमत्युग्रं सोरुस्तम्भमथार्दितम्|| (श्लो. ८५)-शृङ्ग्यर्जुनाश्वगन्धानागबलापुष्कराभयाच्छिन्नरुहाः| तालीसादिसमेता लेह्या मधुसर्पिषा च यक्ष्महराः||" इति| योगरत्ने-"कृष्णाद्राक्षासितालेहः क्षयहा क्षौद्रतैलवान्| मधुसर्पिर्युतो वाऽश्वगन्धाकृष्णासितोद्भवः|| शतावरी विदार्यश्वगन्धा पथ्या पुनर्नवा| बलात्रयं [श्व]दंष्ट्राऽऽज्यमधुलेहः क्षयापहः|| शिलाजितुमधुव्योषताप्यलोहरजांसि यः| क्षीरभुक् लेढितस्याशु क्षयः क्षयमवाप्नुयात्|| मधुताप्यविडङ्गाश्मजतुलोहघृताभयाः| घ्नन्ति यक्ष्माणमत्युग्रं सेव्यमाना हिताशिना|| शर्करामधुसंयुक्तं नवनीतं लिहन् क्षयी| क्षीराशी लभते पुष्टिमतुल्ये वाऽऽज्यमाक्षिके|| बाह्यालकरसो(सात्) सिद्धं सर्पिः पीतं क्षयं हरेत्| घृतमाक्षिकसम्मिश्रो बाह्यालकरसो यथा|| जातसारं तु गण्डीरं सपुष्पं परिशोषयेत्| षडंशश्छेदितं कृत्वा तस्य पञ्चाढकं पचेत्|| त्रींश्चैव त्रिफलाप्रस्थान् दशमूलीतुलां तथा| दद्यात्कुटजवल्कस्य पलानां पञ्चविंशतिम्|| भल्लातकानीड(न्द्र)यवा विडङ्गं घनमेव च| अर्धप्रस्थ समान् भागानेकैकस्य समापयेत्|| पाठा मधुरसाषड्ग्रन्था चित्रकस्तथा| एषां दशपलान् भागान् मृद्वीकायास्तथाऽऽढकम्|| तोयद्रोणेषु दशसु पचेद्द्विद्रोणशेषितम्| तस्मिन्कषाये पूते तु द्वे गुडस्य तुले पचेत्|| योगेन साधितं चैव शुभे भाण्डे निधापयेत्| द्वौ प्रस्थौ पिप्पलीनां तु द्वौ चायोरजसस्तथा|| अर्धप्रस्थो विडङ्गानां कुडवो मरिचस्य च| एतानि सूक्ष्मचूर्णानि प्रतीवापार्थमाहरेत्|| चूर्णमिन्द्रयवानां च मधुना सह योजयेत्| भाण्डप्रलेपः कर्तव्यः समासिच्य निधापयेत्|| एष मासस्थितो लेह्यो यथाव्याधिबलाबलम्| गण्डीरारिष्ट इत्येष व्यासतः परिकीर्तितः|| एष शोषान् प्रमेहांश्च गुल्मांश्च जठराणि च| क्रिमिकोष्ठानि वर्ध्मानि प्लीहार्शांसि भगन्दरम्|| श्वयथुं पाण्डुरोगांश्च ग्रहणीदोषमेव च| ग्रन्थीन् सगलगण्डांश्च गण्डमालां तथैव च|| विषमज्वरकासांश्च विद्रधिं वातशोणितम्| अरिष्टः शमयत्येष युधि शक्र इवासुरम्|| समूलां पिप्पलीं शृङ्गीं बृहतीमश्मभेदकम्| पटोलं देवकाष्ठं च श्वदंष्ट्रामभयाशतम्|| एकैकं षोडशपलं कोलानामाढकं मितम्| दन्तीचित्रकमूलानां पञ्चविंशत्पलं पृथक्|| चतुर्गुणे जलद्रोणे पचेदर्धावशेषितम्| शीतं समावपेद्भाण्डे प्रलिप्ते मधुसर्पिषा|| खण्डस्य द्वे शते शुद्धे तद्वल्लेहस्य चावपेत्| पत्रं कृत्वा तिलोत्सेधं सूक्ष्मचूर्णीकृतानि च|| प्रियङ्गुं पिप्पलीं रोध्रं मृद्वीकामेलवालुकम्| क्रमुकं शतपुष्पं च निम्बं तेजोवतीमपि|| पालिकं देवदारुं च खदिराच्च चतुष्पलम्| क्षौद्रप्रस्थद्वयं चापि समासिच्य घटे शुभे|| सौम्ये पुष्ये तथा हस्ते रोहिण्यामुत्तरासु च| दशरात्रस्थितो पे(दे)योऽरिष्ट आत्रेयपूजितः|| अश्विभ्यां कथितं पूर्वं रसायनमिदं शुभम्| यथाग्निबलमात्रां तु पिबेदस्य हिताशिनः|| धन्यं पुष्टिकरं मेध्यं वलीपलितनाशनम्| क्षयकासज्वरप्लीहकुष्ठगुल्माग्निमार्दवे|| श्वित्रेऽश्मर्याक्व(म)थोदर्दे विद्रध्यामथ(न्न)विद्विषु| गण्डरोगोदरतथा(?)रेतोदोषे च शस्यते|| नाडीपीडकयोर्दोषे भूतापस्मारसङ्करे| रहस्यमेतद्वैद्यानामुपदिष्टं चिकित्सितम्|| मद्यं क्रव्यादमांसं च शोषिणाममृतोपमम्|| फलत्रिकक्वाथविशुद्धमादौ शुद्धं गुडूच्या दशमूलशुद्धम्| स्थिरादिकाकोलियुगादिसिद्धं शिलाजतु स्यात्क्षयिषु प्रशस्तम्|| स्थिरादिः-विदार्यादिः| काकोली युगादिः-पद्मकादिः| रसोनयोगं विधिवत्क्षयार्तः क्षीरेण वा नागबलाप्रयोगम्| भवेत वा मागधिकाविधानं तथैव योगं जतुनोऽश्मजस्य||" इति|
Adhikarana अस्य स्वरसादे नस्यधूमादि (३५) · Śloka ३५
अथ स्वरसादचिकित्सितम्| विशेषात्स्वरसादेऽस्य नस्यधूमादि योजयेत्| |३५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अस्य-क्षयिणः, स्वरसादे विशेषेण नस्यधूमादि योज्यम्|
Adhikarana वातजे स्वरसादे कासमर्दादिघृतम् वातजे स्वरसादे आर्तगलघृतम् (३५-३६) · Śloka ३६
| तत्रापि वातजे कोष्णं पिबेदौत्तरभक्तिकम्||३५|| कासमर्दकवार्ताकीमार्कवस्वरसैर्घ्रुतम्| साधितं कासजित्स्वर्यं सिद्धमार्तगलेन वा||३६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-[तत्र]-तेषु च स्वरसादेषु मध्ये, वातजे स्वरसादे कासमर्दादिस्वरसैः साधितमौत्तरभक्तिकं-भक्तादूर्ध्वं, घृतं पिबेत्| मार्कवो-भृङ्गराजः| तच्च सर्पिः कासजित् स्वर्यं च स्यात्| उत्तरभक्तादिति "मयूरव्यंसकादित्वात्" समासः, ततश्च "अध्यात्मादित्वात्" ठञ्| अथवा, आर्तगलेन-नीलपुष्पसहचरेण, सिद्धं घृतमेवं पिबेत्|
Adhikarana वातजे स्वरसादे बदरीपत्रकल्कः (३७) · Śloka ३७
बदरीपत्रकल्कं वा घृतभृष्टं ससैन्धवम्| |३७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अथवा बदर्याः पत्रकल्कं घृतभृष्टं ससैन्धवं योजयेत्|
Adhikarana वातजे स्वरसादे मधुकादितैलनस्यम् (३७-३८) · Śloka ३८
तैलं वा- | मधुकद्राक्षापिप्पलीकृमिनुत्फलैः||३७|| हंसपाद्याश्च मूलेन पक्वं नस्तो निषेचयेत्| |३८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अथवा तैलं मधुकादिभिः पक्वं नस्तोऽवसेचयेत्| कृमिघ्नं(नुत्)-विडङ्गम्| फलं-मदनफलम्| हंसपादी-कीटमारिका| नस्त इति "नस्नासिकाया यत्तस्क्षुद्रेषु" इत्यनेन तसि नसादेशः|
Adhikarana वातजे स्वरसादे गुडौदनम्,वातजे स्वरसादे स्निग्धः स्वेदः (३८-३९) · Śloka ३९
| सुख़ोदकानुपानं च ससर्पिष्कं गुडौदनम्||३८|| अश्र्नीयात्पायसं चैवं स्निग्धं स्वेदं नियोजयेत्| |३९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तथा गुडौदनं सर्पिषा सह सुख़ोदकानुपानमश्नीयात्| पायसं चैवं ससर्पिष्कं सुख़ोदकानुपानमद्यात्| स्वेदं च स्निग्धं योजयेत्|
Adhikarana पित्तजे स्वरसादे क्षीरिवृक्षाङ्कुरसिद्धं घृतम् पित्तजे सयष्टीमधुकं पायसमन्नम् (३९-४०) · Śloka ४०
| पित्तोद्भवे पिबेत्सर्पिः शृतशीतपयोनुपः||३९|| क्षीरिवृक्षाङ्कुरक्वाथकल्कसिद्धं समाक्षिकम्| अश्नीयाच्च ससर्पिष्कं यष्टीमधुकपायसम्||४०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पित्तोद्भवे सर्पिः समाक्षिकं क्षीरिवृक्षाङ्कुरादिक्वाथकल्कसिद्धं शृतशीतक्षीरानुपः पिबेत्| मधुयष्टिकान्वितं पायसं ससर्पिष्कं भुञ्जीत|
Adhikarana पित्तजे बलादिधृतं नस्यम् (४१) · Śloka ४१
बलाविदारिगन्धाभ्यां विदार्या मधुकेन च| सिद्धं सलवणं सर्पिर्नस्यं स्वर्यमनुत्तमम्||४१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बलादिभिः सिद्धं सर्पिः ससैन्धवं परं स्वर्यं स्यान्नस्यम्| विदारिगन्धा-शालिपर्णी|
Adhikarana पित्तजे प्रपौण्डरीकादिघृतं नस्यम् (४२) · Śloka ४२
प्रपौण्डरीकं मधुकं पिप्पली बृहती बला| साधितं क्षीरसर्पिश्च तत्स्वर्यं नावनं परम्||४२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पित्तजे स्वरसादे प्रपौण्डरीकादिसाधितं क्षीरोद्भवं सर्पिः श्रेष्ठं नस्यम्|
Adhikarana पित्तजे मधुरद्रव्या चूर्ण लेहः (४३) · Śloka ४३
लिह्यान्मधुरकाणां च चूर्णं मधुघृताप्लुतम्| |४३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मधुरकाणां च-मधुररसद्रव्याणां, चूर्णं मधुघृतान्वितं लिह्यात्|
Adhikarana कफजे कटुद्रव्याणाम् मूत्रेण पानम् कफजे रूक्षमन्नम् कफजे कट्फलादिलेहः कफजे व्योषादिलेहः (४३-४४) · Śloka ४४
| पिबेत्कटूनि मूत्रेण कफजे रूक्षभोजनः||४३|| कटूफलामलकव्योषं लिह्यात्तैलमधुप्लुतम्| व्योषक्षाराग्निचविकाभार्गीपथ्यामधूनि वा||४४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कफोद्भवे कटूनि-कटुकरसानि द्रव्याणि, मूत्रेण पिबेत्| रूक्षभोजनश्च स्यात्| तथा, कटूफलादिकं तैलमधुप्लुतं लिह्यात्| व्योषादीनि वा एवं लिह्यात्|
Adhikarana कफजे यवानां यवागूः कफजे भोजनान्ते पिप्पलीशुण्ठ्यौ कफजे किंवा तीक्ष्णं वमनम् (२) · Śloka २
यवैर्यवागूं यमके कणाधात्रीकृतां पिबेत्| भुक्त्वाऽद्यात्पिप्पलीं शुण्ठीं तीक्ष्णं वा वमनं भजेत्||२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यवैरुपादानैर्यमके-स्नेहद्वये, कणाधात्रीकृतां-एतत्क्वाथे सिद्धां, यवागूं पिबेत्| तथा, भुक्त्वा पिप्पलीं शुण्ठीं वाऽद्यात्| अथवा, तीक्ष्णं वमनं भजेत्|
Adhikarana उच्चभाषणकृतस्वरसादे मधुरद्रव्यसिद्दं पयः (४६-४७) · Śloka ४७
शर्कराक्षौद्रमिश्राणि शृतानि मधुरैः सह| पिबेत्पयांसि यस्योच्चैर्वदतोऽभिहतः स्वरः||४६|| इति स्वरसादचिकित्सितम्|४७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यस्योच्चैर्भाषमाणस्य स्वरोऽभिहतः स मधुरैः-जीवनीयैः सह, शृतानि शर्करामाक्षिकमिश्राणि पयांसि पिबेत्|
Adhikarana अरोचके सामान्यचिकित्सा (४७-४९) · Śloka ४९
अथारोचकचिकित्सितम्| विचित्रमन्नमरुचौ हितैरुपहितं हितम्| बहिरन्तर्मृजा चित्तनिर्वाणं हृद्यमौषधम्||४७|| द्वौ कालौ दन्तपवनं भक्षयेन्मुख़धावनैः| कषायैः क्षालयेदास्यं धूमं प्रायोगिकं पिबेत्||४८|| तालीसचूर्णवटकाः सकर्पूरसितोपलाः| शशाङ्ककिरणाख़्याश्च भक्ष्या रुचिकराः परम्||४९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अरोचके विचित्रं-नानाविधमन्नं, हितं-पथ्यम्| किम्भूतम् ? हितैः-पथ्यैः, उपहितं-मिश्रितम्| एवमरुच्याख़्यो व्याधिविशेषः सर्वव्याधिभ्यो गरीयान्| येनापथ्यमपि यदन्नं तस्मै तदपि देयं प्राणसन्धारणार्थम्, "अन्नमेव प्राणिनां प्राणाः" इत्याहुः| एवं च सर्वव्याधिष्वरुचिरेव पूर्वं जेतव्या, ततो ज्वरादय इत्यर्थादुक्तं भवति| बहिर्मृजा-बहिःशुद्धिः स्नानादिना बहिः परिमार्जनम्| अन्तर्मृजा-अन्तःशुद्धिः| तथा, चित्तनिर्वाणमरुचौ हितं ह्रुद्यमौषधं च| तथा, द्बौ कालौ-सायंप्रातराख़्यौ, दन्तधावनं भक्षयेत्| तथा, मुख़धावनैः कषायैरास्यं क्षालयेत्| प्रायोगिकं-स्नैहिकं, धूमं पिबेत्| तथा, तालीसचूर्णवटकाश्च| तथा, सकर्पूरशर्कराः शशाङ्ककिरणाख़्या भक्ष्याः परं-अतिशयेन, रुचिकराः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथारोचकचिकित्सितम्| तत्र सामान्यमाह-विचित्रमन्नमिति| अन्तर्मृजा-वमनादि| निर्वाणं-निवृत्तिः| द्वौ कालौ-प्रातर्भुक्त्वा सायं च| मुखधावनैः-तिक्तकट्वम्लकृतैः| प्रायोगिकं-शमनम्| तालीसचूर्णं-तालीसपत्रचूर्णः, तस्य वटकाः सितोपलया कार्याः| ते च कर्पूरेण सुरभीकृताः| शशाङ्ककिरणाः-कर्पूरनालिकाः|
Adhikarana वातजे अरोचके औषधम् वातजे अरोचके वमनम् (५०-५१) · Śloka ५१
सामान्येनारुचौ चिकित्सितान्युक्त्वा विशेषमाह वातादरोचके तत्र पिबेच्चूर्णं प्रसन्नया| हरेणुकृष्णाकृमिजिद्द्राक्षासैन्धवनागरात्||५०|| एलाभार्गीयवक्षारहिङ्गुयुक्ताद्धृतेन वा| छर्दयेद्वा वचाम्भोभिः|५१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वातेनारुचौ सत्यां हरेण्वादिभ्यश्चूर्णं प्रसन्नया पिबेत्| एलाभार्ग्यादियुक्तघृतेन वा पेयम्| वचाजलैर्वा वमेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वातस्यौषधमाह वातादिति| वमनमाह-छर्दयेद्वेति| वचाम्भोभिः-वचाकल्कितैरुष्णाम्बुभिः|--
Adhikarana पित्तजे अरोचके वमनम् पित्तजे अरोचके शर्करादि लेहः (५१-५२) · Śloka ५२
| पित्ताच्च गुडवारिभिः||५१|| लिह्याद्वा शर्करासर्पिर्लवणोत्तममाक्षिकम्| |५२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पित्तादरुचौ गुडवारिणा वमेत्| शर्करादिकं [वा] लिह्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पित्तजस्यौषधमाह पित्ताच्चेति| गुडवारिभिरिति मदनफलयुक्तैश्च्छर्दयेत्| लेहमाह-लिह्याद्वेति| लवणोत्तमं-सैन्धवम्|
Adhikarana कफजे अरोचके वमनम् कफजे अरोचके पानम् कफजे अरोचके चूर्णम् (५२-५३) · Śloka ५३
| कफाद्वमेन्निम्बजलैर्दीप्यकारग्वधोदकम्||५२|| पानं समध्वरिष्टाश्च तीक्ष्णाः समधुमाधवाः| पिबेच्चूर्णं च पूर्वोक्तं हरेण्वाद्युष्णवारिणा||५३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कफादरोचके निम्बजलैर्वमेत्| दीप्यककर्णिकारयोरुदकं पानं समाक्षिकम्| अरिष्टाश्च तीक्ष्णाः समार्द्वीकमाधवाः पानम्| हरेण्वादिचूर्णं च पूर्वोक्तं (श्लो.५०)उष्णाम्बुना पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कफजस्यौषधमाह कफाद्वमेदिति| निम्बजलैरिति मदनफलयुक्तैः| पानमाह-दीप्यकारग्वधोदकमिति| मधु-माध्वीकम्| माधवो-मधुकृतं मद्यम्| || चूर्णमाह-पिबेच्चूर्णमिति| सङ्ग्रहे (चि.अ. ७)-"त्रिकटुत्रिफलारात्रियवक्षारं मधुप्लुतम्| प्रातराहारकाले च युञ्जीत मुखधावनम्|| रात्रिः-हरिद्रा| बिडं सौवर्चलं कुष्ठमजाजीमरीचं सिता| धात्र्येलापद्मकोशीरपिप्पलीचन्दनोत्पलम्|| रोध्रं तेजोवती पथ्या यवक्षारं कटुत्रयम्| आर्द्रादाडिमनिर्यासः साजाजीसितशर्करः|| सतैलमाक्षिकयुताश्चत्वारः कवलग्रहाः| चतुरोऽरोचकान् हन्युरेकदोषसमस्तजान्|| कारव्यजाजीमरिचद्राक्षावृक्षाम्लदाडिमम्| सौवर्चलगुडक्षौद्रं सर्वारोचकनाशनम्||" इति| वङ्गसेने(?)-"जम्ब्वाम्रपल्लवं रोध्रं त्रिफला चयचित्रकौ| पटोलं नक्तमालश्च शिरीषं खदिरासनौ|| दार्वी हरिद्रा मुस्तं च तेजोह्वा मधुकं बला| एतानि समभागानि कषायमुपसाधयेत्|| क्वलग्रह इत्येष कर्तव्यो मधुना युतः| सर्वेषां मुखरोगाणामरुचीनां च नाशनः|| षाडवश्च कपित्थानां सव्योषमधुशर्करः| अरोचकेषु सर्वेषु प्रशस्तो धारितो मुखे|| आरनालं च शुक्तं च मार्द्वीकमदिरासवाः| दन्तयोरन्तरे धार्यास्तथैव कवलग्रहाः|| त्वङ्मुस्तवेलाधान्यानि, मुस्तमामलकं त्वचा| त्वचोदार्यायवान्यश्च, पिप्पली तेजवत्यपि|| यवानी तित्तिडीकं च, पञ्चैते मुखधावनाः| श्लोकपादेषु विहिता रोचना मुखशोधनाः|| कारञ्जं दन्तकाष्ठं च विधेयमरुचौ सदा| (वङ्गसेने अरोचकाधिकारे श्लो. ११)-"मरिचं मधुना लेह्यं कफजेऽरोचके भृशम्|| अम्लीकागुडतोयं च त्वगेलामरिचान्वितम्| अभक्तच्छन्दरोगेषु शस्तं कवलधारणम्|| शृङ्गवेररसं चैव मधुना सह योजयेत्| अरुचिश्वासकासघ्नं प्रतिश्याकफवातनुत्|| भोजनाग्रे सदा पथ्यं जिह्वाकण्ठविशोधनम्| अग्निसन्दीपनं हृद्यं लवणार्द्रकभक्षणम्|| कारव्यजाजीपत्रैलाव्योषवृक्षाम्लदाडिमम्| सक्षौद्रशर्करं हृद्यं रुचिकृद्वह्निदीपनम्|| बिडचूर्णमधूपेतो रसो दाडिमसम्भवः| असाध्यामपि संहन्यादरुचिं वक्त्रधारितः|| शिग्रूफलान्यष्टादश दश मरिचं विं[शतिश्च पिप्पल्यः| आर्द्रकपलं गुडपलं प्रस्थत्रयमारनालस्य|| बिडलवणसहितमेतत् खजाहतं सुरभिगन्धाढ्यम्| व्यञ्जनसहस्रघाति ज्ञेयं कलहंसकं नाम्ना||" इति|]
Adhikarana समशर्करं चूर्णम् (५४-५५) · Śloka ५५
एलात्वङ्नागकुसुमतीक्ष्णकृष्णामहौषधम्| भागवृद्धं क्रमाच्चूर्णं निहन्ति समशर्करम्||५४|| प्रसेकारुचिहृत्पार्श्वकासश्वासगलामयान्| |५५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-एलादिकं चूर्णं क्रमेण भागवृद्धं समशर्करं प्रसेकादीन् हन्ति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-[ समशर्करचूर्णमाह-] एलात्वगिति| केचित्त्वङ्नागपुष्पयोर्मध्ये पत्रकमधिकं पठन्ति, केचिन्नागपुष्पमरीचयोर्मध्ये| पाठत्रयमपि प्रमाणम्|
Adhikarana यवान्यादि चूर्णम् (५५-५८) · Śloka ५८
| यवानीतित्तिडीकाम्लवेतसौषधदाडिमम्||५५|| कृत्वा कोलं च कर्षाशं सितायाश्च चतुष्पलम्| धान्यसौवर्चलाजाजीवराङ्गं चार्धकार्षिकम्||५६|| पिप्पलीनां शतं चैकं द्वे शते मरिचस्य च| चूर्णमेतत्परं रुच्यं हृद्यं ग्राहि, हिनस्ति च||५७|| विबन्धकासहृत्पार्श्वप्लीहार्शोग्रहणीगदान्| |५८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यवानीत्यादि कोलान्तानि प्रत्येकं कार्षिकाणि, शर्करायाः पलानि चत्वारि, धान्यकादिकमर्धकार्षिकं, शतमेकं पिप्पलीनां, द्वे शते मरिचस्य च, चूर्णमिदं परं रुच्यं तथा हृदयाय हितं ग्राहि, विबन्धादीन् हन्ति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-षाडवमाह यवानीति| औषधं-शुण्ठी| कोलं-बदरम्| वराङ्गं-त्वक्| शतं-मेयस्य, न मानस्य कर्षादेः| "सङ्ख्या फलानां शतशोऽपला स्यात्|" इति वचनात्|
Adhikarana तालीसादि चूर्णम् (५८-६१) · Śloka ६१
| तालीसपत्रं मरिचं नागरं पिप्पली शुभा||५८|| यथोत्तरं भागवृद्ध्या त्वगेले चार्धभागिके| तद्रुच्यं दीपनं चूर्णं कणाष्टगुणशर्करम्||५९|| कासश्वासारुचिच्छर्दिप्लीहहृत्पार्श्वशूलनुत्| पाण्डुज्वरातिसारघ्नं मूढवातानुलोमनम्||६०|| इत्यरोचकचिकित्सितम्|६१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तालीसपत्रादयो यथोत्तरं-उत्तरोत्तरं, भागवृद्धाः कार्याः| त्वक् च एला च एतेऽर्धभागप्रमाणे| एतच्चूर्णं पिप्पल्यष्टगुणशर्करं दीपनं कासादिजिच्च, पाण्ड्वादिघ्नं मूढवातानुलोमनं च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तालीसादिमाह तालीसपत्रमिति| शुभा-वंशरोचना| अर्धभागिके-मिलिते तालीससमे| योगरत्ने-"तालीसोषणनागचव्यलवणैस्तुल्यांशकैर्द्विस्ततः कृष्णा ग्रन्थिकतित्तिडीकहुतभुक्त्वग्जीरकाख्यैर्युतैः| विश्वैलाबदराम्लवेतसघनैर्धान्याजमोदायुतैस्र्यंशैर्दाडिमपाद एष विहितः श्रेष्ठः सितार्धायुतः|| कण्ठास्योदरहृद्विकारशमनः कायाग्निसन्दीपनो गुल्माध्मानविषूचिकागुदरुजाश्वासक्रिमिच्छर्दिहा| कासारुच्यतिसारमूढमरुतां हृद्रोगिणां कीर्तितश्चूर्णोऽयं भिषजामतीव दयितः ख्यातो महाखाण्डवः|| लवङ्गकङ्कोलमुशीरचन्दनं नतं सनीलोत्पलकृष्णजीरकम्| एला सकृष्णाऽगुरुभृङ्गकेसरं कणा सविश्वा नलदं सहाम्बुना|| कर्पूरजातीफलवंशलोचनं सिताष्टभागं समसूक्ष्मचूर्णितम्| सुरोचनं तर्पणमग्निदीपनं बलप्रदं वृष्यतमं त्रिदोषनुत्|| उरोविबन्धं तमकं गलग्रहं सकासहिध्मारुचियक्ष्मपीनसम्| ग्रहण्यतीसारमथासृजः क्षयं प्रमेहगुल्मांश्च निहन्ति सत्वरम्|| कर्पूरचोचकङ्कोलजातीफलदलाः समाः| लवङ्गनागमरिचकृष्णाशुण्ठ्यो विवर्धिताः| चूर्णं सितासमं हृद्यं रोचनं क्षयकासजित्| वैस्वर्यश्वासगुल्मार्शश्र्च्छार्दिकण्ठामयापहम्|| प्रयुक्तं चान्नपाने वा भेषजद्वेषिणां हितम्|" इति| विवर्धिताः-क्रमेण भागोत्तराः|
Adhikarana उपद्रवाणां चिकित्सा प्रसेके चिकित्सा (६१-६२) · Śloka ६२
अर्कामृताक्षारजले शर्वरीमुषितैर्यवैः| प्रसेके कल्पितान्सक्तून् भक्ष्यांश्चाद्याद्वली वमेत्||६१|| कटुतिक्तैस्तथा शूल्यं भक्ष्येज्जाङ्गलं पलम्| शुष्कांश्च भक्ष्यान् सुलघूंश्चणकादिरसानुपः||६२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अर्कादिजले रात्रिस्थितैर्यवैः सक्तून् कल्पितान् भक्ष्यांश्च प्रसेके भक्षयेत्| बलवान् कटुतिक्तकैर्वमेत्| तथा, शूल्यं जाङ्गलं मांसं भक्षयेत्| शुष्कांश्च भक्ष्यान् भोजयेत्| भोज्यविशेषान् लघुतरान् भक्षयेत्| चणकादिरसमनु-पश्चात्, पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथोपद्रवचिकित्सा| तत्र प्रसेकचिकित्सामाह-अर्कामृताक्षारजल इति| अर्कगुडूच्योः क्षारस्य क्षारविधिना गृहीते जले रात्रिमुषितैर्यवैः सक्तवो भक्ष्याश्च कल्प्याः| यस्तु प्रसेकी बलवान् स कटुतिक्तैर्वमेत्| चणकादीनां रूक्षाणां रसो-यूषः, अनुपाने|
Adhikarana प्रसेके चिकित्सान्तरम् (६३) · Śloka ६३
श्लेष्मणोऽतिप्रसेकेन वायुः श्लेष्माणमस्यति| कफप्रसेकं तं विद्वान्स्निग्धोष्णैरेव निर्जयेत्||६३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वायुः श्लेष्माणं क्षिपति श्लेष्मणोऽतिप्रसेकेन हेतुभूतेन तं कफप्रसेकं विद्वान् स्निग्धोष्णैरेव निर्जयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-चिकित्सान्तरमाह-श्लेष्मण इति| यस्मिन् कफस्यातिप्रसेकेन क्षीणत्वे सति कुपितो वायुः क्षीणमपि कफं बलादस्यति-प्रेरयति, तं स्निग्धोष्णेन चौषधेन निर्जयेत्-न रूक्षशीतेन| विद्वान्-अवस्थोपचारज्ञो वैद्यः|
Adhikarana छर्दिपीनसयोः प्रसेक चिकित्सा (६४) · Śloka ६४
पीनसेऽपि क्रममिमं वमथौ च प्रयोजयेत्| |६४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-इमं-कफप्रसेकोक्तं, क्रियाक्रमं पीनसे वमथौ-छर्दिषि च, प्रयोजयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-छर्दिपीनसयोः प्रसेकचिकित्सामाह-पीनसेऽपीति|
Adhikarana पीनसे विशेषः (६४-६५) · Śloka ६५
विशेषात्पीनसेऽभ्यङ्गान् स्नेहान् स्वेदांश्च शीलयेत्||६४|| स्निग्धानुत्कारिकापिण्डैः शिरःपार्श्वगलादिषु| लवणाम्लकटूष्णांश्च रसान् स्नेहोपसंहितान्||६५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-विशेषेण पीनसेऽभ्यङ्गान् स्नेहान् स्वेदांश्च स्निग्धान् शीलयेत्| कैः ? उत्कारिकापिण्डैः| केषु ? शिरःपार्श्वगलादिषु| लवणादींश्च रसान् स्नेहोपसंहितान् शीलयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पीनसे विशेषमाह-विशेषादिति| स्निग्धान् स्निग्धद्रव्यकृतान्| उत्कारिकाश्च पिण्डाश्चेति द्वन्द्वः| पिण्डाः-पिण्डाकारा भक्ष्याः|
Adhikarana शिरोंसपार्श्वशूलेषु चिकित्सा वातजेषु पार्श्वशूलेषु विशेषः (६६-६७) · Śloka ६७
शिरोंसपार्श्वशूलेषु यथादोषविधिं चरेत्| औदकानूपपिशितैरुपनाहाः सुसंस्कृताः||६६|| तत्रेष्टाः सचतुःस्नेहाः| |६७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शिरोंसपार्श्वशूलेषु दोषानुसारेणोपक्रमः कार्यः| तेष्वौदकानूपमांसैश्च्तुःस्नेहयुताः सुसंस्कृता उपनाहा इष्टाः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शिरःशूलादिचिकित्सामाहशिरोंसपार्श्वशूलेष्विति| वातजेषु विशेषमाह-औदकानूपपिशितैरिति| सुसंस्कृताः-कटुपट्वम्लैः|
Adhikarana संसर्गेषु पार्श्वशूलेषु विशेषः (६७-६८) · Śloka ६८
दोषसंसर्ग इष्यते| प्रलेपो नतयष्ट्याह्वशताह्वाकुष्ठचन्दनैः||६७|| बलारास्नातिलैस्तद्वत्ससर्पिर्मधुकोत्पलैः| पुनर्नवाकृष्णगन्धाबलावीराविदारिभिः||६८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दोषसंसर्गे च-द्वन्द्वे, तगरादिभिः प्रलेप इष्यते| तथैव बलादिभिः घृतमधुकोत्पलयुतैः, [तथा] पुनर्नवादिभिः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-संसर्गजेषु विशेषमाह दोषसंसर्ग इति| त्रिभिरर्धैस्त्रयो लेपाः| सङ्ग्रहे तु द्वावधिकौ (चि. अ. ७)-"पलङ्कषा देवदारु चन्दनं मधुकं घृतम्| अभीरुयष्टीमधुकं पयस्या कट्तृणं घृतम्||" इति|
Adhikarana नस्यादीनि (६९) · Śloka ६९
नावनं धूमपानानि स्नेहाश्चौत्तरभक्तिकाः| तैलान्यभ्यङ्गयोगीनि बस्तिकर्म तथा परम्||६९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नस्यं तथा धूमपानानीष्यन्ते| तथा, औत्तरभक्तिकाश्च स्नेहाः| तैलान्यभ्यङ्गयोगीनि-अभ्यङ्गयोगप्रशस्तानि| तथा बस्तिकर्म-"प्राक्स्नेहः" (हृ.सू.अ.१९/६३) इत्यादिकम्, परं-चेष्टम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-नस्यादीन्याह नावनमिति| उत्तरभक्तिकाः-भोजनोत्तरं प्रयुक्ताः| परं-श्रेष्ठम्|
Adhikarana रक्तदुष्टौ विशेषः (७०-७२) · Śloka ७२
शृङ्गाद्यैर्वा यथादोषं दुष्टमेषां हरेदसृक्| प्रदेहः सघृतैः श्रेष्ठः पद्मकोशीरचन्दनैः||७०|| दूर्वामधुकमञ्जिष्ठाकेसरैर्वा घृताप्लुतैः| वटादिसिद्धतैलेन शतधौतेन सर्पिषा||७१|| अभ्यङ्गः पयसा सेकः शस्तश्च मधुकाम्बुना| |७२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शृङ्गाद्यैः-शृङ्गजलौकोलाबुभिः, यथादोषं-वातपित्तकफदुष्टं, रक्तमेषां-यक्ष्मिणां, हरेत्| प्रलेपः पद्मकादिभिः सघ्रुतैः श्रेष्ठः, दूर्वादिभिर्वा घृताप्लुतैः| वटादिना-न्यग्रोधादिना, सिद्धेन तैलेनाभ्यङ्गः शस्तः| शतधौतेन वा घृतेन तथा क्षीरेण सेकः शस्तः| मधुयष्टिकाजलेन वा|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-रक्तदुष्टौ विशेषमाहशृङ्गाद्यैर्वेति| "वातादिधाम वा शृङ्गजलौकोलाबुभिः क्रमात्|" (हृ. सू. अ. २६|५५)इत्युक्तत्वात्| एषां-शिरोंसपार्श्वशूलिनाम्| केसरं-पद्मस्य वटादिः-न्यग्रोधादिगणः|-
Adhikarana अतीसारे चिकित्सा (७२-७३) · Śloka ७३
| प्रायेणोपहताग्नित्वात्सपिच्छमतिसार्यते||७२|| तस्यातिसारग्रहणीविहितं हितमौषधम्| |७३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बाहुल्येनोपहताग्नित्वात्कारणात् पिच्छया सहातिसार्यते यक्ष्मी| तस्यातिसारे ग्रहण्यां च यदुक्तमौषधं तद्धितम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अतिसारचिकित्सामाह प्रायेणेति| सङ्ग्रहे तु (चि. अ. ७)-"सनागरानिन्द्रयवान् पाययेत्तण्डुलाम्बुना| जीर्णेषु तेषु पेयां च चाङ्गेरीतक्रदाडिमैः|| पाठा बिल्वयवानीनां चूर्णं तक्रेण वा पिबेत्| सुरया वा प्लुतां पाथां सनागरदुरालभाम्|| जम्ब्वाम्रबिल्वमध्यं वा सकपित्थं सनागरम्| पेयामण्डेन योगैश्च पाठाद्यैः कारयेत्त्रिभिः|| ससूप्यधान्यान् सस्नेहान् साम्लान् सलवणान् खलान्| वेतसार्जुनजम्बूनां मृणालीकृष्णगन्धयोः|| श्रीपर्ण्या मातुलुङ्गस्य धातक्या दाडिमस्य च| चाङ्गेर्या मदयन्त्याश्च यूथि कायाश्च पल्लवैः|| कालविद्दुग्धिकायाश्च चुक्रिकायाश्च योजयेत्| खलान् दधिसरोपेतान् ससर्पिष्कान् सदाडिमान्|| रोचनान् दीपनान् हृद्यानतीसारहरान् परान्|" इति| पेयाया मण्डेन भक्तस्य[|न्]ते जम्ब्वादिचूर्णं पिबेत्| मृणाली-पद्मिनी| कृष्णगन्धा-शिग्रुः| मदयन्त्याः-मल्लिकायाः| चुक्रिका-वि दा| तथा (सङ्ग्रहे चि. अ. ७)-"ज्वरादिष्वपि कुर्वीत विकारेषु यथामयम्| बह्वामयसमूहो हि यक्ष्माऽतः सोऽतिदुःसहः||" इति|
Adhikarana शुष्यतो यक्ष्मिणः पुरीषरक्षणम् तत्र हेतुः (७३-७४) · Śloka ७४
| पुरीषं यत्नतो रक्षेच्छुष्यतो राजयक्ष्मिणः||७३|| सर्वधातुक्षयार्तस्य बलं तस्य हि विड्बलम्| |७४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तथा, राजयक्ष्मिणः शुष्यतः सतः पुरीषं यत्नेन रक्षेत्| किमित्याह-यस्मात्तस्य-शोषिणः, सर्वधातुक्षयार्तस्य सतो विड्बलमेव बलं-न धात्वादिजं बलम्|
Adhikarana मांसमद्यप्रयोगः (७४-७६) · Śloka ७६
| मांसमेवाश्नतो युक्त्या मार्द्वीकं पिबतोऽनु च||७४|| अविधारितवेगस्य यक्ष्मा न लभतेऽन्तरम्| सुरां समण्डां मार्द्वीकमरिष्टान्सीधुमाधवान्||७५|| यथार्हमनुपानार्थं पिबेन्मांसानि भक्षयन्| स्रोतोविबन्धमोक्षार्थ बलौजःपुष्टये च तत्||७६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मांसमेव युक्त्या-देशकालसात्म्यादिलक्षणया, भक्षयतो मार्द्वीकं च पश्चात् पिबतो वेगमधारयतो यक्ष्मा अन्तरं-अवकाशं, न लभते| तथा, सुरादीननुपानार्थं पिबेत्| मांसानि भक्षयेत्| तत्-सुराद्यनुपानं मांसभक्षणं च, स्रोतोविबन्धभोक्षार्थं बलायौजसश्च पुष्टये|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मांसमद्यप्रयोगमाह मांसमेवेति|
Adhikarana अवगाहादीनि (७७-७८) · Śloka ७८
स्नेहक्षीराम्बुकोष्ठेषु स्वभ्यक्तमवगाहयेत्| उत्तीर्णं मिश्रकैः स्नेहैर्भूयोऽभ्यक्तं सुख़ैः करैः||७७|| मृद्गीयात्सुख़मासीनं सुख़ं चोद्वर्तयेत्परम्| |७८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स्नेहादिकोष्ठेषु स्वभ्यक्तं सन्तमवगाहयेत्-निमग्नं स्थापयेत्| ततः कोष्ठादुत्तीर्णं भूयः पुनर्मिश्रकैः स्नेहैः-गुल्मोक्तैः (हृ.चि.अ.१४/८९), अभ्यक्तं सुख़ैः-सुख़ावहैर्न दुष्करैः, करैः सुख़ेन तिष्ठन्तं मृद्गीयात्| परं-अतिशयेन, सुख़ं यथा भवति तथोद्वर्तयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अवगाहादीन्याहस्नेहक्षीराम्बुकोष्ठेष्विति| अवगाहाभ्यङ्गमर्दनोद्वर्ततानि क्रमेण कुर्यात्| मिश्रको-यमकादिः|-
Adhikarana उद्वर्तनयोगः (७८-८१) · Śloka ८१
| जीवन्तीं शतवीर्यां च विकसां सपुनर्नवाम्||७८|| अश्वगन्धामपामार्गं तर्कारीं मधुकं बलाम्| विदारीं सर्षपान् कुष्ठं तण्डुलानतसीफलम्||७९|| माषांस्तिलांश्च किण्वं च सर्वमेकत्र चूर्णयेत्| यवचूर्णं त्रिगुणितं दध्ना युक्तं समाक्षिकम्||८०|| एतदुद्वर्तनं कार्यं पुष्टिवर्णबलप्रदम्| |८१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जीवन्त्यादिकं किण्वपर्यन्तं सर्वमेकत्र चूर्णयेत्| विकसा-मञ्जिष्ठा| यवचूर्णं सर्वेभ्यस्त्रिगुणं दध्ना युक्तं समाक्षिकमेतदुद्वर्तनं कार्यं पुष्ट्यादिप्रदम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-उद्वर्तनयोगमाह जीवन्तीमिति| शतवीर्यां-शतावरीम्| विकसां-मञ्जिष्ठाम्| तण्डुलान्-शालीनाम्| उत्सादनं-उद्वर्तनम्|
Adhikarana स्नानीयं जलं कल्कश्च (८१-८२) · Śloka ८२
| गौरसर्षपकल्केन स्नानीयौषधिभिश्च सः||८१|| स्नायादृतुसुख़ैस्तोयैर्जीवनीयोपसाधितैः| |८२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-गौरसर्षपाणं कल्केन स्नानीयैः-स्नानार्हैर्गन्धद्रव्यविशेषैः, औषधिभिश्च-सहदेव्यादिभिः, ऋतौ-हेमन्तादिके, सुख़ावहैः-उष्णादिभिः, तोयैर्जीवनीयद्रव्यशृतैः स्नायात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-स्नानमाह गौरसर्षपकल्केनेति| स्नानैः-ग्रहस्नानोक्तैः द्रव्यैर्मन्त्रैश्चाषौधिभिः संज्ञाभिः|
Adhikarana अनुलेपनादीनि (८२) · Śloka ८२
| गन्धमाल्यादिकां भूषामलक्ष्मीनाशनीं भजेत्||८२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तथा, गन्धैः-चन्दनकुङ्कुमादिभिः, माल्यैः-कुसुमैः, आदिशब्देनालङ्कारादिग्रहणं, तैर्भूषामलक्ष्मीघ्नीं सेवेत|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अनुलेपनादीन्याह गन्धमाल्यादिकामिति|
Adhikarana सुहृद्दर्शनादीनि (५) · Śloka ५
सुहृदां दर्शनं गीतवादित्रोत्सवसंश्रुतिः| बस्तयः क्षीरसर्पीषि मद्यमांससुशीलता||८३|| दैवव्यपाश्रयं तत्तदथर्वोक्तं च पूजितम्| ८३ १/२| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे चिकित्सितस्थाने राजयक्ष्मादिचिकित्सितं नाम पञ्चमोऽध्यायः||५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तथा, सुहृदां-बन्धूनां, दर्शनम्| गीतस्य वादित्राणां तथोत्सवस्य-पुत्रजन्मविवाहादेः, संश्रवणम्| तथा, बस्तयः क्षीरसर्पीषि-क्षीराणां घृतानि, मद्यमांसानां सुशीलता| तथा, दैवव्यपाश्रयं-बलिमङ्गलहोमप्रायश्चित्तादिकम्| तथा, अथवोक्तं-अथर्ववेदविहितं यागादिकं च, पूजितं-प्रशस्तमेतदत्रेत्यर्थः| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां चतुर्थे चिकित्सितस्थाने राजयक्ष्मादिचिकित्सितं नाम पञ्चमोऽध्यायः समाप्तः|| ५||
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सुहृद्दर्शनादीन्याह सुहृदां दर्शनमिति| सङ्ग्रहे (चि.अ. ७) "इष्ट्या यया च चन्द्रस्य राजयक्ष्मा पुरा जितः| पुरोहितः प्रयुञ्जीत वेदोक्तां तां जितात्मनः|| अजा वा पर्युपासीत षण्मासानुटजे वसन्| तत्पयोमूत्रविड्वृत्तिपरिषेकप्रघर्षणः|| ताभिः परिवृतः स्वप्यात्तच्छाकृद्रेणुसंस्तरे| एतद्रसायनं श्रेष्ठं रोगराजस्य नाशनम्||" इति| इति हेमाद्रिटीकायामायुर्वेदरसायने| राजयक्ष्मप्रकरणं सामस्त्येन निरूपितम्|| ५||