Skip to content

२८. मेधायुःकामीयरसायनम्

Adhikarana १ (१-२) · Śloka

अथातो मेधायुष्कामीयं रसायनचिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

Show commentary

मेधा सर्वतोऽव्याहता सूक्ष्मतमा प्रगाढा बुद्धिः श्रुतधारिणी||१-२||

Adhikarana २ (३-४) · Śloka

मेधायुःकामः श्वेतावल्गुजफलान्यातपपरिशुष्काण्यादाय सूक्ष्मचूर्णानि कृत्वा गुडेन सहालोड्य स्नेहकुम्भे सप्तरात्रं धान्यराशौ निदध्यात्, सप्तरात्रादुद्धृत्य हृतदोषस्य यथाबलं पिण्डं प्रयच्छेदनुदिते सूर्ये, उष्णोदकं चानुपिबेत्; भल्लातकविधानवच्चागारप्रवेशः, जीर्णौषधश्चापराह्णे हिमाभिरद्भिः परिषिक्तगात्रः शालीनां षष्टिकानां च पयसा शर्करामधुरेणौदनमश्नीयात्; एवं षण्मासानुपयुज्य विगतपाप्मा बलवर्णोपेतः श्रुतनिगादी स्मृतिमानरोगो वर्षशतायुर्भवति | कुष्ठिनं पाण्डुरोगिणमुदरिणं वा कृष्णाया गोर्मूत्रेणालोड्यार्धपलिकं पिण्डं विगतलौहित्ये सवितरि पाययेत्, पराह्णे चालवणेनामलकयूषेण सर्पिष्मन्तमोदनमश्नीयात्, एवं मासमुपयुज्य स्मृतिमानरोगो वर्षशतायुर्भवति | एष एवोपयोगश्चित्रकमूलानां रजन्याश्च; चित्रकमूले विशेषो द्विपलिकं पिण्डं परं प्रमाणं, शेषं पूर्ववत् ||३|| हृतदोष एव प्रतिसंसृष्टभक्तो यथाक्रममागारं प्रविश्य मण्डूकपर्णीस्वरसमादाय सहस्रसम्पाताभिहुतं कृत्वा यथाबलं पयसाऽऽलोड्य पिबेत् पयोऽनुपानं वा, तस्यां जीर्णायां यवान्नं पयसोपयुञ्जीत; तिलैर्वा सह भक्षयेत्त्रीन् मासान् पयोऽनुपानं, जीर्णे पयः सर्पिरोदन इत्याहारः; एवमुपयुञ्जानो ब्रह्मवर्चसी श्रुतनिगादी भवति वर्षशतमायुरवाप्नोति | त्रिरात्रोपोषितश्च त्रिरात्रमेनां भक्षयेत्, त्रिरात्रादूर्ध्वं पयः सर्पिरिति चोपयुञ्जीत | बिल्वमात्रं पिण्डं वा पयसाऽऽलोड्य पिबेत्, एवं द्वादशरात्रमुपयुज्य मेधावी वर्षशतायुर्भवति ||४||

🔊 Audio coming soon

Show commentary

अवल्गुजा बाकुची, साऽपि श्वेता गृह्यते| कृष्णाया बाकुच्याः, तेन कृष्णावल्गुजफलानां पिण्डं गोमूत्रेण पाययेत्| ‘कृष्णायाः पिप्पल्या’ इति जेज्जटः, तन्नेच्छति गयी| चित्रकस्य द्विपलप्रयोगः परं प्रमाणं, चित्रकस्य द्विपलप्रयोग इति एतेन रजन्या मानस्यानुक्तत्वात् पूर्ववत् पलिकं पिण्डं पाययेदिति गम्यते| चित्रकोऽत्र कृष्णपुष्पो ग्राह्यः| मण्डूकपर्ण्याः समूलपुष्पायास्तिलैः सह भक्षणं, भक्षणकाल एव पयोऽनुपानमुपयुञ्जीतेति सम्बन्धः| ब्रह्मवर्चसी तेजस्वीत्यर्थः| एनां ब्राह्मीं, बिल्वमात्रं पिण्डमिति तत्कल्कपिण्डो वा पयसा पेयः||३-४||

Adhikarana ३ (५-६) · Śloka

हृतदोष एवागारं प्रविश्य प्रतिसंसृष्टभक्तो ब्राह्मीस्वरसमादाय सहस्रसम्पाताभिहुतं कृत्वा यथाबलमुपयुञ्जीत, जीर्णौषधश्चापराह्णे यवागूमलवणां पिबेत्, क्षीरसात्म्यो वा पयसा भुञ्जीत, एवं सप्तरात्रमुपयुज्य ब्रह्मवर्चसी मेधावी भवति, द्वितीयं सप्तरात्रमुपयुज्य ग्रन्थमीप्सितमुत्पादयति नष्टं चास्य प्रादुर्भवति, तृतीयं सप्तरात्रमुपयुज्य द्विरुच्चारितं शतमप्यवधारयति, एवमेकविंशतिरात्रमुपयुज्यालक्ष्मीरपक्रामति; मूर्तिमती चैनं वाग्देव्यनुप्रविशति, सर्वाश्चैनं श्रुतय उपतिष्ठन्ति, श्रुतधरः पञ्चवर्षशतायुर्भवति ||५|| ब्राह्मीस्वरसप्रस्थद्वये घृतप्रस्थं विडङ्गतण्डुलानां कुडवं द्वे द्वे पले वचामृतयोर्द्वादश हरीतक्यामलकबिभीतकानि श्लक्ष्णपिष्टान्यावाप्यैकध्यं साधयित्वा स्वनुगुप्तं निदध्यात्, ततः पूर्वविधानेन मात्रां यथाबलमुपयुञ्जीत, जीर्णे पयः सर्पिरोदन इत्याहारः, पूर्ववच्चात्र परीहारः, एतेनोर्ध्वमधस्तिर्यक् कृमयो निष्क्रामन्ति, अलक्ष्मीरपक्रामति, पुष्करवर्णः स्थिरवयाः श्रुतनिगादी त्रिवर्षशतायुर्भवति; एतदेव कुष्ठविषमज्वरापस्मारोन्मादविषभूतग्रहेष्वन्येषु च महाव्याधिषु संशोधनमादिशन्ति ||६||

🔊 Audio coming soon

Show commentary

पूर्वविधानेनेति तेन हृतदोषादिः सर्वरसायनाङ्गो विधिरतिदिष्टः| पूर्ववच्चात्र परीहार इति सामान्यरसायनोक्तोऽपि, ब्राह्मीरसायने वर्ज्यस्यानुक्तत्वात्| पुष्करवर्ण इति पुष्करं पद्मवराटकम्| श्रुतनिगादी श्रुतग्रहणशक्तिमान् भवतीत्यर्थः||५-६||

Adhikarana ४ (७-८) · Śloka

हृतदोष एवागारं प्रविश्य हैमवत्या वचायाः पिण्डमामलकमात्रमभिहुतं पयसाऽऽलोड्य पिबेत्, जीर्णे पयः सर्पिरोदन इत्याहारः, एवं द्वादशरात्र मुपयुञ्जीत, ततोऽस्य श्रोत्रं विव्रियते, द्विरभ्यासात् स्मृतिमान् भवति, त्रिरभ्यासाच्छ्रुतमादत्ते, चतुर्द्वादशरात्रमुपयुज्य सर्वं तरति किल्बिषं, तार्क्ष्यदर्शनमुत्पद्यते, शतायुश्च भवति | द्वे द्वे पले इत रस्या वचाया निष्क्वाथ्य पिबेत् पयसा, समानं भोजनं, समाः पूर्वेणाशिषश्च ||७|| वचाशतपाकं वा सर्पिर्द्रोणमुपयुज्य पञ्चवर्षशतायुर्भवति, गलगण्डापचीश्लीपदस्वरभेदांश्चापहन्तीति ||८||

🔊 Audio coming soon

Show commentary

हैमवत्या वचायाः श्वेतवचाया इत्यर्थः| अभिहुतमित्यत्र कृत्वेत्यध्याहारात् होमं कृत्वेत्यर्थः| गयी तु ‘पयसाऽऽलोड्य पिबेत्’ इत्यत्र ‘सर्पिषाऽऽलोड्य पिबेत्’ इति पठति| तच्च सर्पिर्ब्राह्मीस्वरससाधितं पूर्वोक्तमेवेति व्याख्याति| इतरस्या वचाया इति अरुणायां इत्यर्थः| पयसा निष्क्वाथ्येति क्षीरपाकविधिना||७-८||

Adhikarana ५ (९-१३) · Śloka १३

अत ऊर्ध्वं प्रवक्ष्यामि आयुष्कामरसायनम् | मन्त्रौषधसमायुक्तं संवत्सरफलप्रदम् ||९|| बिल्वस्य चूर्णं पुष्ये तु हुतं वारान् सहस्रशः | श्रीसूक्तेन नरः कल्ये ससुवर्णं दिने दिने ||१०|| सर्पिर्मधुयुतं लिह्यादलक्ष्मीनाशनं परम् | त्वचं विहाय बिल्वस्य मूलक्वाथं दिने दिने ||११|| प्राश्नीयात् पयसा सार्धं स्नात्वा हुत्वा समाहितः | दशसाहस्रमायुष्यं स्मृतं युक्तरथं भवेत् ||१२|| हुत्वा बिसानां क्वाथं तु मधुलाजैश्च संयुतम् | अमोघं शतसाहस्रं युक्तं युक्तरथं स्मृतम् ||१३||

🔊 Audio coming soon

Show commentary

श्रीसूक्तमथर्ववेदोक्तं “हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजां” इत्यादिकम्| कल्ये प्रभाते| दशसहस्राणि हूयन्ते यत्र तद्दशसाहस्रम्| आयुष्यम् आयुर्वृद्धिकरम्| युक्तरथं नाम रसायनं स्मृतं भवेत्| बिसक्वाथं तु मध्वादिद्वितीयं युक्तरथं रसायनं स्मृतम्||९-१३||

Adhikarana ६ (१४-१६) · Śloka १६

सुवर्णं पद्मबीजानि मधु लाजाः प्रियङ्गवः | गव्येन पयसा पीतमलक्ष्मीं प्रतिषेधयेत् ||१४|| नीलोत्पलदलक्वाथो गव्येन पयसा शृतः | ससुवर्णस्तिलैः सार्धमलक्ष्मीनाशनः स्मृतः ||१५|| गव्यं पयः सुवर्णं च मधूच्छिष्टं च माक्षिकम् | पीतं शतसहस्राभिहुतं युक्तरथं स्मृतम् ||१६||

🔊 Audio coming soon

Show commentary

मधूच्छिष्टं च माक्षिकमिति माक्षिकं मधु भ्रामरम्| वचादित्रयचूर्णं घृतेन सहावलिह्यात्||१४-१६||

Adhikarana ७ (१७-१९) · Śloka १९

वचाघृतसुवर्णं च बिल्वचूर्णमिति त्रयम् | मेध्यमायुष्यमारोग्यपुष्टिसौभाग्यवर्धनम् ||१७|| वासामूलतुलाक्वाथे तैलमावाप्य साधितम् | हुत्वा सहस्रमश्नीयान्मेध्यमायुष्यमुच्यते ||१८|| यावकांस्तावकान् खादेदभिभूय यवांस्तथा | पिप्पलीमधुसंयुक्तान् शिक्षा चरणवद्भवेत् ||१९||

🔊 Audio coming soon

Show commentary

तुला पलशतम्| यवानामेते यावकाः यवान् तावकान् तवकभवान् अभिभूय कुट्टयित्वा तत्कृतान् यावकान् भक्ष्यान् मधुपिप्पलीसंयुक्तान् खादेत्| शिक्षा चरणवद्भवेदिति ‘अभ्रबभ्र’- इति गणपाठाच्चरधातुर्गत्यर्थः| ततश्चरणवत् शिक्षा परोपदेशापेक्षा शास्त्राभ्यासः सुखेनैव भवति; यथा किल बाल्यानन्तरं पादगमनं शिक्षां विनैव भवति, तथैवैतेन योगेनाभ्यवहृतेन मेधावृद्धेः शास्त्राभ्यासः सुखेनैव भवतीति तात्पर्यार्थः||१७-१९||

Adhikarana ८ (२०-२६) · Śloka २६

मध्वामलकचूर्णानि सुवर्णमिति च त्रयम् | प्राश्यारिष्टगृहीतोऽपि मुच्यते प्राणसंशयात् ||२०|| शतावरीघृतं सम्यगुपयुक्तं दिने दिने | सक्षौद्रं ससुवर्णं च नरेन्द्रं स्थापयेद्वशे ||२१|| गोचन्दना मोहनिका मधुकं माक्षिकं मधु | सुवर्णमिति संयोगः पेयः सौभाग्यमिच्छता ||२२|| पद्मनीलोत्पलक्वाथे यष्टीमधुकसंयुते | सर्पिरासादितं गव्यं ससुवर्णं सदा पिबेत् ||२३|| पयश्चानुपिबेत् सिद्धं तेषामेव समुद्भवे | अलक्ष्मीघ्नं सदाऽऽयुष्यं राज्याय सुभगाय च ||२४|| यत्र नोदीरितो मन्त्रो योगेष्वेतेषु साधने | शब्दिता तत्र सर्वत्र गायत्री त्रिपदा भवेत् ||२५|| पाप्मानं नाशयन्त्येता दद्युश्चौषधयः श्रियम् | कुर्युर्नागबलं चापि मनुष्यममरोपमम् ||२६||

🔊 Audio coming soon

Show commentary

अरिष्टं मरणलक्षणम्| नरेन्द्रं स्थापयेद्वशे इति यो हि इदं घृतं सेवेत तस्य वशगो भवेन्नरेन्द्रः| गोचन्दना प्रियङ्गुः| मोहनिका पुत्रञ्जीवी, ‘अवाक्पुष्पी’ इति अपरे| आसादितं साधितम्| तेषामेव पद्मनीलोत्पलानामेव समुद्भवे क्वाथे| सर्वेषामिदानीं फलश्रुतिमाह- पाप्मानमित्यादि||२०-२६||

Adhikarana ९ (२७-२८) · Śloka २८

सतताध्ययनं वादः परतन्त्रावलोकनम् | तद्विद्याचार्यसेवा च बुद्धिमेधाकरो गु(ग)णः ||२७|| आयुष्यं भोजनं जीर्णे वेगानां चाविधारणम् | ब्रह्मचर्यमहिंसा च साहसानां च वर्जनम् ||२८||

🔊 Audio coming soon

Show commentary

न केवलं रसायनयोगादेव मेधायुषी भवतः, किं तर्हि सतताध्ययनादपि बुद्धिमेधाकरो गु(ग)णो भवति| स्वपक्षसाधनं परपक्षबाधनं वादः| परतन्त्राणि न्यायवैशेषिकहस्तिशिक्षाव्याकरणादीनि, तथैवेतराण्यायुष्याणि| ब्रह्मचर्यम् इन्द्रियसंयमो वेदाध्ययनं वा| साहसम् अयथाबलमारम्भः||२७-२८||

Adhikarana पुष्पिका · Śloka २८

इति सुश्रुतसंहितायां चिकित्सास्थाने मेधायुष्कामीयं रसायनं नामाष्टाविंशोऽध्यायः ||२८||

🔊 Audio coming soon

Show commentary

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थानेऽष्टाविंशतितमोऽध्यायः||२८||