Adhikarana शूलस्य सन्निकृष्टनिदानम् (१) · Śloka १
अथ शूलपरिणामशूलान्नद्रवशूलनिदानम् | दोषैः पृथक् समस्तामद्वन्द्वैः शूलोऽष्टधा भवेत् | सर्वेष्वेतेषु शूलेषु प्रायेण पवनः प्रभुः ||१||
🔊 Audio coming soon
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
आमवातेऽपि शूलं भवतीत्यतस्तदनन्तरं शूलनिदानम्| ज्वरादिवत् शूलस्यापि प्रागुत्पत्तिरस्ति| यदाह हारीतः– “अनङ्गनाशाय हरस्त्रिशूलं मुमोच कोपान्मकरध्वजश्च| तमापतन्तं सहसा निरीक्ष्य भयार्दितो विष्णुतनुं प्रविष्टः|| स विष्णुहुङ्कारविमोहितात्मा पपात भूमौ प्रथितः स शूलः| स पञ्चभूतानुगतं शरीरं प्रदूषयत्यस्य हि पूर्वसृष्टिः||” इति| एतेन शूलसम्भवत्वादस्य शूलमिति सञ्ज्ञा, शूलनिखातवद्वेदनाजनकत्वाच्च| तदाह वृद्धसुश्रुतः– “शङ्कुस्फोटनवत्तस्य यस्मात्तीव्रा हि वेदना| शूलासक्तस्य भवति तस्माच्छूलमिहोच्यते||” (सु. उ. तं. अ. ४२) इति| कफपित्तादिशूलेष्ववश्यम्भावी वायुरित्याह– सर्वेष्वित्यादि| प्रभुः कर्ता||१||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
आमवाते च शूलं भवति, अतस्तदनन्तरं शूलनिदानमाह– दोषैरित्यादि| ज्वरादिवच्छूलस्यापि प्रागुत्पत्तिरस्ति| यदुक्तं हारीते– “अनङ्गनाशाय हरस्त्रिशूलं मुमोच कोपान्मकरध्वजश्च| तमापतन्तं सहसा निरीक्ष्य भयार्दितो विष्णुतनुं प्रविष्टः|| स विष्णुहुङ्कारविमोहितात्मा पपात भूमौ प्रथितः स शूलः| स पञ्चभूतानुगतं शरीरं प्रदूषयत्यस्य हि पूर्वसृष्टिः||” इति| स च देहिनां शरीरं दूषयत्यस्य हि प्रागुत्पत्तिरिति| अत एवास्य शूलिसम्भवत्वात् शूल इति सञ्ज्ञा, शूलनिखात इव वेदनाजनकत्वाच्च| यदाह वृद्धसुश्रुतः– “शङ्कुस्फोटनवत्तस्य यस्मात्तीव्रा च वेदना| शूलासक्तस्य भवति तस्माच्छूलमिहोच्यते||” इति| सङ्ख्यायां सम्प्राप्तौ च कफपित्तादिशूलेष्वपि वायोः प्राधान्यमित्यत आह– सर्वेष्वित्यादि| प्रभुः कर्ता||१||