Skip to content

४२. शारीरव्रणनिदानम्

Adhikarana व्रणस्य द्वैविध्यं, वातज-पित्तज-कफज-रक्तज-द्वन्द्वज-सन्निपातजव्रणलक्षणं च (१-४) · Śloka

अथ शारीरव्रणनिदानम् | द्विधा व्रणः स विज्ञेयः शारीरागन्तुभेदतः | दोषैराद्यस्तयोरन्यः शस्त्रादिक्षतसम्भवः ||१|| स्तब्धः कठिनसंस्पर्शो मन्दस्रावो महारुजः | तुद्यते स्फुरति श्यावो व्रणो मारुतसम्भवः ||२|| तृष्णामोहज्वरक्लेददाहदुष्ट्यवदारणैः | व्रणं पित्तकृतं विद्याद्गन्धैः स्रावैश्च पूतिकैः ||३|| बहुपिच्छो गुरुः स्निग्धः स्तिमितो मन्दवेदनः | पाण्डुवर्णोऽल्पसङ्क्लेदश्चिरपाकी कफव्रणः ||४|| (च. चि. अ. २५) | रक्तो रक्तस्रुती रक्ताद्द्वित्रिजः स्यात्तदन्वयैः |५|

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

शोथानामनुपक्रान्तानां व्रणभावापत्तेर्व्रणनिदानमाह– द्विधेत्यादि| ‘व्रण गात्रविचूर्णने’ इत्यस्माद्धातोर्व्रणस्य साधुत्वमुक्तम्| व्रणनिरुक्तिश्च सुश्रुतेन कृता| यथा– “वृणोति यस्माद्रूढेऽपि व्रणवास्तु न नश्यति| आदेहधारणाज्जन्तोर्व्रणस्तस्मान्निरुच्यते||” (सु. सू. अ. २१) इति| अन्य इत्यागन्तुः| आगन्तुव्रणे यद्यपि दोषस्तत्कालं तदात्वेन सञ्चयकोपप्रसरणशाली विकारकरणसमर्थः कल्पयितुं शक्यते, तथाऽपि सप्तरात्रं क्षतोष्मनिर्वापणाय मधुसर्पिरुपयोगात् शीतक्रियाविधानाच्च निजव्रणविलक्षणचिकित्सार्थं व्यपदिश्यते| रक्तस्यैकैकस्मिन् दोषे द्वन्द्वे च प्रसरमाह– द्वित्रिजः स्यात्तदन्वयैरित्यादि| रक्तान्वयैः एकैकदोषैर्द्वन्द्वैश्च; रक्तान्वितैरेकैकदोषैर्द्विजो व्रणः, रक्तान्वितैर्द्वन्द्वत्रयैस्त्रिजः; एवं दोषत्रयेऽपि रक्तसम्बन्ध ऊहनीयः; एवं पञ्चदशधा प्रसरो दोषाणामुपगृहीतो भवति| अथवाऽयमर्थः– तदन्वयैर्दोषद्वन्द्वत्रयान्वयैः, तेन दोषद्वयान्वयेन द्विजो द्वन्द्वजो व्रणः, दोषत्रयान्वयेन त्रिजः सन्निपातजः||१-४||–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

व्रणशोफानामनुपक्रान्तानां व्रणभावापत्तेर्व्रणनिदानम्| तेषां भेदमाह– द्विधेत्यादि| ‘व्रण गात्रविचूर्णने’ इत्यस्माद्धातोः व्रणस्य निरुक्तिः| व्रणनिरुक्तिश्च सुश्रुते कृता| यथा– “वृणोति यस्माद्रूढेऽपि व्रणवास्तु न नश्यति| आदेहधारणाज्जन्तोर्व्रणस्तस्मान्निरुच्यते||” इति| शारीरागन्तुभेदतो व्रणो द्विधा ज्ञेयः, तयोर्द्वयोर्मध्ये आद्यः शारीरः, स च दोषैः पवनकफपित्तशोणितसन्निपातैः स्यात्, अन्य इत्यागन्तुः शस्त्रादिक्षतसम्भवो भवति| वातिकमाह– स्तब्ध इत्यादि| स्तब्धः अचलः, तुद्यते शूलेनेव, श्यावः शाववर्णः| पैत्तिकमाह– तृष्णेत्यादि| एतैर्लिङ्गैः पित्तकृतं जानीयात्| क्लेद आर्द्रता, दाहदुष्टिः दाहवान्, अवदारणं त्वक्स्फोटनं, पूतिकैर्दुर्गन्धैः| कफजमाह– बह्वित्यादि| बहुपिच्छः भूयः पिच्छिलः, स्तिमितो निश्चलः, अल्पसङ्क्लेदः ईषदार्द्रः| रक्तस्यैकस्मिन् दोषे द्वन्द्वे च प्रसरमाह– रक्त इत्यादि| रक्तवर्णो भवति, रक्तस्रावो वा| द्वित्रिजः स्यात्तदन्वयैरिति रक्तानुगैः पृथग्दोषैः द्वन्द्वैश्च, तेन पृथग्दोषैः सरक्तैः द्विजः, द्वन्द्वजैः सरक्तैस्त्रिजः, एवं त्रिदोषजेऽपि रक्तः सम्बन्धनीयः| तद्यथा– वातजः, पित्तजः, श्लेष्मजः, सङ्घातजः, रक्तजः, वातपित्तजः, वातश्लेष्मजः, पित्तश्लेष्मजः, एवमष्टौ; शोणितसम्बन्धात् सप्त, वातशोणितसम्बन्धात्तज्जः, श्लेष्मः पित्तशोणितजः, श्लेष्मशोणितजः, वातपित्तशोणितजः, वातश्लेष्मशोणितजः, पित्तश्लेष्मशोणितजः, सन्निपातक्षतजः इति; एवं दोषाणां भेदेन पञ्चदशधा प्रसर उक्तः| अथवा तदन्वयैः दोषत्रयान्वयैः, तेन दोषद्वयान्वयेन द्विजः द्वन्द्वजो व्रणः, दोषत्रयान्वयेन त्रिजः सान्निपातिको व्रण इत्यर्थः||१-४||–

Adhikarana व्रणस्य साध्यासाध्यविचारः (५-६) · Śloka

त्वङ्मांसजः सुखे देशे तरुणस्यानुपद्रवः ||५|| धीमतोऽभिनवः काले सुखे साध्यः सुखं व्रणः | गुणैरन्यतमैर्हीनस्ततः कृच्छ्रो व्रणः स्मृतः ||६|| सर्वैर्विहीनो विज्ञेयस्त्वसाध्यो भूर्युपद्रवः | (च. चि. अ. २५) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

साध्यत्वादिकमाह– त्वगित्यादि| सुखे देश इति मर्मरहिते देहावयवे| अनुपद्रव इति ज्वरतृष्णाद्युपद्रवरहितः| धीमत इति हिताहितज्ञस्य| काले सुखे इति हेमन्ते शिशिरे च| अन्यतमैरिति उक्तानां गुणानां मध्ये एकतमैर्गुणैः||५-६||–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

व्रणस्य सुखसाध्यत्वमाह– त्वगित्यादि| त्वङ्मांसजः, सुखे देशे मर्मरहिते देहावयवे, अनुपद्रवः ज्वरतृष्णाद्युपद्रवरहितः, धीमतः अतरलबुद्धेः, सुखे काले हेमन्ते शिशिरे च| व्रणस्य कष्टसाध्यमाह– गुणैरित्यादि| प्रागुक्तानां गुणानां मध्ये अन्यतमैर्गुणैर्हीनः रहितः, त्वङ्मांसजादीनामित्यर्थः| स व्रणः कष्टसाध्यः| असाध्यमाह– सर्वैरित्यादि| सर्वैस्त्वग्मांसजादिकैर्गुणैः रहितः, निरुपक्रमः अनुपक्रान्तः||५-६||–

Adhikarana दुष्टव्रणलक्षणम् (७) · Śloka

पूतिः पूयातिदुष्टासृक्स्राव्युत्सङ्गी चिरस्थितिः ||७|| दुष्टो व्रणोऽतिगन्धादिः शुद्धलिङ्गविपर्ययः |८|

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

दुष्टव्रणलिङ्गमाह– पूतिरित्यादि| पूयातिदुष्टासृक्स्रावीति पूययुक्तमतिदुष्टं रक्तं सततं स्रवतीत्यर्थः| उत्सङ्गी कोटरवान्| चिरस्थितिरित्यनेन बहुलदोषसम्बन्धं दर्शयति| तथा चोक्तम्– “अनात्मवतामज्ञैश्चोपक्रान्ता व्रणाः प्रदूष्यन्ति, वृद्धत्वाद्दोषाणाम्||” (सु. सू. अ. २२) इति| दुष्टव्रण इत्यत्र ‘परिभाषित’ इति शेषः| अतिगन्धादिरिति आदिशब्देन वर्णस्राववेदनाकृतयो गृहीताः, अतिशब्देन च विशिष्यन्ते| शुद्धलिङ्गविपर्यय इति वक्ष्यमाणशुद्धलिङ्गविपरीतः पूतित्वादियोगादेव| ‘पूतिपूयातिदुष्टासृक्स्रावि’ इति क्वचित् पाठे पूतिशब्दः पूयदुष्टासृग्विशेषणम्||७||–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

दुष्टव्रणलक्षणमाह– पूतिरित्यादि| पूतिः शटितः, “पूतिपूयातिदुष्टासृक्स्रावी” इति क्वचित्पाठः, तत्र पूतिशब्दः पूयदुष्टासृग्विशेषणं, पूययुक्तमतिदुष्टरक्तं सततं स्रवतीत्यर्थः| चिरस्थितिरित्यनेन बहुदोषसम्बन्धं दर्शयति| तथा चोक्तम्– “अनात्मवतामज्ञैश्चोपक्रान्ता व्रणा वृद्धत्वाद्दोषाणां प्रदुष्यन्ति” इति| दुष्टो व्रण इति कथितः अतिगन्धादिः, आदिशब्देन वर्णास्राववेदनाकृतयो गृह्यन्ते| शुद्धलिङ्गविपर्यय इति वक्ष्यमाणशुद्धलक्षणविपरीतः||७||–

Adhikarana शुद्धव्रणलक्षणम् (८) · Śloka

जिह्वातलाभोऽतिमृदुः श्लक्ष्णः स्निग्धोऽल्पवेदनः ||८|| सुव्यवस्थो निरास्रावः शुद्धो व्रण इति स्मृतः |९|

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

शुद्धव्रणलक्षणमाह– जिह्वेत्यादि| जिह्वातलाभ इति जिह्वातलवदाभा प्रभा यस्य स तथा; तलशब्दः स्वरूपवचनः| जिह्वातलाभशब्दश्चात्र मृदुश्लक्ष्णस्निग्धशब्दैः प्रत्येकमभिसम्बध्यते; तेन जिह्वातलाभो मृदुः श्लक्ष्णः स्निग्धश्चेत्याहुः| सुव्यवस्थ इति उत्सन्नोत्सङ्गित्वरहितः| निरास्राव इति दोषकृतस्रावरहितः| चरके तु पठ्यते– “नातिरक्तो नातिपाण्डुर्नातिस्रावो न चातिरुक्| न चोत्सन्नो न चोत्सङ्गी शुद्धो रोप्यः परं व्रणः||” (च. चि. अ. २५) इति, तद्दर्शनादत्र निरास्रावत्वं दोषकृतस्रावहीनत्वं, विगतवेदनत्वं च वाताद्युक्तवेदनारहितत्वम्| व्रणस्रावकृतवेदनायुक्तत्वं पुनरस्त्येव, अत एव रूढलिङ्गे अरुजमित्युक्तम्||८||–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

शुद्धव्रणलक्षणमाह– जिह्वेत्यादि| जिह्वातलवदाभा प्रभा यस्य स तथा| तलशब्दः स्वरूपवचनः, जिह्वातलाभशब्दश्चात्र मृदुश्लक्ष्णस्निग्धशब्दैः सह प्रत्येकमभिसम्बध्यते; तेन जिह्वातलाभो मृदुः श्लक्ष्णः स्निग्धश्चेति प्राहुः| सुव्यवस्थ इति शोभनाकृतिः, तेन उत्सन्नोत्सङ्गित्वरहितः, किन्तु सम इत्यर्थः| निरास्राव इति दोषकृतास्रावहीनः| यदुक्तं चरके– “नातिरक्तो नातिपाण्डुर्नातिस्रावो न चातिरुक्| न चोत्सन्नो न चोत्सङ्गी शुद्धो रोप्यः परं व्रणः||” इति||८||–

Adhikarana रुह्यमानव्रणलक्षणम् (९) · Śloka

कपोतवर्णप्रतिमा यस्यान्ताः क्लेदवर्जिताः ||९|| स्थिराश्च पिडकावन्तो रोहतीति तमादिशेत् | (सु. सू. अ. २३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

रुह्यमाणलक्षणमाह– कपोतेत्यादि| कपोतवर्णप्रतिमा इति पाण्डुधूसराः, स्थिराः अदरणाः| ‘चिपिटिकावर्ण’ इति पाठान्तरे चिपिटिका मांसचेली, तद्वर्णः||९||–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

रोहणोन्मुखव्रणलक्षणमाह– कपोतेत्यादि| यस्य व्रणस्यान्ताः प्रान्ताः कपोतवर्णप्रतिमाः, पाण्डुधूसरा इत्यर्थः| क्लेदेन वर्जिताः| स्थिरा अचलाः कठिना इत्यर्थः| “चिपिटिकावन्तः” इति पाठे चिपिटिका मांसचेली चर्मवलीति यावत्, ‘करोचडी’ इति लोके, ता विद्यन्ते येषां ते चिपिटिकावन्तः||९||–

Adhikarana सम्यग्रूढव्रणलक्षणम् (१०) · Śloka १०

रूढवर्त्मानमग्रन्थिमशूनमरुजं व्रणम् ||१०|| त्वक्सवर्णं समतलं सम्यग्रूढं विनिर्दिशेत् | (सु. सू. अ. २३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

सम्यग्रूढलक्षणमाह– रूढवर्त्मानमित्यादि| रूढवर्त्मानमिति वर्त्म व्रणमार्गो व्रणवास्तु रूढो यस्य तम्| अन्तःपूयाभावादशूनमरुजं च| त्वक्सवर्णं त्वचासमानवर्णम्| समतलमिति समं तलेन जिह्वातलेन करतलेन वा| अग्रन्थिमित्यनेन उपरि उच्छूनताया निषेधः, समतलेन त्वधोनिम्नताया निषेधः||१०||–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

रूढव्रणलक्षणमाह– रूढवर्त्मानमित्यादि| वर्त्म व्रणमार्गो व्रणवास्तु स रूढो यस्य तम्, अग्रन्थिं ग्रन्थिरहितम्, एतेन उपरि उत्सन्नताया निषेधः| अशूनं श्वयथुरहितम्, अरुजं पीडारहितं, त्वक्सवर्णं त्वचासमानवर्णम्| समतलमिति समं तलेन जिह्वातलेन करतलेन वा, समतलशब्देन त्वधो निम्नताया निषेधः||१०||–

Adhikarana व्याधिविशेषेण व्रणस्य कृच्छ्रसाध्यत्वम् (११-१२) · Śloka १२

कुष्ठिनां विषजुष्टानां शोषिणां मधुमेहिनाम् ||११|| व्रणाः कृच्छ्रेण सिध्यन्ति येषां चापि व्रणे व्रणाः | वसां मेदोऽथ मज्जानं मस्तुलुङ्गं च यः स्रवेत् ||१२|| आगन्तुजो व्रणः सिद्ध्येन्न सिद्ध्येद्दोषसम्भवः | (सु. सू. अ. २३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

व्याधिविशेषेण व्रणस्य कृच्छ्रसाध्यत्वमाह– कुष्ठिनामित्यादि| कुष्ठविशेषेणात्यन्तदोषदूषितरक्तादिदूष्यत्वेन सर्वदा दुष्टिरधिकेति कृच्छ्रसाध्यत्वम्| विषजुष्टानामिति दूषीविषार्तानाम्| शोषे मधुमेहे च धातुक्षयात्, व्रणे च रक्तस्रावादाहारसंयमनादधिका दुष्टिः| वसां मेदोऽथ मज्जानं मस्तुलुङ्गं च यः स्रवेदिति मज्जा अस्थिस्नेहः, मस्तुलुङ्गं घृतिका| न सिध्येद्दोषसम्भव इति दोषैरतिदूषितानां वसादीनां स्रावस्य बहुव्यापत्तिकरत्वात्||११-१२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

व्याधिविशेषेण व्रणस्य कृच्छ्रसाध्यत्वमाह– कुष्ठिनामित्यादि| कुष्ठविशेषेणात्यन्तदोषदूषितरक्तादिदूष्यत्वेन सर्वदा दुष्टिरधिकेति कृच्छ्रत्वम्| विषजुष्टानां दूषीविषार्तानां, शोषे मधुमेहे च धातुक्षयाद् व्रणे रक्तस्रावाच्चाहारसंयमाच्चाधिकदुष्टिः| पुनः कृच्छ्रसाध्यत्वमाह– वसेत्यादि| वसा मांसस्नेहः, मज्जाऽस्थिस्नेहः, मस्तुलुङ्गो मस्तकाभ्यन्तरस्नेहः, वसादीनां स्रावादागन्तुजे व्रणे कृच्छ्रत्वं वा, किन्तु दोषजे व्रणेऽसाध्यत्वं, दोषैरतिशयदूषितानां वसादीनां स्रावस्य बहुव्यापत्तिकरत्वात्||११-१२||–

Adhikarana व्रणानां रिष्टरूपा गन्धविकृतिः (१३) · Śloka १३

मद्यागुर्वाज्यसुमनःपद्मचन्दनचम्पकैः ||१३|| सगन्धा दिव्यगन्धाश्च मुमूर्षूणां व्रणाः स्मृताः | (सु. सू. अ. २८) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

रिष्टरूपां गन्धविकृतिमाह– मद्यागुर्वाज्येत्यादि| सुमना जाती, सगन्धाः समानगन्धाः, दिव्यगन्धा अपरिकल्पिताद्भुतपारिजातादिगन्धाः||१३||–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

रिष्टरूपां गन्धविकृतिमाह– मद्येत्यादि| मद्यं प्रसिद्धम्, अगुरु गन्धद्रव्यम्, आज्यं घृतं, सुमना जाती, पद्मं कमलं, मद्यादिभिः समानगन्धाः||१३||–

Adhikarana व्रणस्यासाध्यलक्षणम् (१४-१७) · Śloka १७

ये च मर्मस्वसम्भूता भवन्त्यत्यर्थवेदनाः ||१४|| दह्यन्ते चान्तरत्यर्थं बहिःशीताश्च ये व्रणाः | दह्यन्ते बहिरत्यर्थं भवन्त्यन्तश्च शीतलाः ||१५|| प्राणमांसक्षयश्वासकासारोचकपीडिताः | प्रवृद्धपूयरुधिरा व्रणा येषां च मर्मसु ||१६|| क्रियाभिः सम्यगारब्धा न सिध्यन्ति च ये व्रणाः | वर्जयेदपि तान् वैद्यः संरक्षन्नात्मनो यशः ||१७|| (सु. सू. अ. २८) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

ये च मर्मस्वसम्भूता इति| मर्मसु न जाता अपि भृशवेदनाः, मर्मजातत्वेन हि भृशवेदनावत्त्वं युक्तम्| प्राणमांसक्षय इति प्राणक्षयेण शक्तिक्षयः, मांसक्षयेण चोपचयक्षयः| अनुक्तमप्यशेषं रिष्टं सङ्गृह्णन्नाह– क्रियाभिरित्यादि||१४-१७||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

पुनश्चासाध्यत्वमाह– य इत्यादि| मर्मसु न जाता अपि भृशवेदनाः स्युः, मर्मजातत्वेन हि भृशवेदनत्वं युक्तम्| ये बहिः शीतलाः, अन्तर्मध्ये अत्यर्थं दह्यन्ते| पुनश्चासाध्यलिङ्गत्वमाह– प्राणेत्यादि| प्राणक्षयः शक्तिक्षयः, मांसक्षयः उपचयक्षयः, मर्मसु पायुनाभिहृदयादिषु| पुनश्चासाध्यत्वमाह– क्रियाभिरित्यादि| पादचतुष्टयान्विताभिः||१४-१७||

Adhikarana पुष्पिका · Śloka ४२

इति श्रीमाधवकरविरचिते माधवनिदाने शारीरव्रणनिदानं समाप्तम् ||४२||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां शारीरव्रणनिदानं समाप्तम्||४२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायां शारीरव्रणनिदानम्||४२||