Skip to content

४४. भग्ननिदानम्

Adhikarana भग्नस्य द्वैविध्यम् (१) · Śloka

अथ भग्ननिदानम् | भग्नं समासाद्द्विविधं हुताश काण्डे च सन्धौ च हि तत्र सन्धौ | उत्पिष्टविश्लिष्टविवर्तितं च तिर्यग्गतं क्षिप्तमधश्च षट् च ||१||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

आगन्तुसामान्यात् भग्ननिदानम्| द्विविधं हि भग्नं सव्रणमव्रणं च, तत्र सव्रणमभिधायाव्रणमाह– भग्नं समासादित्यादि| हुताश इति अग्निवेशसम्बोधनं, चरके हुताशशब्देनाग्निवेशोऽभिधीयते, एकदेशेनापि समुदायप्रतीतेः| काण्डे च सन्धौ चेति सन्धिविच्छिन्नमेकं, द्वितीयं काण्डभग्नं; काण्डमस्थिकाण्डः, काण्डेन च नलककपालवलयतरुणरुचकानां ग्रहः, तत्र भग्नं काण्डे भग्नं; द्वयोरस्थ्नोः, सन्धानं सन्धिः, तद्विश्लेषः सन्धिमुक्तम्| तत्र सन्धाविति सन्धौ मुक्ते ‘लिङ्गमभिधीयते’ इति शेषः| ननु कथं सन्धिमुक्तं भग्नमुच्यते? अस्थ्नां हि भङ्गो युक्तः| उच्यते– अस्थिविश्लेषोऽत्र भग्नोऽभिप्रेतः, स च काण्डभग्ने सन्धिमुक्ते चास्तीति न दोषः||१||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

आगन्तुत्वसामान्याद्भग्नमाह– भग्नमित्यादि| तं चागन्तुव्रणं समासात् द्विविधमाहुः, कथमित्याह– काण्डे भग्नं तथा सन्धौ चेति; सन्धिविच्छिन्नमेकं, काण्डमस्थिकाण्डः, काण्डेन च नलककपालवलयतरुणरुचकानां ग्रहणं, तत्र भग्नं काण्डे भग्नम्| द्वयोरस्थ्नोः सन्धानं सन्धिः, तद्विश्लेषः सन्धिमुक्तम्| सन्धिमुक्तस्य षाड्विध्यमाह– उत्पिष्टेत्यादि| तत्र सन्धाविति तत्र तयोः काण्डभग्नसन्धिभग्नयोर्मध्ये, सन्धौ मुक्तेऽपि ‘लिङ्गमभिधीयत’ इति शेषः| उत्पिष्टादिभेदेन षोढा भवति| ननु, कथं सन्धिमुक्तं भग्नमुच्यते? अस्थ्नां भङ्गो युक्तः; उच्यते अस्थिविश्लेषोऽत्र भग्नोऽभिप्रेतः, स च काण्डभग्ने सन्धिमुक्ते चास्तीति न दोषः||१||

Adhikarana सन्धिभग्नस्य सामान्यलिङ्गम् (१) · Śloka

प्रसारणाकुञ्चनवर्तनोग्रा रुक् स्पर्शविद्वेषणमेतदुक्तम् | सामान्यतः सन्धिगतस्य लिङ्गम्... |२|

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

सन्धिभग्नस्य सामान्यलिङ्गमाह– प्रसारणेत्यादि| प्रसारणाकुञ्चनवर्तनोग्रा रुगिति प्रसारणादिषु उग्रा रुक्| वर्तनं निष्क्रियतयाऽवस्थानम्|१|–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

तत्र सन्धिमुक्तस्य सामान्यलक्षणमाह– प्रसारणेत्यादि| प्रसारणादिषु उग्रा रुक् व्यथा, वर्तनमिति निष्क्रियतयाऽवस्थानम्| एतत्सामान्यलिङ्गम्|१|–

Adhikarana उत्पिष्ट-विश्लिष्ट-विवर्तित-तिर्यग्गत-क्षिप्तलिङ्गम् (२-३) · Śloka

...उत्पिष्टसन्धेः श्वयथुः समन्तात् ||२|| विशेषतो रात्रिभवा रुजा च, विश्लिष्टजे तौ च रुजा च नित्यम् | विवर्तिते पार्श्वरुजश्च तीव्रास्तिर्यग्गते तीव्ररुजो भवन्ति ||३|| क्षिप्तेऽतिशूलं विषमत्वमस्थ्नोः क्षिप्ते त्वधो रुग्विघटश्च सन्धेः |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

उत्पिष्टादिलिङ्गमाह– उत्पिष्टसन्धेरित्यादि| उत्पिष्टं द्वाभ्यामस्थिभ्यां सन्धौ घर्षणम्| श्वयथुः समन्तादिति उभयभागे शोथः, उभयतः सन्ध्यस्थ्नोर्घर्षितत्वात्| विशेषतो रात्रिभवा रुजा चेति अभिघातकुपित एव रात्रौ शैत्येनात्यन्तं वृद्धो वायुः रुजां करोति| अत्र चूर्णितत्वेन मार्गावरणात् वातकोप इत्यर्थः| विश्लिष्टजे इति विश्लिष्टजाते सन्धिमुक्ते, विश्लिष्टं मनाक् सन्धिविश्लेषः शिथिलतामात्रं, विश्लिष्टमिति भावे क्तः| तौ चेति विश्लिष्टे रात्रिरुजासमन्ताच्छोथौ; समन्ताच्छोथोऽप्यत्राल्पो बोध्यः, सन्धेरनभिघातात्| सन्धिविक्रियया अस्थ्नोरपसृतत्वात् मध्यनिम्नत्वं, “उत्पिष्टमथ विश्लिष्टं सन्धिं वैद्यो न घट्टयेत्|” (सु. चि. अ. २) इति वचनात्; मनाग्विक्रियया वा| रुजा च नित्यमिति सर्वदा रुजा बलवती भवतीत्युत्पिष्टाद्विशेषः| विवर्तिते इति ‘सन्धौ’ इति शेषः, विवर्तिते विपरीतं वर्तिते; विवर्तनं सन्धौ द्वयोरस्थ्नोर्विवृतिर्विभ्रमणमनार्जवता| पार्श्वरुजश्च तीव्रा इति आभ्यन्तरसन्धिस्थानयोः पार्श्वसन्ध्यस्थ्नोः पार्श्वगमनात्तीव्राः पार्श्वरुजः| तिर्यग्गत इति तिर्यक्क्षिप्ते| अत्र ह्येकं सन्ध्यस्थि सन्धिस्थानं त्यक्त्वा तिर्यग्याति| क्षिप्तेऽतीति अतिक्षिप्ते; ‘ऊर्ध्वम्’ इति शेषः| अत्र ह्येकास्थिविक्रियया उभयास्थिविक्रियया वा द्वयोरप्यस्थ्नोः परस्परातिक्रमणं दूरगमनं वा; विश्लिष्टे तु मनाक् शिथिलतामात्रम्; अधःक्षिप्ते तु किञ्चिदधोगमनमिति विशेषः| “विषमाश्च सक्थ्नोः” इति पाठे तु ‘रुज’ इति शेषः| क्षिप्ते त्वधोरुग्विघटश्च सन्धेरिति अधःक्षिप्ते रुक् रुजा, सन्धेर्विघटश्च विघटनम्| ‘विरुद्धचेष्टा विघटस्य’ इति पाठान्तरे विघटितस्य सन्धेरित्यर्थः| अत्र अधोऽस्थिगमनम्| अधः क्षिप्तवदूर्ध्वं क्षिप्तस्याप्यभिधाने प्राप्ते अनुक्तिरतिक्षिप्तेऽवरोधात्||२-३||–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

विशिष्टलिङ्गमाह– उत्पिष्टसन्धेरित्यादि| उत्पिष्टं द्वाभ्यामस्थिभ्यां सन्धौ घर्षणं, श्वयथुः समन्तादिति उभयभागे शोफः, उभयतः सन्ध्यस्थ्नोर्घर्षणात्| विशेषत इत्याद्यभिघातकुपित एव रात्रौ शैत्येनात्यन्तं वृद्धो वायुः रुजं करोति, अत्र चूर्णितत्वेन मार्गावरणाद्वातप्रकोप इत्यर्थः| विश्लिष्टमाह– विश्लिष्टज इत्यादि| विश्लिष्टे सन्धिमुक्ते तौ च नित्यं च रुजा च भवति| विश्लिष्टं मनाक्सन्धिविश्लेषः, शिथिलतामात्रं; विश्लिष्टमिति भावे क्तः| तेनाल्पः शोफो बोद्धव्यः| तौ चेति रात्रिरुजासमन्ताच्छोथौ, समन्ताच्छोथोऽप्यत्राल्पो बोध्यः, सन्धेरनभिघातात्| सन्धिविक्रियया अस्थ्नोरपसृतत्वान्मध्यनिम्नत्वम्| “उत्पिष्टमथ विश्लिष्टं सन्धिमुक्तं तथा च्युतम्| जघनं प्रतिपिष्टं च भग्नं यत्तद्विवर्जयेत्||” इति| मनाक् विक्रियया वा| रुजा च नित्यमिति सर्वदा रुजा बलवती भवतीत्युत्पिष्टाद्विशेषः| विवर्तितमिति, सन्धाविति शेषः| विवर्तिते विपरीतं वर्तिते, विवर्तनं सन्धौ द्वयोरस्थ्नोर्विवृतिर्विभ्रमणमनार्जवता| पार्श्वे रुजाश्च तीव्राः सन्ति, अत्यन्तसन्धिस्थानयोः पार्श्वसन्ध्यस्थ्नोः पार्श्वगतत्वात्तीव्राः पार्श्वरुजः, चकारात् सन्धिसंश्रययोरप्यस्थ्नोर्व्यावर्तनेन पार्श्वोपगमनाद्विषमाङ्गतेति डल्लणः| तिर्यगित्यादि– तिर्यक् क्षिप्ते, सन्धाविति शेषः| अत्र ह्येकसन्ध्यस्थि सन्धिस्थानं त्यक्त्वा तिर्यग्याति| अतिक्षिप्तमाह– क्षिप्त इत्यादि| क्षिप्ते ऊर्ध्वमिति शेषः| अत्र तु द्वयोरपि अस्थ्नोः परस्परातिक्रमणं, दूरगमनं वा, विश्लिष्टे तु मनाक् शिथिलतामात्रमिति भेदः| अधःक्षिप्ते तु किञ्चिदधोगमनमिति विशेषः| सक्थ्नोरूरुकटिसन्ध्योर्विषममिति| शूलं विषममिति कदाचिद्धीनं कदाचिद्विवृद्धम्| ‘विषमाश्च सक्थ्नोः’ इति पाठान्तरम्| तत्र रुजा इति शेषः| अधःक्षिप्तमाह– क्षिप्ते त्वित्यादि| अधःक्षिप्तेऽधोगते सन्धौ रुक् रुजा, सन्धेर्विघटश्च, विघटो विघटनम्| ‘विरुद्धचेष्टा विघटस्य’ इति पाठान्तरे विघटितस्य सन्धेरित्यर्थः| अत्राधोऽस्थिगमनम्| अधःक्षिप्तवदूर्ध्वक्षिप्तस्याप्यभिधाने प्राप्तेऽनुक्तिरतिक्षिप्तेऽवरोधात्||२-३||–

Adhikarana काण्डे भग्नस्य लिङ्गम् (४-६) · Śloka

काण्डे त्वतः कर्कटकाश्वकर्णविचूर्णितं पिच्चितमस्थिछल्लिका ||४|| काण्डेषु भग्नं ह्यतिपातितं च मज्जागतं च स्फुटितं च वक्रम् | छिन्नं द्विधा द्वादशधाऽपि काण्डे स्रस्ताङ्गता शोथरुजातिवृद्धिः ||५|| सम्पीड्यमाने भवतीह शब्दः स्पर्शासहं स्पन्दनतोदशूलाः | सर्वास्ववस्थासु न शर्मलाभो भग्नस्य काण्डे खलु चिह्नमेतत् ||६||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

अतः परं काण्डे भग्नमभिधीयते– काण्डे त्वत इत्यादि| काण्डे इत्यत्र भग्नमिति शेषः| अत इति अतः परम्| कर्कटकेति उभयोः पार्श्वयोर्निपीडनेनावनतम्, अत एव मध्ये ग्रन्थिरिवोन्नतं कर्कटतुल्यत्वात् कर्कटकम्| अश्वकर्णेति अश्वकर्णवत् विपुलास्थिनिर्गमादश्वकर्णम्| विचूर्णितमिति क्षुण्णमस्थि, तच्च शब्दस्पर्शाभ्यामवगन्तव्यम्| पिच्चितमिति यन्त्रितं बहुशोथम्| अस्थिछल्लिकेति छल्लं वल्कलं तदत्रास्तीति अस्थिछल्लिका, अत्र मत्वर्थीयष्ठिकन्| अत्र तु आ न भवति, वृद्धेरनित्यत्वात्| एषा पार्श्वगतस्तोकास्थिविश्लेषाद्भवति| ‘अस्थिछल्लितम्’ इति वा पाठः, छल्लमस्य सञ्जातमिति छल्लितम्| काण्डेषु भग्नमित्यनेन काण्डभग्नमभिधीयते, प्रसारणे कम्पमानं काण्डभग्नम्| यद्यपि काण्डे भग्नं सर्वमेव कर्कटादि, तथाऽपि विशिष्टे काण्डभग्ने काण्डभग्नसञ्ज्ञेयं बोद्धव्या| यथा– जाङ्गलशब्दो जङ्घालाद्यष्टविधमांसवर्गे सामान्ये, विशेषे पुनरेणादावेव च वर्तते| अतिपातितमिति अस्थिनिःशेषतश्छिन्नमतिपातितम्| मज्जागतमिति अस्थ्यवयवोऽस्थिमध्यमनुप्रविश्य मज्जानं निःसारयतीति मज्जागतम्| स्फुटितं स्तोकं बहुधा विदीर्णं शूकपूर्णमिव वेदनावत्| वक्रमिति अविमुक्तास्थि कुब्जीभूतं वक्रम्| वक्रताऽपि भग्नत्वं ज्ञेयम्| छिन्नं द्विधेति एकमणुविदीर्णं, बहुविदीर्णमन्यत्; एकं विदीर्णं, संलग्नमपरं विदीर्णं द्विधाभूतम्; अन्यस्तु विपुलैकविदरणमित्याह; सुश्रुते एतत् पाटितसञ्ज्ञम्| काण्डे भग्नस्य द्वादशविधत्वं नियमयति– काण्ड इति| अत्र भग्नमिति शेषः| अपिशब्दोऽत्र भिन्नक्रमः, स चावधारणार्थं, तेन छिन्नमित्यत्र सम्बध्यते| छिन्नमेव द्विधा, न कर्कटादि||४-६||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

अतः परं काण्डे भग्नमाह– काण्डे त्वित्यादि| छिन्नं द्विधा काण्डे इत्यत्र भग्नम् इति शेषः| अत इति अतः परम्| कर्कटकेति उभयोः पार्श्वयोः निपीडनेनावनतम्, अत एव मध्ये ग्रन्थिरिवोन्नतं कर्कटतुल्यत्वात्कर्कटकम्| अश्वकर्णेति अश्वकर्णवद्विपुलास्थिनिर्गमादश्वकर्णम्| विचूर्णितमिति क्षुण्णमस्थि, तच्च शब्दस्पर्शाभ्यामवगन्तव्यम्| पिच्चितमिति यन्त्रितं बहुशोथम्| अस्थिच्छल्लिकेति– छल्लं वल्कलं, तदत्रास्तीति अस्थिच्छल्लिका, एषा पार्श्वगतस्तोकास्थ्यवयवविश्लेषाद्भवति| “अस्थिच्छल्लितम्” इति वा पाठः| छल्लमस्य जातं छल्लितम्| काण्डेषु भग्नमित्यादि| अनेन काण्डभग्नमित्यभिधीयते| प्रसारणे कम्पमानं काण्डभग्नम्| यद्यपि काण्डे भग्नं सर्वमेव कर्कटकादि, तथाऽपि विशिष्टे काण्डे भग्ने सञ्ज्ञेयं बोद्धव्या| अतिपातितमिति अस्थि निःशेषतश्छिन्नमतिपातितम्| मज्जागतमिति अस्थ्यवयवोऽस्थिमध्यमनुप्रविश्य मज्जानं निःसारयतीति मज्जागतम्| स्फुटितं स्तोकं बहुधा विदीर्णं शूकपूर्णमिव वेदनावत्| वक्रमिति अविमुक्तास्थि कुब्जीभूतं वक्रं, वक्रताऽपि भग्नत्वं ज्ञेयम्| छिन्नं द्विधेति एकमणुविदीर्णं, बहुविदीर्णमन्यत्| कश्चिदेकतरपार्श्वलग्नमपरत्र विदीर्णमित्याह, अन्यश्च विपुलैकविदरणम्, एतच्च सुश्रुते पाटितसञ्ज्ञम्| काण्डे भग्नस्य द्वादशविधत्वं नियमयति– द्वादशधाऽपि काण्ड इति काण्डे; इत्यत्र भग्नमिति शेषः| अपिशब्दोऽत्र भिन्नक्रमः, स चावधारणार्थः, तेन छिन्नमित्यत्र सम्बध्यते, छिन्नमेव द्विधा न कर्कटकादि| सामान्येन काण्डभग्नलक्षणमाह– स्रस्ताङ्गतेत्यादि| काण्डे भग्नस्यैतच्चिह्नं स्रस्ताङ्गता शोफरुजयोरतिवृद्धिः| सम्पीड्यमाने हस्तादिना मृदिते सति शब्दः, स्पर्शासहश्च, तथा स्पन्दनतोदशूला भवन्ति| सर्वासु शयनासनादिकास्ववस्थासु शर्मलाभो न भवति||४-६||–

Adhikarana काण्डे भग्नस्य द्वादशप्रकारादप्यधिकत्वम् (७) · Śloka

भग्नं तु काण्डे बहुधा प्रयाति समासतो नामभिरेव तुल्यम् ||७||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

काण्डे भग्नस्य द्वादशप्रकारादप्यधिकत्वमाह– भग्नमित्यादि| समासतो नामभिरेव तुल्यमिति सङ्क्षेपतो नामानुरूपमेतदवगन्तव्यमित्यर्थः||७||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

काण्डे भग्नस्य द्वादशप्रकारादप्यधिकत्वमाह– भग्नमित्यादि| सङ्क्षेपतो नामानुरूपमेतदेवावगन्तव्यं, यस्येदृशास्थि भग्नं तस्यैव नामेत्यर्थः||७||

Adhikarana भग्नस्य साध्यविचारः (८) · Śloka

अल्पाशिनोऽनात्मवतो जन्तोर्वातात्मकस्य च | उपद्रवैर्वा जुष्टस्य भग्नं कृच्छ्रेण सिध्यति ||८|| (सु. चि. अ. ३) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

कष्टसाध्यतामाह– अल्पेत्यादि| वातात्मकस्येति वातप्रकृतेः| उपद्रवैरिति उपद्रवा ज्वराध्मानमूत्रपुरीषसङ्गादयः||८||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

भग्नस्य कृच्छ्रसाध्यत्वमाह– अल्पाशिन इति| आहाररहितस्य, अनात्मवतोऽपथ्याशिनः, वातात्मकस्य वातप्रकृतेः| उपद्रवैरित्यादि उपद्रवा ज्वरमोहमूत्रपुरीषसङ्गादयः||८||

Adhikarana भग्नस्यासाध्यविचारः (९-१०) · Śloka १०

भिन्नं कपालं कट्यां तु सन्धिमुक्तं तथा च्युतम् | जघनं प्रतिपिष्टं च वर्जयेद्धि विचक्षणः ||९|| असंश्लिष्टकपालं च ललाटे चूर्णितं च यत् | भग्नं स्तनान्तरे पृष्ठे शङ्खे मूर्ध्नि च वर्जयेत् ||१०|| (सु. नि. अ. १५) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

असाध्यतामाह– भिन्नं कपालमित्यादि| भग्नमिति वाच्ये भिन्नमिति यत् कृतं, तत् कपालानां प्रायशो भेदात्| अत एवोक्तम्– “कपालानि विभज्यन्ते” (सु. शा. अ. ५) इति| ननु, कट्यस्थ्नः कपालसञ्ज्ञाया अभावात् कथमुच्यते भिन्नं कपालं कट्यामिति? तदुक्तं सुश्रुते– “जानुनितम्बांसगण्डतालुशङ्खवङ्क्षणशिरःसु कपालानि|” (सु. शा. अ. ५) इति; उच्यते– नितम्बग्रहणेन तत्र कटीग्रहणाददोषः; अथवा सर्वं कपालसञ्ज्ञितम् अस्थिभिन्नं, तथा कट्यां चास्थिभिन्नं वर्जयेत्| असंश्लिष्टकपालं चेति तु नियमार्थं; तेन ललाटे कपालस्यासंश्लिष्टस्यासाध्यत्वं, नान्यथा भिन्नस्येति| भिन्नं कपालमिति काण्डभग्नमेतत्| सन्धिमुक्तमिति नानाविधमपि सन्धिमुक्तं कट्यां न सिध्यतीति| च्युतमिति अधःक्षिप्तम्, अन्यस्तु विश्लिष्टमाह; अथवा कट्यां सन्धिमुक्तं च्युतलक्षणं न सर्वम्| जघनं प्रतिपिष्टं चेति जघनस्थाने पिष्टमुत्पिष्टमेतत्तथा च्युतमिति च| सन्धिमुक्तं पुनर्विशेषार्थमुक्तं, विशेषाभिधानादन्यस्य कटीसन्धिमुक्तस्य कदाचित् साध्यता सूच्यते, अत एव चिकित्सिते “ततः स्थानस्थिते सन्धौ” (सु. चि. अ. ३) इति वक्ष्यति| असंश्लिष्टकपालं च ललाटे चूर्णितं च यदिति यथा अविद्यमानसंश्लेषं यत् कपालं, तथा ललाटे चूर्णितं च यत् विघटितसन्धि तदसाध्यम्| भग्नमिति सामान्येन सन्धिमुक्तं काण्डभग्नं च गृह्यते| अन्ये तु भग्नमित्यनेन काण्डभग्नविशेषं ‘प्रसारणे कम्पमानम्’ इत्यनेनोक्तं वदन्ति| उक्तं च भालुकिना– “शङ्खे मूर्ध्नि स्तनान्तरे वा काण्डे भग्नं मरणाय|” इति| स्तनान्तरे उरसि, मूर्ध्नि चूडास्थाने||९-१०||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

असाध्यतामाह– भिन्नमित्यादि| भग्नमिति वाच्ये भिन्नमिति यत्कृतं, तत्कपालानां प्रायशो भेदात्| यदुक्तमिहैव– ‘कपालानि विभिद्यन्ते’ इत्यादि| ननु, कट्यस्थ्नः कपालसञ्ज्ञाया अभावात् कथमुच्यते भिन्नं कपालं कट्यामिति? यदुक्तं सुश्रुते– “जानुनितम्बांसगण्डतालुशङ्खवङ्क्षणशिरस्सु कपालानि” इति| उच्यते– नितम्बग्रहणेन तत्र कटीग्रहणाददोषः, अथवा सर्वं कपालसञ्ज्ञितमस्थिभिन्नं, छेदात्तथा कट्यां चास्थिभिन्नं च वर्जयेत्| सन्धिमुक्तमित्यादि नानाविधमपि सन्धिमुक्तं कट्यां न सिद्ध्यति| तथा कट्यां च्युतमिति अधःक्षिप्तं, सञ्ज्ञेयम्| पिष्टमुत्पिष्टमसञ्ज्ञं च, जघनं प्रति लक्षीकृतं न सिद्ध्यति| पुनर्वर्ज्यं भग्नमाह– असंश्लिष्टमित्यादि| यथा तथा अविद्यमानसंश्लेषं यत् कपालं तथा ललाटे चूर्णितं यत् विघटितसन्धि तदसाध्यम्| भग्नमिति सामान्येन सन्धिमुक्तं काण्डे भग्नं च गृह्यते, अन्ये तु भग्नमिति काण्डे भग्नमाहुः| यदुक्तं भालुकिना– “शङ्खे मूर्ध्नि स्तनान्तरे वा काण्डे भग्नं मरणाय|” इति| स्तनान्तरे उरसि, स्तनग्रहणेन स्तनान्तरं बोद्धव्यम्||९-१०||

Adhikarana सर्वेषां भग्नानामनवधानतोऽसाध्यत्वम् (११) · Śloka ११

सम्यक् सन्धितमप्यस्थि दुर्निक्षेपनिबन्धनात् | सङ्क्षोभाद्वाऽपि यद्गच्छेद्विक्रियां तच्च वर्जयेत् ||११|| (सु. नि. अ. १५) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

सर्वेषामनवधानतोऽसाध्यत्वमाह– सम्यगित्यादि| सन्धितं संयमितम्| दुर्निक्षेपनिबन्धनादिति दुःस्थापनात्तथा दुष्टबन्धनात्| सङ्क्षोभाद्वेति अभिघातभयादिसङ्क्षोभात्| अयमर्थः– सम्यक्संयमितमपि दुःस्थापनात्, सुन्यस्तमपि दुष्टबन्धनात्, सुन्यस्तं सुबद्धमपि सङ्क्षोभाद्विकृतमसाध्यम्||११||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

सर्वेषामनवधानतोऽसाध्यत्वमाह– सम्यगित्यादि| दुर्निक्षेपनिबन्धनात् दुःस्थापनात् तथा दुष्टबन्धनात्| सङ्क्षोभाद्वेति अभिघातभयादिसङ्क्षोभात्| अयमर्थः– सम्यक्संयमितमपि दुष्टबन्धनात्तथा सुन्यस्तं सुबद्धमपि सङ्क्षोभात् विकृतमसाध्यम्||११||

Adhikarana अस्थिविशेषेण भग्नविशेषः (१२) · Śloka १२

तरुणास्थीनि नम्यन्ते भिद्यन्ते नलकानि च | कपालानि विभज्यन्ते स्फुटन्ति रुचकानि च ||१२|| (सु. नि. अ. १५) |

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

अस्थिविशेषेण भग्नविशेषमाह– तरुणास्थीनीत्यादि| नम्यन्ते वक्रीभवन्ति, तेनात्र वक्रलक्षणं भग्नम्| घ्राणकर्णाक्षिपुटेषु तरुणं कोमलमस्थि| भिद्यन्ते नलकानि चेति अस्थ्यन्तरानुप्रवेशाद्भिद्यन्ते, अतिपातितलक्षणेन च भग्नेन नलकानि युज्यन्ते; अन्ये तु द्वादशविधमपि भग्नमत्रेच्छन्ति| कपालानि विभज्यन्त इति कपालेषु विदरणलक्षणो भग्नः| ‘विभिद्यन्ते’ इति पाठान्तरम्, अर्थस्तु स एव| रुचकानि दन्ताः, तेषु स्फुटितलक्षणो भग्नः| अस्थीनि पञ्चविधानि तरुणनलककपालवलयरुचकभेदात्| रुचकानि चेति चकारात् वलयान्यपि स्फुटितानि भवन्तीति| एतत् सुश्रुते स्फुटितं भग्नम्||१२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

अस्थिविशेषेण भग्नविशेषमाह– तरुणेत्यादि| घ्राणकर्णाक्षिकूटेषु तरुणास्थीनि कोमलास्थीनि, नम्यन्ते वक्रीभवन्ति| अत्र वक्रलक्षणं भग्नम्| भिद्यन्ते नलकानीत्यादि| अस्थ्यन्तरानुप्रवेशाद्भिद्यन्ते, अतिपातितलक्षणेन च भग्नेन नलकानि युज्यन्ते| अन्ये तु द्वादशविधमपि भग्नमात्रमिच्छन्ति| कपालेषु विदरणलक्षणो भग्नः| रुचकानि दन्ताः, तेषु स्फुटितलक्षणो भङ्गः| अस्थीनि पञ्चविधानि, तरुणनलककपालवलयरुचकभेदात्| चकाराद् वलयान्यपि स्फुटन्तीति ज्ञेयम्| एतच्च सुश्रुते स्फुटितं भग्नम्||१२||

Adhikarana पुष्पिका · Śloka ४४

इति श्रीमाधवकरविरचिते माधवनिदाने भग्ननिदानं समाप्तम् ||४४||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां भग्ननिदानं समाप्तम्||४४||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायां भग्ननिदानम्||४४||