Adhikarana १ (१-२) · Śloka २
अथातो नासागतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
Show commentary
अथात इत्यादि| गतशब्द आश्रयवचनः, तेन नासाश्रितरोगविज्ञानमधिकृत्य कृतोऽध्यायो नासागतरोगविज्ञानीयाध्यायः||१-२||
Adhikarana २ (३-५) · Śloka ५
अपीनसः पूतिनस्यं नासापाकस्तथैव च |
तथा शोणितपित्तं च पूयशोणितमेव च ||३||
क्षवथुर्भ्रंशथुर्दीप्तो नासानाहः परिस्रवः |
नासाशोषेण सहिता दशैकाश्चेरिता गदाः ||४||
चत्वार्यर्शांसि चत्वारः शोफाः सप्तार्बुदानि च |
प्रतिश्यायाश्च ये पञ्च वक्ष्यन्ते सचिकित्सिताः |
एकत्रिंशन्मितास्ते तु नासारोगाः प्रकीर्तिताः ||५||
Show commentary
नासारोगान् नामभिः सङ्ख्यया चाह- अपीनस इत्यादि| सङ्ख्येयनिर्देशादेव सङ्ख्यायां लब्धायां भूयः सङ्ख्याकरणं नियमार्थं; तेन विदेहोक्तसङ्ख्यया अधिकत्वं मा भूत्| ‘अपीनसः पूतिपाकौ पित्तासृक् पूयशोणितम्’ इति केचित् पठन्ति||३-५||
Adhikarana ३ (६) · Śloka ७
आनह्यते यस्य विधूप्यते च प्रक्लिद्यते शुष्यति चापि नासा |
न वेत्ति यो गन्धरसांश्च जन्तुर्जुष्टं व्यवस्येत्तमपीनसेन ||६||
तं चानिलश्लेष्मभवं विकारं ब्रूयात् प्रतिश्यायसमानलिङ्गम् |७|
Show commentary
अपीनसलक्षणमाह- आनह्यत इत्यादि| आनह्यते कफेन पित्तशोषितेन आनह्यत इव| विधूप्यते धूमायत इव, पित्तात्; प्रक्लिद्यते आर्द्रीभवति कफात्; शुष्यति पित्तात्| गन्धरसान् गन्धान् रसांश्चेत्यर्थः; अन्ये तु गन्धस्य रसा गन्धरसाः, रसतेर्गत्यर्थत्वात्; याथातथ्येन गन्धं जानातीत्यर्थः| व्यवस्येत् जानीयात्| केचिदमुं पाठमन्यथा पठन्ति, स चादर्शनान्न लिखितः||६||-
Adhikarana ४ (७) · Śloka ८
दोषैर्विदग्धैर्गलतालुमूले संवासितो यस्य समीरणस्तु ||७||
निरेति पूतिर्मुखनासिकाभ्यां तं पूतिनासं प्रवदन्ति रोगम् |८|
Show commentary
पूतिनासस्य लक्षणमाह- दोषैरित्यादि| रक्तमपि दोषत्वेन विवक्षितं, तेन दोषैरिति बहुवचनम्| विदग्धैः मूर्च्छितैः स्वरूपप्रच्युतैर्वा| संवासितः पित्तश्लेष्मरक्तैरात्मविकृतिगन्धेन मिश्रीकृतः| निरेति निर्गच्छति, पूतिः शटितगन्धो वायुः||७||-
Adhikarana ५ (८) · Śloka ९
घ्राणाश्रितं पित्तमरूंषि कुर्याद्यस्मिन् विकारे बलवांश्च पाकः ||८||
तं नासिकापाकमिति व्यवस्येद्विक्लेदकोथावपि यत्र दृष्टौ |९|
Show commentary
नासापाकस्य लक्षणमाह- घ्राणाश्रितमित्यादि| अरूंषि व्रणान्| विक्लेद आर्द्रभावः, कोथः पूतिभावः, एतौ यत्र यस्मिन् विकारे, दृष्टौ दर्शनं गतौ||८||-
Adhikarana ६ (९) · Śloka ९
चतुर्विधं द्विप्रभवं द्विमार्गं वक्ष्यामि भूयः खलु रक्तपित्तम् ||९||
Show commentary
रक्तपित्तलक्षणमनागतावेक्षणेन निर्दिशन्नाह- चतुर्विधमित्यादि| चतुर्विधं वातपित्तकफसन्निपातात्मकम्| द्विप्रभवं द्वौ प्रभवौ यकृत्प्लीहानौ यस्य तं तथा; अन्ये तु स्निग्धरूक्षोष्णभेदेन द्विरुत्पत्तिकारणं मन्यन्ते; अपरे तु द्विप्रभवमामाशयपक्वाशयप्रभवमाहुः| द्विमार्गम् अधरोत्तरमार्गद्वयम्||९||
Adhikarana ७ (१०) · Śloka १०
दोषैर्विदग्धैरथवाऽपि जन्तोर्ललाटदेशेऽभिहतस्य तैस्तु |
नासा स्रवेत् पूयमसृग्विमिश्रं तं पूयरक्तं प्रवदन्ति रोगम् ||१०||
Show commentary
पूयरक्तं दोषागन्तुनिमित्तं दर्शयन्नाह- दोषैरित्यादि| विदग्धैः पित्तरक्ताधिक्याद्विरुद्धां परिणतिं प्राप्तैः| ललाटाभिघातोऽपि विरुद्धपाकं प्राप्तो मन्तव्यः||१०||
Adhikarana ८ (११) · Śloka १२
घ्राणाश्रिते मर्मणि सम्प्रदुष्टे यस्यानिलो नासिकया निरेति ||११||
कफानुयातो बहुशः सशब्दस्तं रोगमाहुः क्षवथुं विधिज्ञाः |१२|
Show commentary
क्षवथुरपि दोषजश्चागन्तुजश्च, तत्र पूर्वं दोषजमेव निर्दिशन्नाह- घ्राणेत्यादि| घ्राणाश्रिते मर्मणि शृङ्गाटकाख्ये; ‘घ्राणाश्रिते मर्मणि’ इत्यत्र ‘घ्राणाश्रिते श्लेष्मणि’ इति केचित् पठन्ति||११||-
Adhikarana ९ (१२) · Śloka १३
तीक्ष्णोपयोगादतिजिघ्रतो वा भावान् कटूनर्कनिरीक्षणाद्वा ||१२||
सूत्रादिभिर्वा तरुणास्थिमर्मण्युद्घाटितेऽन्यः क्षवथुर्निरेति |१३|
Show commentary
आगन्तुजं क्षवथुमाह- तीक्ष्णोपयोगादित्यादि| अतिजिघ्रतः आघ्रायतः| भावान् द्रव्याणि| तरुणास्थिमर्म नासावंशास्थिमर्म शृङ्गाटकसञ्ज्ञम्| उद्घाटिते ऊर्ध्वं चालिते||१२||-
Adhikarana १० (१३) · Śloka १४
प्रभ्रश्यते नासिकयैव यश्च सान्द्रो विदग्धो लवणः कफस्तु ||१३||
प्राक् सञ्चितो मूर्धनि पित्ततप्तस्तं भ्रंशथुं व्याधिमुदाहरन्ति |१४|
Show commentary
भ्रंशथोर्लक्षणमाह- प्रभ्रश्यत इत्यादि| प्रभ्रश्यते अत्यर्थमधः पतति नासिकयैव, न मुखेन||१३||-
Adhikarana ११ (१४) · Śloka १५
घ्राणे भृशं दाहसमन्विते तु विनिःसरेद्धूम इवेह वायुः ||१४||
नासा प्रदीप्तेव च यस्य जन्तोर्व्याधिं तु तं दीप्तमुदाहरन्ति |१५|
Show commentary
दीप्तलक्षणमाह- घ्राणे भृशमित्यादि| विनिःसरेत् निर्याति| वायुः निश्वासः| प्रदीप्तेव ज्वलितेव नासा स्यात्||१४||-
Adhikarana १२ (१५) · Śloka १६
कफावृतो वायुरुदानसञ्ज्ञो यदा स्वमार्गे विगुणः स्थितः स्यात् ||१५||
घ्राणं वृणोतीव तदा स रोगो नासाप्रतीनाह इति प्रदिष्टः |१६|
Show commentary
नासाप्रतीनाहलक्षणमाह- कफावृत इत्यादि| नासा प्रतिनह्यते बध्यत इव वातेनेति नासाप्रतीनाहः||१५||-
Adhikarana १३ (१६) · Śloka १७
अजस्रमच्छं सलिलप्रकाशं यस्याविवर्णं स्रवतीह नासा ||१६||
रात्रौ विशेषेण हि तं विकारं नासापरिस्रावमिति व्यवस्येत् |१७|
Show commentary
नासापरिस्रावमाह- अजस्रमच्छमित्यादि| अजस्रम् अनवरतम्| अविवर्णम् अविशिष्टवर्णम्| अत्र रोगे स्रावः शृङ्गाटकाख्यस्रोतसि प्रविलायितात् कफात्| व्यवस्येत् जानीयात्||१६||-
Adhikarana १४ (१७) · Śloka १८
घ्राणाश्रिते श्लेष्मणि मारुतेन पित्तेन गाढं परिशोषिते च ||१७||
समुच्छ्वसित्यूर्ध्वमधश्च कृच्छ्राद्यस्तस्य नासापरिशोष उक्तः |१८|
Show commentary
नासाशोषलक्षणमाह- घ्राणाश्रिते इत्यादि| गाढम् अतिशयेन||१७||-
Adhikarana १५ (१८) · Śloka १९
दोषैस्त्रिभिस्तैः पृथगेकशश्च ब्रूयात्तथाऽर्शांसि तथैव शोफान् ||१८||
शालाक्यसिद्धान्तमवेक्ष्य चापि सर्वात्मकं सप्तममर्बुदं तु |१९|
Show commentary
इदानीमुक्तानामर्शआदीनां सामान्येन लक्षणमाह- दोषैरित्यादि| पृथग्दोषैः त्रीण्यर्शांसि, सन्निपातेनैकं, एवं चत्वार्यर्शांसि| तथैव शोफानिति शोफा अपि चत्वार इत्यर्थः| शालाक्यसिद्धान्तमवेक्ष्येति ‘वातेन पित्तेन कफेन चापि’ इत्यादिना निदानस्थाने षडर्बुदानि निर्दिष्टानि, सप्तमं सर्वात्मकं शालाक्यतन्त्रे||१८||-
Adhikarana १६ (१९) · Śloka १९
रोगः प्रतिश्याय इहोपदिष्टः स वक्ष्यते पञ्चविधः पुरस्तात् ||१९||
Show commentary
प्रतिश्यायस्यानागतावेक्षणेन सङ्क्षेपार्थं लक्षणं निर्दिशन्नाह- रोग इत्यादि||१९||
Adhikarana १७ (२०) · Śloka २०
(नासास्रोतोगता रोगास्त्रिंशदेकश्च कीर्तिताः |२०|
Show commentary
ननु, सर्वाङ्गगतानां कुष्ठादीनामप्यत्र नासायां सम्भवोऽस्तीति नासारोगाणं सङ्ख्यातिरेकमाशङ्क्याह- नासास्रोतोगता रोगा इत्यादि| नासास्रोतसि गता एव ये रोगास्त एव मयैकत्रिंशदुक्ताः, न पुनरत्र नासायां ये भवन्ति|२०|-
Adhikarana १८ (२०) · Śloka २०
स्रोतःपथे यद्विपुलं कोशवच्चार्बुदं भवेत् ) ||२०||
Show commentary
नासागतशोफान् नासार्बुदलक्षणेन पृथक्कुर्वन्नाह- स्रोत इत्यादि| कोशः अन्तःपूरणवस्तु, यादृशमस्यान्तःपूरणवस्तु तादृशमन्तःपूरणकरं वस्तु शोथस्य नास्तीत्यर्थः||२०||
Adhikarana १९ (२१) · Śloka २१
शोफास्तु शोफविज्ञाना नासास्रोतोव्यवस्थिताः |
निदानेऽर्शांसि निर्दिष्टान्येवं तानि विभावयेत् ||२१||
Show commentary
शोफाः पुनः कीदृशा इत्याह- शोफा इत्यादि| शोफो विज्ञानं येषां ते शोफविज्ञानाः; अथवा प्रागुक्तशोफानामिव विज्ञानं येषामिति| निदानेऽर्शांसीत्यादि| एष पाठो द्विरुक्तिभयान्निबन्धकारैर्न पठितः||२१||
Adhikarana पुष्पिका · Śloka २२
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे नासागतरोगविज्ञानीयो नाम द्वाविंशोऽध्यायः ||२२||
Show commentary
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे द्वाविंशोऽध्यायः||२२||