Adhikarana १ (१-२) · Śloka २
अथातः शूकदोषचिकित्सितं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
Show commentary
शूकादिदोषचिकित्सितमिति ज्ञेयम्, आदिशब्दस्य लुप्तत्वात्; तत्रादिशब्देन निदानोक्ता अभिघातनिमित्ता दुर्भगनिमित्ताश्चात्र ज्ञातव्याः||१-२||
Adhikarana २ (३) · Śloka ३
संलिख्य सर्षपीं सम्यक् कषायैरवचूर्णयेत् |
कषायेष्वेव तैलं च कुर्वीत व्रणरोपणम् ||३||
Show commentary
संलिख्येत्यादि| कषायैरिति कषायवृक्षचूर्णैरवचूर्णयेत्, कषायवृक्षैर्मिश्रकोक्तशोधनकषायसाधनद्रव्यैश्चूर्णीकृतैरवचूर्णयेदित्यर्थः| तेषु रोपणकषायसाधनद्रव्येषु पादिकेषु जलं चतुर्गुणं दत्त्वा रोपणं तैलं कुर्यात्||३||
Adhikarana ३ (४) · Śloka ४
अष्ठीलिकां जलौकोभिर्ग्राहयेच्च पुनः पुनः |
तथा चानुपशाम्यन्तीं कफग्रन्थिवदुद्धरेत् ||४||
Show commentary
अष्ठीलिकामित्यादि| कफग्रन्थेरिव शस्त्रेणोद्धरणम्||४||
Adhikarana ४ (५-६) · Śloka ६
स्वेदयेद्ग्रथितं शश्वन्नाडीस्वेदेन बुद्धिमान् |
सुखोष्णैरुपनाहैश्च सुस्निग्धैरुपनाहयेत् ||५||
कुम्भीकां पाकमापन्नां भिन्द्याच्छुद्धां तु रोपयेत् |
तैलेन त्रिफलालोध्रतिन्दुकाम्रातकेन तु ||६||
Show commentary
स्वेदयेदित्यादि| शश्वत् प्रतिदिनम्| सुस्निग्धैरित्युपनाहविशेषणम्| तैलेन त्रिफलादिकल्कपादेन जलचतुर्गुणसिद्धेन रोपयेत्||५-६||
Adhikarana ५ (७) · Śloka ७
ग्राहयित्वा जलौकोभिरलजीं सेचयेत्ततः |
कषायैस्तेषु सिद्धं च तैलं रोपणमिष्यते ||७||
Show commentary
ग्राहयित्वेत्यादि| कषायैः कषायवृक्षकषायैः, कषायवृक्षाः प्लक्षादयः||७||
Adhikarana ६ (८) · Śloka ८
बलातैलेन कोष्णेन मृदितं परिषेचयेत् |
मधुरैः सर्पिषा स्निग्धैः सुखोष्णैरुपनाहयेत् ||८||
Show commentary
बलेत्यादि| मधुराणि काकोल्यादीनि||८||
Adhikarana ७ (९) · Śloka ९
सम्मूढपिडकां क्षिप्रं जलौकोभिरुपाचरेत् |
भित्त्वा पर्यागतां चापि लेपयेत् क्षौद्रसर्पिषा ||९||
Show commentary
सम्मूढेत्यादि| पर्यागता पक्वा||९||
Adhikarana ८ (१०-१२) · Śloka १२
अवमन्थे गते पाकं भिन्ने तैलं विधीयते |
धवाश्वकर्णपत्तङ्गसल्लकीतिन्दुकीकृतम् ||१०||
क्रियां पुष्करिकायां तु शीतां सर्वां प्रयोजयेत् |
जलौकोभिर्हरेच्चासृक् सर्पिषा चावसेचयेत् ||११||
स्पर्शहान्यां हरेद्रक्तं प्रदिह्यान्मधुरैरपि |
क्षीरेक्षुरससर्पिर्भिः सेचयेच्च सुशीतलैः ||१२||
Show commentary
अवमन्थेत्यादि| अश्वकर्णः पूर्वदेशे ‘गन्धमुण्ड’ इति ख्यातोऽश्वत्थसदृशः| पत्तङ्गं रक्तचन्दनम्||१०-१२||
Adhikarana ९ (१३) · Śloka १३
पिडकामुत्तमाख्यां च बडिशेनोद्धरेद्भिषक् |
उद्धृत्य मधुसंयुक्तैः कषायैरवचूर्णयेत् ||१३||
Show commentary
पिडकामित्यादि| कषायैः चूर्णैरित्यर्थः| शोधनकाले तु शोधनद्रव्यैश्चूर्णीकृतैरवचूर्णयेत्, रोपणकाले तु रोपणैरेव||१३||
Adhikarana १० (१४) · Śloka १५
रसक्रिया विधातव्या लिखिते शतपोनके |
पृथक्पर्ण्यादिसिद्धं च देयं तैलमनन्तरम् ||१४||
क्रियां कुर्याद्भिषक् प्राज्ञस्त्वक्पाकस्य विसर्पवत् |१५|
Show commentary
रसक्रियेत्यादि| रसक्रिया फाणिताकृतिः, शोधनकाले शोधनद्रव्यकषायकृता, रोपणकाले रोपणद्रव्यकषायकृता| पृथक्पर्ण्यादिसिद्धं तैलं सामान्यस्नेहपरिभाषाकल्पेन; पृथक्पर्ण्यादीनि मिश्रके रोपणघृतपठितानि काकोल्यादिवर्जितानि| विसर्पवत् पित्तविसर्पवदित्यर्थः||१४||-
Adhikarana ११ (१५-१८) · Śloka १८
रक्तविद्रधिवच्चापि क्रिया शोणितजेऽर्बुदे ||१५||
कषायकल्कसर्पींषि तैलं चूर्णं रसक्रियाम् |
शोधनं रोपणं चैव वीक्ष्य वीक्ष्यावचारयेत् ||१६||
हितं च सर्पिषः पानं पथ्यं चापि विरेचनम् |
हितः शोणितमोक्षश्च यच्चापि लघु भोजनम् ||१७||
अर्बुदं मांसपाकं च विद्रधिं तिलकालकम् |
प्रत्याख्याय प्रकुर्वीत भिषक् सम्यक् प्रतिक्रियाम् ||१८||
Show commentary
रक्तेत्यादि| शोणितजे अर्बुदे लिङ्गजे रक्तार्बुदे| वीक्ष्य वीक्ष्येति द्विव्रणीयोक्तामवस्थां सम्यक् निरूप्येत्यर्थः| अवचारयेत् कषायादीनीत्यर्थः||१५-१८||
Adhikarana पुष्पिका · Śloka २१
इति सुश्रुतसंहितायां चिकित्सास्थाने शूकरोगचिकित्सितं नामैकविंशोऽध्यायः ||२१||
Show commentary
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने एकविंशतितमोऽध्यायः||२१||