Skip to content

२४. ऊरुस्तम्भनिदानम्

Adhikarana ऊरुस्तम्भस्य निदानसम्प्राप्तिपूर्वकं लक्षणम् (१-५) · Śloka

अथोरुस्तम्भनिदानम् | शीतोष्णद्रवसंशुष्कगुरुस्निग्धैर्निषेवितैः | जीर्णाजीर्णे तथाऽऽयाससङ्क्षोभस्वप्नजागरैः ||१|| सश्लेष्ममेदःपवनः साममत्यर्थसञ्चितम् | अभिभूयेतरं दोषमूरू चेत् प्रतिपद्यते ||२|| सक्थ्यस्थिनी प्रपूर्यान्तः श्लेष्मणा स्तिमितेन च | तदा स्तभ्नाति तेनोरू स्तब्धौ शीतावचेतनौ ||३|| परकीयाविव गुरू स्यातामतिभृशव्यथौ | ध्यानाङ्गमर्दस्तैमित्यतन्द्राच्छर्द्यरुचिज्वरैः ||४|| संयुक्तौ पादसदनकृच्छ्रोद्धरणसुप्तिभिः | तमूरुस्तम्भमित्याहुराढ्यवातमथापरे ||५|| (वा. नि. अ. १५) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

वातव्याधिविशेषत्वादूरुस्तम्भमाह– शीतोष्णेत्यादि| शीतोष्णग्रहणमनुक्तपरस्परविरोधिद्वन्द्वोपलक्षणार्थं, तेन गुरुस्निग्धाभ्यां लघुरूक्षयोर्ग्रहणं बोध्यमिति जेज्जटः| संशुष्कं कठिनं, द्रवविरोधित्वात्| जीर्णाजीर्णे इति प्रभूतं जीर्णं, स्तोकमजीर्णमित्याहुः, तस्मिन्; ‘भोजने’ इति शेषः| अत एव दृढबलेन– ‘जीर्णाजीर्णे समश्नतः|’ (च. चि. अ. २७) इति पठितम्| एते च यथासम्भवं श्लेष्मादीनां हेतवः| सश्लेष्ममेदःपवनः इति सश्लेष्ममेदश्चासौ पवनश्चेति सश्लेष्ममेदःपवनः इति विग्रहः| इतरं दोषं पित्तम्| अस्यां सम्प्राप्तौ वातस्य प्राधान्यमुक्तम्, अत एव सुश्रुतेन महावातव्याधावयं रोगः पठितः| चरके तु कफस्य प्राधान्यमुक्तम्| यदाह– “ऊरू श्लेष्मा समेदस्को वातपित्तेऽभिभूय तु|” (च. चि. अ. २७) इत्यादि| तत्र चरके आवरकस्य श्लेष्मणः प्राक्चिकित्स्यत्वेन प्राधान्यम्, आरम्भकत्वेन तु सुश्रुते पवनस्येति न विरोधः| परकीयाविवेत्यनेन उत्क्षेपणगमनादिष्वप्रभुत्वं दर्शयति| ध्यानादिभिर्ज्वरान्तैरुपलक्षितः ‘पुरुष’ इति शेषः||१-५||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

वातव्याधिविशेषत्वादूरुस्तम्भनिदानारम्भः| तस्य निदानपूर्वां सम्प्राप्तिमाह– शीतेत्यादि| शीतोष्णादिग्रहणमनुक्तपरस्परविरोधिद्वन्द्वदोषोपलक्षणार्थं, तेन गुरुस्निग्धाभ्यां लघुरूक्षयोर्ग्रहणं बोद्धव्यमिति जेज्जटः| संशुष्कं कठिनं, द्रवविरोधित्वात्| जीर्णाजीर्णे इति प्रभूतं जीर्णं, स्तोकमजीर्णमित्याहुः, तस्मिन्; ‘भोजने’ इति शेषः| अत एव दृढबलेन ‘जीर्णाजीर्णे समश्नतः’ इति पठितम्| आयासो व्यायामः| स्वप्नं दिवा, जागरणं निशि| सश्लेष्ममेदःपवन इति सश्लेष्ममेदश्चासौ पवनश्च सश्लेष्ममेदः पवनः| अत्यर्थसञ्चितमितरं दोषं पित्तम्| अस्यां सम्प्राप्तौ वातस्य प्राधान्यमुक्तम्, अत एव सुश्रुते महावातव्याधावयं पठितः; चरके तु कफप्राधान्यम्| तत्र चरके आवरकस्य कफस्य प्राक्चिकित्स्यत्वेन प्राधान्यम्| आरम्भकत्वेन तु सुश्रुते पवनस्येति न विरोधः| स्तिमितेन मन्देन, स्तभ्नाति स्तम्भयति, अचेतनौ स्पर्शज्ञानरहितौ| परकीयाविवेत्यनेन उत्क्षेपणगमनादिष्वप्रभुत्वं दर्शयति| ध्यानादिभिः ज्वरान्तैरुपलक्षितः, ‘पुरुष’ इति शेषः| ऊरुस्तम्भमपरे आढ्यवातमाहुः||१-५||

Adhikarana ऊरुस्तम्भस्य पूर्वरूपम् (६) · Śloka

प्राग्रूपं तस्य निद्राऽतिध्यानं स्तिमितता ज्वरः | रोमहर्षोऽरुचिश्छर्दिर्जङ्घोर्वोः सदनं तथा ||६||

🔊 Audio coming soon

Hide commentary

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

प्राग्रूपमाह– प्रागित्यादि||६||

Adhikarana ऊरुस्तम्भस्य अनुपशयं, लक्षणम्, असाध्यलक्षणम् (७-१०) · Śloka १०

वातशङ्किभिरज्ञानात्तस्य स्यात् स्नेहनात् पुनः | पादयोः सदनं सुप्तिः कृच्छ्रादुद्धरणं तथा ||७|| जङ्घोरुग्लानिरत्यर्थं शश्वच्चादाहवेदने | पादं च व्यथते न्यस्तं शीतस्पर्शं न वेत्ति च ||८|| संस्थाने पीडने गत्यां चालने चाप्यनीश्वरः | अन्यस्येव हि सम्भग्नावूरू पादौ च मन्यते ||९|| यदा दाहार्तितोदार्तो वेपनः पुरुषो भवेत् | ऊरुस्तम्भस्तदा हन्यात्, साधयेदन्यथा नवम् ||१०|| (च. चि. अ. २७) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

अनुपशयमाह– वातेत्यादि| वातशङ्किभिरिति सुप्तिसङ्कोचकम्पादिवातरोगसदृशलिङ्गदर्शनात्तच्छङ्किभिः| अज्ञानादनिश्चयात्, मोहादिति ईशानः| तत्रोपशयानुपशयज्ञानार्थं स्नेहनं, यदुक्तं चरके– “गूढलिङ्गं व्याधिमुपशयानुपशयाभ्यां परीक्षेत|” (च. चि. अ. ४) इति| ततः स्नेहनादनुपशयो भवतीत्याह– पादयोरित्यादि| उद्धरणम् ऊर्ध्वचालनम्| आदाहवेदने इति आङ् ईषदर्थे; अन्ये त्वीषदर्थ एव नञमाहुः, उद्भूतदाहस्यासाध्यत्वेन वक्ष्यमाणत्वात्| ‘आनाहवेप(द)ने’ इति पाठान्तरमयुक्तं, चरकटीकाकारैः सर्वैरव्याख्यातत्वात्| व्याधिस्वभावादयं चोरुस्तम्भ एक एव त्रिदोषारब्धः, नतु वातादिभेदादनेकविधः| उक्तं हि चरके व्याधिसङ्ख्यायाम्– “एक एवोरुस्तम्भः” (च. सू. अ. १९) इति| सम्भग्नाविति सम्भग्नाविव सम्भग्नौ||७-१०||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

तस्यानुपशयमाह– वातेत्यादि| सुप्तिसङ्कोचकम्पादिवातरोगसदृशलिङ्गदर्शनात् तच्छङ्किभिर्वातरोगोऽयमिति, अज्ञानात् भ्रमात्, स्नेहनात् अभ्यङ्गादेः तत्रोपशयानुपशयज्ञानार्थं स्नेहनम्– “गूढलिङ्गं व्याधिमुपशयानुपशयाभ्यां परीक्षेत|” इति| ततः स्नेहनादनुपशयो भवतीत्याह– पादयोरित्यादि| उद्धरणमूर्ध्वचालनम्| शश्वच्चादाहवेदनेति आङ् ईषदर्थे, अन्ये त्वीषदर्थे नञमाहुः; उद्भूतदाहस्यासाध्यत्वेन वक्ष्यमाणत्वात्| ‘आनाहवेद(प)ने’ इति पाठान्तरं न युक्तं, चरकटीकाकारैः सर्वैरव्याख्यातत्वात्| व्याधिस्वभावादयं चोरुस्तम्भ एक एव त्रिदोषारब्धः, न तु वातादिभेदादनेकविधः| असाध्यत्वमाह– यदेति| अन्यथेति पूर्वोक्तैरुपद्रवै रहितं चोत्पन्नमात्रमेव||७-१०||

Adhikarana पुष्पिका · Śloka २४

इति श्रीमाधवकरविरचिते माधवनिदाने ऊरुस्तम्भनिदानं समाप्तम् ||२४||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायामूरुस्तम्भनिदानं समाप्तम्||२४||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायामूरुस्तम्भनिदानम्||२४||