Skip to content

. अर्शश्चिकित्सितम्

Adhikarana १ (१-३) · Śloka

अथातोऽर्शसां चिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२|| चतुर्विधोऽर्शसां साधनोपायः | तद्यथा- भेषजं क्षारोऽग्निः शस्त्रमिति | तत्र, अचिरकालजातान्यल्पदोषलिङ्गोपद्रवाणि भेषजसाध्यानि, मृदुप्रसृतावगाढान्युच्छ्रितानि क्षारेण, कर्कशस्थिरपृथुकठिनान्यग्निना, तनुमूलान्युच्छ्रितानि क्लेदवन्ति च शस्त्रेण | तत्र भेषजसाध्यानामर्शसामदृश्यानां च भेषजं भवति, क्षाराग्निशस्त्रसाध्यानां तु विधानमुच्यमानमुपधारय ||३||

🔊 Audio coming soon

Hide commentary

तत्रेत्यादि| अचिरकालजानि अवत्सराणि| स्थिराणि अविसर्पीणि| पृथूनि विशालानि| कठिनानि अकोमलानि||१-३||

Adhikarana २ (४) · Śloka

तत्र बलवन्तमातुरमर्शोभिरुपद्रुतमुपस्निग्धं परिस्विन्नमनिलवेदनाभिवृद्धिप्रशमार्थं स्निग्धमुष्णमल्पमन्नं द्रवप्रायं भुक्तवन्तमुपवेश्य संवृ(भृ)ते शुचौ देशे साधारणे व्यभ्रे काले समे फलके शय्यायां वा प्रत्यादित्यगुदमन्यस्योत्सङ्गे निषण्णपूर्वकायमुत्तानं किञ्चिदुन्नतकटिकं वस्त्रकम्बलकोपविष्टं यन्त्रणशाटकेन परिक्षिप्तग्रीवासक्थिं परिकर्मिभिः सुपरिगृहीतमस्पन्दनशरीरं कृत्वा ततोऽस्मै घृताभ्यक्तगुदाय घृताभ्यक्तं यन्त्रमृज्वनुमुखं पायौ शनैः शनैः प्रवाहमाणस्य प्रणिधाय, प्रविष्टे चार्शो वीक्ष्य, शलाकयोत्पीड्य, पिचुवस्त्रयोरन्यतरेण प्रमृज्य, क्षारं पातयेत्; पातयित्वा च पाणिना यन्त्रद्वारं पिधाय वाक्च्छतमात्रमुपेक्षेत, ततः प्रमृज्य क्षारबलं व्याधिबलं चावेक्ष्य पुनरालेपयेत्, अथार्शः पक्वजाम्बवप्रतीकाशमवसन्नमीषन्नतमभिसमीक्ष्योपावर्तयेत्, क्षारं प्रक्षालयेद्धान्याम्लेन दधिमस्तुशुक्तफलाम्लैर्वा, ततो यष्टीमधुकमिश्रेण सर्पिषा निर्वाप्य यन्त्रमपनीयोत्थाप्यातुरमुष्णोदकोपविष्टं शीताभिरद्भिः परिषिञ्चेत्, अशीताभिरित्येके, ततो निर्वातमागारं प्रवेश्याचारिकमादिशेत्; सावशेषं पुनर्दहेत्; एवं सप्तरात्रात् सप्तरात्रादेकैकमुपक्रमेत; तत्र बहुषु पूर्वं दक्षिणं साधयेत्, दक्षिणाद्वामं, वामात् पृष्ठजं, ततोऽग्रजमिति ||४||

🔊 Audio coming soon

Hide commentary

तत्रेत्यादि| बलवन्तमिति आतुरोपक्रमे कृतमपि बलग्रहणं पुनरिह कृतम्; अन्वर्थत्वे ह्यनर्थनिवृत्त्यर्थमुक्तमप्युच्यते, यथैव हि व्यसनसङ्कटे पथि शनैः शनैरहिरहिरिति; मनोबलस्य सत्त्वस्य प्राप्त्यर्थमित्यन्ये, उपचयलक्षणस्य बलस्य प्राप्त्यर्थमित्यपरे; अपरे त्वेवं वदन्ति- ननु, अर्शोव्याध्युपद्रुतस्य कथं बलवत्त्वं स्यात्? अत्रोच्यते, बलवानत्र वृद्धत्वरहितो नात्यन्तहीनप्राणः सत्त्वभूयिष्ठो वा| अर्शोव्याधौ “अभुक्तवतः कर्म कुर्वीत” (सू. ५) इति सूत्रस्थाने प्रोक्तं, तदत्र कथं स्निग्धं द्रवप्रायमन्नं भुक्तवन्तमित्याद्युक्तं? भुक्तवतो हि कर्मणि क्रियमाणे हिक्काश्वासादय उत्पद्येरन्निति वृद्धवैद्याः; तत्रैके द्वित्रिचतुः- पञ्चदिनानि पूर्वाणि स्निग्धादिभोजनं न तु तदहरित्याहुः; अन्ये तु तदहरेव स्निग्धाल्पभोजनानन्तरमर्शःकर्मेत्याहुः, “प्राक् शस्त्रकर्मणश्चेष्टं भोजयेदातुरं भिषक्” (सू. १७) इति प्रागेवोक्तत्वात्; यत् पुनः “अभुक्तवतः कर्म” इत्युक्तं सूत्रस्थाने, तन्मुखाश्रितानामर्शसां कर्मणि भोजनप्रतिषेधार्थमिति| साधारणे काले नातिशीतोष्णे| फलके काष्ठफलके| वस्त्रकम्बलकोपविष्टमिति वसनोन्दुकनिविष्टम्| परिकर्मिणः सर्वकर्मणां कर्तारः परिचारकाः| क्षारं पातयेदत्र तन्त्रान्तरदृष्ट्या त्रिविधामपि क्षारमात्रामाह- “क्षारमात्रा नखोत्सेधप्रमाणाऽऽद्या प्रकीर्तिता| द्विगुणा मध्यमा मात्रा त्रिगुणा महती मता|| पित्ते श्लेष्मणि वाते च यथासङ्ख्यं प्रयोजयेत्”- इति| यन्त्रमुखपिधानं दाहशक्त्युत्कर्षार्थम्| तीक्ष्णौषधशक्तिकृतं क्षारबलं, व्याधिबलमवगाढोत्तानादिभेदेन| अत्र सर्वमप्यर्शः क्षारेण सम्यग्दग्धं पक्वजाम्बवप्रतीकाशमिति सामान्यलक्षणमुक्तं; तन्त्रान्तरीयास्तु पृथक्; तथाहि- “पक्वजाम्बवकाश्मर्यवर्णं दग्धेऽनिलार्शसि| पित्तजे भृङ्गमायूरकण्ठवर्णं विनिर्दिशेत्|| बृहतीपुष्पवर्णत्वं सम्यग्दग्धे कफार्शसि”- इति| धान्याम्लं काञ्जिकं, शुक्तं चुक्रं, फलाम्लो बीजपूररसः| तत इत्यादि| उष्णोदकोपविष्टमिति कफवातानुबन्धे उष्णोदकावगाहः, केवलयोस्तु रक्तपित्तयोः शीतोदकावगाहः||४||

Adhikarana ३ (५-६) · Śloka

तत्र वातश्लेष्मनिमित्तान्यग्निक्षाराभ्यां साधयेत्, क्षारेणैव मृदुना पित्तरक्तनिमित्तानि ||५|| तत्र वातानुलोम्यमन्नरुचिरग्निदीप्तिर्लाघवं बलवर्णोत्पत्तिर्मनस्तुष्टिरिति सम्यग्दग्धलिङ्गानि, अतिदग्धे तु गुदावदरणं दाहो मूर्च्छा ज्वरः पिपासा शोणितातिप्रवृत्तिस्तन्निमित्ताश्चोपद्रवा भवन्ति, ध्यामाल्पव्रणता कण्डूरनिलवैगुण्यमिन्द्रियाणामप्रसादो विकारस्य चाशान्तिर्हीनदग्धे ||६||

🔊 Audio coming soon

Hide commentary

तन्निमित्ताः शोणितस्रावनिमित्ताः| ध्यामः कृष्णश्यामः||५-६||

Adhikarana ४ (७) · Śloka

महान्ति च प्राणवतश्छित्त्वा दहेत्, निर्गतानि चात्यर्थं दोषपूर्णानि यन्त्राद्विना स्वेदाभ्यङ्गस्नेहावगाहोपनाहविस्रावणालेपक्षाराग्निशस्त्रैरुपाचरेत्; प्रवृत्तरक्तानि च रक्तपित्तविधानेन, भिन्नपुरीषाणिचातीसारविधानेन, बद्धवर्चांसि स्नेहपानविधानेनोदावर्तविधानेन वा; एष सर्वस्थानगतानामर्शसां दहनकल्पः ||७||

🔊 Audio coming soon

Hide commentary

महान्तीत्यादि| दाहः पुनरग्निकृतः, क्षारदाहस्योक्तत्वात्| दोषपूर्णानीति दोषैर्वातपित्तकफरक्तैः पूरितानि| एष इत्यादि| अत्र सर्वशब्देन मेढ्रादिस्थानगतानामर्शसामवरोधः| दहनग्रहणमत्रोपलक्षणं, तेन स्नेहादि शस्त्रं चानुक्तमुपलक्षयेत्||७||

Adhikarana ५ (८) · Śloka

आसाद्य च दर्वीकूर्चकशलाकानामन्यतमेन क्षारं पातयेत् | भ्रष्टगुदस्य तु विना यन्त्रेण क्षारादिकर्म प्रयुञ्जीत | सर्वेषु च शालिषष्टिकयवगोधूमान्नं सर्पिःस्निग्धमुपसेवेत पयसा निम्बयूषेण पटोलयूषेण वा, यथादोषं शाकैर्वास्तूकतण्डुलीयकजीवन्त्युपोदिकाश्वबलाबालमूलकपालङ्क्यसनचिल्लीचुच्चूकलायवल्लीभिरन्यैर्वा | यच्चान्यदपि स्निग्धमग्निदीपनमर्शोघ्नं सृष्टमूत्रपुरीषं च तदुपसेवेत ||८||

🔊 Audio coming soon

Hide commentary

आसाद्येत्यादि| गोधूमस्य गुरुत्वेऽपि पूयवृध्द्यर्थं क्षारव्रणक्लेदनार्थं चोपयोगः; तत उक्तं- “गोधूमान्नं सर्पिःस्निग्धमुपसेवेत” इति| वास्तुकः टड्कवास्तुकः, जीवन्ती डोडिका, अश्वबला हिस्फीत्यो मेथिकाभेदः, चिल्ली क्षेत्रवास्तुकः, चुच्चुः ‘चुचु’रिति लोके| अनुक्तमप्यन्नपानौषधद्रव्यं निर्दिशन्नाह- यदित्यादि| सृष्टमूत्रपुरीषं चेति सृष्टं विण्मूत्रं येनेति, अर्शः- कृतमार्गावरोधकुपितवातविबद्धस्य मूत्रस्य पुरीषस्य च विसर्गकरम्| चेति चकारेण तन्त्रोदितमन्यदपि पलाण्ड्वादि समुच्चीयते||८||

Adhikarana ६ (९) · Śloka

दग्धेषु चार्शःस्वभ्यक्तोऽनलसन्धुक्षणार्थमनिलप्रकोपसंरक्षणार्थं च स्नेहादीनां सामान्यतः क्रियापथमुपसेवेत | विशेषतस्तु वातार्शःसु सर्पींषि च वातहरदीपनीयसिद्धानि हिङ्ग्वादिभिश्चूर्णैः प्रतिसंसृज्य पिबेत्, पित्तार्शःसु पृथक्पर्ण्यादीनां कषायेण दीपनीयप्रतीवापं सर्पिः , शोणितार्शःसु मञ्जिष्ठामुरुङ्ग्यादीनां कषाये पाचयेत्, श्लेष्मार्शःसु सुरसादीनां कषाये | उपद्रवांश्च यथास्वमुपाचरेत् ||९||

🔊 Audio coming soon

Hide commentary

दग्धेष्वित्यादि| चेति चकारेणादग्धेष्वपि विधिरयम्| सामान्यतः सामान्येन सर्वार्शोघ्नविधिना, विशेषतस्तु वाताद्यर्शसां दहनविधिना दग्धेषु विधिः; तमेव विशेषं निर्दिशन्नाह- सर्पींषीत्यादि| सर्पींषि च वातहरदीपनीयसिद्धानीत्यत्र वातहराणि भद्रदार्वादीनि, दीपनीयानि पिप्पल्यादीनि| अत्र च क्वाथकल्कविधिः सामान्यकषायकल्कविधिना| तत्र सिद्धे घृते वातव्याधिपठितं हिङ्ग्वादिचूर्णमावाप्य योज्यम्, उत्तरेषु त्रिष्वपि पिप्पल्यादिकल्कमामनन्ति वृद्धाः| पित्तेत्यादि| पृथक्पर्ण्यादयो रोपणघृतसाधनमिश्रकोक्ताः| मुरुङ्गी मधुशिग्रुः, तदादिर्मुरङ्ग्यादिः; मुरुङ्ग्यादिर्वरुणाद्यन्तर्गणः “मधुशिग्रुस्तर्कारी मेषशृङ्गी” (सू. ३८) इत्यादिकः| कषाय इति सिद्धं सर्पिरित्यत्रापि सम्बध्यते| श्लेष्मार्शःस्वित्यादि| श्लेष्मार्शःसु सुरसादीनां कषाये सिद्धं सर्पिरित्यत्रापि सम्बध्यते| सुरसादिः “सुरसा श्वेतसुरसा” (सू. ३८) इत्यादिः| उपद्रवचिकित्सासूत्रमुपदर्शयन्नाह- उपद्रवानित्यादि| ये चोपद्रवा गुल्मादयो ज्वरादयश्च तानात्मीयेनौषधेन प्रतिकुर्यात्||९||

Adhikarana ७ (१०) · Śloka १०

परं च यत्नमास्थाय गुदे क्षाराग्निशस्त्राण्यवचारयेत्, तद्विभ्रमाद्धि षाण्ढ्यशोफदाहमदमूर्च्छाटोपानाहातीसारप्रवाहणानि भवन्ति मरणं वा ||१०||

🔊 Audio coming soon

Hide commentary

इदानीं क्षारादीनामतितीक्ष्णत्वादियोगात्तेषां दुर्योगे बहुतरानर्थकरत्वात् सुयोगैकहेतुं निर्दिशन्नाह- परं चेत्यादि| परम् उत्तमम्||१०||

Adhikarana ८ (११) · Śloka ११

अत ऊर्ध्वं यन्त्रप्रमाणमुपदेक्ष्यामः- तत्र यन्त्रं लौहं दान्तं शार्ङ्गं वार्क्षं वा गोस्तनाकारं चतुरङ्गुलायतं पञ्चाङ्गुलपरिणाहं पुंसां, षडङ्गुलपरिणाहं नारीणां तलायतं; तद् द्विच्छिद्रं दर्शनार्थम्, एकछिद्रं तु कर्मणि; एकद्वारे हि शस्त्रक्षाराग्नीनामतिक्रमो न भवति; छिद्रप्रमाणं तु त्र्यङ्गुलायतमङ्गुष्ठोदरपरिणाहं, यदङ्गुलमवशिष्टं तस्यार्धाङ्गुलादधस्तादर्धाङ्गुलोच्छ्रितोपरिवृत्तकर्णिकम्; एष यन्त्राकृतिसमासः ||११||

🔊 Audio coming soon

Hide commentary

अत इत्यादि| लौहं सुवर्णरूप्यादिलोहमयम्| दान्तं हस्त्यादिदन्तमयम्| शार्ङ्गं महिषादिशृङ्गमयम्| वार्क्षं वृक्षमयं; वृक्षाः सारवृक्षाः शिंशपादयः| आयतं दीर्घम्| परिणाहो वर्तुलता| तलायतमिति तलं स्वहस्ततलम्| केचिदत्र स्त्रियाः पृथग्यन्त्राभिधानग्रन्थमपठित्वा स्त्रीपुंसयोस्तुल्यमेव यन्त्रमित्याहुः| अन्ये ‘तलायतं’ इत्यत्र ‘तदायतं’ इति पठित्वा व्याख्यानयन्ति- स्त्रीपुंसयोर्यन्त्रवर्तुलत्वे भेदः, दैर्ध्ये तु तदायतं पुरुषयन्त्रायतमित्यर्थः| अर्धाङ्गुलोच्छ्रितोपरिवृत्तकर्णिकमिति अर्धाङ्गुलोच्छ्राये उपरि वृत्ता कर्णिका यस्येत्यर्थः| ‘अपवृत्तकर्णिकं’ इति केचित् पठन्ति, अपकृष्टा वृत्तकर्णिका यस्येति; तत्राप्युत्तरपदलोपेन समासः, अर्थोऽपि स एव| यन्त्राकृतिसमास इति यन्त्राकारसङ्क्षेप इत्यर्थः; विस्तरस्तु नानास्थानस्थितार्शःस्रोतःप्रमाणाकाराभ्यां द्रव्याकारप्रमाणच्छिद्रैरेवेति||११||

Adhikarana ९ (१२) · Śloka १२

अत ऊर्ध्वमर्शसामालेपान् वक्ष्यामः- स्नुहीक्षीरयुक्तं हरिद्राचूर्णमालेपः प्रथमः, कुक्कुटपुरीषगुञ्जाहरिद्रापिप्पलीचूर्णमिति गोमूत्रपित्तपिष्टो द्वितीयः, दन्तीचित्रकसुवर्चिकालाङ्गलीकल्को वा गोपित्तपिष्टस्तृतीयः, पिप्पलीसैन्धवकुष्ठशिरीषफलकल्कः स्नुहीक्षीरपिष्टोऽर्कक्षीरपिष्टो वा चतुर्थः, कासीसहरितालसैन्धवाश्वमारकविडङ्गपूतीककृतवेधनजम्ब्वर्कोत्तमारणीदन्तीचित्रकालर्कस्नुहीपयःसु तैलं विपक्वमभ्यञ्जनेनार्शः शातयति ||१२||

🔊 Audio coming soon

Hide commentary

आलेपयोगेषु प्रथमादिवचनं प्रत्येकमेव योगानां महाबलत्वसूचनार्थम्, उत्तरोत्तरबलीयस्त्वेन प्रयोगकालावधारणार्थमित्यन्ये| गोमूत्रपित्तपिष्टो गोमूत्रगोपित्ताभ्यां पिष्टः| कृतवेधनः कोशातकी| जम्बूः भूमिजम्बूः| उत्तमारणी योधामल्ली | अर्कोऽर्कक्षीरम्| अलर्कः मन्दारः||१२||

Adhikarana १० (१३) · Śloka १३

अत ऊर्ध्वं भेषजसाध्येष्वदृश्येष्वर्शःसु योगान् यापनार्थं वक्ष्यामः- प्रातः प्रातर्गुडहरीतकीमासेवेत, ब्रह्मचारी गोमूत्रद्रोणसिद्धं वा हरीतकीशतं प्रातः प्रातर्यथाबलं क्षौद्रेण, अपामार्गमूलं वा तण्डुलोदकेन सक्षौद्रमहरहः, शतावरीमूलकल्कं वा क्षीरेण, चित्रकचूर्णयुक्तं वा सीधुं परार्ध्यं, भल्लातचूर्णयुक्तं वा सक्तुमन्थमलवणं तक्रेण, कलशे वाऽन्तश्चित्रकमूलकल्कावलिप्ते निषिक्तं तक्रमम्लमनम्लं वा पानभोजनेषूपयुञ्जीत, एष एव भार्ग्यास्फोतायवान्यामलकगुडूचीषु तक्रकल्पः, पिप्पलीपिप्पलीमूलचव्यचित्रकविडङ्गशुण्ठीहरीतकीषु च पूर्ववदेव, निरन्नो वा तक्रमहरहर्मासमुपसेवेत, शृङ्गवेरपुनर्नवाचित्रककषायसिद्धं वा पयः, कुटजमूलत्वक्फाणितं वा पिप्पल्यादिप्रतीवापं क्षौद्रेण, महावातव्याध्युक्तं हिङ्ग्वादिचूर्णमुपसेवेत तक्राहारः क्षीराहारो वा, क्षारलवणांश्चित्रकमूलक्षारोदकसिद्धान् वा कुल्माषान् भक्षयेत्, चित्रकमूलक्षारोदकसिद्धं वा पयः पलाशतरूक्षारसिद्धं वा, पलाशतरूक्षारसिद्धान् वा कुल्माषान्, पाटलापामार्गबृहतीपलाशक्षारं वा परिस्नुतमहरहर्घृतसंसृष्टं, कुटजबन्दाकमूलकल्कं वा तक्रेण, चित्रकपूतीकनागरकल्कं वा पूतीकक्षारेण, क्षारोदकसिद्धं वा सर्पिः पिप्पल्यादिप्रतीवापं, कृष्णतिलप्रसृतं प्रकुञ्चं वा प्रातः प्रातरुपसेवेत शीतोदकानुपानम्; एभिरभिवर्धतेऽग्निरर्शांसि चोपशाम्यन्ति ||१३||

🔊 Audio coming soon

Hide commentary

अत इत्यादि| हरीतक्यादियुतो गुडोऽप्यग्निदीपनः, संयोगशक्तित्वात्| उक्तं च- “गुडः कर्ताऽग्निसादस्य, सह न त्वभयादिभिः | कुष्ठं तत्कार्यपि तिलो हन्ति भल्लातकैः सह” इति| भल्लातकचूर्णयुक्तं चेत्यादियोगं यावदासेवेतेति क्रियाऽपि सम्बध्यते| ब्रह्मचारीत्यादि| गोमूत्रहरीतकी गाढविट्कस्य मन्दाग्नेः| ब्रह्मचर्यं योगस्य रौक्ष्यात्| अपामार्गमूलयोगः पित्तरक्तार्शसि, गयदासस्तु कफानुबद्धरक्तजेषु| शतावरीमूलकल्कं वातपित्तानुबद्धरक्तजेषु| चित्रकेत्यादि| सीधुं शस्यकं, परार्ध्यं श्रेष्ठम्| चूर्णं कर्षप्रमाणम्| एतच्च कफमन्दाग्नौ बद्धपुरीषे वा| भल्लातकेत्यादि| भल्लातकचूर्णं षडङ्गादिवदाहरत्वेन कर्षमात्रं, भल्लातकचूर्णाद्यवसक्तवस्तु षोडशगुणा एव, तक्रप्रमाणं पुनरत्र यावता नात्यच्छं नातिसान्द्रं चेति| जेज्जटाचार्यः| पुनरत्र चतुर्थांशं भल्लातकचूर्णमिच्छति; तन्नेच्छति गयी| तक्रप्रसङ्गेनापरार्शोहरतक्रप्रयोगं निर्दिशन्नाह- कलशे इत्यादि| आस्फोता सारिवा| पिप्पलीत्यादि| निरन्नः अन्नवर्जम्| एते च तक्रप्रयोगाः कफवातजेषु शुष्कार्शःसु| शुष्कार्शसां वातकफजानामन्नपाने तक्रं निर्दिश्य, आर्द्राणां रक्तपित्तजानामन्नपाने गोरसमेव निर्दिशन्नाह- शृङ्गवेरेत्यादि| औषधशृतक्षीरपानपक्षे “द्रव्यादष्टगुणं क्षीरं क्षीरात्तोयं चतुर्गुणम्| क्षीरावशेषः(षं) कर्तव्यः क्षीरपाके त्वयं विधिः”- इति न्यायेन, तृष्णापनयनपानपक्षे तु षडङ्गकल्पनया कर्षमात्रेणैव| ‘शृङ्गवेरादिसिद्धं पयः’ इत्यन्ये पठन्ति; तत्र पिप्पल्याद्यन्तर्गताः शृङ्गवेरादिः; अथवा प्रकारवाच्यत्रादिशब्दः| अयं योगः कफवातानुबन्धरक्तजेषु| कुटजेत्यादि| कुटजत्वचां शतपलफाणिते पिप्पल्यादिचूर्णं षट्पलं, क्षौद्रप्रमाणं तु प्रयोगकाले यावताऽवलेहः स्यात्| कुटजफाणितं तु कफपित्तानुबद्धरक्तजेषु| हिङ्ग्वित्यादि| हिङ्ग्वादिकं वातकफजेषु, तक्राहारो वातकफानुबद्धरक्तजेषु, वातपित्तानुबन्धजेषु क्षीराहारः| क्षारेत्यादि| कुल्माषा यवौदनः| चित्रकमूलस्यापि षडङ्गोदककल्पेन कषायः| तानेव यवक्षारेण लवणान् लवणीकृतान्| चित्रकेत्यादि| अत्रापि पलाशक्षारप्रमाणस्य तदुदकप्रमाणस्य च षडङ्गोद्देशतः सिद्धिः| पाटलेत्यादि| पाटलादिक्षारपलं त्रिकर्षमर्धपलं वा क्वाथकल्पेन क्वथितमर्धावशेषितं सुपरिस्रुतं सघृतकर्षं पेयं; जीर्णे च तस्मिन् समघृतक्षीरं मधुररसमेवान्नं भोज्यम्, ओजोभ्रंशभयात्| कुटजेत्यादि| कुटजमूलबन्दाकयोः पलं त्रिकर्षमर्धपलं वा तक्रपलद्वयेन| घृतक्षीरमधुररसभोजनश्चित्रकादिकल्कं पूतीकक्षारोदकेन पिबेत्| क्षारोदकसिद्धमिति पूतीकक्षारोदकाढकसिद्धं पाटलाक्षारोदकाढकसिद्धं वा सर्पिः पलप्रमाणं पानकाले पिप्पल्यादिचूर्णपादप्रक्षेपं पेयम्| भोजनमत्रापि सघृतक्षीरमधुररसं, क्षारस्य खरतीक्ष्णत्वात्| एतच्च वातजेषु रूक्षकोष्ठेषु चावसन्नानलेषु||१३||

Adhikarana ११ (१४) · Śloka १४

द्विपञ्चमूलीदन्तीचित्रकपथ्यानां तुलामाहृत्य जलचतुर्द्रोणे विपाचयेत्, ततः पादावशिष्टं कषायमादाय सुशीतं गुडतुलया सहोन्मिश्र्य घृतभाजने निःक्षिप्य मासमुपेक्षेत यवपल्ले, ततः प्रातः प्रातर्मात्रां पाययेत, तेनार्शोग्रहणीदोषपाण्डुरोगोदावर्तारोचका न भवन्ति दीप्तश्चाग्निर्भवति ||१४||

🔊 Audio coming soon

Hide commentary

द्विपञ्चमूलीत्यादि| एषां समभागानां तुलां पलशतम्| अस्मिन्नरिष्टे धातकीपूष्पाणि पलद्वयं त्रयं वाऽनुक्तान्यप्यधिवासनार्थं वृद्धा आमनन्ति| तुलां तुलामित्यन्ये पठन्ति, व्याख्यानयन्ति च- द्विपञ्चमूल्यादीनां च प्रत्येकं तुलां पलशतं; तन्नेच्छति गयी| यवपल्ले यवराशावित्यर्थः| तन्त्रान्तरे चास्य ‘दन्त्यरिष्ट’ इति सञ्ज्ञा||१४||

Adhikarana १२ (१५) · Śloka १५

पिप्पलीमरिचविडङ्गैलवालुकलोध्राणां द्वे द्वे पले, इन्द्रवारुण्याः पञ्च पलानि, कपित्थमध्यस्य दश, पथ्याफलानामर्धप्रस्थः, प्रस्थो धात्रीफलानां, एतदैकध्यं जलचतुर्द्रोणे विपाच्य, पादावशेषं परिस्राव्य, सुशीतं गुडतुलाद्वयेनोन्मिश्र्य, घृतभाजने निःक्षिप्य, पक्षमुपेक्षेत यवपल्ले; ततः प्रातः प्रातर्यथाबलमुपयुञ्जीत | एष खल्वरिष्टः प्लीहाग्निषङ्गार्शोग्रहणीहृत्पाण्डुरोगशोफकुष्ठगुल्मोदरकृमिहरो बलवर्णकरश्चेति ||१५||

🔊 Audio coming soon

Hide commentary

पिप्पलीत्यादि| इन्द्रवारुण्याः प्रोक्तेऽपि पलपञ्चके कटुकत्वपरिहारायार्धं क्षिपन्ति वृद्धवैद्याः| चरकेऽप्ययं पठ्यतेऽभयारिष्टः||१५||

Adhikarana १३ (१६) · Śloka १६

तत्र, वातप्रायेषु स्नेहस्वेदवमनविरेचनास्थापनानुवासनमप्रतिषिद्धं, पित्तजेषु विरेचनम्, एवं रक्तजेषु संशमनं, कफजेषु शृङ्गवेरकुलत्थोपयोगः, सर्वदोषहरं यथोक्तं सर्वजेषु, यथास्वौषधिसिद्धं च पयः सर्वेष्विति ||१६||

🔊 Audio coming soon

Hide commentary

अचिरोत्पन्नानामल्पदोषलिङ्गानां साधनार्थमदृश्यानां याप्यानां यापनार्थं च स्नेहादिकर्माणि निर्दिशन्नाह- तत्रेत्यादि| तत्रार्शःसु वमनस्य निषिद्धस्यापि कफप्रसेकादिष्ववस्थासु कर्तव्यताप्रसङ्गः| केचिद्वातप्रायेष्वित्यादिकं ग्रन्थमनार्षमित्याचक्षते, गयदासव्याख्यातत्वान्मयाऽपि व्याख्यातः| पित्तजेष्वित्यादि| एवमिति विरेचनम्| न वामयति नापि विरेचयति व्याधिना सहैकीभूय तत्स्थमेव व्याधिं शमयेत्तत् संशमनम्||१६||

Adhikarana १४ (१७) · Śloka १७

अत ऊर्ध्वं भल्लातकविधानमुपदेक्ष्यामः- भल्लातकानि परिपक्वान्यनुपहतान्याहृत्य तत एकमादाय द्विधा त्रिधा चतुर्धा वा छेदयित्वा कषायकल्पेन विपाच्य तस्य कषायस्य शुक्तिमनुष्णां घृताभ्यक्ततालुजिह्वौष्ठः प्रातः प्रातरुपसेवेत, ततोऽपराह्णे क्षीरं सर्पिरोदन इत्याहारः; एवमेकैकं वर्धयेद्यावत् पञ्चति, ततः पञ्च पञ्चाभिवर्धयेद्यावत् सप्ततिरिति, प्राप्य च सप्ततिमपकर्षयेद्भूयः पञ्च पञ्च यावत् पञ्चेति, पञ्चभ्यस्त्वेकैकं यावदेकमिति | एवं भल्लातकसहस्रमुपयुज्य सर्वकुष्ठार्शोभिर्विमुक्तो बलवानरोगः शतायुर्भवति ||१७||

🔊 Audio coming soon

Hide commentary

अचिरोत्पन्नानामल्पदोषलिङ्गानां च साधनार्थं चिरजातानामदृश्यानां यापनार्थं विशिष्टप्रयोगं निर्दिशन्नाह- अत इत्यादि| फलं पर्यागतमिति पूर्वोक्तत्वात् परिपक्वान्येव लब्धानि, भूमिविभागोक्तौषधदोषपरिहारेणानुपहतान्यपि लब्धानि, पुनस्तद्वचनं प्रयोगस्य महाफलत्वेन गौरवोत्पादनार्थम्| कषायस्य शुक्तिमिति अत्रैकापेक्षया शुक्तिमानं, यथा चात्र भल्लातकानां क्वाथ्यानां परिवृद्धिस्तथा क्वाथोदकस्यापि बुद्ध्या वृद्धिः परिकल्पनीया| भल्लातकानि तदस्थीनि पक्वानि तन्त्रान्तरदर्शनाच्छुचौ शुक्रे वा मासि गृहीत्वा यवपल्ले माषपल्ले वा निधाय, मार्गशीर्षे पौषे वा प्रयुञ्जीत| एवमुक्तप्रकारेण सप्ततिं यावदुत्कर्षेण भल्लातकसहस्रं पञ्चत्रिंशता दिवसैः पूर्यते, शतं यावदुत्कर्षेण सहस्रद्वयविधानं स्यात्; तत्राद्यं दिनचतुष्टयं संस्कारमात्रजनकत्वादन्त्यं च भल्लातकसंस्कारापकर्षणत्वान्न वृद्धा भिषजो गणयन्ति, ततः सहस्रद्वयं पूर्यत एव| एवं भल्लातकप्रयोगश्च त्रिविधः| तत्र शतान्तः शरीरबलदोषापेक्षया प्रवरः, सप्तत्यन्तो मध्यमः, त्रिंशदन्तः पुनरधमः प्रयोगः, एवं तन्त्रान्तराद् व्याख्यायते| ग्रीष्मकाले गृहीतान्यापूर्णरसान्यनामयानि भल्लातकास्थीनि यवपल्ले माषपल्ले वा चतुर्मासावस्थितानि हेमन्ते प्रयोक्तुमारमेत; मधुरस्निग्धशीतोपसंसृष्टशरीरः प्रथमं दश भल्लातकानि सङ्क्षुद्याष्टगुणेन सलिलेन क्वाथं कृत्वाऽष्टभागावशेषं सदुग्धं घृतेनान्तर्मुखमभ्यज्य पिबेत्, तान्येकैकशो भल्लातकोत्कर्षेण त्रिंशत्कृत्वा पुनरेकैकमपकर्षयेद्यावद्दशभल्लातकप्रयोगः; नातः परमुत्कर्षः कर्तव्यः| अनेन क्रमेण सहस्रभल्लातकप्रयोगः परं न घटते, यथाऽत्र घटते तथाविधः पारम्पर्योपदेशो व्याख्यायते- त्रिंशद्रात्रौ सप्तरात्रं त्रिंशत्प्रयोगः कर्तव्यः, तत एकैकमपकर्षयेद्यावद्दश, पुनरन्यस्मिन्नपि दिने दशेति, एवं भल्लातकसहस्रमुपयुज्यत इति घटते| सर्वकुष्ठार्शोभिर्विमुक्त इति वचनं न यथार्थवचनं, काकणकस्य कुष्ठस्यादिबलप्रवृत्तानां च कुष्ठानां तथा त्रिदोषजानां चार्शसां सहजानां चासाध्यत्वात्, रक्तपित्तजानामप्यर्शसां भल्लातकाविषयत्वात्| तुवरकभल्लातकयोर्वार्युष्णं निषिद्धं, ततोऽल्पशृतशीतजलं पेयम्||१७||

Adhikarana १५ (१८) · Śloka १८

द्विव्रणीयोक्तेन विधानेन भल्लातकनिश्च्युतितं स्नेहमादाय प्रातः प्रातः शुक्तिमात्रमुपयुञ्जीत, जीर्णे पूर्ववदाहारः फलप्रकर्षश्च | भल्लातकमज्जभ्यो वा स्नेहमादायापकृष्टदोषः प्रतिसंसृष्टभक्तो निवातमागारं प्रविश्य यथाबलं प्रसृतिं प्रकुञ्चं वोपयुञ्जीत, तस्मिञ्जीर्णे क्षीरं सर्पिरोदन इत्याहारः, एवं मासमुपयुज्य मासत्रयमादिष्टाहारो रक्षेदात्मानं; ततः सर्वोपतापानपहृत्य वर्णवान् बलवाञ् श्रवणग्रहणधारणशक्तिसम्पन्नो वर्षशतायुर्भवति, मासे मासे च प्रयोगे वर्षशतं वर्षशतमायुषोऽभिवृद्धिर्भवति, एवं दशमासानुपयुज्य वर्षसहस्रायुर्भवति ||१८||

🔊 Audio coming soon

Hide commentary

भल्लातकप्रयोगान्तरं दर्शयति- द्विव्रणीयेत्यादि| प्रतिसंसृष्टभक्त इति यवाग्वादिक्रमभुक्त इत्यर्थः| द्वादशभिरन्नकालैः षड् दिनानि, विरेचनदिवसेन सह सप्त दिनानि च, तदुत्तरं भोजनमष्टमे; तस्यापोहे सप्त, तदा सप्तमे वाऽहनि भोजनं; नवमे पुनरहनि भल्लातकमज्जस्नेहं पिबेत्| यथाबलमिति पुरुषरोगबलानतिक्रमेण प्रसृतिं प्रकुञ्चं वाऽष्टभागमधुयुक्तं द्विगुणघृतं पूर्ववद्धृताभ्यक्तताल्वोष्ठः शीतं पिबेत्; शीतोदकाद्युपचारश्च| प्रसृतिः पलद्वयं, प्रकुञ्चः पलम्| रक्षेदात्मानं ‘क्रोधादिभ्य’ इति शेषः||१८||

Adhikarana १६ (१९-२०) · Śloka २०

भवन्ति चात्र- यथा सर्वाणि कुष्ठानि हतः खदिरबीजकौ | तथैवार्शांसि सर्वाणि वृक्षकारुष्करौ हतः ||१९|| हरिद्रायाः प्रयोगेण प्रमेहा इव षोडश | क्षाराग्नी नातिवर्तन्ते तथा दृश्या गुदोद्भवाः ||२०||

🔊 Audio coming soon

Hide commentary

प्रभावविभावितं खदिरादीनां कुष्ठादिहरत्वं पुरातनागमनिर्दिष्टैः श्लोकैराह- भवन्ति चात्रेत्यादि| द्वाभ्यां कुटजभल्लातकाभ्यां यथास्वं विषयमुपयुज्यमानाभ्यां प्रत्येकशो वातादिदोषत्रयजनितान्यर्शांसि निवर्तन्ते| तद्यथा- वातकफजानि भल्लातकेन, रक्तपित्तजानि कुटजेन| एवमेवाभिप्रेत्य सर्वाणि, न पुनः सान्निपातिकसर्वदोषजापेक्षया सर्वाणीति| एवं कुष्ठेष्वपि साध्यत्वेन दार्ष्टान्तिकं द्रष्टव्यम्| षोडश प्रमेहा वातजप्रमेहचतुष्टयं विहाय||१९-२०||

Adhikarana १७ (२१) · Śloka २१

घृतानि दीपनीयानि लेहायस्कृतयः सुराः | आसवाश्च प्रयोक्तव्या वीक्ष्य दोषसमुच्छ्रितिम् ||२१||

🔊 Audio coming soon

Hide commentary

अन्यदपि चिकित्सितं दोषोच्छ्रायापेक्षयाह- घृतानीत्यादि| लेहाः कुटजावलेहादयः, नवायसादयोऽयस्कृतयो महाकुष्ठमधुमेहादिचिकित्सितनिर्दिष्टाः| सुरा नानाविधाः पैष्टिकादिभेदेन विरेचनाध्यायविधिविधेयाः| आसवाश्च नानाविधौषधक्वाथगुडादिकृता धातक्यादिचूर्णाधिवासिताः| ‘वीक्ष्य दोषं यथाफलम्’ इत्यन्ये पठन्ति, तत्र फलमुक्तमनतिक्रम्येत्यर्थः ||२१||

Adhikarana १८ (२२) · Śloka २२

वेगावरोधस्त्रीपृष्ठयानान्युत्कुटुकासनम् | यथास्वं दोषलं चान्नमर्शःसु परिवर्जयेत् ||२२||

🔊 Audio coming soon

Hide commentary

वर्ज्यान् निर्दिशन्नाह- वेगावरोधेत्यादि| वातमूत्रपुरीषादीनां स्वमार्गेण स्वभावतः प्रवृत्त्यभिमुखीभावो वेगः| उत्कुटुकासनमुत्कटिकस्य चिरासनस्थितिः||२२||

Adhikarana पुष्पिका · Śloka

इति सुश्रुतसंहितायां चिकित्सास्थानेऽर्शश्चिकित्सितं नाम षष्ठोऽध्यायः ||६||

🔊 Audio coming soon

Hide commentary

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने षष्ठोऽध्यायः||६||