Adhikarana १ (१-३) · Śloka ३
अथातः कुष्ठचिकित्सितं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
विरुद्धाध्यशनासात्म्यवेगविघातैः स्नेहादीनां चायथारम्भैः पापक्रियया पुराकृतकर्मयोगाच्च त्वग्दोषा भवन्ति ||३||
Hide commentary
विरुद्धाध्यशनादीनि कुष्ठकराणि विशेषेण कुष्ठस्य जनकानीति प्रागुक्तान्यपि पुनरुक्तानि||१-३||
Adhikarana २ (४) · Śloka ४
तत्र त्वग्दोषी मांसवसादुग्धदधितैलकुलत्थमाषनिष्पावेक्षुपिष्टविकाराम्लविरुद्धाध्यशनाजीर्णविदाह्यभिष्यन्दीनि दिवास्वप्नं व्यवायं च परिहरेत् ||४||
Hide commentary
निष्पावो राजशिम्बी| दोषधातुमलस्रोतसां क्लेदजननमभिष्यन्दि||४||
Adhikarana ३ (५) · Śloka ५
ततः शालिषष्टिकयवगोधूमकोरदूषश्यामाकोद्दालकादीननवान् भुञ्जीत मुद्गाढक्योरन्यतरस्य यूषेण सूपेन वा निम्बपत्रारुष्करव्यामिश्रेण, मण्डूकपर्ण्यवल्गुजाटरूषकरूपिकापुष्पैः सर्पिःसिद्धैः सर्षपतैलसिद्धैर्वा, तिक्तवर्गेण वाऽभिहितेन; मांससात्म्याय वा जाङ्गलमांसममेदस्कं वितरेत्; तैलं वज्रकमभ्यङ्गार्थे; आरग्वधादिकषायमुत्सादनार्थे; पानपरिषेकावगाहादिषु च खदिरकषायम्; इत्येष आहाराचारविभागः ||५||
Hide commentary
तत्रेत्यादि| उद्दालकः अरण्यकोद्रवः| उपकरणभूतं सूप्यद्रव्यद्वयं मुद्गाढकीलक्षणमभिधायापरमप्युपकरणभूतं शाकद्रव्यमाह- निम्बपत्रेत्यादि| शाकरूपाभ्यां निम्बपत्रारुष्कराभ्यां व्यामिश्रेण सूपेन सह शाल्यादिकमन्नं भुञ्जीत, तथा मण्डूकपर्ण्यादिभिरपि शाकैः| मण्डूकपर्णी ब्राह्मीभेदः| रूपिकापुष्पैः अर्कपुष्पैः| सार्षपतैलं केचिन्नेच्छन्ति, रक्तपित्तप्रदूषणत्वात्, वातकफकुष्ठेषु वदन्त्यन्ये| तिक्तवर्गेण प्रपुन्नाडावल्गुजपटोलवार्ताकादिना| यद्यपि “योषिन्मांससुरावर्जी” इत्यत्र मांसप्रतिषेधः, तथाऽपि मांससात्म्याय जाङ्गलमांसममेदस्कं मेदोरहितं स्वभावतो वितरेद्दद्यात्| तत्र वज्रकं सप्तपर्णकरञ्जेत्यादिकं वक्ष्यते| आरग्वधादिकषायमुत्सादनार्थे इति कषायोऽत्र कल्कश्चूर्णं वा योग्यतया; कषायशब्दो हि चरके स्वरसादिषु पञ्चसु परिभाषितः; उत्सादनार्थे उद्धर्षणार्थे, अथवा उद्वर्तनार्थे; अन्ये तु निम्नव्रणस्य उन्नतिकरणार्थे| इत्येष आहाराचारविभाग इति आहारस्य क्रियमाणस्य द्रव्यरसविभाजनम्| तत्र, वज्रतैलस्य पानीयत्वाद्, आरग्वधादेरप्यत्र संस्कारादौ प्रायोगिकत्वात्, आहारवर्गस्यैवोपदेशः||५||
Adhikarana ४ (६) · Śloka ६
तत्र पूर्वरूपेषूभयतः संशोधनमासेवेत |
तत्र त्वक्सम्प्राप्ते शोधनालेपनानि, शोणितप्राप्ते संशोधनालेपनकषायपानशोणितावसेचनानि, मांसप्राप्ते शोधनालेपनकषायपानशोणितावसेचनारिष्टमन्थप्राशाः, चतुर्थकर्मगुणप्राप्तं याप्यमात्मवतः संविधानवतश्च, तत्र संशोधनाच्छोणितावसेचनाच्चोर्ध्वं भल्लातशिलाजतुधातुमाक्षीकगुग्गुल्वगुरुतुवरकखदिरासनायस्कृतिविधानमासेवेत; पञ्चमं नैवोपक्रमेत् ||६||
Hide commentary
तत्रेत्यादि| उभयतः संशोधनं वमनं विरेचनं च| त्वक्सम्प्राप्ते रसप्राप्ते, रसस्य तत्स्थानत्वात् | अत्रारिष्टग्रहणमुपलक्षणं, तेनासवसुरयोरप्यवरोधः| मेदःप्राप्ते चिकित्सितमुपदिशन्नाह- चतुर्थकर्मेत्यादि| चतुर्थकर्मगुणप्राप्तं याप्यमिति त्वग्धातोश्चतुर्थं मेदः, तस्य कर्माणि शोधनादीनि, तेषां तु गुणाः फलम्; एतेनैतदुक्तं- मेदोगतं कुष्ठं संशोधनादिगुणविशिष्टं याप्यं भवतीति| कथम्भूतस्य पुरुषस्य? आत्मवतः आत्मगुणोपपन्नस्य; आत्मगुणाश्च सर्वभूतेषु क्षान्तिरनसूया शौचमनायासो मङ्गलकार्याण्यस्पृहा चेति; अथवा आत्मवतोऽपथ्यपरिहारपरायणस्य सम्यगाहाराचारस्येत्यर्थः| संविधानवतः परिच्छदवतः कर्मानुष्ठानपरस्य याप्यं नान्यथा| ‘सम्यग्विधानवत’ इति केचित् पठन्ति, प्रभूतोपकरणयुक्तस्येत्यर्थः| अथवा चतुर्थे मेदसि स्थितं कुष्ठं चतुर्थं, तस्य कुष्ठस्य कर्माणि गुणाश्च दौर्गन्ध्योपदेहपूयादयस्तैः प्राप्तं युक्तं याप्यम्| अन्ये तु ‘चतुर्थाख्यप्राप्तं’ इति पठन्ति, तत्रापि स एवार्थः| अत्र यापने संशोधनाच्छोणितावसेकाच्चोर्ध्वं भल्लातकादिविधानम्| तत्र भल्लातकविधानमर्शोनिर्दिष्टं, शिलाजतुमाक्षिकधातुतुवरकविधानं प्रमेहपिडकाचिकित्सितनिर्दिष्टं, खदिरासनायस्कृतिविधानं महाकुष्ठविधावुद्दिष्टम्| पञ्चमं नैवेति असाध्यत्वादस्थ्यादिगतकुष्ठानाम्||६||
Adhikarana ५ (७) · Śloka ७
तत्र प्रथममेव कुष्ठिनं स्नेहपानविधानेनोपपादयेत् |
मेषशृङ्गीश्वदंष्ट्राशार्ङ्गेष्टागुडूचीद्विपञ्चमूलीसिद्धं तैलं घृतं वा वातकुष्ठिनां पानाभ्यङ्गयोर्विदध्यात्, धवाश्वकर्णककुभपलाशपिचुमर्दपर्पटकमधुकरोध्रसमङ्गासिद्धं सर्पिः पित्तकुष्ठिनां, प्रियालशालारग्वधनिम्बसप्तपर्णचित्रकमरिचवचाकुष्ठसिद्धं श्लेष्मकुष्ठिनां भल्लातकाभयाविडङ्गसिद्धं वा, सर्वेषां तुवरकतैलं भल्लातकतैलं वेति ||७||
Hide commentary
तत्रेत्यादि| स्नेहपानविधानेनेति वमनादिशोधनाङ्गस्यैव स्नेहस्य पानविधानेन; न पुनः स्वतन्त्रस्य, कुष्ठानां रूक्षणीयत्वात्| स्निग्धस्य पुनः क्रमादनुक्तान्यपि वमनविरेचनशोणितमोक्षणानि क्रमेणैव पूर्वरूपादौ, अनेनैव क्रमेण कर्मणः सर्वत्रोक्तत्वात्| उपपादयेत् उपक्रमेतेत्यर्थः| तानेव शोधनाङ्गस्नेहानुत्पादयन्नाह- मेषशृङ्गीत्यादि| मेषशृङ्गी कर्कटशृङ्गी; गयी तु पुत्रञ्जीवकभेदमाह| श्वदंष्ट्रा गोक्षुरकः| शार्ङ्गेष्टा काकतिक्ता, ‘भुम्भुरटा’ इति लोके; ‘गूथकरञ्ज’ इत्यपरे| शेषं प्रसिद्धम्| एतैः कषायकल्करूपैः सिद्धं सामान्यपरिभाषया तैलं घृतं वा वातकुष्ठे एव, कफानुबन्धे तैलं, पित्तानुबन्धे घृतम्; अन्ये तु पानाय घृतं, अभ्यङ्गाय तैलमिति| अश्वकर्णेत्यादि अश्वकर्णः पूर्वदेशे गन्धमुण्डोऽश्वत्थसदृशः| ककुभः सुगन्धिमूलो विटपः| पलाशः किंशुकः| पिचुमर्दो निम्बः| समङ्गा स्पर्शरोदनिका, लज्जालुरिति लोके| प्रियालेत्यादि| प्रियालश्चारः| सर्पिरिति पूर्वयोगादनुवर्तते, एवमग्रेऽपि| भल्लातकेत्यादि| तुवरकः पश्चिमसमुद्रभूमिषु प्रसिद्ध एव||७||
Adhikarana ६ (८-९) · Śloka ९
सप्तपर्णारग्वधातिविषेक्षुरपाठाकटुरोहिण्यमृतात्रिफलापटोलपिचुमर्दपर्पटकदुरालभात्रायमाणामुस्ताचन्दनपद्मक- हरिद्रोपकुल्याविशालामूर्वाशतावरीसारिवेन्द्रयवाटरूषकषड्ग्रन्थामधुकभूनिम्बगृष्टिका इति समभागाः कल्कःस्यात्, कल्काच्चतुर्गुणं सर्पिः प्रक्षिप्य तद्द्विगुणो धात्रीफलरसस्तच्चतुर्गुणा आपस्तदैकध्यं समालोड्य विपचेत्, एतन्महातिक्तकं नाम सर्पिः कुष्ठविषमज्वररक्तपित्तहृद्रोगोन्मादापस्मारगुल्मपिडकासृग्दरगलगण्डगण्डमाला- श्लीपदपाण्डुरोगविसर्पार्शःषाण्ढ्यकण्डूपामादीञ्छमयेदिति ||८||
त्रिफलापटोलपिचुमन्दाटरूषककटुरोहिणीदुरालभात्रायमाणाः पर्पटकश्चैतेषां द्विपलिकान् भागाञ्जलद्रोणे प्रक्षिप्य पादावशेषं कषायमादाय कल्कपेष्याणीमानि भेषजान्यर्धपलिकानि त्रायमाणामुस्तेन्द्रयवचन्दनकिराततिक्तानि पिप्पल्यश्चैतानि घृतप्रस्थे समावाप्य विपचेत्, एतत्तिक्तकं नाम सर्पिः कुष्ठविषमज्वरगुल्मार्शोग्रहणीदोषशोफपाण्डुरोगविसर्पषाण्ढ्यशमनमूर्ध्वजत्रुगतरोगघ्नं चेति ||९||
Hide commentary
हरिद्रोपकुल्याविशालेत्यत्र तन्त्रान्तरदर्शनाद्धरिद्राद्वयं, पिप्पली गजपिप्पली चेत्युपकुल्याद्वयं च बोद्धव्यं, विशाला इन्द्रवारुणी, मूर्वा चोरस्नायुः, षड्ग्रन्था वचा| परिभाषाव्यापारो नास्त्येवात्र महातिक्तके, सामान्यकल्ककषायपरिमाणद्रव्यपरिमाणयोश्चोक्तत्वात्| षाण्ढ्यं षण्ढभावः||८-९||
Adhikarana ७ (१०) · Śloka ११
अतोऽन्यतमेन घृतेन स्निग्धस्विन्नस्यैकां द्वे तिस्रश्चतस्रः पञ्च वा सिरा विध्येत्; मण्डलानि चोत्सन्नान्यवलिखेदभीक्ष्णं, प्रच्छयेद्वा, समुद्रफेनशाकगोजीकाकोदुम्बरिकापत्रैर्वाऽवघृष्यालेपयेल्लाक्षासर्जरसरसाञ्जन- प्रपुन्नडावल्गुजतेजोवत्यश्वमारकार्ककुटजारेवतमूलकल्कैर्मूत्रपिष्टैः पित्तपिष्टैर्वा, स्वर्जिकातुत्थकासीसविडङ्गागारधूमचित्रककटुकसुधाहरिद्रासैन्धवकल्कैर्वा, एतान्येवावाप्य क्षारकल्पेन निःस्रुते पालाशे क्षारे ततो विपाच्य फाणीतमिव सञ्जातमवतार्य लेपयेत्, ज्योतिष्कफललाक्षामरिचपिप्पलीसुमनःपत्रैर्वा, हरितालमनःशिलार्कक्षीरतिलशिग्रुमरिचकल्कैर्वा, स्वर्जिकाकुष्ठतुत्थकुटजचित्रकविडङ्गमरिचरोध्रमनःशिलाकल्कैर्वा, हरीतकीकरञ्जिकाविडङ्गसिद्धार्थकलवणरोचनावल्गुजहरिद्राकल्कैर्वा ||१०||
सर्वे कुष्ठापहाः सिद्धा लेपाः सप्त प्रकीर्तिताः |११|
Hide commentary
शाको महाखरपत्रः, ‘शाखोट’ इत्यन्ये; गोजी गोजिह्वा; काकोदुम्बरिका काष्ठोदुम्बरिका| तमेव प्रलेपं निर्दिशन्नाह- लाक्षासर्जरसेत्यादि| आरेवतः किरमालकः| पित्तपिष्टैरिति गोपित्तपिष्टैः| एतान्येवेत्यादि| निःस्रुते गालिते| क्षारकल्पातिदेशेन तिलनालादिभिरादीपनं षङ्गुणोदकस्रावणं च| सुवर्चिकातुत्थकासीसादिचूर्णं परिवाप्य क्षाराद् द्वात्रिंशत्तमभागप्रमाणम्| स्वर्जिकेत्यादि| ज्योतिष्कः काकमर्दनिका, तस्याः फलम्| सुमना जाती| हरितालेत्यादि| शिग्रुर्विटपशाकः, शोभाञ्जनमन्ये| हरीतकीत्यादि| करञ्जिका वृक्षकरञ्जः| सर्वेत्यादि| सिद्धा इति विशेषणं निश्चितफलसिद्धिबोधनार्थम्||१०||-
Adhikarana ८ (११-१२) · Śloka १२
वैशेषिकानतस्तूर्ध्वं दद्रूश्वित्रेषु मे शृणु ||११||
लाक्षा कुष्ठं सर्षपाः श्रीनिकेतं रात्रिर्व्योषं चक्रमर्दस्य बीजम् |
कृत्वैकस्थं तक्रपिष्टः प्रलेपो दद्रूषूक्तो मूलकाद्बीजयुक्तः ||१२||
Hide commentary
वैशेषिकानित्यादि| श्रीनिकेतं नवनीतधूपः सरलनिर्यास इति| रात्रिर्हरिद्रा||११-१२||
Adhikarana ९ (१३) · Śloka १३
सिन्धूद्भूतं चक्रमर्दस्य बीजमिक्षूद्भूतं केशरं तार्क्ष्यशैलम् |
पिष्टो लेपोऽयं कपित्थाद्रसेन दद्रूस्तूर्णं नाशयत्येष योगः ||१३||
Hide commentary
सिन्धूद्भूतमित्यादि| सिन्धूद्भूतं सैन्धवम्| इक्षूद्भूतो गुडः| केशरं बकुलम्| तार्क्ष्यशैलं रसाञ्जनम्||१३||
Adhikarana १० (१४) · Śloka १४
हेमक्षीरी व्याधिघातः शिरीषो निम्बः सर्जो वत्सकः साजकर्णः |
शीघ्रं तीव्रा नाशयन्तीह दद्रूः स्नानालेपोद्धर्षणेषूपयुक्ताः ||१४||
Hide commentary
हेमक्षीरी कङ्कुष्ठम्| व्याधिघातः किरमालकः| सर्जो लघुसर्जः| अजकर्णो महासर्जः, ‘गन्धमुण्ड’ इत्येके| स्नानेत्यादि| ‘पानालेपोद्धर्षणेषु’ इत्यन्ये पठन्ति| लेपनोद्धर्षणयोः पेषणे तक्रमम्लं, कपित्थरसमन्येऽनुवर्तयन्ति||१४||
Adhikarana ११ (१५) · Śloka १५
भद्रासञ्ज्ञोदुम्बरीमूलतुल्यं दत्त्वा मूलं क्षोदयित्वा मलप्वाः |
सिद्धं तोयं पीतमुष्णे सुखोष्णं स्फोटाञ्छ्वित्रे पुण्डरीके च कुर्यात् ||१५||
Hide commentary
दद्रुषु योगत्रयमभिधाय श्वित्रे विनिर्दिशन्नाह- भद्रेत्यादि| उदुम्बरी भद्रनामा काष्ठोदुम्बरिका महती, मलपूः सैवाल्पविटपा, तयोर्मूलं पलं षोडशभिः सलिलपलैः पक्वं चतुर्भागावशिष्टमुष्णकाले कोष्णं पीतमातपसंस्थस्य कटुतैलाभ्यक्तस्य च श्वित्रे स्फोटजननम्| जीर्णे गव्यमथितेन दाडिमयूषेण वा भोक्तव्यम्||१५||
Adhikarana १२ (१६) · Śloka १६
द्वैपं दग्धं चर्म मातङ्गजं वा भिन्ने स्फोटे तैलयुक्तं प्रलेपः |१६|
Hide commentary
सञ्जातभिन्नस्फोटस्य श्वित्रिण उत्तरकर्म निर्दिशन्नाह- द्वैपमित्यादि| द्वीपी चित्रकायो व्याघ्रः, तस्येदं चर्म द्वैपम्| मातङ्गो हस्ती, तस्माज्जातं मातङ्गजं चर्म| तैलमत्र विषाणिकासिद्धम्| तदुक्तम्- “आवर्तकीमूलसिद्धेन तैलेनाभ्यज्यावचूर्णयेद् गजद्वीपिचर्ममसीचूर्णेन, त्रिफलालोहचूर्णेन वा” इति|१६|-
Adhikarana १३ (१६) · Śloka १६
पूतिः कीटो राजवृक्षोद्भवेन क्षारेणाक्तः श्वित्रमेको निहन्ति ||१६||
Hide commentary
पूतिः कीटः शस्यादो वर्षाकाले कर्बुरकः ‘तेलिनी’ इति प्रसिद्धः, पूर्वदेशे ‘पुण्डालिका’ इति| स चारग्वधक्षारेण सहाक्तो मिश्रितः| राजवृक्ष आरग्वधः| एकः श्रेष्ठः| उद्दालनत्वात् क्षारोदकेनात्र द्रवकार्यम्| ‘उक्तः’ इत्यन्ये वदन्ति||१६||
Adhikarana १४ (१७) · Śloka १७
कृष्णस्य सर्पस्य मसी सुदग्धा बैभीतकं तैलमथ द्वितीयम् |
एतत् समस्तं मृदितं प्रलेपाच्छ्वित्राणि अर्वाण्यपहन्ति शीघ्रम् ||१७||
Hide commentary
कृष्णस्येत्यादि| कृष्णसर्पो यदा दह्यमानोऽतिकृष्णत्वं गच्छति तदा तच्चूर्णं मसीत्युच्यते, स एवाग्निदह्यमानो यदा शुक्लत्वं याति तदा क्षार इत्युच्यते||१७||
Adhikarana १५ (१८) · Śloka १८
अध्यर्धतोये सुभतिस्रुतस्य क्षारस्य कल्पेन तु सप्तकृत्वः |
तैलं शृतं तेन चतुर्गुणेन श्वित्रापहं म्रक्षणमेतदग्र्यम् ||१८||
Hide commentary
अध्यर्धेत्यादि| कृष्णस्य सर्पस्येत्यनुवर्तमानात्तस्य क्षारादध्यर्धं तोयमधिकार्धमित्यर्थः| क्षारस्य कल्पेन क्षारपाकविधिना| सप्तकृत्वः सप्तवारान्| म्रक्षणम् आलेपनम्| अग्र्यं प्रधानमित्यर्थः||१८||
Adhikarana १६ (१९-२०) · Śloka २०
घृतेन युक्तं प्रपुनाडबीजं कुष्ठं च यष्टीमधुकं च पिष्ट्वा |
श्वेताय दद्याद्गृहकुक्कुटाय चतुर्थभक्ताय बुभुक्षिताय ||१९||
तस्योपसङ्गृह्य च तत् पुरीषमुत्पाचितं सर्वत एव लिम्पेत् |
अभ्यन्तरं मासमिमं प्रयोगं प्रयोजयेच्छ्वित्रमथो निहन्ति ||२०||
Hide commentary
घृतेनेत्यादि| चतुर्थभक्तायेति एकाहमुपोषिताय द्वितीयेऽहनि सायं धवलाय ग्राम्यकुक्कुटायात्यन्तबुभुक्षिताय प्रपुन्नाडबीजादिकं घृतयुक्तं भक्षयितुं दद्यात्| तस्य पुरीषमुपसङ्गृह्य गृहीत्वा तेन पुरीषेण मासमेकं श्वित्रमभ्यन्तरं धात्वन्तर्गतं मलप्वादिभिः प्रयोगैः स्फोटकादिभिरुत्पाचितं पाकं नीतं लिम्पेत्; स लेपस्तच्छ्वित्रं निहन्तीत्यर्थः||१९-२०||
Adhikarana १७ (२१-२२) · Śloka २२
क्षारे सुदग्धे जलगण्डजे तु गजस्य मूत्रेण बहुस्रुते च |
द्रोणप्रमाणे दशभागयुक्तं दत्त्वा पचेद्बीजमवल्गुजस्य ||२१||
एतद्यदा चिक्कणतामुपैति तदा समस्तं गुटिका विदध्यात् |
श्वित्रं प्रलिम्पेदथ सम्प्रघृष्य तया व्रजेदाशु सवर्णभावम् ||२२||
Hide commentary
क्षार इत्यादि| जलगण्डो जलगण्डीरकः, नदीपिप्पलिकेत्यन्ये| ‘गजलेण्डजे क्षारे’ इत्यन्ये पठन्ति; तच्च न पठनीयं तन्त्रान्तरविरोधात्| दशभागयुक्तं दशभागयोजितमवल्गुजचूर्णं प्रक्षिपेदिति||२१-२२||
Adhikarana १८ (२३-२४) · Śloka २४
कषायकल्पेन सुभावितां तु जलं त्वचा चूतहरीतकीनाम् |
तां ताम्रदीपे प्रणिधाय धीमान् वर्तिं वटक्षीरसुभावितां तु ||२३||
आदीप्य तज्जातमसीं गृहीत्वा तां चापि पथ्याम्भसि भावयित्वा |
सम्प्रच्छितं तद्बहुशः किलासं तैलेन सिक्तं कटुना प्रयाति ||२४||
Hide commentary
कषायेत्यादि| चूतहरीतकीनां त्वचा कृत्वा कषायकल्पेन क्वाथकल्पनया यज्जलं क्वाथः, तेन सुभावितां पिचुवर्तिं कटुतैलेन सिक्त्वा, तां ताम्रदीपे प्रणिधाय स्थापयित्वा, आदीप्य प्रज्वाल्य, तज्जातमसीं गृहीत्वा, ततो वटक्षीरसुभावितां कृत्वा, ततस्तामेव पथ्याक्वाथेन भावयित्वा, कटुना तैलेन सिक्तं किलाशं बहुशः सम्प्रच्छितं तया लेपितमपयाति| “भाव्यद्रव्यसमं क्वाथ्यं क्वाथश्चाष्टांशशेषितः” इति| अयं योगोऽन्यत्राप्युक्तः- “पथ्याम्रत्वक्कषायेण पिचुवर्तिः सुभाविता| कटुतैलयुते ताम्रपात्रे प्रज्वालयेत्ततः|| मसीं तज्जां वटक्षीरपथ्याक्वाथेन भावयेत्| म्रक्षितं कटुतैलाक्तं तेन श्वित्रं प्रणश्यति”- इति| गयदासस्त- ‘वार्तिं पटवार्तिं पूर्वं वटक्षीरेण भावयेत्ततः कटुतैलेन’ इति व्याख्यानयति| “तैलेन सिक्तं कटुना समस्तमालेपयेदेवमुपैति शान्तिम्”- इति केचित् पठन्ति||२३-२४||
Adhikarana १९ (२५-२६) · Śloka २६
आवल्गुजं बीजमग्र्यं नदीजं काकाह्वानोदुम्बरी या च लाक्षा |
लौहं चूर्णं मागधी तार्क्ष्यशैलं तुल्याः कार्याः कृष्णवर्णास्तिलाश्च ||२५||
वर्तिं कृत्वा तां गवां पित्तपिष्टां लेपः कार्यः श्वित्रिणां श्वित्रहारी |
लेपात् पित्तं शैखिनं श्वित्रहारि ह्रीबेरं वा दग्धमेतेन युक्तम् ||२६||
Hide commentary
आवल्गुजमित्यादि| अग्र्यं श्रेष्ठं, नदीजं तापीनदीसमुत्थो माक्षिकधातुः, काकाह्वानोदुम्बरी काकसञ्ज्ञोदुम्बरिका, या च लाक्षा साऽपि तज्जा सान्निध्यात्, तार्क्ष्यशैलं रसाञ्जनं, तेस्तुल्याः कृष्णवर्णास्तिलाः कार्याः, तैर्वर्तिं कृत्वा तया लेपः कार्यः| अन्ये ‘ताप्युद्भूतोऽवल्गुजं बीजमग्र्यं’ इति पठन्ति; तत्रापि ताप्युद्भूतो माक्षिकधातुः| शिखिन इदं शैखिनं पित्तं मयूरपित्तमित्यर्थः||२५-२६||
Adhikarana २० (२७-२८) · Śloka २९
तुत्थालकटुकाव्योषसिंहार्कहयमारकाः |
कुष्ठावल्गुजभल्लातक्षीरिणीसर्षपाः स्नुही ||२७||
तिल्वकारिष्टपीलूनां पत्राण्यारग्वधस्य च |
बीजं विडङ्गाश्वहन्त्रोर्हरिद्रे बृहतीद्वयम् ||२८||
आभ्यां श्वित्राणि योगाभ्यां लेपान्नश्यन्त्यशेषतः |२९|
Hide commentary
तुत्थेत्यादि| आलं हरितालम्| सिंहो रक्तशोभाञ्जनः | क्षीरिणी अर्कपुष्पी| तुत्थालकटुकेत्यादिश्लोकद्वयेन योगद्वयं बोद्धव्यम्||२७-२८||-
Adhikarana २१ (२९-३३) · Śloka ३३
वायसीफल्गुतिक्तानां शतं दत्त्वा पृथक् पृथक् ||२९||
द्वे लोहरजसः प्रस्थे त्रिफलात्र्याढकं तथा |
त्रिद्रोणेऽपां पचेद्यावद्भागौ द्वावसनादपि ||३०||
शिष्टौ च विपचेद्भूय एतैः श्लक्ष्णप्रपेषितैः |
कल्कैरिन्द्रयवव्योषत्वग्दारुचतुरङ्गुलैः ||३१||
पारावतपदीदन्तीबाकुचीकेशराह्वयैः |
कण्टकार्या च तत्पक्वं घृतं कुष्ठिषु योजयेत् ||३२||
दोषधात्वाश्रितं पानादभ्यङ्गात्त्वग्गतं तथा |
अप्यसाध्यं नृणां कुष्ठं नाम्ना नीलं नियच्छति ||३३||
Hide commentary
वायसी काकतिक्ता ‘चिरपोटिका’ इति लोके, ‘काकमाची’ इत्यन्ये; फल्गुः काकोदुम्बरिका, ‘अवल्गुः’ इत्यपरे पठन्ति, अवल्गुः बाकुची; तिक्ता कटुका| पारावतपदी ईषल्लोहितो हंसपदीभेदः| केशराह्वयो बकुलः| त्रिद्रोणेऽपामित्यत्र अपां द्विगुणमात्रा, द्रवत्वात्; तेन जलषड्द्रोणाः प्रक्षिप्यन्ते| असनात् बीजकसाराद्द्वौ प्रस्थौ| शिष्टौ उर्वरितौ द्वौ, चतुर्थभागं सर्पिः, सर्पिषश्चतुर्थांशमिन्द्रयवादिकल्कं प्रक्षिप्य विपचेदिति||२९-३३||
Adhikarana २२ (३४-३८) · Śloka ३८
त्रिफलात्वक् त्रिकटुकं सुरसा मदयन्तिका |
वायस्यारग्वधश्चैषां तुलां कुर्यात् पृथक् पृथक् ||३४||
काकमाच्यर्कवरुणदन्तीकुटजचित्रकात् |
दार्वीनिदिग्धिकाभ्यां तु पृथग्दशपलं तथा ||३५||
त्रिद्रोणेऽपां पचेद्यावत् षट्प्रस्थं परिशेषितम् |
शकृद्रसदधिक्षीरमूत्राणां पृथगाढकम् ||३६||
तद्वद्धृतस्य तत्साध्यं भूनिम्बव्योषचित्रकैः |
करञ्जफलनीलिकाश्यामावल्गुजपीलुभिः ||३७||
नीलिनीनिम्बकुसुमैः सिद्धं कुष्ठापहं घृतम् |
म्रक्षणादङ्गसावर्ण्यं श्वित्रिणां जनयेन्नृणाम् |
भगन्दरं कृमीनर्शो महानीलं नियच्छति ||३८||
Hide commentary
त्रिफलेत्यादि| मदयन्तिका नखादिरागजननी ‘मेंहदी’ इति प्रसिद्धा| वायसी काकमाची| शकृदादीनि गवां ग्राह्याणि| नीलिका नीलाञ्जनिका शारदफला| नीलिनी नीलिका| म्रक्षणादभ्यङ्गात्| अनार्षे नीलमहानीलघृते, एते चेदृशे जेज्जटगयदासाभ्यां व्याख्याते, अतस्तन्मतानुसारिणा मयाऽपि पठिते व्याख्याते च| जलापेक्षया क्वाथ्यद्रव्यस्यातिबाहुल्यमत्र योगे, तस्माद्वृद्धवाग्भटीयं महानीलघृतं लिख्यते; यथा- “मदयन्त्याः सवायस्याः सुरभ्याः प्रग्रहस्य च| शतं पलानां प्रत्येकं वरायास्त्वाढकत्रयम्|| व्याघ्रीवह्निकपोतावत्सकखदिरार्कमूलदन्त्येन्द्रयः| सनिशाद्वया दशपलाः क्वाथेऽमीषां क्षिपेत् पिष्ट्वा|| बीजं करञ्जेङ्गुदशिग्रुनिम्बान्नीलीं सनीलोत्पलचन्द्ररेखाम्| श्यामां किरातं कटुकत्रयं च पञ्चाढकं तत्र च पञ्चगव्यात्|| शमयत्यचिरेण घृतं मृदुहुतवहसाधितं महानीलम्| न किलासमेव केवलमपि च व्रणगुह्यरोगवल्मीकान् ” (अ. सं. चि. ३२) इत्यादि||३४-३८||
Adhikarana २३ (३९) · Śloka ३९
मूत्रं गव्यं चित्रकव्योषयुक्तं सर्पिःकुम्भे क्षौद्रयुक्तं स्थितं हि |
पक्षादूर्ध्वं श्वित्रिभिः पेयमेतत् |
कुर्याच्चास्मिन् कुष्ठदिष्टं विधानम् ||३९||
Hide commentary
मूत्रमित्यादि| मूत्रमधुनी तुल्ये| चित्रकस्य व्योषस्य च तावती मात्रा यावत्या किञ्चित् कटुकत्वमरिष्टस्य, कुम्भलेपार्थमेव तदित्यन्ये| किलासे कुष्ठचिकित्सितमेव सङ्क्षेपार्थमतिदेशेन निर्दिशन्नाह- कुर्याच्चास्मिन्नित्यादि||३९||
Adhikarana २४ (४०) · Śloka ४०
पूतीकार्कस्नुङ्नरेन्द्रद्रुमाणां मूत्रैः पिष्टाः पल्लवाः सौमनाश्च |
लेपः श्वित्रं हन्ति दद्रूर्व्रणांश्च दुष्टान्यर्शांस्येष नाडीव्रणांश्च ||४०||
Hide commentary
पूतीकः चिरबिल्वः| नरेन्द्रद्रुम आरग्वधः| सुमना जाती||४०||
Adhikarana २५ (४१) · Śloka ४१
अस्मादूर्ध्वं निःस्रुते दुष्टरक्ते जातप्राणं सर्पिषा स्नेहयित्वा |
तीक्ष्णैर्योगैश्छर्दयित्वा प्रगाढं पश्चाद्दोषं निर्हरेच्चाप्रमत्तः ||४१||
Hide commentary
इदानीमादावपि कृतवमनस्य कृतविरेचनस्यापि कुष्ठिनः पुनः पुनरेव शोधनशोणितावसेकयोः कर्तव्यतामुपदिशन्नाह- अस्मादूर्ध्वमित्यादि||४१||
Adhikarana २६ (४२) · Śloka ४२
दुर्वान्तो वा दुर्विरिक्तोऽपि वा स्यात् कुष्ठी दोषैरुद्धतैर्व्याप्तदेहः |
निःसन्दिग्धं यात्यसाध्यत्वमाशु तस्मात् कृत्स्नान्निर्हरेत्तस्य दोषान् ||४२||
Hide commentary
कुतः पुनरशेषेण शोणितं दोषाश्च हरणीया इत्याह- दुर्वान्त इत्यादि| अपिशब्दाद्दुष्टशोणितमनिर्ह्रियमाणमपि||४२||
Adhikarana २७ (४३) · Śloka ४३
पक्षात् पक्षाच्छर्दनान्यभ्युपेयान्मासान्मासात् स्रंसनं चापि देयम् |
स्राव्यं रक्तं वत्सरे हि द्विरल्पं नस्यं दद्याच्च त्रिरात्रात्त्रिरात्रात् ||४३||
Hide commentary
केन क्रमेण शोधनं शोणितावसेचनं च कर्तव्यमित्याह- पक्षादित्यादि| वत्सरे हि द्विरल्पमिति वर्षे द्वौ वारौ षड्भिः षड्भिर्मासैरित्यर्थः||४३||
Adhikarana २८ (४४-४९) · Śloka ४९
पथ्या व्योषं सेक्षुजातं सतैलं लीढ्वा शीघ्रं मुच्यते कुष्ठरोगात् |
धात्रीपथ्याक्षोपकुल्याविडङ्गान् क्षौद्राज्याभ्यामेकतो वाऽवलिह्यात् ||४४||
पीत्वा मासं वा पलांशां हरिद्रां मूत्रेणान्तं पापरोगस्य गच्छेत् |
एवं पेयश्चित्रकः श्लक्ष्णपिष्टः पिप्पल्यो वा पूर्ववन्मूत्रयुक्ताः ||४५||
तद्वत्तार्क्ष्यं मासमात्रं च पेयं, तेनाजस्रं देहमालेपयेच्च |
आरिष्टीत्वक् साप्तपर्णी च तुल्या लाक्षा मुस्तं पञ्चमूल्यौ हरिद्रे ||४६||
मञ्जिष्ठाक्षौ वासको देवदारु पथ्यावह्नी व्योषधात्रीविडङ्गाः |
सामान्यांशं योजयित्वा विडङ्गैश्चूर्णं कृत्वा तत्पलोन्मानमश्नन् ||४७||
कुष्ठाज्जन्तुर्मुच्यते त्रैफलं वा सर्पिर्द्रोणं व्योषयुक्तं च युञ्जन् |
गोमूत्राम्बुद्रोणसिद्धेऽक्षपीडे सिद्धं सर्पिर्नाशयेच्चापि कुष्ठम् ||४८||
आरग्वधे सप्तपर्णे पटोले सवृक्षके नक्तमाले सनिम्बे जीर्णं पक्वं तद्धरिद्राद्वयेन हन्यात् कुष्ठं मुष्कके चापि सर्पिः ||४९||
Hide commentary
प्रायोगिकानेव योगान्निर्दिशन्नाह- पथ्येत्यादि| सेक्षुजातं सगुडम्| तैलगुडयोः कुष्ठकारित्वेऽपि हरीतकीत्रिकटुसंयुक्तयोः कुष्ठहारित्वं, संयोगशक्तेरचिन्त्यत्वात्| अन्ये त्वेवं पठन्ति- “पथ्याव्योषं तैलयुक्तं गुडं च नित्यं खादन्मुच्यते कुष्ठरोगात्”- इति| धात्रीत्यादि| अक्षो बिभीतकः| पीत्वेत्यादि| पलांशां पलमेव अंशो यस्याः सा तथा तां पलपरिमाणामित्यर्थः| एवमित्यादि एवं पूर्वोक्तप्रकारेण| पिप्पल्य इत्यादि| पूर्ववत् हरिद्रावत् क्रमेण पलमात्रां मासमेव| तद्वदित्यादि|- तद्वत् तार्क्ष्यं तथा रसाञ्जनमप्यभ्यासेन पलमात्रं मासं पेयम्| त्रीण्यप्येतानि कुष्ठहराणि रसायनान्यपि| तेनाजस्रमित्यादि| तेन अनन्तरोक्तेन रसाञ्जनेन| आरिष्टीत्वगित्यादि| अत्रापि क्रमाभ्यासेन पलं पलं मासमेव| त्रैफलं वेत्यादि| ‘कुष्ठाज्जन्तुर्मुच्यते’ इत्यध्याहारः| अन्ये त्वन्यथा पठन्ति व्याख्यानयन्ति च, स च विस्तरभयान्न लिखितः| गोमूत्रेत्यादि| गोमूत्रमेवाम्बु गोमूत्राम्बु, गोमूत्रेणैव क्वाथो निर्वर्त्य इत्यर्थः; गोमूत्राम्बुनोस्तुल्ययोर्द्रोण इत्येके| अक्षपीडो यवतिक्ता| सामान्यपरिभाषाकल्पेन सर्पिः साधनीयम्| आरग्वधे इत्यादि| व्याधिघातादिभिर्मुष्ककान्तैः सामान्यपरिभाषाकल्पनया| व्याधिघाताद्यं घृतं दह्यमानस्य पित्तकुष्ठिनः| “वासादार्वीतिक्तवल्लीकरञ्जव्याधिघ्नाग्निक्षारवृक्षादिभिश्च| वत्साख्यानारिष्टसप्तच्छदैश्च सिद्धं सर्पिः सर्वकुष्ठं निहन्ति”- इति तन्त्रान्तरपठितो योगो न सौश्रुतः, जेज्जटाचार्येणानुक्तत्वान्न पठनीयः||४४-४९||
Adhikarana २९ (५०) · Śloka ५०
रोध्रारिष्टं पद्मकं रक्तसारः सप्ताह्वाक्षौ वृक्षको बीजकश्च |
योज्याः स्नाने दह्यमानस्य जन्तोः पेया वा स्यात् क्षौद्रयुक्ता त्रिभण्डी ||५०||
Hide commentary
तस्यैव बहुपित्तस्याबलवतो दाहप्रशमनहेतुं निर्दिशन्नाह- रोध्रेत्यादि| सप्ताह्वः सप्तपर्णः| रोध्रादिभिः षडङ्गोदककल्पनया न तु कषायकल्पनया, नापि कषायेण स्नानम्| तस्यैव बहुपित्तस्य बलवतो दाहप्रशमनहेतुं निर्दिशन्नाह- पेया वेत्यादि| त्रिभण्डी त्रिवृत्; कोष्ठबलापेक्षया त्रिवृतो मात्रा||५०||
Adhikarana ३० (५१) · Śloka ५१
खादेत् कुष्ठी मांसशा(पा)ते पुराणान् मुद्गान् सिद्धान्निम्बतोये सतैलान् |५१|
Hide commentary
पित्तकुष्ठिनां मांसक्षरणे कृमिसम्भवेऽपि पानं निर्दिशन्नाह- खादेदित्यादि| षडङ्गकल्पेन निम्बतोयं परिकल्प्य मुद्गानां साधनम्|५१|-
Adhikarana ३१ (५१-५३) · Śloka ५३
निम्बक्वाथं जातसत्त्वः पिबेद्वा क्वाथं वाऽर्कालर्कसप्तच्छदानाम् ||५१||
जग्धेष्वङ्गेष्वश्वमारस्य मूलं लेपो युक्तः स्याद्विडङ्गैः समूत्रैः |
मूत्रैश्चैनं सेचयेद्भोजयेच्च सर्वाहारान् सम्प्रयुक्तान् विडङ्गैः ||५२||
कारञ्जं वा सार्षपं वा क्षतेषु क्षेप्यं तैलं शिग्रुकोशाम्रयोर्वा |
पक्वं सर्वैर्वा कटूष्णैः सतिक्तैः शेषं च स्याद्दुष्टवत् संविधानम् ||५३||
Hide commentary
निम्बेत्यादि| जातसत्त्वो जातकृमिः| क्वाथं वेत्यादि| जातकृमिरेव पिबेत्| जग्धेष्वित्यादि| कृमिजग्धेष्वङ्गेषु हयमारस्य मूलं सकृमिहरं गोमूत्रेण पिष्ट्वा लेपयेत्| मूत्रैरित्यादि| तत्रैव गोमूत्रपरिषेचनम्| भोजयेदित्यादि| करञ्जसर्षपशोभाञ्जनकोशाम्रबीजतैलानि स्वभावतो दुष्टव्रणयोगीनि, तानि चापक्वान्येव| पक्वमित्यादि|- तान्येव सर्वैः कटुकैर्मरिचादिभिः, तिक्तैस्तु निम्बादिभिः, सामान्यकषायपरिभाषया कषायीकृतैः पक्वानीति | अत्र पाठान्तरमप्यस्ति, तद्विस्तरभयान्न लिखितम्| शेषमित्यादि| दुष्टवद् दुष्टव्रणवत्, तुल्यचिकित्सितत्वात्| अन्ये त्वत्र “शेषं च स्यात् पूर्ववत् संविधानम्” इति पठन्ति| तत्रापि पूर्वशब्देन दुष्टव्रणविधिरुच्यते| अन्ये तु पठन्ति ‘कुष्ठवत् संविधानम्’ इति, तन्नेच्छति गयी||५१-५३||
Adhikarana ३२ (५४-६३) · Śloka ६४
सप्तपर्णकरञ्जार्कमालतीकरवीरजम् |
स्नुहीशिरीषायोर्मूलं चित्रकास्फोतयोरपि ||५४||
विषलाङ्गलवज्राख्यकासीसालमनःशिलाः |
करञ्जबीजं त्रिकटु त्रिफलां रजनीद्वयम् ||५५||
सिद्धार्थकान् विडङ्गानि प्रपुन्नाडं च संहरेत् |
मूत्रपिष्टैः पचेदेतैस्तैलं कुष्ठविनाशनम् ||५६||
एतद्वज्रकमभ्यङ्गान्नाडीदुष्टव्रणापहम् |
सिद्धार्थकः करञ्जौ द्वौ द्वे हरिद्रे रसाञ्जनम् ||५७||
कुटजश्च प्रपुन्नाडसप्तपर्णौ मृगादनी |
लाक्षा सर्जरसोऽर्कश्च सास्फोतारग्वधौ स्नुही ||५८||
शिरीषस्तुवराख्यस्तु कुटजारुष्करौ वचा |
कुष्ठं कृमिघ्नं मञ्जिष्ठा लाङ्गली चित्रकं तथा ||५९||
मालती कटुतुम्बी च गन्धाह्वा मूलकं तथा |
सैन्धवं करवीरश्च गृहधूमं विषं तथा ||६०||
कम्पिल्लकं ससिन्दूरं तेजोह्वातुत्थकाह्वये |
समभागानि सर्वाणि कल्कपेष्याणि कारयेत् ||६१||
गोमूत्रं द्विगुणं दद्यात्तिलतैलाच्चतुर्गुणम् |
कारञ्जं या महावीर्यं सार्षपं वा महागुणम् ||६२||
अभ्यङ्गात् सर्वकुष्ठानि गण्डमालाभगन्दरान् |
नाडीदुष्टव्रणान् घोरान् नाशयेन्नात्र संशयः ||६३||
महावज्रकमित्येतन्नाम्ना तैलं महागुणम् |६४|
Hide commentary
सप्तपर्णेत्यादि| मालती जाती| स्नुही सेहुण्डः| आस्फोता सारिवा| विषं प्रसिद्धम्| लाङ्गलशब्देन कलिहारिकोच्यते| वज्राख्यः द्वितीयसेहुण्डः| आलं हरितालम्| शेषं प्रसिद्धम्| स्नेहचतुर्थांशो भेषजकल्कः, स्नेहाच्चतुर्गुणो द्रवः, इति न्यायेन पक्तव्यम्| वज्रतैले गोमूत्रेणैव द्रवकार्यम्| तैलं तिलतैलम्| गयी तु वज्रकतैले दुष्टव्रणाधिकारात् प्रागपि सर्षपतैलस्य विधानात् सर्षपतैलं विपाच्यमाह| अस्याग्रे केचिन्महावज्रकं पठन्ति, तच्च निबन्धकारैर्न पठितम्||५४-६३||-
Adhikarana ३३ (६४-६५) · Śloka ६६
पित्तावापैर्मूत्रपिष्टैस्तैलं लाक्षादिकैः कृतम् ||६४||
सप्ताहं कटुकालाब्वां निदधीत चिकित्सकः |
पीतवन्तं ततो मात्रां तेनाभ्यक्तं च मानवम् ||६५||
शाययेदातपे तस्य दोषा गच्छन्ति सर्वशः |६६|
Hide commentary
कुष्ठदुष्टव्रणे बहिःशोधनं तैलं निर्दिश्यान्तःशोधनार्थं तैलमुद्दिशन्नाह- पित्तेत्यादि| पित्तावापैः गोपित्तावापैः| मूत्रं गोमूत्रं, तच्च तैलाच्चतुर्गुणम्| तैलं तिलतैलम्| लाक्षादिको ‘लाक्षारेवतकुटजाश्वमारकट्फल’ (सू. ३८) इत्यादिको द्रव्यसङ्ग्रहणीयोक्तः; अथवाऽत्रैव पठितो लाक्षासर्जरसरसाञ्जनप्रपुन्नाडधान्याश्वमारकार्ककुटजारेवातादिकः, द्वयोरप्यल्पान्तरत्वात्| कृतं संस्कृतमित्यर्थः| दोषा गच्छन्ति सर्वशः ऊर्ध्वमधस्तिर्यगित्यर्थः; गयी तु सर्वश इति बह्वर्थे शस्, वैफल्यगमनापेक्षया कृत्स्नश इत्यर्थः||६४-६५||-
Adhikarana ३४ (६६) · Śloka ६७
स्रुतदोषं समुत्थाप्य स्नातं खदिरवारिणा ||६६||
यवागूं पाययेदेनं साधितां खदिराम्बुना |६७|
Hide commentary
स्रुतदोषमित्यादि| खदिरवारिणा खदिरोदकेन षडङ्गोदककल्पनया कल्पितेन| उष्णाभितप्तस्य शीतखदिराम्बुना स्नानं कथं क्रियते? आतपसन्तप्तस्य शीतोदकस्नानं कुष्ठाक्षिरोगकृदिति चेत्; तन्न, तत्र तोयावगाहो निषिद्धः, न पुनस्तोयपरिषेकः| “स्रुतदोषं ततः स्नातं शीतेन खदिराम्बुना” इति क्वचित् पाठः||६६||
Adhikarana ३५ (६७) · Śloka ६८
एवं संशोधने वर्गे कुष्ठघ्नेष्वौषधेषु च ||६७||
कुर्यात्तैलानि सर्पींषि प्रदेहोद्धर्षणानि च |६८|
Hide commentary
एवमित्यादि| संशोधने वर्गे इति संशोधनसंशमनीयाध्यायोक्तानि त्रिवृदादीनि| कुष्ठघ्नेष्वौषधेषु चेति खदिरादिष्वपि||६७||-
Adhikarana ३६ (६८) · Śloka ६८
प्रातः प्रातश्च सेवेत योगान् वैरेचनाञ् शुभान् |
पञ्च षट् सप्त चाष्टौ वा यैरुत्थानं न गच्छति ||६८||
Hide commentary
इदानीं बहुदोषाणामाभ्यासिकमनुलोमनमाह- प्रातरित्यादि||६८||
Adhikarana ३७ (६९) · Śloka ६९
कारभं वा पिबेन्मूत्रं जीर्णे तत्क्षीरभोजनम् |
जातसत्त्वानि कुष्ठानि मासैः षड्भिरपोहति ||६९||
Hide commentary
कारभमित्यादि| करभा उष्ट्री| अयं प्रयोगो न सौश्रुत इति जेज्जटः, गयदासेन व्याख्यातत्वान्मयाऽपि व्याख्यातः||६९||
Adhikarana ३८ (७०-७१) · Śloka ७१
दिदृक्षुरन्तं कुष्ठस्य खदिरं कुष्ठपीडितः |
सर्वथैव प्रयुञ्जीत स्नानपानाशनादिषु ||७०||
यथा हन्ति प्रवृद्धत्वात् कुष्ठमातुरमोजसा |
तथा हन्त्युपयुक्तस्तु खदिरः कुष्ठमोजसा ||७१||
Hide commentary
कुष्ठेषु खदिरस्य सर्वथोपयोगित्वं दर्शयन्नाह- दिदृक्षुरित्यादि| दिदृक्षुर्द्रष्टुमिच्छुः| अन्तं विनाशम्| खदिरः कुष्ठमोजसा इत्यत्र ओजःशब्देन प्रभावो वीर्यं शक्तिरुच्यते||७०-७१||
Adhikarana ३९ (७२) · Śloka ७२
नीचरोमनखः श्रान्तो हिताश्यौषधतत्परः |
योषिन्मांससुरावर्जी कुष्ठी कुष्ठमपोहति ||७२||
Hide commentary
इदानीं प्रतिषेधविधिमाह- नीचरोमेत्यादि||७२||
Adhikarana पुष्पिका · Śloka ९
इति सुश्रुतसंहितायां चिकित्सास्थाने कुष्ठचिकित्सितं नाम नवमोऽध्यायः ||९||
Hide commentary
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने नवमोऽध्यायः||९||