Adhikarana मूत्राघातनिदानम् (१) · Śloka १
अथ मूत्राघातनिदानम् |
जायन्ते कुपितैर्दोषैर्मूत्राघातास्त्रयोदश |
प्रायो मूत्रविघाताद्यैर्वातकुण्डलिकादयः ||१||
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
मूत्रविकारसाधर्म्यात् मूत्राघातानाह– जायन्त इत्यादि| मूत्रकृच्छ्रमूत्राघातयोश्चायं विशेषः– मूत्रकृच्छ्रे कृच्छ्रत्वमतिशयितम्, ईषद्विबन्धः; मूत्राघाते तु विबन्धो बलवान्, कृच्छ्रत्वमल्पमिति| मूत्रविघाताद्यैर्मूत्रवेगविधारणादिभिः; आद्यशब्देन पुरीषशुक्रवेगविघातादीनां रूक्षाशनादीनां च ग्रहणम्| वातकुण्डलिकादयस्त्रयोदशेति सम्बन्धः||१||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
मूत्रविकारसाधर्म्यान्मूत्राघातानाह| मूत्रकृच्छ्रमूत्राघातयोश्चायमेव भेदः– मूत्रकृच्छ्रे कृच्छ्रत्वमतिशयितमीषद्विबन्धः, मूत्राघाते तु विबन्धो बलवान् कृच्छ्रत्वमल्पमिति| तेषां सम्प्राप्तिमाह– जायन्त इत्यादि| मूत्रवेगविधारणाद्यैः आदिशब्देन पुरीषशुक्रादिवेगविघातानां रूक्षाशनादीनां च ग्रहणम्| वातकुण्डलिकादयस्त्रयोदशेति सम्बन्धः||१||
Adhikarana वातकुण्डलिकालक्षणम् (२-३) · Śloka ३
रौक्ष्याद्वेगविघाताद्वा वायुर्बस्तौ सवेदनः |
मूत्रमाविश्य चरति विगुणः कुण्डलीकृतः ||२||
मूत्रमल्पाल्पमथवा सरुजं सम्प्रवर्तते |
वातकुण्डलिकां तां तु व्याधिं विद्यात् सुदारुणम् ||३||
(सु. उ. तं. अ. ५८) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
वातकुण्डलिकामाह– रौक्ष्यादित्यादि| आविश्येत्यावृत्य; ‘आविध्य’ इति पाठान्तरे स एवार्थः| चरति गच्छति| विगुणः कुपितः| कुण्डलीकृत इति वात्यावद्बस्तावेव भ्रमंस्तिष्ठतीति||२-३||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
तेषां मध्ये वातकुण्डलिकालक्षणमाह– रौक्ष्येत्यादि| रौक्ष्यादिभिर्वेगविघातादिभिश्च विगुणो दुष्टः, कुण्डलीभूतो वायुः, बस्तौ मूत्राशये, चरति प्रधावति, आबद्धत्वाद्भ्रमंस्तिष्ठतीत्यर्थः वात्यावत्| आविश्य आवृत्य मूत्रमिति| तस्मान्मूत्रमल्पमल्पं सव्यथं प्रवर्तते, तं व्याधिं वातकुण्डलिकामाहुः| सुदारुणं मारणात्मकत्वात्||२-३||
Adhikarana अष्ठीलालक्षणम् (४) · Śloka ४
आध्मापयन् बस्तिगुदं रुद्ध्वा वायुश्चलोन्नताम् |
कुर्यात्तीव्रार्तिमष्ठीलां मूत्रविण्मार्गरोधिनीम् ||४||
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
अष्ठीलामाह– आध्मापयन्नित्यादि| रुद्ध्वेति बस्तिगुदमेव| अष्ठीलातुल्यत्वादष्ठीला, सा च वातव्याधावुक्ता||४||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
अष्ठीलामाह– आध्मापयन्नित्यादि| आध्मापयन् पूरयन् बस्तिगुदं तथा बस्तिगुदमेव रुद्ध्वा वायुरष्ठीलां कुर्यात्| अष्ठीलातुल्यत्वादष्ठीला, अष्ठीला उत्तरापथे नदीषु पाषाणपिण्डी| चलोन्नतां चलां चलनशीलाम्| उन्नताम् ऊर्ध्वस्थिताम्| तीव्रार्तिमतिव्यथाम्| मूत्रमार्गः मेढ्रं, विण्मार्गः पायुः, तयोः रोधिनीम्||४||
Adhikarana वातबस्तिलक्षणम् (५-६) · Śloka ६
वेगं विधारयेद्यस्तु मूत्रस्याकुशलो नरः |
निरुणद्धि मुखं तस्य बस्तेर्बस्तिगतोऽनिलः ||५||
मूत्रसङ्गो भवेत्तेन बस्तिकुक्षिनिपीडितः |
वातबस्तिः स विज्ञेयो व्याधिः कृच्छ्रप्रसाधनः ||६||
(सु. उ. तं. अ. ५८) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
वातबस्तिमाह– वेगमित्यादि| बस्तिकुक्षिनिपीडित इति बस्तौ कुक्षौ च निपीडितः सम्पिण्डितो वायुरिति सम्बन्धः; ‘बस्तिकुक्षी निपीडयन्’ इति पाठान्तरे बस्तिकुक्ष्यो रुजाकर इति||५-६||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
वातबस्तिमाह– वेगमित्यादि| अकुशलो मूर्खः, तस्य पुरुषस्य बस्तेर्मुखं निरुणद्धि बस्तिगतो वायुः, तेन वायुना मूत्रसङ्गो विद्यात्| बस्तिकुक्षिनिपीडित इति बस्तौ कुक्षौ निपीडितः, सम्पिण्डितो वायुरिति सम्बन्धः| ‘बस्तिकुक्षी निपीडयन्’ इति पाठे तत्र बस्तिकुक्षौ चरन्||५-६||
Adhikarana मूत्रातीतलक्षणम् (७) · Śloka ७
चिरं धारयतो मूत्रं त्वरया न प्रवर्तते |
मेहमानस्य मन्दं वा मूत्रातीतः स उच्यते ||७||
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
मूत्रातीतमाह– चिरमित्यादि| त्वरया न प्रवर्तते इति मूत्रमित्यर्थः| मेहमानस्य मूत्रं त्यजतः| ‘वहमानस्य’ इति पाठान्तरं सुगमम्||७||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
मूत्रातीतमाह– चिरमित्यादि| चिरं चरकलं मूत्रं धारयतः पुंसः त्वरया वेगेन न प्रवर्तते, मेहमानस्य मूत्रं त्यजतः प्रवर्तते चेत्तदा मन्दं शनैः, ‘वाहमानस्य’ इति पाठान्तरं सुगमम्||७||
Adhikarana मूत्रजठरलक्षणम् (८-९) · Śloka ९
मूत्रस्य वेगेऽभिहते तदुदावर्तहेतुकः |
अपानः कुपितो वायुरुदरं पूरयेद्भृशम् ||८||
नाभेरधस्तादाध्मानं जनयेत्तीव्रवेदनम् |
तन्मूत्रजठरं विद्यादधोबस्तिनिरोधनम् ||९||
(सु. उ. तं. अ. ५८) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
मूत्रजठरमाह– मूत्रस्य वेग इत्यादि| तदुदावर्तहेतुक इति मूत्रवेगधारणजनितोदावर्तनिमित्तः| अधोबस्तिनिरोधनमिति बस्तेरधोभागे विबन्धकारकम्||८-९||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
मूत्रजठरमाह– मूत्रस्येत्यादि| तदुदावर्तहेतुत इति मूत्रवेगधारणजनितोदावर्तनिमित्ततः| अपानः ’अपानसञ्ज्ञको वातः कुपितः’ अतिशयेनोदरं पूरयति| ततो नाभेरधस्तात्तीव्रवेदनमाध्मानं कुर्यात्| अधस्ताद्बस्तिनिरोधनं बस्तेरधोभागे विबन्धकारकम्||८-९||
Adhikarana मूत्रोत्सङ्गलक्षणम् (१०-११) · Śloka ११
बस्तौ वाऽप्यथवा नाले मणौ वा यस्य देहिनः |
मूत्रं प्रवृत्तं सज्जेत सरक्तं वा प्रवाहतः ||१०||
स्रवेच्छनैरल्पमल्पं सरुजं वाऽथ नीरुजम् |
विगुणानिलजो व्याधिः स मूत्रोत्सङ्गसञ्ज्ञितः ||११||
(सु. उ. तं. अ. ५८) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
मूत्रोत्सङ्गमाह– बस्तावित्यादि| नाले मेढ्रे, मणौ मेढ्राग्रे| प्रवृत्तं सज्जेतेति संसक्तं सन्न प्रवर्तते| सरक्तं वा प्रवाहत इति प्रवाहणकुपितवायुना बस्त्यादिभेदजनितरक्तयुक्तं मूत्रं प्रवर्तते||१०-११||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
मूत्रोत्सङ्गमाह– बस्तावित्यादि| बस्तौ मूत्राशये, अथवा नाले मेढ्रे, अथवा मणौ मेढ्राग्रे, मूत्रं सज्जते न प्रवर्तते, सरक्तं वा प्रवर्तते प्रवाहत इति; शनैर्मन्दम्, अल्पमल्पं स्तोक्तं सव्यथं वा रुजारहितं वा प्रवर्तते मूत्रमिति सम्बन्धः||१०-११||
Adhikarana मूत्रक्षयलक्षणम् (१२) · Śloka १२
रूक्षस्य क्लान्तदेहस्य बस्तिस्थौ पित्तमारुतौ |
मूत्रक्षयं सरुग्दाहं जनयेतां तदाह्वयम् ||१२||
(सु. उ. तं. अ. ५८) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
मूत्रक्षयमाह– रूक्षस्येत्यादि| तदाह्वयमिति मूत्रक्षयाख्यं, कारणे कार्योपचारात्||१२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
मूत्रक्षयमाह– रूक्षस्येत्यादि| क्लान्तदेहस्य श्रान्तशरीरस्य, बस्तिस्थौ मूत्राशयस्थौ, पित्तमारुतौ मूत्रनाशं कुरुतः व्यथादाहयुक्तम्| तदाह्वयं मूत्रक्षयाख्यं, कारणे कार्योपचारात्||१२||
Adhikarana मूत्रग्रन्थिलक्षणम् (१३) · Śloka १३
अन्तर्बस्तिमुखे वृत्तः स्थिरोऽल्पः सहसा भवेत् |
अश्मरीतुल्यरुग्ग्रन्थिर्मूत्रग्रन्थिः स उच्यते ||१३||
(वा. नि. अ. ९) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
मूत्रग्रन्थिमाह– अन्तरित्यादि| अन्तर्बस्तिमुखे बस्तिमुखस्याभ्यन्तरे| ग्रन्थिर्गुडकाकारः| ननु, स्थानवेदनाकारणानामभिन्नत्वादश्मर्या सह को भेदः? उच्यते– अश्मर्यां पित्तादिकं संहन्यते, अत्र तु रक्तमेव| उक्तं हि तन्त्रान्तरे– “रक्तं वातकफाद्दुष्टं बस्तिद्वारे सुदारुणम्| ग्रन्थिं कुर्यात् स कृच्छ्रेण सृजेन्मूत्रं तदावृतम्|| अश्मरीसमशूलं तं रक्तग्रन्थिं प्रचक्षते||” इति| विशेषज्ञानं तु कुत इति चेत्? अश्मरीपूर्वरूपोक्तस्य मूत्रे बस्तसगन्धत्वादेर्भावाभावाभ्याम्||१३||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
मूत्रग्रन्थिमाह– अन्तरित्यादि| अन्तर्बस्तिमुखस्याभ्यन्तरे, ग्रन्थिर्गुटिकाकारः, स्थिरः अचलः, अल्पो लघुरामलकाकारः| ननु, स्थानवेदनाकारणामभिन्नत्वादश्मर्या सह को भेदः? उच्यते– अश्मर्यां पित्तादिकं संहन्यते, अत्र तु रक्तमेव; अथवा अयं सहसा भवेत्, अश्मरी तु सञ्चयेन| अन्यच्च अश्मरी पित्तेन पच्यते, वायुना शोष्यते, कफेन वध्यते, अत्र तु रक्तमेव| उक्तं हि तन्त्रान्तरे– “रक्तं वातकफाद्दुष्टं बस्तिद्वारे सुदारुणम्| ग्रन्थिं कुर्यात्स कृच्छ्रेण सृजेन्मूत्रं तदावृतम्|| अश्मरीसमशूलं हि रक्तग्रन्थिं प्रचक्षते|” इति| तथा अश्मरीपूर्वरूपोक्तस्य मूत्रे बस्तसगन्धत्वादेरभावात्||१३||
Adhikarana मूत्रशुक्रलक्षणम् (१४) · Śloka १४
मूत्रितस्य स्त्रियं यातो वायुना शुक्रमुद्धतम् |
स्थानाच्च्युतं मूत्रयतः प्राक् पश्चाद्वा प्रवर्तते ||१४||
भस्मोदकप्रतीकाशं मूत्रशुक्रं तदुच्यते |
(वा. नि. अ. ९) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
मूत्रशुक्रमाह– मूत्रितस्येत्यादि| मूत्रितस्य मूत्रवेगितस्य| स्थानाच्च्युतं स्वस्थानाद्भ्रष्टं शुक्रम्||१४||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
मूत्रशुक्रमाह– मूत्रितस्येत्यादि| मूत्रितस्य मूत्रवेगयुक्तस्य वातेनोद्धूतं स्थानाच्च्युतं स्वस्थानाद्भ्रष्टं, मूत्रयतो मूत्रं कुर्वतः पुरुषस्य प्राक् प्रथमं प्रवर्तते, अथवा पश्चात् भस्ममिलितोदकसदृशम्||१४||–
Adhikarana उष्णवातलक्षणम् (१५-१६) · Śloka १६
व्यायामाध्वातपैः पित्तं बस्तिं प्राप्यानिलान्वितम् ||१५||
बस्तिं मेढ्रं गुदं चैव प्रदहेत् स्रावयेदधः |
मूत्रं हारिद्रमथवा सरक्तं रक्तमेव वा ||१६||
कृच्छ्रात् पुनः पुनर्जन्तोरुष्णवातं ब्रुवन्ति तम् |
(सु. उ. तं. अ. ५८) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
उष्णवातमाह– व्यायामेत्यादि| व्यायामात् विरोधिसौम्यधातुक्षयात्तेजोवृद्ध्या पित्तवृद्धिः| अनिलान्वितमनिलसंयुतम्| ‘अनिलावृतम्’ इति पाठान्तरं सुगमम्| सरक्तमीषल्लोहितम्||१५-१६||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
उष्णवातमाह– व्यायामेत्यादि| व्यायामाद्विरोधित्वेन सौम्यधातुक्षयात्तेजोवृद्ध्या पित्तवृद्धिः, तत् कुपितं पित्तमनिलान्वितमनिलसंयुतं बस्तिं प्राप्य बस्त्यादिकं प्रदहन् मूत्रमधः स्रावयेत्| कीदृशं? हारिद्रम्, अथवा सरक्तं ईषद्रक्तम्, अथवा केवलं रक्तमेव| ‘अनिलावृतम्’ इति पाठान्तरम्||१५-१६||–
Adhikarana मूत्रसादलक्षणम् (१७-१८) · Śloka १८
पित्तं कफो द्वावपि वा संहन्येतेऽनिलेन चेत् ||१७||
कृच्छ्रान्मूत्रं तदा पीतं श्वेतं रक्तं घनं सृजेत् |
सदाहं रोचनाशङ्खचूर्णवर्णं भवेत्तु तत् ||१८||
शुष्कं समस्तवर्णं वा मूत्रसादं वदन्ति तम् |
(वा. नि. अ. ९) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
मूत्रसादमाह– पित्तमित्यादि| संहन्येते स्त्यानीक्रियेते| शुष्कमल्पं, तन्मूत्रं पित्तेन रोचनाभं, कफेन शङ्खचूर्णाभं, समस्तवर्णमुक्तसकलवर्णं सन्निपातात्||१७-१८||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
मूत्रसादमाह– पित्तमित्यादि| वातेन संहन्येते स्त्यानीक्रियेते, तदा कृच्छ्रात् मूत्रयेत्| पित्तेन पीतरक्तं कफेन श्वेतं घनं, त्रिदोषेण समस्तवर्णं, तदेव शुष्कं, पित्तेन रोचनाचूर्णाभं, कफेन शङ्खचूर्णाभं, सन्निपातादुक्तसकलवर्णम्||१७-१८||–
Adhikarana विड्विघातलक्षणम् (१९-२०) · Śloka २०
रूक्षदुर्बलयोर्वातेनोदावृत्तं शकृद्यदा ||१९||
मूत्रस्रोतोऽनुपद्येत विट्संसृष्टं तदा नरः |
विड्गन्धं मूत्रयेत् कृच्छ्राद्विड्विघातं विनिर्दिशेत् ||२०||
(वा. नि. अ. ९) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
विड्विघातमाह– रूक्षेत्यादि| अनुपद्येत प्राप्नुयात्| विड्गन्धमित्यत्र वाशब्दो द्रष्टव्यः||१९-२०||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
विड्विघातमाह– रूक्षेत्यादि| द्वयोस्तयोर्वातेन अधोवृतं मूत्राशयात्स्रोतांसि अनुपद्येत आप्नुयात्, तदा विट्संसृष्टं पुरीषमिश्रं विड्गन्धं मूत्रं कृच्छ्रात् मूत्रयेत्| ‘उदावर्तम्’ इति पाठान्तरं, तत्रापि स एवार्थः||१९-२०||
Adhikarana बस्तिकुण्डललक्षणम् (२१-२२) · Śloka २४
द्रुताध्वलङ्घनायासैरभिघातात् प्रपीडनात् |
स्वस्थानाद्बस्तिरुद्वृत्तः स्थूलस्तिष्ठति गर्भवत् ||२१||
शूलस्पन्दनदाहार्तो बिन्दुं बिन्दुं स्रवत्यपि |
पीडितस्तु सृजेद्धारां संस्तम्भोद्वेष्टनार्तिमान् ||२२||
बस्तिकुण्डलमाहुस्तं घोरं शस्त्रविषोपमम् |
पवनप्रबलं प्रायो दुर्निवारमबुद्धिभिः |२४|
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
बस्तिकुण्डलमाह– द्रुतेत्यादि| लङ्घनमुत्पतनम्| उद्वृत्तः स्वस्थानादूर्ध्वं गतः, गर्भवदिति गर्भिण्या उदरान्तर्गतापत्यवत्, एतेन बस्तिपुटस्य पार्श्वगमनं दर्शितम्| पीडित इति नाभेरधः| उद्वेष्टनार्तिः उद्वेष्टनरूपाऽऽर्तिः| शस्त्रविषोपमं शस्त्रविषसदृशमिति विभिन्नार्थसूचनार्थं प्रसिद्धानुभवोपदर्शनार्थम्||२१-२२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
बस्तिकुण्डलमाह– द्रुतेत्यादि| द्रुताध्वलङ्घनं द्रुतेन अध्वगमनं, लङ्घनमुत्पतनं वा, अभिघाताल्लगुडादिभिः, प्रपीडनाद्वा निष्पीडनात्, एतैर्हेतुभिर्बस्तिरुद्वृत्तः स्वस्थानादूर्ध्वं गतः| गर्भवदिति गर्भिण्या उदरान्तर्गताऽपत्यवत्तिष्ठति, एतेन बस्तिपुटस्य पार्श्वगमनमपि सूचितम्| पीडित इति नाभेरधः, तथा संस्तम्भादियुक्तः, उद्वेष्टनरूपा अर्तिः| उद्वेष्टनरूपपीडातियुक्तम्| शस्त्रविषोपममिति विभिन्नार्थसूचनार्थं, प्रसिद्धप्रभावोपदर्शनार्थं च| शस्त्रोपमं शीघ्रेण मारणात्मकं, विषोपममिति कालान्तरेण| विषमत्र गरः प्रायेण वातबहुलम्||२१-२२||–
Adhikarana बस्तिकुण्डलस्य दोषान्तरसंसृष्टस्य लक्षणम् (२३) · Śloka २४
तस्मिन् पित्तान्विते दाहः शूलं मूत्रविवर्णता ||२३||
श्लेष्मणा गौरवं शोथः स्निग्धं मूत्रं घनं सितम् |२४|
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
वातस्यैव दोषान्तरानुबन्धिनो लक्षणमाह– तस्मिन्नित्यादि| श्लेष्मणा अन्विते तस्मिन्निति बोद्धव्यम्||२३||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
तस्यैवेतरदोषानुबन्धेन लक्षणमाह– तस्मिन्नित्यादि||२३||–
Adhikarana बस्तिकुण्डलस्य साध्यासाध्यविचारः (२४) · Śloka २५
श्लेष्मरुद्धबिलो बस्तिः पित्तोदीर्णो न सिध्यति ||२४||
अविभ्रान्तबिलः साध्यो, न तु यः कुण्डलीकृतः |२५|
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
तस्यैव साध्यत्वासाध्यत्वमाह– श्लेष्मरुद्धबिल इत्यादि| बिलं बस्तिमुखशुषिरम्| पित्तोदीर्णः उपचितपित्तः, स एव अविभ्रान्तबिलोऽनावृतबिलः| कफेन कुण्डलीकृतोऽसाध्य इति बोध्यम्| अकुण्डलीकृतस्तु साध्यत्वेनोक्तः||२४||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
अविभ्रान्तबिलः कफेनारुद्धमुखः, घनकफेन कुण्डलीकृतो न भवति स साध्यः, कुण्डलीकृतस्त्वसाध्यः| बिलं बस्तिमुखसुषिरम्||२४||
Adhikarana कुण्डलीभूतबस्तेर्लक्षणम् (२५) · Śloka २५
स्याद्बस्तौ कुण्डलीभूते तृण्मोहः श्वास एव च ||२५||
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
कुण्डलीभूतस्यैव लिङ्गमाह– स्यादित्यादि| एतौ विड्विघातबस्तिकुण्डलौ सुश्रुतेन न पठितौ, तेन हि मूत्रोदकसादमेव द्विधा पठित्वा ‘द्वादश मूत्राघाता’ इत्युक्तं, सर्वानभिधानं तु पराधिकारत्वेनेति मन्तव्यम्||२५||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
कुण्डलीभूतस्य तस्यैव लिङ्गमाह– स्यादित्यादि| श्लेष्मणा रुद्धबिलः बस्तिः कुण्डलाकारत्वेन तिष्ठति| “वातकुण्डलिकाऽष्ठीला वातबस्तिस्तथैव च| मूत्रातीतः सजठरो मूत्रोत्सङ्गः क्षयस्तथा|| मूत्रग्रन्थिर्मूत्रशुक्रमुष्णवातस्तथैव च| मूत्रसादो विड्विघातो बस्तिकुण्डलिका तथा||” एते मूत्राघातास्त्रयोदश ज्ञेयाः||२५||
Adhikarana पुष्पिका · Śloka ३१
इति श्रीमाधवकरविरचिते माधवनिदाने मूत्राघातनिदानं समाप्तम् ||३१||
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायां मूत्राघातनिदानं समाप्तम्||३१||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायां मूत्राघातनिदानं समाप्तम्||३१||