Skip to content

. अश्मरीनिदानम्

Adhikarana १ (१-२) · Śloka

अथातोऽश्मरीणां निदानं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

Show commentary

अथेत्यादि| निदानं हेतुलक्षणनिर्देशः||१-२||

Adhikarana २ (३) · Śloka

चतस्रोऽश्मर्यो भवन्ति; श्लेष्माधिष्ठानाः; तद्यथा- श्लेष्मणा, वातेन, पित्तेन, शुक्रेण चेति ||३||

🔊 Audio coming soon

Show commentary

चतस्र इत्यादि| चतस्रोऽश्मर्यो भवन्तीति छेदः| तिस्र एव श्लेष्माधिष्ठानाः, शुक्राश्मरी तु शुक्राधिष्ठाना; अन्ये तु शुक्राश्मर्यपि श्लेष्माधिष्ठानैव, ‘शुक्रं तु सौम्यं’ (शा. ३) इति वचनात्| श्लेष्माधिष्ठानाः श्लेष्मोपादानकारणाः, श्लेष्माणमुपादाय भवन्तीत्यर्थः| चतस्रोऽश्मर्यो भवन्तीत्यस्य विवरणं कुर्वन्नाह- तद्यथेत्यादि||३||

Adhikarana ३ (४) · Śloka

तत्रासंशोधनशीलस्यापथ्यकारिणः प्रकुपितः श्लेष्मा मूत्रसम्पृक्तोऽनुप्रविश्य बस्तिमश्मरीं जनयति ||४||

🔊 Audio coming soon

Show commentary

तासां सम्प्राप्तिं दर्शयन्नाह- तत्रेत्यादि| मूत्रसम्पृक्तो मूत्रेण सहितः||४||

Adhikarana ४ (५-६) · Śloka

तासां पूर्वरूपाणि- ज्वरो बस्तिपीडारोचकौ मूत्रकृच्छ्रं बस्तिशिरोमुष्कशेफसां वेदना कृच्छ्रावसादो बस्तगन्धित्वं मूत्रस्येति ||५|| यथास्ववेदनावर्णं दुष्टं सान्द्रमथाविलम् | पूर्वरूपेऽश्मनः कृच्छ्रान्मूत्रं सृजति मानवः ||६||

🔊 Audio coming soon

Show commentary

तासां पूर्वरूपमाह- तासामित्यादि| बस्तिशिरः मूत्राशयोपरितनो भागः, मुष्कः अण्डं, शेफः पुंश्चिह्नम्| कृच्छ्रावसादो कष्टयुक्ताऽङ्गग्लानिः| बस्तिगन्धित्वं बृहत्तमच्छगलगन्धित्वम्| यथास्वं दोषानतिक्रमेण, वेदना वर्णश्च यस्मिन् मूत्रे तत्तथा| दुष्टं वातादिभिः| आविलं कलुषम्| अश्मनः अश्मर्याः||५-६||

Adhikarana ५ (७) · Śloka

अथ जातासु नाभिबस्तिसेवनीमेहनेष्वन्यतमस्मिन् मेहतो वेदना मूत्रधारासङ्गः सरुधिरमूत्रता मूत्रविकिरणं गोमेदकप्रकाशमत्याविलं ससिकतं विसृजति; धावनलङ्घनप्लवनपृष्ठयानोष्णाध्वगमनैश्चास्य वेदना भवन्ति ||७||

🔊 Audio coming soon

Show commentary

अथ सर्वासामपि सामान्यं लक्षणमाह- अथेत्यादि| जातास्विति सर्वास्वप्यश्मरीषु| सङ्गो निरोधः| मूत्रविकिरणमिति विकिरणं विक्षेप इतश्चेतश्च गमनम्| गोमेदको मणिः पीतः| ससिकतं वालुकासहितं, विसृजति विमुञ्चति, ‘मूत्रं’ इति शेषः| लङ्घनं परिखादीनां, प्लवनं प्रतरणम्, उष्णगमनं घर्मगमनम्, अध्वगमनं दीर्घमार्गगमनम्||७||

Adhikarana ६ (८) · Śloka

तत्र श्लेष्माश्मरी श्लेष्मलमन्नमभ्यवहरतोऽत्यर्थमुपलिप्याधः परिवृद्धिं प्राप्य बस्तिमुखमधिष्ठाय स्रोतो निरुणद्धि, तस्य मूत्रप्रतिघाताद्दाल्यते भिद्यते निस्तुद्यत इव च बस्तिर्गुरुः शीतश्च भवति; अश्मरी चात्र श्वेता स्निग्धा महती कुक्कुटाण्डप्रतीकाशा मधूकपुष्पवर्णा वा भवति, तां श्लैष्मिकीमिति विद्यात् ||८||

🔊 Audio coming soon

Show commentary

इदानीं श्लेष्माद्यश्मरीणां प्रत्येकं विशिष्टलक्षणमाह- तत्रेत्यादि| श्लेष्मलमन्नमभ्यवहरतः पुंसः श्लेष्माश्मरी स्रोतो निरुणद्धीति सम्बन्धः| उपलिप्य नवघटपङ्कन्यायेन| अधिष्ठाय आश्रित्य| दाल्यते विशीर्यत इव स्फुटतीवेत्यर्थः| भिद्यते विदीर्यत इव| निस्तुद्यते सूचिभिरिव||८||

Adhikarana ७ (९) · Śloka

पित्तयुतस्तु श्लेष्मा सङ्घातमुपगम्य यथोक्तां परिवृद्धिं प्राप्य बस्तिमुखमधिष्ठाय स्रोतो निरुणद्धि, तस्य मूत्रप्रतीघातादूष्यते चूष्यते दह्यते पच्यत इव बस्तिरुष्णवातश्च भवति; अश्मरी चात्र सरक्ता पीतावभासा कृष्णा भल्लातकास्थिप्रतिमा मधुवर्णा वा भवति, तां पैत्तिकीमिति विद्यात् ||९||

🔊 Audio coming soon

Show commentary

पित्तयुतस्त्वित्यादि| पित्तयुतः श्लेष्मा स्रोतो निरुणद्धीति सम्बन्धः| सङ्घातमुपगम्य काठिन्यं प्राप्येत्यर्थः| तस्य पुरुषस्य| मूत्रप्रतीघातात् मूत्रनिरोधात्| ऊष्यते समीपाग्निनैवोपतप्यते| चूष्यते आकृष्यत इव| दह्यते इव कक्षाग्निनेव| पच्यत इव क्षारेणेव, उत्क्वाथ्यत इवेत्येके| उष्णवात उत्तरतन्त्रे पठितो मूत्ररोगः| सरक्ता ईषद्रक्ता||९||

Adhikarana ८ (१०) · Śloka १०

वातयुतस्तु श्लेष्मा सङ्घातमुपगम्य यथोक्तां परिवृद्धिं प्राप्य बस्तिमुखमधिष्ठाय स्रोतो निरुणद्धि, तस्य मूत्रप्रतीघातात्तीव्रा वेदना भवति, तदाऽत्यर्थं पीड्यमानो दन्तान् खादति, नाभिं पीडयति, मेढ्रं प्रमृद्नाति, पायुं स्पृशति, विशर्धते, विदहति, वातमूत्रपुरीषाणि कृच्छ्रेण चास्य मेहतो निःसरन्ति; अश्मरी चात्र श्यावा परुषा विषमा खरा कदम्बपुष्पवत्कण्टकाचिता भवति, तां वातिकीमिति विद्यात् ||१०||

🔊 Audio coming soon

Show commentary

वातयुतस्त्वित्यादि| अत्रापि पूर्ववत् सम्बन्धः| दन्तान् खादति परस्परं दन्तपीडनं करोति| विशर्धते गुदेन कुत्सितं शब्दं करोति; केचित् ‘विशर्धते’ इत्यत्र ‘विवर्धते’ इति पठन्ति, व्याख्यानयन्ति च-मेढ्रं विमर्दनाद् विवर्धत इत्यर्थः| विदहति विदाहयुक्तं मेढ्रं भवति| मेहतो मुञ्चत इत्यर्थः| खरा कठिना||१०||

Adhikarana ९ (११) · Śloka ११

प्रायेणैतास्तिस्रोऽश्मर्यो दिवास्वप्नसमशनाध्यशनशीतस्निग्धगुरुमधुराहारप्रियत्वाद्विशेषेण बालानां भवन्ति; तेषामेवाल्पबस्तिकायत्वादनुपचितमांसत्वाच्च बस्तेः सुखग्रहणाहरणा भवन्ति | महतां तु शुक्राश्मरी शुक्रनिमित्ता भवति ||११||

🔊 Audio coming soon

Show commentary

प्रायेणेत्यादि| प्रायेणैतास्तिस्रोऽश्मर्यो बालानां भवन्तीति सम्बन्धः| कस्मादित्याह- विशेषेण दिवास्वप्नादिप्रियत्वात्तेषामिति; प्रायोग्रहणाद्यूनामपि बोधयति| तेषामेव बालानाम्| अल्पबस्तिकायत्वादिति अल्पबस्तित्वादल्पकायत्वाच्चेत्यर्थः| अल्पबस्तित्वादिति आयामेनाल्पत्वम्; अनुपचितबस्तिमांसत्वाच्च बस्तेरित्यनेन परिणाहेनाल्पत्वमुक्तम्| सुखग्रहणाहरणा इति सुखेन गृह्यन्ते सुखेनाह्रियन्ते चाश्मर्यः||११||

Adhikarana १० (१२) · Śloka १२

मैथुनविघातादतिमैथुनाद्वा शुक्रं चलितमनिर्गच्छद्विमार्गगमनादनिलोऽभितः सङ्गृह्य मेढ्रवृषणयोरन्तरे संहरति, संहृत्य चोपशोषयति; सा मूत्रमार्गमावृणोति , मूत्रकृच्छ्रं बस्तिवेदनां वृषणयोश्च श्वयथुमापादयति, पीडितमात्रे च तस्मिन्नेव प्रदेशे प्रविलयमापद्यते; तां शुक्राश्मरीमिति विद्यात् ||१२||

🔊 Audio coming soon

Show commentary

हेतुसम्प्राप्तिलक्षणानि शुक्राश्मर्या दर्शयन्नाह- मैथुनेत्यादि| सा अश्मरी| मैथुनविघातादतिमैथुनाद्वेति हेतुः| शुक्रं चलितमनिर्गच्छदित्यादिसम्प्राप्तिः| मूत्रकृच्छ्रं बस्तिवेदनामित्यादि लक्षणम्| मैथुनविघातादिति मैथुनकार्यस्य शुक्रस्य विघातात्| ‘अमैथुनात्’ इति केचित् पठन्ति; तत्र शुक्रबाहुल्यं शुक्रचलने हेतुः| अनिर्गच्छत् अनिःसरत्| ‘अनिर्गच्छन्’ इति केचित् पठन्ति; तत्र वायोर्विशेषणम्| विमार्गगमनादनिलोऽभितः सङ्गृह्येति विमार्गगमनात् उन्मार्गगमनात्, अनिलो वायुः, अभित उभयत ऊर्ध्वमधश्चेत्यर्थः, सङ्गृह्य विधार्य, मेढ्रवृषणयोरन्तरे बस्तिद्वारस्याध इत्यर्थः, संहरति वर्तुलीकरोति| वृषणयोश्चेति चकाराद्वङ्क्षणदेशेऽपि, दोषजासु त्वश्मरीषु वृषणशोफो नास्त्येव| प्रविलयमापद्यते अश्मरी निलीयतेऽल्पत्वात्; अन्ये तु पुनः ‘अश्मरीकृतो वृषणशोथः प्रविलयमापद्यते’ इत्याचक्षते||१२||

Adhikarana ११ (१३) · Śloka १३

भवन्ति चात्र- शर्करा सिकता मेहो भस्माख्योऽश्मरिवैकृतम् |१३|

🔊 Audio coming soon

Show commentary

भवन्ति चात्रेत्यादि| भस्माख्य इति मूत्रशुक्रनामा उत्तरतन्त्रे मूत्ररोगः| अश्मरीवैकृतम् अश्मरीविकारा उपद्रवा इत्यर्थः|१३|-

Adhikarana १२ (१३-१४) · Śloka १४

अश्मर्या शर्करा ज्ञेया तुल्यव्यञ्जनवेदना ||१३|| पवनेऽनुगुणे सा तु निरेत्यल्पा विशेषतः | सा भिन्नमूर्तिर्वातेन शर्करेत्यभिधीयते ||१४||

🔊 Audio coming soon

Show commentary

अश्मर्येत्यादि| अश्मर्या तुल्यव्यञ्जनवेदना शर्करा ज्ञेयेत्यर्थः | पवन इत्यादि| सा अश्मरी यदाऽल्पा स्यात्तदा वातेऽनुगुणे अनुकूले सति निरेति निर्गच्छति||१३-१४||

Adhikarana १३ (१५) · Śloka १६

हृत्पीडा सक्थिसदनं कुक्षिशूलं च वेपथुः | तृष्णोर्ध्वगोऽनिलः कार्ष्ण्यं दौर्बल्यं पाण्डुगात्रता ||१५|| अरोचकाविपाकौ तु शर्करार्ते भवन्ति च |१६|

🔊 Audio coming soon

Show commentary

शर्करालक्षणमाह- हृत्पीडेत्यादि| सक्थिसदनम् ऊरुग्लानिः||१५||-

Adhikarana १४ (१६-१७) · Śloka १७

मूत्रमार्गप्रवृत्ता सा सक्ता कुर्यादुपद्रवान् ||१६|| दौर्बल्यं सदनं कार्श्यं कुक्षिशूलमरोचकम् | पाण्डुत्वमुष्णवातं च तृष्णां हृत्पीडनं वमिम् ||१७||

🔊 Audio coming soon

Show commentary

अश्मर्या एव मूत्रमार्गगताया लक्षणं निर्दिशन्नाह- मूत्रमार्गेत्यादि| सा अश्मरी| सक्ता अनिर्गता| दौर्बल्यं बलहानिः| सदनम् अङ्गलानिः; ‘स्फुटनिका’ इत्यपरे| कार्श्यं मांसक्षयः||१६-१७||

Adhikarana १५ (१८-२३) · Śloka २४

नाभिपृष्ठकटीमुष्कगुदवङ्क्षणशेफसाम् | एकद्वारस्तनुत्वक्को मध्ये बस्तिरधोमुखः ||१८|| बस्तिर्बस्तिशिरश्चैव पौरुषं वृषणौ गुदः | एकसम्बन्धिनो ह्येते गुदास्थिविवराश्रिताः ||१९|| अलाब्वा इव रूपेण सिरास्नायुपरिग्रहः | मूत्राशयो मलाधारः प्राणायतनमुत्तमम् ||२०|| पक्वाशयगतास्तत्र नाड्यो मूत्रवहास्तु याः | तर्पयन्ति सदा मूत्रं सरितः सागरं यथा ||२१|| सूक्ष्मत्वान्नोपलभ्यन्ते मुखान्यासां सहस्रशः | नाडीभिरुपनीतस्य मूत्रस्यामाशयान्तरात् ||२२|| जाग्रतः स्वपतश्चैव स निःस्यन्देन पूर्यते | आमुखात्सलिले न्यस्तः पार्श्वेभ्यः पूर्यते नवः ||२३|| घटो यथा तथा विद्धि बस्तिर्मूत्रेण पूर्यते |२४|

🔊 Audio coming soon

Show commentary

इदानीमश्मर्या एवाधारस्य बस्तेः स्थानसंस्थानद्वाराणि निर्देष्टुमाह- नाभीत्यादि| नाभ्यादीनां मध्ये बस्तिरिति स्थानम्| एकद्वार अधोमुख इत्यनेनोपरि द्वाराभावं सूचयति| तनुत्वक्कः सूक्ष्मत्वक्| तनुत्वक्क इति वक्ष्यमाणं चालाब्वा इव रूपेणेति संस्थानम्| बस्तिप्रसङ्गाद्बस्तिसन्निहितानां चापरेषां स्थानमाह- बस्तिरित्यादि| पौरुषं मेढ्रम्| पुनर्बस्त्यवयवमाह- अलाब्वा इवेत्यादि| परिग्रह आश्रयः| मूत्राशयपर्यायो मलाधार इति| प्राणानामग्नीषोमादीनाम्, आयतनं स्थानम्| यथा च सर्वदाऽसावक्षीणमूत्रो भवति तथाऽऽह- पक्वाशयगता इत्यादि| ता नाड्यो मूत्रं तर्पयन्ति विवर्धयन्तीत्यर्थः| मूत्रवाहिन्यौ मूलधमन्यौ द्वे, तच्छाखाभूता दशधा शतधा सहस्रधा च विभिद्यन्त इति दर्शयन्नाह- सूक्ष्मत्वादित्यादि| आसां नाडीनाम्| याभिरेवायं सिरास्नायुभिरावृतस्ताभिरेवायं मूत्रेण पूर्यते इति दर्शयन्नाह- नाडीभिरित्यादि| आमाशयान्तरात् आमपक्वाशयान्तरात्| स बस्तिः| निःस्यन्देन उपस्नेहेन, पूर्यते| अधोमुखत्वेन बस्तेरनूर्ध्वमुखस्यापि पूरणमुपमानेनाह-आमुखादित्यादि| न्यस्तो धृतः| विद्धि जानीहि||१८-२३||-

Adhikarana १६ (२४) · Śloka २५

एवमेव प्रवेशेन वातः पित्तं कफोऽपि वा ||२४|| मूत्रयुक्तमुपस्नेहात् प्रविश्य कुरुतेऽश्मरीम् |२५|

🔊 Audio coming soon

Show commentary

मूत्रप्रवेशतुल्यमेव वातादीनामपि प्रवेशं दर्शयन्नाह- एवमेवेत्यादि| एवमेव प्रवेशेनेति पूर्वोक्तप्रवेशेनेत्यर्थः| उपस्नेहात् समीपक्लेदनात्||२४||-

Adhikarana १७ (२५-२६) · Śloka २७

अप्सु स्वच्छा(स्था)स्वपि यथा निषिक्तासु नवे घटे ||२५|| कालान्तरेण पङ्कः स्यादश्मरीसम्भवस्तथा | संहन्त्यापो यथा दिव्या मारुतोऽग्निश्च वैद्युतः ||२६|| तद्वद्बलासं बस्तिस्थमूष्मा संहन्ति सानिलः |२७|

🔊 Audio coming soon

Show commentary

ननु, द्रवरूपत्वात् सर्वेषां वायोश्चामूर्तत्वात् कथं घनता? तदाह-अप्स्वित्यादि| निषिक्तासु प्रक्षिप्तासु| पङ्कसमत्वेऽपि कथमश्मना साम्यमित्याह- संहन्तीत्यादि| यथा संहन्ति काठिन्यं करोति वर्षोपलान् करोतीत्यर्थः; कः काठिन्यं करोति? वायुर्वैद्युतोऽग्निश्च; काः कठिनाः करोति? आपः जलानि, दिव्या मेघजाः; तथा बलासं श्लेष्माणं बस्तिस्थं संहन्ति कठिनं करोति; कः? ऊष्मा पित्तमित्यर्थः; कथम्भूतः? सानिलः सवात इत्यर्थः||२५-२६||-

Adhikarana १८ (२७-२८) · Śloka २८

मारुते प्रगुणे बस्तौ मूत्रं सम्यक् प्रवर्तते | विकारा विविधाश्चापि प्रतिलोमे भवन्ति हि ||२७|| मूत्राघाताः प्रमेहाश्च शुक्रदोषास्तथैव च | मूत्रदोषाश्च ये केचिद्वस्तावेव भवन्ति हि ||२८||

🔊 Audio coming soon

Show commentary

बस्तिगतानामन्येषामपि विकाराणां वायुरेव हेतुरिति दर्शयन्नाह- मारुत इत्यादि| प्रगुणे अनुकूले; ‘अनुगुणे’ इति केचित् पठन्ति, तत्रापि स एवार्थः| प्रतिलोमे विगुणे | वाते विगुणे सति बस्तौ ये विकारास्तानेवाह- मूत्राघाता इत्यादि||२७-२८||

Adhikarana पुष्पिका · Śloka

इति सुश्रुतसंहितायां निदानस्थानेऽश्मरीनिदानां नाम तृतीयोऽध्यायः ||३||

🔊 Audio coming soon

Show commentary

इति श्रीडह्लणविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां निदानस्थाने तृतीयोऽध्यायः||३||