Skip to content

२६. शूलपरिणामशूलान्नद्रवशूलनिदानम्

Adhikarana शूलस्य सन्निकृष्टनिदानम् (१) · Śloka

अथ शूलपरिणामशूलान्नद्रवशूलनिदानम् | दोषैः पृथक् समस्तामद्वन्द्वैः शूलोऽष्टधा भवेत् | सर्वेष्वेतेषु शूलेषु प्रायेण पवनः प्रभुः ||१||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

आमवातेऽपि शूलं भवतीत्यतस्तदनन्तरं शूलनिदानम्| ज्वरादिवत् शूलस्यापि प्रागुत्पत्तिरस्ति| यदाह हारीतः– “अनङ्गनाशाय हरस्त्रिशूलं मुमोच कोपान्मकरध्वजश्च| तमापतन्तं सहसा निरीक्ष्य भयार्दितो विष्णुतनुं प्रविष्टः|| स विष्णुहुङ्कारविमोहितात्मा पपात भूमौ प्रथितः स शूलः| स पञ्चभूतानुगतं शरीरं प्रदूषयत्यस्य हि पूर्वसृष्टिः||” इति| एतेन शूलसम्भवत्वादस्य शूलमिति सञ्ज्ञा, शूलनिखातवद्वेदनाजनकत्वाच्च| तदाह वृद्धसुश्रुतः– “शङ्कुस्फोटनवत्तस्य यस्मात्तीव्रा हि वेदना| शूलासक्तस्य भवति तस्माच्छूलमिहोच्यते||” (सु. उ. तं. अ. ४२) इति| कफपित्तादिशूलेष्ववश्यम्भावी वायुरित्याह– सर्वेष्वित्यादि| प्रभुः कर्ता||१||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

आमवाते च शूलं भवति, अतस्तदनन्तरं शूलनिदानमाह– दोषैरित्यादि| ज्वरादिवच्छूलस्यापि प्रागुत्पत्तिरस्ति| यदुक्तं हारीते– “अनङ्गनाशाय हरस्त्रिशूलं मुमोच कोपान्मकरध्वजश्च| तमापतन्तं सहसा निरीक्ष्य भयार्दितो विष्णुतनुं प्रविष्टः|| स विष्णुहुङ्कारविमोहितात्मा पपात भूमौ प्रथितः स शूलः| स पञ्चभूतानुगतं शरीरं प्रदूषयत्यस्य हि पूर्वसृष्टिः||” इति| स च देहिनां शरीरं दूषयत्यस्य हि प्रागुत्पत्तिरिति| अत एवास्य शूलिसम्भवत्वात् शूल इति सञ्ज्ञा, शूलनिखात इव वेदनाजनकत्वाच्च| यदाह वृद्धसुश्रुतः– “शङ्कुस्फोटनवत्तस्य यस्मात्तीव्रा च वेदना| शूलासक्तस्य भवति तस्माच्छूलमिहोच्यते||” इति| सङ्ख्यायां सम्प्राप्तौ च कफपित्तादिशूलेष्वपि वायोः प्राधान्यमित्यत आह– सर्वेष्वित्यादि| प्रभुः कर्ता||१||

Adhikarana वातिकशूलस्य निदानादिपूर्वकं लक्षणम् (२-५) · Śloka

व्यायामयानादतिमैथुनाच्च प्रजागराच्छीतजलातिपानात् | कलायमुद्गाढकिकोरदूषादत्यर्थरूक्षाध्यशनाभिघातात् ||२|| कषायतिक्तातिविरूढजान्नविरुद्धवल्लूरकशुष्कशाकात् | विट्शुक्रमूत्रानिलवेगरोधाच्छोकोपवासादतिहास्यभाष्यात् ||३|| वायुः प्रवृद्धो जनयेद्धि शूलं हृत्पार्श्वपृष्ठत्रिकबस्तिदेशे | जीर्णे प्रदोषे च घनागमे च शीते च कोपं समुपैति गाढम् ||४|| मुहुर्मुहुश्चोपशमप्रकोपी विड्वातसंस्तम्भनतोदभेदैः | संस्वेदनाभ्यञ्जनमर्दनाद्यैः स्निग्धोष्णभोज्यैश्च शमं प्रयाति ||५||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

वातिकमाह– व्यायामेत्यादि| शीतजलातिपानात् शीतलजलस्य प्रभूतपानात्| आढकी तुवरी, कोरदूषः कोद्रवः, विरूढजान्नमङ्कुरितधान्यकृतमन्नं, विरुद्धं क्षीरमत्स्यादिकं, वल्लूरं शुष्कमांसम्| यद्यपि सर्वैरेव वातकोपनैर्वातशूलं स्यात्तथाऽपि व्यायामादिपाठेनैतद्दर्शयति– व्यायामादयो यथा वातहेतवस्तथा शूलहेतवोऽपीति; दोषव्याधिहेतव इत्यर्थः| एवं पित्तशूलादिषु द्रष्टव्यम्| जीर्णे इत्याहारे| घनागमे वर्षासु, मेघोदये च| मुहुर्मुहुरुपशमप्रकोपौ वायोश्चलत्वेन||२-५||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

वातिकमाह– व्यायामेत्यादि| व्यायामो मल्लयुद्धादिः, यानं तुरगरथादि, मैथुनं स्त्रीसेवा, प्रजागरं रात्रौ, एषामतियोगात्, शीतजलस्य प्रभूतपानात्, कलायस्त्रिपुटः, आढकी तुवरी, कोरदूषः कोद्रवः, अत्यर्थरूक्षद्रव्यसेवा, अध्यशनं भुक्तस्योपरि भोजनम्, अभिघातो लोष्टादिभिः, कषायतिक्तरससेवा, विरूढजान्नमङ्कुरितधान्यकृतमन्नं, विरुद्धं मत्स्यक्षीरादि, वल्लूरं शुष्कमांसं, शुष्कशाकं प्रसिद्धम्| यद्यपि सर्वैरेव वातकोपनैः वातशूलं स्यात्, तथाऽपि व्यायामादिपाठेनैतद्बोधयति– यथा व्यायामादयो वातहेतवस्तथा शूलस्यापि हेतव इति| दोषव्याध्युभयहेतव इत्यर्थः| एवं पित्तशूलादिषु द्रष्टव्यम्| शोको बन्धुवियोगात्, उपवासः अभोजनम्, अतिहासः, अट्टाट्टहासः, अतिभाष्यं बहुप्रलपनम्, एतैः कारणैर्दुष्टो वायुः शूलं कुर्यात्| स्थानसंश्रयमाह– हृत् हृदयं, पार्श्वं, पृष्ठं, त्रिकं स्फिक्कटिसन्धिः वायोः स्थानत्वात्, बस्तिः मूत्राशयः| जीर्णे आहारे, प्रदोषे सन्ध्यासमये, घनागमे वर्षागमे, शीते शीतकाले, एतेष्वधिकं प्रकोपं प्रयाति| मुहुर्मुहुरुपशमप्रकोपौ वायोश्चञ्चलत्वात्, मुहुर्मुहुः वारंवारं प्रकोपोपशमौ भवतः| विड्वातसंस्तम्भनतोदभेदैरिति पुरीषादीनां यदा स्तम्भः तदा प्रकोपः, यदा च तेषां प्रवृत्तिस्तदोपशमः, भेदोऽभिघात इव, एतदुपलक्षणम्| यदा तोदभेदौ तदा प्रकोपः शान्तिरुपशयः| उपशयमाह– संस्वेदनादिभिः शमं शान्तिं प्रयाति स्निग्धोष्णभोजनैश्च||२-५||

Adhikarana पैत्तिकशूलस्य निदानादिपूर्वकं लक्षणम् (६-८) · Śloka

क्षारातितीक्ष्णोष्णविदाहितैलनिष्पावपिण्याककुलत्थयूषैः | कट्वम्लसौवीरसुराविकारैः क्रोधानलायासरविप्रतापैः ||६|| ग्राम्यातियोगादशनैर्विदग्धैः पित्तं प्रकुप्याशु करोति शूलम् | तृण्मोहदाहार्तिकरं हि नाभ्यां संस्वेदमूर्छाभ्रमचोषयुक्तम् ||७|| मध्यन्दिने कुप्यति चार्धरात्रे विदाहकाले जलदात्यये च | शीते च शीतैः समुपैति शान्तिं सुस्वादुशीतैरपि भोजनश्च ||८||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

पैत्तिकमाह– क्षारेत्यादि| क्षारो यवक्षारादिः मुष्ककादिकृतक्षारद्रव्यं च, तीक्ष्णोष्णं मरिचराजिकादि, विदाहि वंशकरीरादि, तैलं तिलविकृतिः, निष्पावः शिम्बिः, पिण्याको निःस्नेहः सर्षपादिकल्कः, कुलत्थयूषोऽत्र कुलत्थान्नपानोपलक्षणः| सौवीरं सन्धानविशेषः| रविप्रतापो रौद्रः| ग्राम्यातियोगो मैथुनातिसेवा| विदाहीति पूर्वं पठित्वाऽपि अशनैर्विदग्धैरित्यनेनाविदाहिवस्तुनोऽपि दोषवशेन विदाहित्वं दर्शितम्| यदाह सुश्रुतः– “स्रोतस्यन्नवहे पित्तमग्नौ वा यस्य तिष्ठति| विदाहि भुक्तमन्यद्वा तस्याप्यन्नं विदह्यते||” (सु. सू. अ. ४६) इति| विदाहकाल इत्याहारस्य| जलदात्यये शरदि||६-८||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

पैत्तिकमाह– क्षारेत्यादि| क्षारो यवक्षारादिः मुष्ककादिकृतक्षारश्च, तीक्ष्णोष्णं मरिचराजिकादि, विदाहि वंशकरीरादि, तैलं तैलविकृतिः, निष्पावः शिम्बिः, पिण्याको निःस्नेहस्तिलकल्कः ‘खल्ली’ इति लोके, कुलत्थयूषोऽत्र कुलत्थान्नपानोपलक्षणः| कटुः कटुरसः, अम्लश्च; सौवीरं सन्धानविशेषः, अन्ये काञ्जिकं, सुराविकारः शालिषष्टिकपिष्टैः कृतं मद्यं सुरा तस्या विकारः, पुनर्नवाशालिपिष्टैः कृता श्वेतसुरा, बिभीतकत्वक्शालितण्डुलपिष्टैस्तु बैभीतिकी सुरा इत्यादि| क्रोधः कोपः, अनलो वह्निसेवा, आयासः श्रमकारि कर्म, रविप्रतापोऽतिघर्मः| ग्राम्यातियोगः मैथुनातिसेवा, अशनैर्विदग्धैरित्यनेनाविदाहिवस्तुनोऽपि दोषवशेन विदाहित्वं दर्शितम्| यदाह सुश्रुतः– “स्रोतस्यन्नवहे पित्तमग्नौ वा यस्य तिष्ठति| विदाहि भुक्तमन्यद्वा तस्याप्यन्नं विदह्यते||” इति| एभिः कारणैर्दुष्टं पित्तं शूलं जनयेत्| तृट् तृषा, मोहो नष्टचित्तता, दाहः प्रसिद्धः| नाभ्यां पित्तशूलस्य स्थानत्वात्| स्वेदादयः प्रसिद्धाः, चोषः चुष्यत इव वेदनाविशेषः, एतैर्युक्तम्| मध्यन्दिनेऽर्धरात्रे च कोपं याति| विदाहकालः आहारस्य पाकावस्थिकः, ‘निदाघकाले’ इति पाठान्तरम्| जलदात्यये शरदि, शीते शीतकाले, शीतवीर्यैः सुस्वादुशीतैः मधुरशीतभोजनैश्च शान्तिं गच्छति||६-८||

Adhikarana श्लैष्मिकशूलस्य निदानादिपूर्वकं लक्षणम् (९-१०) · Śloka १०

आनूपवारिजकिलाटपयोविकारैर्मांसेक्षुपिष्टकृशरातिलशष्कुलीभिः | अन्यैर्बलासजनकैरपि हेतुभिश्च श्लेष्मा प्रकोपमुपगम्य करोति शूलम् ||९|| हृल्लासकाससदनारुचिसम्प्रसेकैरामाशये स्तिमितकोष्ठशिरोगुरुत्वैः | भुक्ते सदैव हि रुजं कुरुतेऽतिमात्रं सूर्योदयेऽथ शिशिरे कुसुमागमे च ||१०||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

श्लैष्मिकमाह– आनूपेत्यादि| आनूपवारिजं मांसादिकं, किलाटं तक्रकूर्चिका, कृशरा तिलतण्डुलमाषयवागूः| सूर्योदये प्रातः| कुसुमागमे वसन्ते||९-१०||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

श्लैष्मिकमाह– आनूपेत्यादि| आनूपमांसं जलप्रदेशचारिणां मांसं, वारिजं मत्स्यादीनां जलचराणां मांसं, किलाटः तक्रकूर्चिका, अन्ये सद्यःप्रसूतमहिषीक्षीरकृतमाहुः, पयोविकारः पायसं दध्यादि| मांसं ग्राम्यमांसम्, इक्षुरिति इक्षुविकारैः, पिष्टमिति पिष्टान्नम्, कृशरा तिलतण्डुलमाषयवागूः, एतैः श्लेष्मजननैः श्लेष्मा प्रकोपं प्राप्य शूलं कुर्यात्| उपद्रवानाह– हृल्लासेत्यादि| हृल्लास उपस्थितवमनत्वमिव, सदनं गात्रभङ्गः, सम्प्रसेको लालास्रावः| आमाशये रुजं कुरुत इति योज्यम्| स्तिमितकोष्ठमिति बद्धकोष्ठता, सूर्योदये प्रातः, पुष्पागमे वसन्ते, एतेषु कालेषु विशेषेण कुप्यति||९-१०||

Adhikarana सान्निपातिकशूललक्षणम् (११) · Śloka ११

सर्वेषु दोषेषु च सर्वलिङ्गं विद्याद्भिषक् सर्वभवं हि शूलम् | सुकष्टमेनं विषवज्रकल्पं विवर्जनीयं प्रवदन्ति तज्ज्ञाः ||११||

🔊 Audio coming soon

Hide commentary

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

सान्निपातिकमाह– सर्वेष्वित्यादि| त्रिदोषाणां मिलितैर्लक्षणैस्त्रिदोषजं जानीयात्| सुकष्टमसाध्यम्| विषवज्रतुल्यं मारणात्मकत्वात्||११||

Adhikarana आमशूललक्षणम् (१२) · Śloka १२

आटोपहृल्लासवमीगुरुत्वस्तैमित्यकानाहकफप्रसेकैः | कफस्य लिङ्गेन समानलिङ्गमामोद्भवं शूलमुदाहरन्ति ||१२||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

आमशूलमाह– आटोपेत्यादि| कफस्य लिङ्गेन कफशूलोक्तलिङ्गेन||१२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

आमजमाह– आटोपेत्यादि| आटोपो गुडगुडाशब्दः, सरुक्, गुरुत्वं, स्तैमित्यम्, उदरे आनाह ऊर्ध्वाधोवातनिरोधः, कफप्रसेकः कफस्रावः| कफस्य लिङ्गेनेति श्लैष्मिकशूलोक्तलिङ्गेन तमामोद्भवं शूलं जानीयात्||१२||

Adhikarana द्वन्द्वजशूललक्षणम् (१३-१४) · Śloka १४

द्विदोषलक्षणैरेतैर्विद्याच्छूलं द्विदोषजम् | बस्तौ हृत्पार्श्वपृष्ठेषु स शूलः कफवातिकः | कुक्षौ हृन्नाभिमध्येषु स शूलः कफपैत्तिकः ||१३|| दाहज्वरकरो घोरो विज्ञेयो वातपैत्तिकः |१४|

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

वातपैत्तिकश्चरकोक्तवातपैत्तिकशूलस्थाने द्रष्टव्यः| एवं सान्निपातिकोऽपि उक्तदोषत्रयस्थाने| यदुक्तम्– “वातात्मकं बस्तिगतं वदन्ति, पित्तात्मकं चापि वदन्ति नाभ्याम्| हृत्पार्श्वकुक्षौ कफसन्निविष्टं, सर्वेषु देशेषु च सन्निपातात्||” इति||१३-१४||–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

वातकफजस्य स्थानसंश्रयत्वेनोपद्रवानाह– बस्ताविति| बस्तौ मूत्राशये, पार्श्वयोर्द्वयोः| कफपैत्तिकमाह– कुक्षावित्यादि| कुक्षावुदरे| वातपैत्तिकमाह– दाहेत्यादि| दाहः सर्वाङ्गतापः, घोरो दारुणः| सान्निपातिकस्तूक्तदोषत्रयस्थाने, यदुक्तं तन्त्रान्तरे– “वातात्मकं वस्तिगतं वदन्ति पित्तात्मकं चापि वदन्ति नाभौ| हृत्पार्श्वकुक्षौ कफसन्निविष्टं सर्वेषु देशेषु च सन्निपातात्||” इति||१३-१४||–

Adhikarana शूलस्य साध्यासाध्यत्वम् (१४) · Śloka १५

एकदोषोत्थितः साध्यः, कृच्छ्रसाध्यो द्विदोषजः ||१४|| सर्वदोषोत्थितो घोरस्त्वसाध्यो भूर्युपद्रवः |१५|

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

साध्यत्वादिलक्षणमाह– एकेत्यादि| भूर्युपद्रव इति उपद्रवास्तु वेदनादयः| यदुक्तम्– “वेदना च तृषा मूर्छा आनाहो गौरवारुची| कासः श्वासश्च हिक्का च शूलस्योपद्रवाः स्मृताः||” इति||१४||–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

साध्यासाध्यत्वमाह– एकेत्यादि| भूर्युपद्रव इति उपद्रवास्तृषादयः| यदुक्तम्– “वेदना च तृषा मूर्छा आनाहो गौरवारुची| कासश्वासौ च हिक्का च शूलस्योपद्रवाः स्मृताः||” इति||१४||–

Adhikarana परिणामशूलस्य निदानपूर्वकं लक्षणम् (१५-१६) · Śloka १७

स्वैर्निदानैः प्रकुपितो वायुः सन्निहितस्तदा ||१५|| कफपित्ते समावृत्य शूलकारी भवेद्बली | भुक्ते जीर्यति यच्छूलं तदेव परिणामजम् ||१६|| तस्य लक्षणमप्येतत् समासेनाभिधीयते |१७|

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

परिणामशूलमाह– स्वैरित्यादि| अस्य च त्रिदोषजस्यापि नियतपरिणामकालसम्भवत्वेन पित्तोल्बणत्वं द्रष्टव्यम्| यदुक्तमन्यत्र– “बलासः प्रच्युतः स्थानात् पित्तेन सह मूर्छितः| वायुमादाय कुरुते शूलं जीर्यति भोजने|| कुक्षौ जठरपार्श्वेषु नाभौ बस्तौ स्तनान्तरे| पृष्ठमूलप्रदेशेषु सर्वेष्वेतेषु वा पुनः|| भुक्तमात्रेऽथवा वान्ते जीर्णेऽन्ने च प्रशाम्यति| षष्टिकव्रीहिशालीनामोदनेन विवर्धते|| तत् परिणामजं शूलं दुर्विज्ञेयं महागदम्| तमाहू रसवाहानां स्रोतसां दुष्टिहेतुकम्|| केचिदन्नद्रवं प्राहुरन्ये तत् पक्तिदोषतः| पक्तिशूलं वदन्त्येके केचिदन्नविदाहजम्||” इति| भुक्ते जीर्यति आहारे पच्यमाने||१५-१६||—

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

परिणामशूलमाह– स्वैरित्यादि| स्वैः कारणैः कुपितो बलवान् वातः सन्निहितो निकटो यदा उभे कफपित्ते समावृत्य व्याप्य तिष्ठेत्, तदा शूलकारी भवेत्| अस्य च त्रिदोषजस्यापि नियतपरिणामकालसम्बद्धत्वेन पित्तोल्बणत्वं द्रष्टव्यम्| यदुक्तमन्यत्र– “बलासः प्रच्युतः स्थानात्पित्तेन सह मूर्छितः वायुमादाय कुरुते शूलं जीर्यति भोजने|| कुक्षौ जठरपार्श्वेषु नाभ्यां बस्तौ स्तनान्तरे| पृष्ठमूलप्रदेशेषु सर्वेष्वेतेषु वा पुनः|| भुक्तमात्रेऽथवा वान्ते जीर्णे चान्ने प्रशाम्यति| षष्टिकव्रीहिशालीनामोदनेन विवर्धते|| परिणामभवं शूलं दुर्विज्ञेयं महागदम्| तमाहू रसवाहानां स्रोतसां दुष्टिहेतुकम्| केचिदन्नद्रवं प्राहुरन्ये तत्पक्तिदोषजम्| पक्तिशूलं वदन्त्येके केचिदन्नविदाहजम्||” इति| तस्य सामान्यलक्षणमाह– भुक्त इति| आहारे पच्यमाने||१५-१६||—

Adhikarana परिणामशूलस्य वातादिभेदेन लक्षणानि (१७-२०) · Śloka २१

आध्मानाटोपविण्मूत्रविबन्धारतिवेपनैः ||१७|| स्निग्धोष्णोपशमप्रायं वातिकं तद्वदेद्भिषक् | तृष्णादाहारतिस्वेदं कट्वम्ललवणोत्तरम् ||१८|| शूलं शीतशमप्रायं पैत्तिकं लक्षयेद्बुधः | छर्दिहृल्लाससम्मोहं स्वल्परुग्दीर्घसन्तति ||१९|| कटुतिक्तोपशान्तं च तच्च ज्ञेयं कफात्मकम् | संसृष्टलक्षणं बुद्ध्वा द्विदोषं परिकल्पयेत् ||२०|| त्रिदोषजमसाध्यं तु क्षीणमांसबलानलम् |२१|

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

तस्य वातादिभेदेन लक्षणान्याह– आध्मानेत्यादि| तृष्णादाहारतिस्वेदा यत्र सन्ति तत्तृष्णादाहारतिस्वेदम्| कट्वम्ललवणोत्तरं कट्वम्ललवणैर्वृद्धम्| शीतशमप्रायं शीतलोपशम(य)बहुलम्| छर्दिहृल्लाससम्मोहलिङ्गानि यस्मिन् सन्ति तच्छर्दिहृल्लाससम्मोहम्| दीर्घसन्ततीति चिरानुबन्धि||१७-२०||–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

वातिकमाह– आध्मानेत्यादि| आध्मानं ध्मातमिव वातेनोदरपूरणम्| आटोपो गुडगुडाशब्दवत्, विण्मूत्रयोरप्रवृत्तिः, अरतिः सुखाभावः, वेपनं कम्पः| स्निग्धैरुष्णैश्च शान्तिं व्रजेत्| पैत्तिकमाह– तृष्णेत्यादि| आहारे पच्यमाने| तृष्णादाहाऽरुचिस्वेदा यस्मिन् तत्तृष्णादाहारुचिस्वेदं, कट्वम्ललवणोत्तरं कट्वम्ललवणैर्वृद्धम्| शीतशमप्रायं शीतोपशयबहुलम्| श्लैष्मिकमाह– छर्दीत्यादि| छर्दिहृल्लाससम्मोहा यस्मिन् तच्छर्दिहृल्लाससम्मोहं, स्वल्पा रुक् यस्मिन्, दीर्घसन्तति चिरानुबन्धि| कटुतिक्तै रसैरुपशममेति| द्विदोषजसान्निपातिकमाह– संसृष्टमित्यादि| क्षीणं मांसं बलमनलो वह्निर्यत्र तत् क्षीणमांसबलानलम्||१७-२०||–

Adhikarana अन्नद्रवशूललक्षणम् (२१-२२) · Śloka

जीर्णे जीर्यत्यजीर्णे वा यच्छूलमुपजायते ||२१|| पथ्यापथ्यप्रयोगेण भोजनभोजनन च | न शमं याति नियमात् सोऽन्नद्रव उदाहृतः ||२२|| (अन्नद्रवाख्यशूलेषु न तावत् स्वास्थ्यमश्नुते | वान्तमात्रे जरत्पित्तं शूलमाशु व्यपोहति) ||१||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

त्रिदोषविकृतिविशेषमन्नद्रवाख्यं शूलमाह– जीर्ण इत्यादि| जीर्णे ‘आहारे’ इति शेषः, एवं जीर्यत्यजीर्णे वेत्यत्र, सर्वदेत्यर्थः| न शमं याति नोपशेते इत्यर्थः, न त्वसाध्यं, चिकित्साविधानादिति||२१-२२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

असाध्यत्रिदोषजविकृतिविशेषमन्नद्रवाख्यमाह– जीर्णेत्यादि| जीर्णे आहारे, तथा जीर्यति पच्यमाने, सर्वदेत्यर्थः; पथ्येऽपि भुक्ते न शान्तिं गच्छति| प्रायेण त्रिदोषजविकृतित्वादसाध्यम्||२१-२२||

Adhikarana पुष्पिका · Śloka २६

इति श्रीमाधवकरविरचिते माधवनिदाने शूलपरिणामशूलान्नद्रवशूलनिदानं समाप्तम् ||२६||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायां शूलनिदानं समाप्तम्||२६||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायामातङ्कदर्पणव्याख्यायां शूलनिदानम्||२६||