Adhikarana कासस्य निदानसम्प्राप्तिपूर्वकं लक्षणम् (१-२) · Śloka २
अथ कासनिदानम् |
धूमोपघाताद्रसतस्तथैव व्यायामरूक्षान्ननिषेवणाच्च |
विमार्गगत्वाच्च हि भोजनस्य वेगावरोधात् क्षवथोस्तथैव ||१||
प्राणो ह्युदानानुगतः प्रदुष्टः स भिन्नकांस्यस्वनतुल्यघोषः |
निरेति वक्त्रात् सहसा सदोषो मनीषिभिः कास इति प्रदिष्टः ||२||
(सु. उ. तं. अ. ५२) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
क्षयरूपे कासपाठात् कासोपेक्षया च क्षयोत्पत्तेस्तदनन्तरं कासनिदानमाह– धूमोपघातादित्यादि| धूमेन मुखनासाप्रविष्टेनोपघातो धूमोपघातः| रसत इति वातेनोर्ध्वं नीतादामरसात्, ‘रजस’ इति पाठान्तरे मुखनासाप्रविष्टधूलेरित्यर्थः| विमार्गगत्वं च हि भोजनस्यातिद्रुताभ्यवहारादिना| चशब्दः समुच्चये, हि पादपूरणे| वेगावरोधादिति पुरीषादेः, तेन हि वायुरूर्ध्वगः स्यात्| क्षवथोस्तथैवेति वेगावरोधादिति सम्बन्धः| प्राणो वायुरुदानेन दुष्टेनानुगतो वक्त्रान्निरेति| स वायुः, भिन्नकांस्यपात्रवत् हतस्वनः कास इति प्रदिष्टः| सदोषः सकफपित्तः, वातिकपैत्तिकादिभेदभिन्न इति वा| एतेनैव समानस्थाननिदानाभ्यां हिक्काश्वासाभ्यामस्य भेदः, न हि तत्र वातिकपैत्तिकादिभेदेन व्यपदेश इति गदाधरः| कसति शिरःकण्ठादूर्ध्वं गच्छति वायुरिति कासः, ‘कस’ गतौ इत्यस्मात्; ‘कसनात् कासः’ (च. चि. अ. १८) इति चरके पाठः; कासनं कास इति वा, “भिन्नस्वरः कासति शुष्कमेव” (सु. उ. तं. अ. ५२) इति सुश्रुतदर्शनात्||१-२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
क्षयरूपे कासपाठात् तदनन्तरं कासनिदानमाह– धूमेत्यादि| धूमेन मुखनासाप्रविष्टेन उपघातो धूमोपघातः, रजसेति रजसा मुखनासाप्रविष्टेन तथैव, ‘रसतः’ इति पाठान्तरं, तत्र रसो जलं, व्यायाम आयासः, रूक्षान्नं चणकादि, विमार्गगत्वादिति भोजनस्य अतिद्रुताभ्यवहारादिना, वेगावरोधादिति पुरीषादेः| तस्य सम्प्राप्तिमाह– प्राण इत्यादि| प्राणो वायुर्दुष्टः उदानेन दुष्टेनानुयातः वक्त्रान्निरेति गच्छति, स दोषो रोगः कास इति प्रदिष्टः| कार्ये कारणोपचारात् दोषे रोगः इति सञ्ज्ञा| किंविशिष्टः स दोषः? भिन्नकांस्यपात्रस्वनः भग्नकांस्यपात्रस्वनः, स वातपित्तकफभेदैर्भिन्न इति तस्य निरुक्तिः| कास इति ‘ कासृ’ दीप्तौ, इत्यस्माद्धातोः, अप्रत्ययान्तः; अनेकार्थत्वात्प्राप्त्यर्थः; कसति शिरःकण्ठादूर्ध्वं गच्छति वायुरिति कासः ‘कस’ गताविति धातुः| अथवा कासनं कास इति घञः “कसनात्” कास इति चरकपाठात् | “भिन्नस्वरः कासति शुष्कमेव” इति सुश्रुतवचनम्||१-२||
Adhikarana काससङ्ख्या (३) · Śloka ३
पञ्च कासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः |
क्षयायोपेक्षिताः सर्वे बलिनश्चोत्तरोत्तरम् ||३||
(अ. हृ. नि. अ. ३) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
सङ्ख्यामाह– पञ्चेत्यादि| पञ्च कासा इति सङ्ख्येयनिर्देशादेव सङ्ख्यायां लब्धायां पञ्चग्रहणं जराकासस्य दोषजेष्वन्तर्भूतस्याधिकत्वनिरासार्थं, पञ्चानामपि वा क्षयकारणत्वप्रतिपादनार्थमिति| क्षयाय धातुक्षयाय||३||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
तस्य सङ्ख्यामाह– पञ्चेत्यादि| सङ्ख्येयनिर्देशादेव सङ्ख्यायां लब्धायां पञ्चग्रहणं जराकासस्य दोषजेष्वेवान्तर्भूतस्याधिकत्वनिरासार्थम्| उपेक्षितास्ते अप्रतिक्रियमाणाः क्षयाय धातुक्षयाय भवन्ति; उत्तरोत्तरमिति वातात्पैत्तिकः, पैत्तिकात् श्लैष्मिकः, तस्मात्क्षतजो बली, तस्मात् क्षयजः||३||
Adhikarana कासपूर्वरूपम् (४) · Śloka ४
पूर्वरूपं भवेत्तेषां शूकपूर्णगलास्यता |
कण्ठे कण्डूश्च भोज्यानामवरोधश्च जायते ||४||
(च. चि. अ. २२) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
पूर्वरूपमाह– पूर्वेत्यादि| भोज्यानामवरोध इति अरुचिरभ्यवहारासामर्थ्यं वा||४||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
तस्य पूर्वरूपमाह– पूर्वरूपमित्यादि| शूको धान्याग्रसूक्ष्मकण्टकाकारः| भोज्यानामवरोध इति अभ्यवहरणासामर्थ्यम् ||४||
Adhikarana वातिककासलक्षणम् (५) · Śloka ५
हृच्छङ्खमूर्धोदरपार्श्वशूली क्षामाननः क्षीणबलस्वरौजाः |
प्रसक्तवेगस्तु समीरणेन भिन्नस्वरः कासति शुष्कमेव ||५||
(सु. उ. तं. अ. ५२) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
वातिककासस्वरूपमाह– हृदित्यादि| शङ्खो ललाटैकदेशः| क्षामाननः शुष्कमुखः, वातेन शोषणात्| प्रसक्तवेगः सततकासवेगः| शुष्कमिति श्लेष्मादिनिष्ठीवनरहितम्||५||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
वातिककासरूपमाह– हृदित्यादि| शङ्खो ललाटैकदेशः| क्षामाननः शुष्कमुखः, वातशोषणात्| क्षीणबलस्वरौजा इति क्षीणं बलं स्वर ओजश्च यस्य स तथा| प्रसक्तवेगः सततकासवेगः| भिन्नस्वरः द्विधाकृत इव| शुष्कमिति श्लेष्मनिष्ठीवनरहितम्||५||
Adhikarana पैत्तिककासलक्षणम् (६) · Śloka ६
उरोविदाहज्वरवक्त्रशोषैरभ्यर्दितस्तिक्तमुखस्तृषार्तः |
पित्तेन पीतानि वमेत् कटूनि कासेत् सपाण्डुः परिदह्यमानः ||६||
(सु. उ. तं. अ. ५२) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
पैत्तिककासमाह– उर इत्यादि| अभ्यर्दितः पीडितः||६||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
पैत्तिकमाह– उरोविदाहेत्यादि| एतैरुपद्रवैः अभ्यर्दितः पीडितः| पीतानि वमेत् पित्तं कफसंसृष्टं निष्ठीवति; उक्तं च तन्त्रान्तरे– “श्लेष्माणं पित्तसंसृष्टं निष्ठीवति च पैत्तिकः” इति| पाण्डुना सह वर्तत इति सपाण्डुः, एतेन नयनादीनामपि पाण्डुत्वमुक्तम्| परिदह्यमानः दाहपरिप्लुतः||६||
Adhikarana कफजकासलक्षणम् (७) · Śloka ७
प्रलिप्यमानेन मुखेन सीदन् शिरोरुजार्तः कफपूर्णदेहः |
अभक्तरुग्गौरवकण्डुयुक्तः कासेद्भृशं सान्द्रकफः कफेन ||७||
(सु. उ. तं. अ. ५२) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
कफजकासमाह– प्रलिप्यमानेनेत्यादि| प्रलिप्यमानेन श्लेष्मलिप्तेन मुखेनोपलक्षितः, सीदन् अङ्गावसादयुक्तः| अभक्तरुक् अरुचिः||७||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
कफजमाह– प्रलिप्यमानेन कफोपलिप्तेन मुखेनोपलक्षितः, सीदन् सादयुक्तः, अभक्तरुक् अरुचिः, कफपूर्णदेहत्वाद्गौरवं, कण्डूः कण्ठस्यैव, सान्द्रकफः घनश्लेष्मा||७||
Adhikarana क्षतजकासलक्षणम् (८-११) · Śloka ११
अतिव्यवायभाराध्वयुद्धाश्वगजविग्रहैः |
रूक्षस्योरःक्षतं वायुर्गृहीत्वा कासमाचरेत् ||८||
स पूर्वं कासते शुष्कं ततः ष्ठीवेत् सशोणितम् |
कण्ठेन रुजताऽत्यर्थं विरुग्णेनेव चोरसा ||९||
सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना |
दुःखस्पर्शेन शूलेन भेदपीडाभितापिना ||१०||
पर्वभेदज्वरश्वासतृष्णावैस्वर्यपीडितः |
पारावत इवाकूजन् कासवेगात् क्षतोद्भवात् ||११||
(सु. उ. तं. अ. ५२) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
क्षतकासमाह– अतिव्यवायेत्यादि| विग्रहो विधारणं युद्धस्योपात्तत्वात्; ‘निग्रह’ इति पाठे स एवार्थः| ततः ष्ठीवेत् सशोणितमिति कासाभिघातेन हृदयस्य विदारणात्| कण्ठेनेति उपलक्षणे तृतीया, एवमुरसेति| विरुग्णेनेव भग्नेनेव, सूचीभिरिव तुद्यमानेन, शूलिना दुःखस्पर्शेन चोरसेति सम्बन्धः| दुःखस्पर्शत्वं स्पर्शासहत्वम्| शूलेनोपलक्षितः, तच्च पार्श्वादौ बोध्यम्| वाग्भटेनापि पठ्यते– ‘पार्श्वशूली’ (वा. नि. अ. ३) इति| भेदपीडाभितापिनेति शूलविशेषणम्| पारावत इव कूजन्, भवतीति शेषः||८-११||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
क्षतकासमाह– अतीत्यादि| विग्रहो विधारणं, युद्धस्योक्तत्वात्| एतैः कारणै रूक्षस्य पुरुषस्य उरःक्षतं गृहीत्वा वायुः कासमावहेत् करोति| युद्धं मल्लयुद्धादिकम्| ततः ष्ठीवेत् शोणितमिति कासाभिघातेन हृदयस्य विदारणात्| अत्यर्थं रुजता पीडायुक्तेन, कण्ठेनेत्युपलक्षणे तृतीया, एवमुरसेति| विरुग्णेनेव द्विधेव विदीर्णेन, तीक्ष्णाभिः सूचीभिरिव तुद्यमानेन, शूलिना रुजायुक्तेन , दुःखस्पर्शेन चोरसेति सम्बन्धः| दुःखस्पर्शत्वं स्पर्शासहत्वम्| शूलेन चोपलक्षितः, तच्च पार्श्वादौ बोद्धव्यं “पार्श्वशूली” इति वाग्भटेन पठ्यमानत्वात्| ‘भेदपीडाभितापिना’ इति शूलविशेषणम्| पारावत इवाकूजन् ‘भवति’ इति शेषः||८-११||
Adhikarana क्षयजकासलक्षणम् (१२-१३) · Śloka १३
विषमासात्म्यभोज्यातिव्यवायाद्वेगनिग्रहात् |
घृणिनां शोचतां नॄणां व्यापन्नेऽग्नौ त्रयो मलाः |
कुपिताः क्षयजं कासं कुर्युर्देहक्षयप्रदम् ||१२||
स गात्रशूलज्वरदाहमोहान् प्राणक्षयं चोपलभेत कासी |
शुष्यन् विनिष्ठीवति दुर्बलस्तु प्रक्षीणमांसो रुधिरं सपूयम् |
तं सर्वलिङ्गं भृशदुश्चिकित्स्यं चिकित्सितज्ञाः क्षयजं वदन्ति ||१३||
(सु. उ. तं. अ. ५२) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
क्षयजकासमाह– विषमेत्यादि| घृणिनां शोचतां चाहाराभावात् कुपितेन वायुनाऽग्नेरुप्लवाद्दोषत्रयप्रकोप इति| क्षयजमिति शुक्रादिधातुक्षयजं, नतु राजयक्ष्मजम्| त्रिदोषजेऽपि राजयक्ष्मणि कासः कफेनैव क्रियते| यदुक्तम्– “कासः कण्ठस्य चोद्ध्वंसो विज्ञेयः कफकोपतः|” इति; क्षयजकासस्तु त्रिदोषज इति| ननु, कासादेव क्षयो जायते तत् कथं क्षयजः कास इति? उक्तं हि– “कासात् सञ्जायते क्षयः|” (च. चि. अ. ८) इति| उच्यते– दृष्टो हि परस्परं व्यक्तिभेदेन कार्यकारणभावो बहुशः, यथाऽतीसारार्शोग्निमान्द्यादाविति| ननु स गात्रशूलेत्यादिश्लोकार्धस्य क्षयजकासमध्ये पाठोऽयुक्तः प्रतिभाति, सुश्रुते क्षतजकासे पठितत्वात्; क्षयकासश्चात्र चरकसुश्रुतवाक्ये मेलयित्वा माधवकरेण लिखितः; उच्यते– स गात्रशूलेत्याद्यनन्तरं क्षयकासः सुश्रुतेन पठितः; तेन ‘सगात्रशूल’ इत्यादिश्लोकार्धस्य परेण सम्बन्धात् क्षयकासलिङ्गत्वमिति माधवकरस्याभिप्राय; एतच्चान्ये नानुमन्यन्ते, यतः क्षतकासस्यावस्थायामसाध्यत्वख्यापनपरमेतद्व्याख्यातं जेज्जटेन, गयदासेनापि क्षतजकासरूपत्वेनेति||१२-१३||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
क्षयजमाह– विषमेत्यादि| घृणिनां घृणां कुर्वतां, शोचतां शोकं कुर्वतां, पुंसामग्नौ व्य्पन्ने सति त्रयो मलाः कुपिताः सन्तो देहक्षयप्रदं क्षयजं कासं कुर्युः| क्षयजमिति रक्तादिक्षयजम्| अस्योपद्रवानाह-स इत्यादि| स कासी गात्रशूलादीन् प्राणक्षयं चोपलभेत| शुष्यन्निति प्रतिदिनं शुष्यमाणः, दुर्बलः उपचयरहितः, प्रक्षीणमांसस्त्वगस्थिभूतः, सर्वलिङ्गमिति त्रिदोषलिङ्गत्वादसाध्यम्||१२-१३||
Adhikarana कासस्य साध्यत्वादिलक्षणम् (१४-१५) · Śloka १५
इत्येष क्षयजः कासः क्षीणानां देहनाशनः |
साध्यो बलवतां वा स्याद्याप्यस्त्वेवं क्षतोत्थितः ||१४||
नवौ कदाचित्सिध्येतामपि पादगुणान्वितौ |
स्थविराणां जराकासः सर्वो याप्यः प्रकीर्तितः |
त्रीन् पूर्वान् साधयेत् साध्यान् पथ्यैर्याप्यांस्तु यापयेत् ||१५||
(सु. उ. तं. अ. ५२) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
असाध्यत्वादिलक्षणमाह– इतीत्यादि| पादगुणान्विताविति वैद्यादिचतुष्पादसम्पन्नौ| स्थविराणां वृद्धानां; स्थविराणामित्युक्तेऽपि जराशब्दोपादानं जरानिमित्तधातुक्षयज एव कासो याप्यः, अपचारजनितदोषजस्तु साध्य इति बोधनार्थम्||१४-१५||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
असाध्यसाध्ययाप्यत्वमाह– इतीत्यादि| बलवतां कदाचित्साध्यो वा स्याद्याप्यश्च, एवं क्षतजः कदाचित्साध्यो याप्यो वा| पुनः साध्यत्वमाह– नवावित्यादि| अचिरोत्थौ क्षतक्षयजौ द्वौ पादगुणान्वितौ वैद्यादिचतुष्पादसम्पत्तियुक्तौ कदाचित् सिध्येतां साध्यौ भवत इत्यर्थः| याप्यत्वमाह– स्थविराणामिति| वृद्धानाम् एतस्य दोषजेष्वन्तर्भूतत्वान्न पृथक्त्वम्| पञ्चानामपि चिकित्साद्वारेण साध्ययाप्यत्वमाह– त्रीनिति| वातपित्तश्लेष्मजान् पथ्यैः साधयेत्, एतेन त्रयः कासाः साध्या उक्ताः; अपरान् पथ्यैर्यापयेत् याप्यतां नयेत्| जराकासा इति बहुवचनाज्जराकास उपेक्षितः असाध्यो भवतीति दर्शयति| “पूयाभमरुणं श्यावं हरितं पीतनीलकम्| निष्ठीवेच्छ्वासकासार्तो न जीवति हतस्वरः|| कासश्वासक्षयच्छर्दिस्वरभेदादयो गदाः| भवन्त्युपेक्षयाऽसाध्यास्तस्मात्तान् त्वरया जयेत्||” इति||१४-१५||
Adhikarana पुष्पिका · Śloka ११
इति श्रीमाधवकरविरचिते माधवनिदाने कासनिदानं समाप्तम् ||११||
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायां कासनिदानं समाप्तम्||११||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
इति श्रीवैद्यवाचस्पतिविरचिते आतङ्कदर्पणे रुग्विनिश्चयव्याख्याने कासनिदानम्||११||