Adhikarana १ (१-२) · Śloka २
अथातः प्रतिश्यायप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
Hide commentary
अथात इत्यादि| वातं प्रति अभिमुखं श्यायो गमनं कफादीनां यत्र स प्रतिश्यायः| प्रतिषेधः चिकित्सितम्||१-२||
Adhikarana १ (१-२) · Śloka २
अथातः प्रतिश्यायप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथात इत्यादि| वातं प्रति अभिमुखं श्यायो गमनं कफादीनां यत्र स प्रतिश्यायः| प्रतिषेधः चिकित्सितम्||१-२||
Adhikarana २ (३) · Śloka ३
नारीप्रसङ्गः शिरसोऽभितापो धूमो रजः शीतमतिप्रतापः | सन्धारणं मूत्रपुरीषयोश्च सद्यः प्रतिश्यायनिदानमुक्तम् ||३||
🔊 Audio coming soon
तच्च चिकित्सितमलक्षितानां व्याधीनां न सम्भवति, अतः प्रतिश्यायलक्षणार्थं पूर्वं सद्योजनकमेव निदानं निर्दिशन्नाह- नारीप्रसङ्ग इत्यादि| नारीप्रसङ्गो नारीष्वतिशयेन प्रवृत्तिः| शिरः अभितप्यते येन स शिरोभितापः| (शिरोभितापो धूमादिः, रजोधूमचयाश्च नासाप्रविष्टा हेतवः)| केचिदमुं पाठं न पठन्ति; तन्न, यतः सर्वनिबन्धकारैरङ्गीकृतोऽयं पाठः||३||
Adhikarana ३ (४) · Śloka ४
चयं गता मूर्धनि मारुतादयः पृथक् समस्ताश्च तथैव शोणितम् | प्रकोप्यमाणा विविधैः प्रकोपणैर्नृणां प्रतिश्यायकरा भवन्ति हि ||४||
🔊 Audio coming soon
सद्योजनकं निदानमभिधाय चयादिक्रमेण| कालान्तरजनकमपि निदानमाह- चयमित्यादि| चयं गताः अर्थात् स्वे स्वे स्थाने सञ्चयं प्राप्ताः| मूर्धनीति मूर्धनि प्रतिश्यायकरा भवन्तीति योजनीयम्| यदि स्वे स्वे स्थाने चितास्तत् कथं मूर्धनि प्रतिश्यायकरा इत्याह- प्रकोप्यमाणा इत्यादि| विविधैः प्रकोपणैः बलवद्विग्रहादिभिः क्रोधादिभिर्दिवास्वप्नादिभिश्च| अन्ये तु मूर्धनि सञ्चयं प्राप्ता दोषा इति व्याख्यानयन्ति| ननु स्वस्थानवृद्धिः सञ्चयः, वातपित्तकफरक्तानां शिरसि स्थानं नास्ति, तत्कथं मूर्धनि वातादीनां सञ्चयः? सत्यं, ‘यो वायुर्वक्त्रसञ्चारी’ इत्यादिना वायोः शिरसि स्थानमुक्तं, पित्तस्य त्वग्दृष्टिश्चेति शिरसि स्थानद्वयं, श्लेष्मणः स्थानं शिरसि प्रसिद्धमेव, सिराणां सर्वगत्वाद्रक्तस्यापि शिरसि स्थानं, तस्मात् शिरसि सञ्चयं गता इति युक्तम्||४||
Adhikarana ४ (५) · Śloka ५
शिरोगुरुत्वं क्षवथोः प्रवर्तनं तथाऽङ्गमर्दः परिहृष्टरोमता | उपद्रवाश्चाप्यपरे पृथग्विधा नृणां प्रतिश्यायपुरःसराः स्मृताः ||५||
🔊 Audio coming soon
प्रतिश्यायस्य पूर्वरूपमाह- शिरोगुरुत्वमित्यादि| क्षवथोः प्रवर्तनं छिक्कायाः प्रवृत्तिः| अङ्गमर्दो वेदनाविशेषः| परिहृष्टरोमता उच्छूनरोमता, उद्धर्षितरोमाञ्च इति यावत्| पृथग्विधा उपद्रवा ज्वरारोचकादयः| पुरःसरा अग्रगामिनः, पूर्वरूपाणीत्यर्थः||५||
Adhikarana ५ (६) · Śloka ७
आनद्धा पिहिता नासा तनुस्रावप्रवर्तिनी | गलताल्वोष्ठशोषश्च निस्तोदः शङ्खयोस्तथा ||६|| स्वरोपघातश्च भवेत् प्रतिश्यायेऽनिलात्मके |७|
🔊 Audio coming soon
वातजप्रतिश्यायस्य लक्षणमाह- आनद्धा पिहितेत्यादि| आनद्धा आध्माता पूरितेव| पिहिता रजःशूकपूर्णेव||६||-
Adhikarana ६ (७-८) · Śloka ८
उष्णः सपीतकः स्रावो घ्राणात् स्रवति पैत्तिके ||७|| कृशोऽतिपाण्डुः सन्तप्तो भवत्तृष्णानि(भि)पीडितः | सधूमं सहसा वह्निं वमतीव च मानवः ||८||
🔊 Audio coming soon
पित्तप्रतिश्यायस्य लक्षणमाह- उष्ण इत्यादि| सपीतक ईषत्पीत इत्यर्थः| सधूममिति सधूममिव वह्निं नासया वमतीत्यर्थः| सहसा अकस्मात्||७-८||
Adhikarana ७ (९) · Śloka १०
कफः कफकृते घ्राणाच्छुक्लः शीतः स्रवेन्मुहुः | शुक्लावभासः शूनाक्षो भवेद्गुरुशिरोमुखः ||९|| शिरोगलौष्ठतालूनां कण्डूयनमतीव च |१०|
🔊 Audio coming soon
कफकृतप्रतिश्यायलिङ्गमाह- कफ इत्यादि| कफकृते प्रतिश्याये कफः स्रवेदिति सम्बन्धनीयम्||९||-
Adhikarana ८ (१०-११) · Śloka ११
भूत्वा भूत्वा प्रतिश्यायो योऽकस्माद्विनिवर्तते ||१०|| सम्पक्वो वाऽप्यपक्वो वा स सर्वप्रभवः स्मृतः | लिङ्गानि चैव सर्वेषां पीनसानां च सर्वजे ||११||
🔊 Audio coming soon
सान्निपातिकस्य लिङ्गं निर्दिशन्नाह- भूत्वेत्यादि| अकस्मात् कारणं विना| सर्वजे प्रतिश्याये सर्वेषां वातादिजानां प्रतिश्यायानां पीनसानां लिङ्गानि भवन्तीति योज्यम्| सान्निपातिकप्रतिश्यायोऽसाध्यः, विदेहोक्तत्वात्||१०-११||
Adhikarana ९ (१२-१३) · Śloka १४
रक्तजे तु प्रतिश्याये रक्तास्रावः प्रवर्तते | ताम्राक्षश्च भवेज्जन्तुरुरोघातप्रपीडितः ||१२|| दुर्गन्धोच्छ्वासवदनस्तथा गन्धान्न वेत्ति च | मूर्च्छन्ति चात्र कृमयः श्वेताः स्निग्धास्तथाऽणवः ||१३|| कृमिमूर्धविकारेण समानं चास्य लक्षणम् |१४|
🔊 Audio coming soon
रक्तजप्रतिश्यायस्य लक्षणमाह- रक्तजे इत्यादि| उरोघातस्तन्त्रान्तरोक्तलक्षणः तेन प्रकर्षेण पीडितः| तदेव तन्त्रान्तरोक्तलक्षणं दर्शयति,- “उरःक्षतं गुरु स्तब्धं पूतिपूर्णकफो रसः| सकासः सज्वरो ज्ञेय उरोघातः सपीनसः”- इति| मूर्च्छन्ति पतन्ति| अत्र रक्तजप्रतिश्याये| कृमयः सूक्ष्माः| कृमिमूर्धविकारेणेत्यादि| कृमिजस्य शिरोरोगस्य यल्लक्षणं तेन समानमस्य लक्षणमित्यर्थः| केचित् ‘मूर्च्छन्ति चात्र कृमयः श्वेताः स्निग्धास्तथाऽणवः’ इति पाठं रक्तजप्रतिश्यायलक्षणभिन्नं पठन्ति, व्याख्यानयन्ति च- अत्रेति एषु सर्वेष्वेव प्रतिश्यायेषु||१२-१३||-
Adhikarana १० (१४-१५) · Śloka १६
प्रक्लिद्यति पुनर्नासा पुनश्च परिशुष्यति ||१४|| मुहुरानह्यते चापि मुहुर्विव्रियते तथा | निःश्वासोच्छ्वासदौर्गन्ध्यं तथा गन्धान्न वेत्ति च ||१५|| एवं दुष्टप्रतिश्यायं जानीयात् कृच्छ्रसाधनम् |१६|
🔊 Audio coming soon
इदानीमेकदोषजेऽपि प्रतिश्याये दुरुपचारतो दोषान्तरप्रकोपाद्दुष्टिं गतस्य लिङ्गमाह- प्रक्लिद्यतीत्यादि||१४-१५||-
Adhikarana ११ (१६-१७) · Śloka १७
सर्व एव प्रतिश्याया नरस्याप्रतिकारिणः ||१६|| कालेन रोगजनना जायन्ते दुष्टपीनसाः | बाधिर्यमान्ध्यमघ्राणं घोरांश्च नयनामयान् | कासाग्निसादशोफांश्च वृद्धाः कुर्वन्ति पीनसाः ||१७||
🔊 Audio coming soon
इदानीं सर्वेषामेव प्रतिश्यायानामुपेक्षया मिथ्याहाराचारिणो नरस्य कालान्तरेण रोगान्तरारम्भकत्वं निर्दिशन्नाह- सर्व इत्यादि| सर्वे एव प्रतिश्यायाः कालेन रोगजनना भवन्ति, तथा त एव प्रतिश्यायाः क्रमेण दुष्टपीनसा जायन्ते| के ते रोगा इत्याह- बाधिर्यमित्यादि| वृद्धाः प्रतिश्याया बाधिर्यादीन् कुर्वन्तीति पिण्डार्थः| प्रतिश्यायानां पक्वता ‘पक्वं घनं चाप्यवलम्बमानं’ इत्यादिना ज्ञेया; एतद्विपर्ययेण चामता| केचिद्वृद्धसुश्रुतोक्तम्,- “अरुचिर्विरसं वक्त्रं नासास्रावो रुजाऽरतिः| शिरोगुरुत्वं क्षवथुर्ज्वरश्चामस्य लक्षणम्|| तनुत्वमामलिङ्गानां शिरोनासास्यलाघवम्| घनपीतकफत्वं च पक्वपीनसलक्षणम्”- इति प्रतिश्यायानामामपक्वलक्षणं पठन्ति||१६-१७||
Adhikarana १२ (१८) · Śloka १८
नवं प्रतिश्यायमपास्य सर्वमुपाचरेत् सर्पिष एव पानैः | स्वेदैर्विचित्रैर्वमनैश्च युक्तैः कालोपपन्नैरवपीडनैश्च ||१८||
🔊 Audio coming soon
इदानीं प्रतिश्यायानां सामान्यं चिकित्सितमाह- नवं प्रतिश्यायमित्यादि| अपास्य परित्यज्य| सर्वेषां प्रतिश्यायानां वातात्मकत्वात् सर्वेषामेव सर्पिःपानम्| कालोपपन्नैः आवस्थिककालयोग्यैः| अवपीडनैः नस्यभेदैः| केचिदत्र, ‘पीनसानां च सर्वेषां हेतुर्यस्मात् समीरणः| कफपित्ताधिकेऽप्यस्मात् मारुतं समुपक्रमेत्|| तस्मादभिष्यन्दमुदीर्यमाणमुपाचरेदादित एव धीमान्| घृतैः सहिङ्ग्वम्लकटूष्णसिद्धैः स्वेदैर्विचित्रैर्वमनैश्च तीक्ष्णैः|| कटुत्रिकं चित्रकतिन्तिडीकं तालीशपत्रं चविकाम्लसञ्ज्ञम्| विचूर्णितं जीरकचूर्णयुक्तमेलाच्छदत्वक्सुरभीकृतं च|| मिश्रं पुराणेन गुडेन दद्यात्तत् पीनसानां परिपाचनार्थम्| पक्वं गुडं चापि कटुत्रिकेण घृतप्रगाढं प्रलिहेत् सुखोष्णम्| सर्पिर्गुडाभ्यां कटुकैश्च पक्वान् खादेच्च शक्तूनपि नातिशीतान्| गुडाधिकं चार्द्रकमादिशन्ति युक्तोषितं तत् परिपाचनार्थम्| शिरोविरेकं वमनं च केचिदामे न दातव्यमिति ब्रुवन्ति”- इति पठन्ति| स च पाठो जेज्जटाचार्येण नाङ्गीकृतः||१८||
Adhikarana १३ (१९) · Śloka १९
अपच्यमानस्य हि पाचनार्थं स्वेदो हितोऽम्लैरहिमं च भोज्यम् | निषेव्यमाणं पयसाऽऽर्द्रकं वा सम्पाचयेदिक्षुविकारयोगैः ||१९||
🔊 Audio coming soon
नवप्रतिश्यायस्य पाकार्थं चिकित्सामाह- अपच्यमानस्येत्यादि| अहिमम् उष्णं, भोज्यं भोजनम्| अपरमपि पाकार्थं योगमाह- निषेव्यमाणमित्यादि| आर्द्रकं पयसा पाययेम् इक्षुविकारयोगैर्वा| इक्षुविकारा गुडादयः| केचित् ‘निषेव्यमाणं पयसाऽऽर्द्रकं वा सम्पाचयेत् तत् कटुकोपयोगैः’- इति पठन्ति, व्याख्यानयन्ति च- दुग्धेन सहार्द्रकरसः पेयः, अन्ये तु दुग्धेन सह नागरचूर्णं पेयमिति मन्यन्ते; कटुकोपयोगैः कटुद्रव्योपयोगैः| अस्याग्रे केचित् ‘ग्राम्याणि मांसानि दधीनि मद्यं माषान् कुलत्थान् लवणं कटूनि| अम्लं तथा चामकमूलकं च तथा धनत्वं तरुणः प्रयाति’- इति पठन्ति; स च न पठनीयः, सर्वनिबन्धकारैः परिहृतत्वात्||१९||
Adhikarana १४ (२०) · Śloka २०
पक्वं घनं चाप्यवलम्बमानं शिरोविरेकैरपकर्षयेत्तम् | विरेचनास्थापनधूमपानैरवेक्ष्य दोषान् कवलग्रहैश्च ||२०||
🔊 Audio coming soon
पक्वप्रतिश्यायस्य निबर्हणमाह- पक्वमित्यादि||२०||
Adhikarana १५ (२१) · Śloka २१
निवातशय्यासनचेष्टनानि मूर्ध्नो गुरूष्णं च तथैव वासः | तीक्ष्णा विरेकाः शिरसः सधूमा रूक्षं यवान्नं विजया च सेव्या ||२१||
🔊 Audio coming soon
पक्वप्रतिश्याये सेव्यमाह- निवातेत्यादि| आसनम् उपवेशनं, चेष्टनं क्रीडनम्| मूर्ध्नो मस्तकस्य| वासो वस्त्रम्| विजया हरीतकी||२१||
Adhikarana १६ (२२) · Śloka २२
शीताम्बुयोषिच्छिशिरावगाहचिन्तातिरूक्षाशनवेगरोधान् | शोकं च मद्यानि नवानि चैव विवर्जयेत् पीनसरोगजुष्टः ||२२||
🔊 Audio coming soon
सेव्यमुद्दिश्य परिहार्यमाह- शीतेत्यादि||२२||
Adhikarana १७ (२३) · Śloka २३
छर्द्यङ्गसादज्वरगौरवार्तमरोचकारत्यतिसारयुक्तम् | विलङ्घनैः पाचनदीपनीयैरुपाचरेत् पीनसिनं यथावत् ||२३||
🔊 Audio coming soon
इदानीं सोपद्रवस्य पक्वप्रतिश्यायस्यावस्थिकं चिकित्सासूत्रमाह- छर्दीत्यादि| अरतिः न क्वचिदवस्थितिश्चेतसः||२३||
Adhikarana १८ (२४) · Śloka २४
बहुद्रवैर्वातकफोपसृष्टं प्रच्छर्दयेत् पीनसिनं वयःस्थम् | उपद्रवांश्चापि यथोपदेशं स्वैर्भेषजैर्भोजनसंविधानैः | जयेद्विदित्वा मृदुतां गतेषु प्राग्लक्षणेषूक्तमथादिशेच्च ||२४||
🔊 Audio coming soon
पक्वप्रतिश्याये वमनावस्थां निर्दिशन्नाह- बहुद्रवैरित्यादि| वातकफोपसृष्टं पीनसिनं बहुद्रवैर्वामयेदिति पिण्डार्थः| वयःस्थं तरुणम्| वान्ते सति किं कुर्यादित्याह- उपद्रवानित्यादि| यथोपदेशं यथाकथितम्| वक्ष्यमाणचिकित्सायाः कालमुद्दिशन्नाह- मृदुतामित्यादि| मृदुतां गतेषु अल्पीभूतेषु, प्राग्लक्षणेषु आमप्रतिश्यायलक्षणेषु, उक्तं वक्ष्यमाणं ‘वातिके तु प्रतिश्याये पिबेत्’ इत्यादिकं विधानमित्यर्थः| केचित् ‘विदित्वा मृदुतां तु तेषां प्राग्लक्षणानां विधिमादिशेच्च’ इति पठन्ति||२४||
Adhikarana १९ (२५) · Śloka २६
वातिके तु प्रतिश्याये पिबेत् सर्पिर्यथाक्रमम् | पञ्चभिर्लवणैः सिद्धं प्रथमेन गणेन च ||२५|| नस्यादिषु विधिं कृत्स्नमवेक्षेतार्दितेरितम् |२६|
🔊 Audio coming soon
वातिकप्रतिश्यायस्य चिकित्सामाह- वातिक इत्यादि| यथाक्रमं स्नेहपानक्रमेणेत्यर्थः| प्रथमो गणो विदारिगन्धादिः| कृत्स्नं समस्तम्| अर्दितेरितं अर्दितचिकित्सितोक्तम्||२५||-
Adhikarana २० (२६-२८) · Śloka २८
पित्तरक्तोत्थयोः पेयं सर्पिर्मधुरकैः शृतम् ||२६|| परिषेकान् प्रदेहांश्च कुर्यादपि च शीतलान् | श्रीसर्जरसपत्तङ्गप्रियङ्गुमधुशर्कराः ||२७|| द्राक्षामधूलिकागोजीश्रीपर्णीमधुकैस्तथा | युज्यन्ते कवलाश्चात्र विरेको मधुरैरपि ||२८||
🔊 Audio coming soon
पित्तरक्तकृतयोः प्रतिश्यायोश्चिकित्सामाह- पित्तरक्तोत्थयोरित्यादि| मधुरकैः काकोल्यादिभिः| केचित् ‘पित्तरक्तोत्थयोस्तिक्तैः कषायमधुरैर्घृतम्’ इति पठन्ति, व्याख्यानयन्ति च- तिक्तानि पटोलादीनि| परिषेकानित्यादि| प्रदेहाः प्रलेपाः| श्रीरिति श्रीवेष्टकः नवनीतधूपः, ‘गुग्गुली’ इति लोके, सर्जरसो राला, पत्तङ्गं रक्तचन्दनं; मधुलिका गुडूची, मर्कटतृणमपरे, गोजी गोजिह्विका, श्रीपर्णी काश्मीरी| कवला गण्डूषभेदाः| अत्रेति पित्तरक्तोत्थयोः प्रतिश्याययोरित्यर्थः| मधुरैः द्राक्षारग्वधमधुशर्करादिभिः||२६-२८||
Adhikarana २१ (२९) · Śloka ३०
धवत्वक्त्रिफलाश्यामातिल्वकैर्मधुकेन च | श्रीपर्णीरजनीमिश्रैः क्षीरे दशगुणे पचेत् ||२९|| तैलं कालोपपन्नं तन्नस्यं स्यादनयोर्हितम् |३०|
🔊 Audio coming soon
पित्तरक्तकृतयोः प्रतिश्याययोर्नस्यार्थं तैलमाह- धवेत्यादि| धवत्वगादिकल्कैस्तैलचतुर्थांशैर्दशगुणे क्षीरे तैलं पचनीयम्| श्यामा त्रिवृत्, तिल्वकः पट्टिकारोध्रः| कालोपपन्नं निरामताकालयोग्यम्| अनयोः पित्तरक्तोत्थयोः प्रतिश्याययोः||२९||-
Adhikarana २२ (३०-३३) · Śloka ३३
कफजे सर्पिषा स्निग्धं तिलमाषविपक्वया ||३०|| यवाग्वा वामयेद्वान्तः कफघ्नं क्रममाचरेत् | उभे बले बृहत्यौ च विडङ्गं सत्रिकण्टकम् ||३१|| श्वेतामूलं सदाभद्रां वर्षाभूं चात्र संहरेत् | तैलमेभिर्विपक्वं तु नस्यमस्योपकल्पयेत् ||३२|| सरलाकिणिहीदारुनिकुम्भेङ्गुदिभिः कृताः | वर्तयश्चोपयोज्याः स्युर्धूमपाने यथाविधि ||३३||
🔊 Audio coming soon
कफजप्रतिश्यायचिकित्सामाह- कफजे इत्यादि| तिलमाषविपक्वया यवाग्वा कृसरया वामनीयद्रव्यसिद्धया वामयेत्| वान्तश्च कफघ्नं क्रममन्नसंसर्जनाख्यमाचरेत्| उभे इत्यादि| द्विबलादिभिः कल्कीकृतैस्तैलं सिद्धं नस्ये हितम्| त्रिकण्टकोगोक्षुरकः| श्वेता श्वेतस्यन्दः| सदाभद्रा काश्मरी| सरलेत्यादि| सरला त्रिवृत्, किणिही कटभी, दारु देवदारु, निकुम्भा दन्ती||३०-३३||
Adhikarana २३ (३४-३५) · Śloka ३५
सर्पींषि कटुतिक्तानि तीक्ष्णधूमाः कटूनि च | भेषजान्युपयुक्तानि हन्युः सर्वप्रकोपजम् ||३४|| रसाञ्जने सातिविषे मुस्तायां भद्रदारुणि | तैलं विपक्वं नस्यार्थे विदध्याच्चात्र बुद्धिमान् ||३५||
🔊 Audio coming soon
सान्निपातिकप्रतिश्यायचिकित्सामाह- सर्पिंषीत्यादि| सर्पीषि घृतानि| कटुतिक्तानि कटुतिक्तद्रव्यसिद्धानीत्यर्थः| कटूनि चेति चकारेण प्रत्येकवातादियुक्ता क्रियाऽप्यनुक्ता समुच्चीयते| रसाञ्जने इत्यादि| अत्रेति सान्निपातिकप्रतिश्याये इत्यर्थः||३४-३५||
Adhikarana २४ (३६-३७) · Śloka ३८
मुस्ता तेजोवती पाठा कट्फलं कटुका वचा | सर्षपाः पिप्पलीमूलं पिप्पल्यः सैन्धवाग्निकौ ||३६|| तुत्थं करञ्जबीजं च लवणं भद्रदारु च | एतैः कृतं कषायं तु कवले सम्प्रयोजयेत् ||३७|| हितं मूर्धविरेके च तैलमेभिर्विपाचितम् |३८|
🔊 Audio coming soon
मुस्तेत्यादि| तेजोवती काकमर्दनिका, अग्निकः अजमोदा| मुस्तादिभिः कृतः कषायः सान्निपातिके प्रतिश्याये हितः; सर्वेषु प्रतिश्यायेषु हित इत्यन्ये||३६-३७||-
Adhikarana २५ (३८-४१) · Śloka ४१
क्षीरमर्धजले क्वाथ्यं जाङ्गलैर्मृगपक्षिभिः ||३८|| पुष्पैर्विमिश्रं जलजैर्वातघ्नैरौषधैरपि | हिमे क्षीरावशिष्टेऽस्मिन् घृतमुत्पाद्य यत्नतः ||३९|| सर्वगन्धसितानन्तामधुकं चन्दनं तथा | आवाप्य विपयेद्भूयो दशक्षीरं तु तद्घृतम् ||४०|| नस्ये प्रयुक्तमुद्रिक्तान् प्रतिश्यायान् व्यपोहति | यथास्वं दोषशमनैस्तैलं कुर्याच्च यत्नतः ||४१||
🔊 Audio coming soon
क्षीरमित्यादि| क्षीरं जाङ्गलमांसादिभ्योऽष्टगुणं, अर्धजले क्षीरादर्धं जलं, जाङ्गलैः मृगपक्षिभिः एणादिभिर्लावादिभिश्च, जलजैः पुष्पैः नीलोत्पलादिभिः, वातघ्नैः विदारीगन्धादिभिः, घृतमुत्पाद्य ‘तद्दुग्धं मथित्वा’ इति वाक्यशेषः| सर्वगन्धा एलादिपरिपठिताः| सिता शर्करा, अनन्ता उत्पलसारिवा, चन्दनं रक्तचन्दनं, आवाप्य प्रक्षिप्य| तद्घृतं क्षीरमथनाद्यदुत्पन्नं घृतं, प्रतिश्यायान् सर्वान् अपोहति स्फोटयति| दोषशमनैः वातपित्तश्लेष्महरद्रव्यगणैः| यथास्वं यथात्मीयम्| इदमेव तैलं सर्वेषामेव प्रतिश्यायानाम्||३८-४१||
Adhikarana २६ (४२) · Śloka ४२
समूत्रपित्ताश्चोद्दिष्टाः क्रियाः कृमिषु योजयेत् | यापनार्थं कृमिघ्नानि भेषजानि च बुद्धिमान् ||४२||
🔊 Audio coming soon
रक्तप्रतिश्याये कृमिसम्भवो दर्शितः, अतस्तेषामेव कृमीणां यापनार्थं चिकित्सामाह- समूत्रेत्यादि| कृमिघ्ना याः क्रिया उद्दिष्टास्ता गोमूत्रपित्तयुक्ता यापनार्थं कर्तव्याः; तथा कृमिघ्नानि भेषजानि सुरसादीनि च कर्तव्यानि| बुद्धिमान् ऊहापोहवान् वैद्यः| ये तु सर्वेषामेव प्रतिश्यायानां कृमिसम्भवत्वं मन्यन्ते तेऽमुं श्लोकमीदृशं व्याख्यानयन्ति- प्रत्येकं वातादिप्रतिश्याये याः क्रिया उद्दिष्टास्ता एव गोमूत्रपित्तयुक्ता यथास्वं कृमिषु योजयेत्||४२||
Adhikarana पुष्पिका · Śloka २४
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे प्रतिश्यायप्रतिषेधो नाम चतुर्विंशतितमोऽध्यायः ||२४||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे चतुर्विंशोध्यायः||२४||