Adhikarana भगन्दरपूर्वरूपपिडकालक्षणम् (१) · Śloka १
अथ भगन्दरनिदानम् |
गुदस्य द्व्यङ्गुले क्षेत्रे पार्श्वतः पिडकाऽऽर्तिकृत् |
भिन्ना भगन्दरो ज्ञेयः स च पञ्चविधो मतः ||१||
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
नाडीविशेषत्वात् सङ्ख्यासाम्याच्च भगन्दरनिदानम्| भगन्दरपूर्वरूपपिडकामाह– गुदस्येत्यादि| क्षेत्रे देशे| “सैव भिन्ना भगन्दरः|” निरुक्तिरस्य सुश्रुतेन कृता| तद्यथा– “गुदभगबस्तिप्रदेशदारणात् भगन्दराः|” (सु. नि. अ. ४) इति| भगशब्दो गुदाद्युपलक्षणम्| भोजेऽप्युक्तम्– “भगं परिसमन्ताच्च गुदं बस्तिं तथैव च| भगवद्दारयेद्यस्मात्तस्माज्ज्ञेयो भगन्दरः||” इति| पूर्वरूपं त्वस्य सुश्रुते पठ्यते; यथा– “कटीकपालवेदना गुदकण्डुर्दाहः शोथश्च गुदस्य भवति|” (सु. नि. अ. ४) इति| एतत् सामान्यं पूर्वरूपम्| कटीकपालमत्र कटीफलकम्| पञ्चविध इति सङ्ख्याकथनं रक्तजद्वन्द्वजभगन्दरसम्भावनानिरासार्थम्||१||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
नाडीविशेषसङ्ख्यासामान्याद् व्रणवदुपक्रमाद्वाऽतोऽनन्तरं भगन्दरनिदानम्| तस्यावस्थानसंश्रयत्वेन लक्षणमाह– गुदस्येत्यादि| क्षेत्रे देशे, पार्श्वतः समीपतः, पिडका, सैव भिन्ना भगन्दरार्तिकृत्, तस्य च निरुक्तिः सुश्रुतेन कृता– “गुदभगबस्तिप्रदेशदारणाद्भगन्दरः” इति| भगन्दरशब्दे भगशब्दो गुदाद्युपलक्षणः, भोजेऽप्युक्तम्– “भगं परिसमन्ताच्च गुदं बस्ति तथैव च| भगवद्दारयेद्यस्मात्तस्माज्ज्ञेयो भगन्दरः||” इति| पूर्वरूपं त्वस्य सुश्रुते पठितम्, यथा– “कटीकपालवेदना गुदकण्डुर्दाहः शोथश्च गुदस्य भवति” इति| एतत्सामान्यं पूर्वरूपमिति| कटीकपालमत्र कटीफलकम्| स च पञ्चविधः– दोषैस्त्रयः, सन्निपातेनैकः, शल्येन चापरः, एवं पञ्चविधसङ्ख्याकथनं रक्तजद्वन्द्वजभगन्दरसम्भावनानिरासार्थम्||१||
Adhikarana वातिक(शतपोनक)भगन्दरस्य निदानसम्प्राप्तिपूर्वकं लक्षणम् (२) · Śloka ३
कषायरूक्षैस्त्वतिकोपितोऽनिलस्त्वपानदेशे पिडकां करोति याम् |
उपेक्षणात्पाकमुपैति दारुणं रुजा च भिन्नाऽरुणफेनवाहिनी ||२||
तत्रागमो मूत्रपुरीषरेतसां व्रणैरनेकैः शतपोनकं वदेत् |३|
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
शतपोनकमाह– कषायेत्यादि| अपानदेश इति गुददेशे| उपेक्षणादिति विम्लापनाद्यकरणात्| रुजा च भिन्नेति रुजा रुजान्विता, अर्शआदेराकृतिगणत्वादच्, भिन्ना विदीर्णा| व्रणैरनेकैः शतपोनकं वदेदिति शतपोनकतुल्यत्वात् शतपोनकः; शतपोनकश्चालनिका, सहस्रधारा इत्यन्ये; किंवा शतपोनकः शूकदोषे पठितो विकारः ‘छिद्रैरणुमुखैः’ इत्यादिना, किन्तु यदि शूकदोषपठितशतपोनकतुल्यत्वमस्य तदा छिद्रैरणुमुखैरित्यादिनिमित्तस्योभयत्र पठितत्वात् किं तत्सादृश्यप्रवृत्तेयं सञ्ज्ञा, सा वा एतत्सादृश्यप्रवृत्तेति दुर्विज्ञानात्तत्रापि चालनिकातुल्यत्वमेव प्रवृत्तिनिमित्तमिति मन्यमानेन जेज्जटेन चालनिकातुल्यत्वमत्र वर्णितम्| शतपोनकवदनेकमुखत्वे वातिकभगन्दरस्वभाव एव हेतुः||२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
वातिकशतपोनकमाह– कषायेत्यादि| उपेक्षणादिति विम्लापनाद्यकरणात्| रुजा च भिन्नेति रुजा रुजान्विता, भिन्ना विदीर्णा| शतपोनकतुल्यत्वाच्छतपोनकः शूकदोषपठितो विकारः, चालनिकातुल्यत्वमस्य शतपोनकवदनेकमुखत्वेन| तत्र च वातिकभगन्दरस्वभाव एव हेतुः, शतपोनकोऽस्य नाम||२||–
Adhikarana पैत्तिक(उष्ट्रग्रीव)भगन्दरस्य निदानादिपूर्वकं लक्षणम् (३-४) · Śloka ४
प्रकोपणैः पित्तमतिप्रकोपितं करोति रक्तां पिडकां गुदाश्रिताम् ||३||
तदाऽऽशुपाकाऽहिमपूतिवाहिनीं भगन्दरं तूष्ट्रशिरोधरं वदेत् ||४||
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
उष्ट्रग्रीवलक्षणमाह– प्रकोपणैरित्यादि| तदाशुपाकाहिमपूतिवाहिनीमिति तदेति तत्काले, पित्तजत्वेनाशुपाका च सा अहिमपूतिवाहिनी उष्णपूतिवाहिनी च सा आशुपाकाहिमपूतिवाहिनी ताम्| अत्र पिडकावस्थागतगलवक्रत्वेन उष्ट्रग्रीवाकारत्वं, तेनोष्ट्रग्रीवसञ्ज्ञा||३-४||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
पित्तजमुष्ट्रग्रीवमाह– प्रकोपणैरित्यादि| उष्णपूतिदुर्गन्धवाहिनीम्| अत्रापि पिडकावस्थागतगलवक्रत्वे उष्ट्रग्रीवाकारत्वं, तेनोष्ट्रग्रीवसञ्ज्ञा||३-४||
Adhikarana श्लैष्मिक(परिस्रावि)भगन्दरस्य लक्षणम् (५) · Śloka ५
कण्डूयनो घनस्रावी कठिनो मन्दवेदनः |
श्वेतावभासः कफजः परिस्रावी भगन्दरः ||५||
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
परिस्राविणमाह– कण्डूयन इत्यादि| परिस्रावी कफजः, स च घनस्रावयोगात् परिस्रावी||५||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
परिस्राविसञ्ज्ञं कफजं भगन्दरमाह– कण्डूयन इत्यादि| परिस्रावी भगन्दरः कफजः, स च घनपरिस्रावयोगात्परिस्रावी| कण्डूयनः कण्डुबहुलः||५||
Adhikarana सन्निपातज(शम्बूकावर्त)भगन्दरलक्षणम् (६) · Śloka ६
बहुवर्णरुजास्रावा पिडका गोस्तनोपमा |
शम्बूकावर्तवन्नाडी शम्बूकावर्तको मतः ||६||
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
सन्निपातजं शम्बूकावर्तमाह– बहुवर्णरुजास्रावेत्यादि| प्रत्येकदोषजभगन्दरपठितवर्णवेदनाः स्रावश्च| शम्बूकावर्तवत् पूर्णनद्याः शम्बूकावर्तवदावर्तनं वेदना दोषगतिविशेषाद्भवतीति शम्बूकावर्तः| तथा च भोजः– “नदीनां परिपूर्णानां शम्बूकावर्तका यथा| समुत्तिष्ठन्ति वेगेन तोयवेगसमीरिताः||” इति||६||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
सन्निपातजं शम्बूकावर्तमाह– बह्वित्यादि| बहुवर्णेति प्रत्येकदोषजभगन्दरपठितवर्णवेदनास्रावी, शम्बूकावर्तवत् लघुशङ्खवत्, पूर्णनद्याः शम्बूकावर्तो यथा आवर्तेन च वेदना दोषगतिविशेषाद्भवतीति शम्बूकावर्तः| तथा च भोजः– “नदीनां परिपूर्णानां शम्बूकावर्तका यथा| अभ्युत्तिष्ठन्ति वेगेन तोयवेगसमीरिताः||” इति||६||
Adhikarana आगन्तुक(उन्मार्गि)भगन्दरलक्षणम् (७) · Śloka ७
क्षताद्गतिः पायुगता विवर्धते ह्युपेक्षणात् स्युः क्रिमयो विदार्य ते |
प्रकुर्वते मार्गमनेकधा मुखैर्व्रणैस्तदुन्मार्गिभगन्दरं वदेत् ||७||
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
उन्मार्गिभगन्दरमागन्तुमाह– क्षताद्गतिरित्यादि| क्षतादिति कण्टकादिघातात्| विदार्य त इति ते क्रिमयो विदार्य मार्गं कुर्वत इति योजना| अनेकधा मुखैरनेकमुखैः| अत्रोन्मार्गेण क्रिमिकृतविमार्गेण पुरीषादिगमनादुन्मार्गिसञ्ज्ञा ज्ञेया| तन्त्रान्तरे त्वर्शोभगन्दरः पठितः| तद्यथा– “कफपित्ते तु पूर्वोत्थे दुर्नामाश्रित्य कुप्यतः| अर्शोमूले ततः शोथः कण्डूदाहार्तिमान् भवेत्|| स शीघ्रं पक्वभिन्नोऽस्य क्लेदयन् मूलमर्शसः| स्रवत्यजस्रं गतिभिरयमर्शोभगन्दरः||” इति| अयमन्यतमस्मिन् शतपोनकादीनां दोषलक्षणदर्शनादन्तर्भाव्यः||७||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
उन्मार्गिभगन्दरमागन्तुमाह– क्षतादित्यादि| क्षतात् कण्टकादिघातात्, ये कृमयो विदार्य मार्गं प्रकुर्वत इति योजना| अनेकधा मुखैरनेकमुखैर्व्रणैः| अत्रोन्मार्गेण कृमिकृतविमार्गेण पुरीषादिनिर्गमादुन्मार्गिसञ्ज्ञा प्रतीता| तन्त्रान्तरे त्वर्शोभगन्दरः पठितः, यथा– “कफपित्ते तु पूर्वोत्थे दुर्नामाश्रित्य कुप्यतः| अर्शोमूले ततः शोफः कण्डुदाहार्तिमान्भवेत्|| स शीघ्रं पक्वभिन्नोऽस्य क्लेदयन्मूलमर्शसः| स्रवत्यजस्रं गतिभिरयमर्शोभगन्दरः||” इति| अयं शतपोनकादीनां दोषलक्षणदर्शनादन्तर्भाव्यः||७||
Adhikarana भगन्दरस्य साध्यासाध्यविचारः (८) · Śloka ८
घोराः साधयितुं दुःखाः सर्व एव भगन्दराः |
तेष्वसाध्यस्त्रिदोषोत्थः क्षतजश्च विशेषतः ||८||
(सु. नि. अ. ४) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
प्रतीकारप्रयत्नायाह– घोरा इत्यादि| दुःखा इति दुःखप्रदाः| क्षतजश्च विशेषत इति क्षतजोऽपि विशेषमनेकव्रणयोगं क्रिमिसम्भवादिकं च वीक्ष्यासाध्यः, अत एव चिकित्सिते असाध्यतां प्रतिज्ञाय क्रियां वक्ष्यति| विशेषत इति ल्यब्लोपे पञ्चमी; विशेषतोऽतिशयादसाध्य इत्यर्थः, यापनार्थं क्रियाविधिरिति| क्वचित् “क्षतजश्च भगन्दरः” इति पाठः| क्षतजो विशेषतः साधयितुं घोरः असाध्य एव, स्रावरूपविशेषस्य युक्तत्वादिति गदाधरः||८||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
असाध्यलक्षणमाह– घोरा इत्यादि| क्षतजोऽपि विशेषमनेकव्रणयोग्यं क्रिमिसम्भवादिकं वीक्ष्यासाध्यः||८||
Adhikarana भगन्दरस्य असाध्यावस्था (९) · Śloka ९
वातमूत्रपुरीषाणि क्रिमयः शुक्रमेव च |
भगन्दरात् स्रवन्तस्तु नाशयन्ति तमातुरम् ||९||
(सु. सू. अ. ३३) |
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
अवस्थायामसाध्यतामाह– वातमूत्रपुरीषाणीत्यादि| भगन्दरात् स्रवन्त इत्यत्र ‘अमी विशेषा’ इति शेषः||९||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
अवस्थायामसाध्यतामाह– वातेत्यादि| भगन्दरात्स्रवन्त इत्यत्र ‘अमी विशेषा’ इति शेषः| अमी वाताद्या विशेषा भगन्दरात्स्रवन्तस्तमातुरं विनाशयन्ति||९||
Adhikarana पुष्पिका · Śloka ४६
इति श्रीमाधवकरविरचिते माधवनिदाने भगन्दरनिदानं समाप्तम् ||४६||
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां भगन्दरनिदानं समाप्तम्||४६||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायां भगन्दरनिदानम्||४६||