Skip to content

. सर्पदष्टविषविज्ञानीयकल्पः

Adhikarana १ (१-२) · Śloka

अथातः सर्पदष्टविषविज्ञानीयं कल्पं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

Hide commentary

जङ्गमविषाश्रयेषु महाविषत्वेन सर्पस्यैवात्र प्राधान्यात्तद्दष्टविज्ञानं प्रतिपादयितुकामः प्राह- अथात इत्यादि||१-२||

Adhikarana २ (३) · Śloka

धन्वन्तरिं महाप्राज्ञं सर्वशास्त्रविशारदम् | पादयोरुपसङ्गृह्य सुश्रुतः परिपृच्छति ||३||

🔊 Audio coming soon

Hide commentary

पादयोरुपसङ्गृह्य पादपतनं कृत्वेत्यर्थः||३||

Adhikarana ३ (४) · Śloka

सर्पसङ्ख्यां विभागं च दष्टलक्षणमेव च | ज्ञानं च विषवेगानां भगवन् ! वक्तुमर्हसि ||४||

🔊 Audio coming soon

Hide commentary

किं परिपृच्छतीत्याह- सर्पसङ्ख्यामित्यादि| सङ्ख्या गणना, विभागो विशेषभागः पृथक्करणम्| अर्हसि योग्यो भवसि||४||

Adhikarana ४ (५-८) · Śloka

तस्य तद्वचनं श्रुत्वा प्राब्रवीद्भिषजां वरः | असङ्ख्या वासुकिश्रेष्ठा विख्यातास्तक्षकादयः ||५|| महीधराश्च नागेन्द्रा हुताग्निसमतेजसः | ये चाप्यजस्रं गर्जन्ति वर्षन्ति च तपन्ति च ||६|| ससागरगिरिद्वीपा यैरियं धार्यते मही | क्रुद्धा निःश्वासदृष्टिभ्यां ये हन्युरखिलं जगत् ||७|| नमस्तेभ्योऽस्ति नो तेषां कार्यं किञ्चिच्चिकित्सया | ये तु दंष्ट्राविषा भौमा ये दशन्ति च मानुषान् ||८|| तेषां सङ्ख्यां प्रवक्ष्यामि यथावदनुपूर्वशः |९|

🔊 Audio coming soon

Hide commentary

तस्य तद्वचनमित्यादि| वासुकिश्रेष्ठा वासुकिः श्रेष्ठो येषां ते तथा| अस्ति नो तेषां कार्यं किञ्चिच्चिकित्सयेति तेषां तक्षकादीनां चिकित्सया किञ्चित् कार्यं नास्ति| ये तु दंष्ट्रेत्यादि| अनुपूर्वशः अनुक्रमेण||५-८||-

Adhikarana ५ (९-१२) · Śloka १३

अशीतिस्त्वेव सर्पाणां भिद्यते पञ्चधा तु सा ||९|| दर्वीकरा मण्डलिनो राजिमन्तस्तथैव च | निर्विषा वैकरञ्जाश्च त्रिविधास्ते पुनः स्मृताः ||१०|| दर्वीकरा मण्डलिनो राजिमन्तश्च पन्नगाः | तेषु दर्वीकरा ज्ञेया विंशतिः षट् च पन्नगाः ||११|| द्वाविंशतिर्मण्डलिनो राजिमन्तस्तथा दश | निर्विषा द्वादश ज्ञेया वैकरञ्जास्त्रयस्तथा ||१२|| वैकरञ्जोद्भवाः सप्त चित्रा मण्डलिराजिलाः |१३|

🔊 Audio coming soon

Hide commentary

अशीतिरित्यादि| सा अशीतिः| दर्वीकराः फणावन्तः, मण्डलिनः फणावर्जिता विविधमण्डलैश्चित्रिताः, राजिमन्तो रेखायुक्ताः फणावर्जिता ईषद्विषा गमालादयः, निर्विषा विषरहिताः दुन्दुभिगौराहिकादयः; केचित् `निर्’ शब्दमीषदर्थे व्याख्यानयन्ति, तेन निर्विषा ईषद्विषाः; यथा- अनुदरा कन्येति| वैकरञ्जाः सङ्कीर्णजाताः, पृथग्जातीयसर्पिणीपृथग्जातीयसर्पाभ्यां जाता वैकरञ्जाः | एष्वेव निर्विषवैकरञ्जयोरन्तर्भावात् कथमशीतिः पूर्यत इत्याह- तेष्वित्यादि| चित्रा मण्डलिराजिला वैकरञ्जोद्भवाः सप्त भवन्ति; तत्र मण्डलिनश्चत्वारः, राजिलास्त्रयः| अत्रायमेव पाठो न्याय्यः, जेज्जटगयदासप्रभृतिभिरङ्गीकृतत्वात्||९-१२||-

Adhikarana ६ (१३) · Śloka १४

पादाभिमृष्टा दुष्टा वा क्रुद्धा ग्रासार्थिनोऽपि वा ||१३|| ते दशन्ति महाक्रोधास्त्रिविधं भीमदर्शनाः |१४|

🔊 Audio coming soon

Hide commentary

सङ्क्षेपेण विभागं प्रतिपाद्य दष्टस्य दंशनपूर्वकत्वाद्दंशनलक्षणं प्रतिपादयितुकामो दंशस्य कारणानि निर्दिशन्नाह- पादाभिमृष्टा इत्यादि| अभिमृष्टा मर्दिताः, दुष्टाः स्वभावदुष्टाः, क्रुद्धाः कुपिताः, अपिशब्दोऽत्रानुक्तसमुच्चये, तेनात्यासन्नभीतशङ्कितक्रान्तादयो ग्राह्याः| ते दशन्ति महाक्रोधास्त्रिविधं भीमदर्शना इति सर्पा महाक्रोधाः प्रचण्डकोपाः, अत एव भीमदर्शनाः; त्रिविधं यथा भवत्येवं दशन्ति भक्षयन्ति||१३||-

Adhikarana ७ (१४-१९) · Śloka १९

सर्पितं रदितं चापि तृतीयमथ निर्विषम् | सर्पाङ्गाभिहतं केचिदिच्छन्ति खलु तद्विदः ||१४|| पदानि यत्र दन्तानामेकं द्वे वा बहूनि वा | निमग्नान्यल्परक्तानि यान्युद्वृत्य करोति हि ||१५|| चञ्चुमालकयुक्तानि वैकृत्यकरणानि च | सङ्क्षिप्तानि सशोफानि विद्यात्तत् सर्पितं भिषक् ||१६|| राज्यः सलोहिता यत्र नीलाः पीताः सितास्तथा | विज्ञेयं रदितं तत्तु ज्ञेयमल्पविषं च तत् ||१७|| अशोफमल्पदुष्टासृक् प्रकृतिस्थस्य देहिनः | पदं पदानि वा विद्यादविषं तच्चिकित्सकः ||१८|| सर्पस्पृष्टस्य भीरोर्हि भयेन कुपितोऽनिलः | कस्यचित् कुरुते शोफं सर्पाङ्गाभिहतं तु तत् ||१९||

🔊 Audio coming soon

Hide commentary

एतदेव दंशत्रैविध्यमुद्दिष्टं निर्दिशन्नाह- सर्पितमित्यादि| तेषां लक्षणमाह- पदानीत्यादि| पदानि क्षतानि| एकमित्यादि| पदेषु यथोत्तरं विषबाहुल्यम्| निमग्नानि अनुद्गतानि| यान्युद्वृत्य करोति हि यानि पदान्युद्वृत्य उन्मोठ्य सर्पः करोति| चञ्चुमालकयुक्तानीति उपरि पिडकासदृशैराचितानीत्यर्थः; गयी तु चञ्चुमालिकाः सर्पदष्टस्थानस्य पार्श्वे वटप्ररोहाग्रतुल्या विषोत्पन्ना अङ्कुरा भवन्तीति व्याख्यानयति| वैकृत्यकरणानि विकारभावविधायकानि| सङ्क्षिप्तानीत्यादि| सङ्क्षिप्तानि सूक्ष्माणि| सर्पितम् अत्यवगाढम्| राज्य इत्यादि| राज्यो रेखाः, रदितं विलिखितमनवगाढम्, अत एवाल्पविषम्| अशोफमित्यादि| प्रकृतिस्थस्येति कायवाक्चित्तेषु स्वेन भावेनावस्थितस्य| पदं पदानि वेति एकं पदं बहूनि वा पदानीत्यर्थः| सर्पस्पृष्टस्येत्यादि| तुशब्दश्चार्थे, तेन कण्टकादिविद्धेऽपि शङ्काविषं भवति||१४-१९||

Adhikarana ८ (२०-२१) · Śloka २१

व्याधितोद्विग्नदष्टानि ज्ञेयान्यल्पविषाणि तु | तथाऽतिवृद्धबालाभिदष्टमल्पविषं स्मृतम् ||२०|| सुपर्णदेवब्रह्मर्षियक्षसिद्धनिषेविते | विषघ्नौषधियुक्ते च देशे न क्रमते विषम् ||२१||

🔊 Audio coming soon

Hide commentary

सर्पावस्थाविशेषतोऽल्पविषत्वमुद्दिशन्नाह- व्याधितेत्यादि| दष्टानि भक्ष्यस्थानानि| विशिष्टदेवसेविते विशिष्टौषधिसेविते च देशेऽविषत्वमुद्दिशन्नाह- सुपर्णेत्यादि| सुपर्णो गरुडः| भूताः स्वनामप्रसिद्धाः||२०-२१||

Adhikarana ९ (२२-२४) · Śloka २४

रथाङ्गलाङ्गलच्छत्रस्वस्तिकाङ्कुशधारिणः | ज्ञेया दर्वीकराः सर्पाः फणिनः शीघ्रगामिनः ||२२|| मण्डलैर्विविधैश्चित्राः पृथवो मन्दगामिनः | ज्ञेया मण्डलिनः सर्पा ज्वलनार्कसमप्रभाः ||२३|| स्निग्धा विविधवर्णाभिस्तिर्यगूर्ध्वं च राजिभिः | चित्रिता इव ये भान्ति राजिमन्तस्तु ते स्मृताः ||२४||

🔊 Audio coming soon

Hide commentary

इदानीं चिकित्सोपयोगिदर्वीकरादिलिङ्गमुद्दिशन्नाह- रथाङ्गेत्यादि| रथाङ्गं चक्रं, लाङ्गलं हलं, धारिण इति यतो रथाङ्गादीनामाकृतिं धारयन्ति| मण्डलैरित्यादि| पृथवो विस्तीर्णाः||२२-२४||

Adhikarana १० (२५-२८) · Śloka २८

मुक्तारूप्यप्रभा ये च कपिला ये च पन्नगाः | सुगन्धयः सुवर्णाभास्ते जात्या ब्राह्मणाः स्मृताः ||२५|| क्षत्रियाः स्निग्धवर्णास्तु पन्नगा भृशकोपनाः | सूर्यचन्द्राकृतिच्छत्रलक्ष्म तेषां तथाऽम्बुजम् ||२६|| कृष्णा वज्रनिभा ये च लोहिता वर्णतस्तथा | धूम्राः पारावताभाश्च वैश्यास्ते पन्नगाः स्मृताः ||२७|| महिषद्वीपिवर्णाभास्तथैव परुषत्वचः | भिन्नवर्णाश्च ये केचिच्छूद्रास्ते परिकीर्तिताः ||२८||

🔊 Audio coming soon

Hide commentary

इदानीं ब्राह्मणादिजातिपरिज्ञानायाह- मुक्तारूप्येत्यादि| सूर्यादिवत्तेषां लक्ष्म चिह्नं, तथा अम्बुजः शङ्खः| तथा च वृद्धवाग्भटः- “भोगेऽर्धचन्द्रश्रीवत्सशङ्खचक्रहलाङ्किताः”- इति| द्वीपी चित्रकः||२५-२८||

Adhikarana ११ (२९) · Śloka ३१

कोपयन्त्यनिलं जन्तोः फणिनः सर्व एव तु | पित्तं मण्डलिनश्चापि कफं चानेकराजयः ||२९|| अपत्यमसवर्णाभ्यां द्विदोषकरलक्षणम् | ज्ञेयौ दोषैश्च दम्पत्यो... |३१|

🔊 Audio coming soon

Hide commentary

अपत्यमित्यादि| असमानवर्णाभ्यां सर्पसर्पिणीभ्यां यत् अपत्यं वैकरञ्जाख्यं, तद्द्विदोषकरलक्षणं ज्ञेयं; द्विदोषकराणि लक्षणानि यत्र तद्द्विदोषकरलक्षणं; एतेन वैकरञ्जस्य द्विदोषकर्तृत्वमुक्तम्| अपत्ये यौ द्विदोषौ तौ कयोरित्याह- ज्ञेयाविति|- ज्ञेयौ ज्ञातव्यौ| दम्पत्योः पितृमात्रोरित्यर्थः||२९||-

Adhikarana १२ (३०-३१) · Śloka ३१

...र्विशेषश्चात्र वक्ष्यते ||३०|| रजन्याः पश्चिमे यामे सर्पाश्चित्राश्चरन्ति हि | शेषेषूक्ता मण्डलिनो दिवा दर्वीकराः स्मृताः ||३१||

🔊 Audio coming soon

Hide commentary

एषां मध्ये के कस्मिन् काले विचरन्तीत्याह- विशेष इत्यादि| पश्चिमे यामे चतुर्थे प्रहर इत्यर्थः| चित्रा अत्र राजिमन्तः| शेषेषु प्रहरेषु `रजन्या एव’ इति शेषः||३०-३१||

Adhikarana १३ (३२) · Śloka ३२

दर्वीकरास्तु तरुणा वृद्धा मण्डलिनस्तथा | राजिमन्तो वयोमध्या जायन्ते मृत्युहेतवः ||३२||

🔊 Audio coming soon

Hide commentary

तेषां दर्वीकरादीनामुग्रविषत्वे वयोऽवस्थामुद्दिशन्नाह- दर्वीकरा इत्यादि| दर्वीकरादयो मृत्युहेतवो जायन्ते भवन्तीत्यर्थः||३२||

Adhikarana १४ (३३) · Śloka ३३

नकुलाकुलिता बाला वारिविप्रहताः कृशाः | वृद्धा मुक्तत्वचो भीताः सर्पास्त्वल्पविषाः स्मृताः ||३३||

🔊 Audio coming soon

Hide commentary

तेषामेवाल्पविषत्वे हेतुमाह- नकुलाकुलिता इत्यादि| नकुलेन आकुलिताः कदर्थिताः; वारिविप्रहता वारिणा जलेन विशेषेण प्रहता अभिभूताः; मुक्तत्वचो मुक्तकञ्चुकाः, तथा भीताः सर्पा अल्पविषा भवन्ति||३३||

Adhikarana १५ (३४) · Śloka ३४

तत्र, दर्वीकराः- कृष्णसर्पो, महाकृष्णः, कृष्णोदरः श्वेतकपोतो, महाकपोतो, बलाहको, महासर्पः, शङ्खकपालो , लोहिताक्षो, गवेधुकः, परिसर्पः, खण्डफणः, ककुदः, पद्मो, महापद्मो, दर्भपुष्पो, दधिमुखः, पुण्डरीको, भ्रूकुटीमुखो, विष्किरः, पुष्पाभिकीर्णो, गिरिसर्पः, ऋजुसर्पः, श्वेतोदरो, महाशिरा, अलगर्द, आशीविष इति (१); मण्डलिनस्तु- आदर्शमण्डलः, श्वेतमण्डलो, रक्तमण्डलः, चित्रमण्डलः, पृषतो, रोध्रपुष्पो, मिलिन्दको, गोनसो, वृद्धगोनसः, पनसो, महापनसो, वेणुपत्रकः, शिशुको मदनः, पालिन्दिरः, पिङ्गलः , तन्तुकः पुष्पपाण्डुः, षडङ्गो, अग्निको बभ्रुः, कषायः, कलुषः पारावतो, हस्ताभरणः, चित्रकः, एणीपद इति (२); राजिमन्तस्तु- पुण्डरीको राजिचित्रो, अङ्गुलराजिः, बिन्दुराजिः, कर्दमकः, तृणशोषकः, सर्षपकः श्वेतहनुः, दर्भपुष्पश्चक्रको, गोधूमकः, किक्किसाद इति (३); निर्विषास्तु- गलगोली, शूकपत्रो, अजगरो, दिव्यको, वर्षाहिकः, पुष्पशकली, ज्योतीरथः, क्षीरिकापुष्पको, अहिपताको, अन्धाहिको, गौराहिको, वृक्षेशय इति (४); वैकरञ्जास्तु त्रयाणां दर्वीकरादीनां व्यतिकराज्जाताः, तद्यथा- माकुलिः, पोटगलः, स्निग्धराजिरिति | तत्र, कृष्णसर्पेण गोनस्यां वैपरीत्येन वा जातो माकुलिः; राजिलेन गोनस्यां वैपरीत्येन वा जातः पोटगलः; कृष्णसर्पेण राजिमत्यां वैपरीत्येन वा जातः स्निग्धराजिरिति | तेषामाद्यस्य पितृवद्विषोत्कर्षो, द्वयोर्मातृवदित्येके (५) |३४|

🔊 Audio coming soon

Hide commentary

तज्जातमेव व्यतिकरं विवृण्वन्नाह- तत्र कृष्णसर्पेणेत्यादि| वैपरीत्येन वेति गोनसेन पुंसा कृष्णसर्पिण्यां स्त्रियामित्यर्थः| राजिलेनेत्यादि| वैपरित्यं पूर्वव्याख्यावज्ज्ञेयम्| कृष्णसर्पेणेत्यादि| एषां मध्ये येऽप्रसिद्धाः सर्पभेदास्ते सर्वे नानादेशवासिभ्यः सर्पहेलिकादिभ्यो ज्ञेयाः| तेषां व्यतिकरजानां समतया द्विविधत्वे प्राप्ते दम्पत्योरेकस्य विषमुत्कर्षं भवतीति दर्शयन्नाह- तेषामित्यादि| आद्यस्य माकुलेः, पितृवत् कृष्णसर्पवत्| द्वयोः पोटगलस्निग्धराजिकयोः; तत्र पोटगलस्य माता गोनसी, स्निग्धराजिकस्य माता राजिमती|(१-५)|३४|

Adhikarana १६ (३४) · Śloka ३४

त्रयाणां वैकरञ्जानां पुनर्दिव्येलकरोध्रपुष्पकराजिचित्रकपोटगलपुष्पाभिकीर्णदर्भपुष्पवेल्लितकाः सप्त; तेषामाद्यास्त्रयो राजिलवत्, शेषा मण्डलिवत्, एवमेतेषां सर्पाणामशीतिर्व्याख्याता ||३४||

🔊 Audio coming soon

Hide commentary

वैकरञ्जेभ्यस्त्रिभ्यो जातानां दिव्येलकप्रभृतीनां विषं केषामनुयायि भवतीति दर्शयन्नाह- त्रयाणामित्यादि||३४||

Adhikarana १७ (३५) · Śloka ३५

तत्र महानेत्रजिह्वास्यशिरसः पुमांसः, सूक्ष्मनेत्रजिह्वास्यशिरसः स्त्रियः, उभयलक्षणा मन्दविषा अक्रोधा नपुंसका इति ||३५||

🔊 Audio coming soon

Hide commentary

सर्पाणां पुरुषादिलक्षणमुद्दिशन्नाह- तत्रेत्यादि||३५||

Adhikarana १८ (३६) · Śloka ३६

तत्र सर्वेषां सर्पाणां सामान्यत एव दष्टलक्षणं वक्ष्यामः | किं कारणं? विषं हि निशितनिस्त्रिंशाशनिहुतवहदेश्यमाशुकारि मुहर्तमप्युपेक्षितमातुरमतिपातयति, न चावकाशोऽस्ति वाक्समूहमुपसर्तुं प्रत्येकमपि दष्टलक्षणेऽभिहिते सर्वत्र त्रैविध्यं भवति, तस्मात् त्रैविध्यमेव वक्ष्यामः; एतद्ध्यातुरहितमसम्मोहकरं च, अपि चात्रैव सर्वसर्पव्यञ्जनावरोधः ||३६||

🔊 Audio coming soon

Hide commentary

निशितनिस्त्रिंशः तीक्ष्णः खङ्गः, अशनिः वज्रं, हुतवहो वह्निः, देश्यं तुल्यं; आशुकारि शीघ्रव्यापकम्| अतिपातयति शीघ्रं मारयतीत्यर्थः| न चावकाश इत्यादि अवकाशः कालविलम्बः| उपसर्तुम् अनुसर्तुम्| प्रत्येकमपीत्यादि| तस्मात् प्रतिसर्पदष्टलक्षणं न कृतमिति भावः| एतत्त्रैविध्यमसम्मोहकरं चेति अभ्रान्तिजनकं, `वैद्यस्य’ इति शेषः;| तदुक्तं,- “मुह्यन्ति विस्तरे मन्दाः” इति||३६||

Adhikarana १९ (३७) · Śloka ३७

तत्र, दर्वीकरविषेण त्वङ्नयननखदशनवदनमूत्रपुरीषदंशकृष्णत्वं रौक्ष्यं शिरसो गौरवं सन्धिवेदना कटीपृष्ठग्रीवादौर्बल्यं जृम्भणं वेपथुः स्वरावसादो घुर्घुरको जडता शुष्कोद्गारः कासश्वासौ हिक्का वायोरूर्ध्वगमनं शूलोद्वेष्टनं तृष्णा लालास्रावः फेनागमनं स्रोतोऽवरोधस्तास्ताश्च वातवेदना भवन्ति; मण्डलिविषेण त्वगादीनां पीतत्वं शीताभिलाषः परिधूपनं दाहस्तृष्णा मदो मूर्च्छा ज्वरः शोणितागमनमूर्ध्वमधश्च मांसानामवशातनं श्वयथुर्दंशकोथः पीतरूपदर्शनमाशुकोपस्तास्ताश्च पित्तवेदना भवन्ति; राजिमद्विषेण शुक्लत्वं त्वगादीनां शीतज्वरो रोमहर्षः स्तब्धत्वं गात्राणामादंशशोफः सान्द्रकफप्रसेकश्छर्दिरभीक्ष्णमक्ष्णोः कण्डूः कण्ठे श्वयथुर्घुर्घुरक उच्छ्वासनिरोधस्तमःप्रवेशस्तास्ताश्च कफवेदना भवन्ति ||३७||

🔊 Audio coming soon

Hide commentary

दर्वीकरादिसर्पगणभेदानां सामान्यलक्षणोपदेशेन विशिष्टलक्षणमवबुध्यते, तत्सामान्यं त्रिविधलक्षणमुद्दिशन्नाह- तत्र दर्वीकरेत्यादि| दर्वीकरविषेण त्वङ्नखादिकृष्णत्वादिलक्षणानि भवन्तीति सम्बन्धः| स्वरावसादः स्वरभङ्गः, घुर्घुरको मार्जारशब्दानुकारी अव्यक्तो ध्वनिविशेषः, जडता निःस्पन्दता, शूलोद्वेष्टनं शूलेन कृत्वाऽङ्गमोटनं तास्ता वातवेदनाः तोदनभेदनादिकाः| मण्डलीत्यादि| परिधूपनं सर्वाङ्गसन्तापः, मदः पूगफलखादनेनेव मत्तत्वं, मांसानामवशातनं शटितत्वाद्गलनं, दंशकोथः दंशस्य पूतिभावः, पीतरूपदर्शनं सर्वं वस्तु पीताभं पश्यति, तास्ताश्च पित्तवेदना ऊषचोषादिकाः| राजिमद्विषेणेत्यादि| आदंशशोफ आसमन्ततो दंशस्य शोफा इत्यर्थः, प्रसेकः क्षरणं, घुर्घुरकः अव्यक्तः शब्दविशेषः, तम अन्धकारः; तास्ताः कण्ड्वाद्याः||३७||

Adhikarana २० (३८) · Śloka ३८

पुरुषाभिदष्ट ऊर्ध्वं प्रेक्षते, अधस्तात् स्त्रिया सिराश्चोत्तिष्ठन्ति ललाटे, नपुंसकाभिदष्टस्तिर्यक्प्रेक्षी भवति, गर्भिण्या पाण्डुमुखोध्मातश्च, सूतिकया कुक्षिशूलार्तः सरुधिरं मेहत्युपजिह्विका चास्य भवति, ग्रासार्थिनाऽन्नं काङ्क्षति, वृद्धेन चिरान्मन्दाश्च वेगाः, बालेनाशु मृदवश्च, निर्विषेणाविषलिङ्गं, अन्धाहिकेनान्धत्वमित्येके, ग्रसनात् अजगरः शरीरप्राणहरो न विषात् | तत्र सद्यःप्राणहराहिदष्टः पतति शास्त्राशनिहत इव भूमौ, स्रस्ताङ्गः स्वपिति ||३८||

🔊 Audio coming soon

Hide commentary

अधुना पुरुषाद्यभिदष्टलक्षणमाह- पुरुषाभिदष्ट इत्यादि| प्रेक्षते इति पूर्वस्मादधस्तादित्यनेन च सम्बन्धनीयम्| नपुंसकाभिदष्ट इत्यादि| सूतिका प्रसूता| मेहति मूत्रयति| वृद्धेन दष्टस्य चिरकालेन वेगास्ते च मन्दा भवन्ति| बालेनेत्यादि| अन्धेन अहिना दष्टस्यान्धत्वं च दृश्यते इत्येके, अन्ये पुनरविषप्रकरणादविष एवायमित्याहुः| अन्धाहिः जलबिलशायीति प्रसिद्धः, अपरे पुनरपरमेवान्धाहिमाहुः| ग्रसनादित्यादि| ग्रसनात् गिलनात्; शरीरप्राणहरः शरीरहरः प्राणहरश्च भवति, न विषात्||३८||

Adhikarana २१ (३९) · Śloka ३९

तत्र सर्वेषां सर्पाणां विषस्य सप्त वेगा भवन्ति | तत्र, दर्वीकराणां प्रथमे वेगे विषं शोणितं दूषयति, तत् प्रदुष्टं कृष्णतामुपैति, तेन कार्ष्ण्यं पिपीलिकापरिसर्पणमिव चाङ्गे भवति; द्वितीये मांसं दूषयति, तेनात्यर्थं कृष्णता शोफो ग्रन्थयश्चाङ्गे भवन्ति; तृतीये मेदो दूषयति, तेन दंशक्लेदः शिरोगौरवं स्वेदश्चक्षुर्ग्रहणं च; चतुर्थे कोष्ठमनुप्रविश्य कफप्रधानान् दोषान् दूषयति, तेन तन्द्राप्रसेकसन्धिविश्लेषा भवन्ति; पञ्चमेऽस्थीन्यनुप्रविशति प्राणमग्निं च दूषयति, तेन पर्वभेदो हिक्का दाहश्च भवति; षष्ठे मज्जानमनुप्रविशति ग्रहणीं चात्यर्थं दूषयति, तेन गात्राणां गौरवमतीसारो हृत्पीडा मूर्च्छा च भवति; सप्तमे शुक्रमनुप्रविशति व्यानं चात्यर्थं कोपयति कफं च सूक्ष्मस्रोतोभ्यः प्रच्यावयति, तेन श्लेष्मवर्तिप्रादुर्भावः कटीपृष्ठभङ्गः सर्वचेष्टाविघातो लालास्वेदयोरतिप्रवृत्तिरुच्छ्वासनिरोधश्च भवति | मण्डलिनां प्रथमे वेगे विषं शोणितं दूषयति, तत् प्रदुष्टं पीततामुपैति, तत्र परिदाहः पीतावभासता चाङ्गानां भवति; द्वितीये मांसं दूषयति, तेनात्यर्थं पीतता परिदाहो दंशे श्वयथुश्च भवति; तृतीये मेदो दूषयति, तेन पूर्ववच्चक्षुर्ग्रहणं तृष्णा दंशक्लेदः स्वेदश्च; चतुर्थे कोष्ठमनुप्रविश्य ज्वरमापादयति; पञ्चमे परिदाहं सर्वगात्रेषु करोति, षष्ठसप्तमयोः पूर्ववत् | राजिमतां प्रथमे वेगे विषं शोणितं दूषयति तत् प्रदुष्टं पाण्डुतामुपैति, तेन रोमहर्षः शुक्लावभासश्च पुरुषो भवति; द्वितीये मांसं दूषयति, तेन पाण्डुताऽत्यर्थं जाड्यं शिरःशोफश्च भवति; तृतीये मेदो दूषयति, तेन चक्षुर्ग्रहणं दंशक्लेदः स्वेदो घ्राणाक्षिस्रावश्च भवति; चतुर्थे कोष्ठमनुप्रविश्य मन्यास्तम्भं शिरोगौरवं चापादयति; पञ्चमे वाक्सङ्गं शीतज्वरं च करोति; षष्ठसप्तमयोः पूर्ववदिति ||३९||

🔊 Audio coming soon

Hide commentary

वेगो विषवेगो विषगतिः| तत्र दर्वीकराणामित्यादि| चक्षुर्ग्रहणं दृष्ट्यवरोधः| पञ्चमे इत्यादि| ग्रहणी पित्तधरा कला| पूर्ववदिति दर्वीकारविषस्य षष्ठसप्तमयोर्वेगयोर्यानि लक्षणानि तानि भवन्तीत्यर्थः | एवं राजिमतामपि षष्ठसप्तमवेगयोरतिदेशार्थो बोद्धव्यः||३९||

Adhikarana २२ (४०) · Śloka ४०

भवन्ति चात्र- धात्वन्तरेषु याः सप्त कलाः सम्परिकीर्तिताः | तास्वेकैकामतिक्रम्य वेगं प्रकुरुते विषम् ||४०||

🔊 Audio coming soon

Hide commentary

कुतः पुनः सप्तैव वेगा इत्याह- भवन्तीत्यादि| धात्वन्तरेषु धातुमध्येषु, धातुग्रहणमाशयोपलक्षणं; तेनायमर्थः- धात्वाशयान्तरमर्यादा याः कलाः सप्त प्रागुक्ता गर्भव्याकरणे तास्वेकैकामतिक्रम्य सप्तसु धातुषु सप्त वेगा भवन्ति| तद्यथा- रसरक्तयोरन्तरस्थां कलामतिक्रम्य रक्ते प्रथमवेगः, रक्तमांसयोरन्तरस्थां कलामतिक्रम्य द्वितीयः, मांसमेदसोरन्तरस्थां कलामतिक्रम्य तृतीयः, मेदःकफयोरन्तरस्थां कलामतिक्रम्य चतुर्थः, कफपुरीषयोरन्तरस्थां कलामतिक्रम्य पञ्चमः, पुरीषपित्तयोरन्तरस्थां कलामतिक्रम्य षष्ठः, पित्तशुक्रयोरन्तरस्थां कलामतिक्रम्य सप्तम इति| यैव कला पुरीषधरा सैवास्थिधरेति पञ्चमे अस्थन्यनुप्रविशतीत्यविरुद्धं; एवं यैव पित्तधरा सैव मज्जधरेति षष्ठे मज्जानमनुप्रविशतीत्यविरुद्धम्||४०||

Adhikarana २३ (४१) · Śloka ४१

येनान्तरेण तु कलां कालकल्पं भिनत्ति हि | समीरणेनोह्यमानं तत्तु वेगान्तरं स्मृतम् ||४१||

🔊 Audio coming soon

Hide commentary

वेगमभिधाय वेगान्तरमाह- येनान्तरेणेत्यादि| येनान्तरेण येन कालेन, कलाम् उक्तलक्षणां, कालकल्पं मृत्युसदृशं विषं, भिनत्ति विदारयति, समीरणेनोह्यमानं वायुना प्रेर्यमाणं तत्तु वेगान्तरं भूतस्य भविष्यतश्च वेगस्य मध्यभूतः कालस्तावत्प्रमाण इत्यर्थः||४१||

Adhikarana २४ (४२-४५) · Śloka ४५

शूनाङ्गः प्रथमे वेगे पशुर्ध्यायति दुःखितः | लालास्रावो द्वितीये तु कृष्णाङ्गः पीड्यते हृदि ||४२|| तृतीये च शिरोदुःखं कण्ठग्रीवं च भज्यते | चतुर्थे वेपते मूढः खादन् दन्तान् जहात्यसून् ||४३|| केचिद्वेगत्रयं प्राहुरन्तं चैतेषु तद्विदः | ध्यायति प्रथमे वेगे पक्षी मुह्यत्यतः परम् ||४४|| द्वितीये विह्वलः प्रोक्तस्तृतीये मृत्युमृच्छति | केचिदेकं विहङ्गेषु विषवेगमुशन्ति हि | मार्जारनकुलादीनां विषं नातिप्रवर्तते ||४५||

🔊 Audio coming soon

Hide commentary

मनुष्यस्य सप्तविषवेगप्रसङ्गेन पशुपक्षिष्वपि वेगप्रसङ्ख्यामुद्दिशन्नाह- शूनाङ्ग इत्यादि| हृष्टाङ्ग उद्धर्षितशरीरः, केचिद्वेगत्रयमित्याहुः| केचिदाचार्या `ध्यायति प्रथमे’ इत्यादिपाठं न पठन्ति||४२-४५||

Adhikarana पुष्पिका · Śloka

इति सुश्रुतसंहितायां कल्पस्थाने सर्पदष्टविषविज्ञानीयं नाम चतुर्थोऽध्यायः ||४||

🔊 Audio coming soon

Hide commentary

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां कल्पस्थाने चतुर्थोऽध्यायः||४||