Adhikarana १ (१-२) · Śloka २
अथातो रोगभिषग्जितीयं विमानं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
Hide commentary
पूर्वाध्याये व्याधितरूपभ्रान्तिज्ञानमुक्तं, तच्च बुद्धिदोषाद्भवति, तेन विशुद्धबुद्ध्युत्पादहेतूनामध्ययनाध्यापनतद्विद्यसम्भाषाणां कथनाय रोगभिषग्जितीयोऽभिधीयते| रोगभिषग्जितं चिकित्सितमधिकृत्य कृतोऽध्यायो रोगभिषग्जितीयः| रोगचिकित्साकारित्वं चास्य चिकित्सोपयुक्तस्य सम्यग्ज्ञानसाधनस्याध्ययनविध्यादेस्तथा करणकारणादेश्चाभिधानाज्ज्ञेयम्||१-२||
Adhikarana २ (३) · Śloka ३
बुद्धिमानात्मनः कार्यगुरुलाघवं कर्मफलमनुबन्धं देशकालौ च विदित्वा युक्तिदर्शनाद्भिषग्बुभूषुः शास्त्रमेवादितः परीक्षेत|
विविधानि हि शास्त्राणि भिषजां प्रचरन्ति लोके; तत्र यन्मन्येत सुमहद्यशस्विधीरपुरुषासेवितमर्थबहुलमाप्तजनपूजितं त्रिविधशिष्यबुद्धिहितमपगतपुनरुक्तदोषमार्षं सुप्रणीतसूत्रभाष्यसङ्ग्रहक्रमं स्वाधारमनवपतितशब्दमकष्टशब्दं पुष्कलाभिधानं क्रमागतार्थमर्थतत्त्वविनिश्चयप्रधानं सङ्गतार्थमसङ्कुलप्रकरणमाशुप्रबोधकं लक्षणवच्चोदाहरणवच्च, तदभिप्रपद्येत शास्त्रम्|
शास्त्रं ह्येवंविधममल इवादित्यस्तमो विधूय प्रकाशयति सर्वम्||३||
Hide commentary
इहाध्ययनविध्यादिषु कर्तव्येषु यादृक् शास्त्रमध्येयं, तदेवायुर्वेदार्थिपुरुषमुपदर्श्य दर्शयन्नाह- बुद्धिमानित्यादि| कार्यं कर्तव्यं, तस्य गौरवं बहुप्रयाससाध्यत्वेन, लाघवं वा स्वल्पप्रयाससाध्यत्वेनेति कार्यगुरुलाघवम्| कर्मफलमिति कार्यफलम्, एतच्च तादात्विकं फलमीप्सितम्| अनुबन्धमिति कार्यस्यैवायतीयं फलम्| देशकालाविति कर्तव्यकार्यानुगुणौ देशकालावित्यर्थः| एतत् सर्वं विदित्वा, युक्तिदर्शनादुपपत्तिदर्शनाद्यदि भिषग्भवितुमिच्छुः स्यात्, तदा शास्त्रं तावदादितः परीक्षेत| एवं मन्यते- य आयुर्वेदाध्ययनलक्षणे कार्ये स्वशक्त्यपेक्षया गौरवं मन्यते स न वर्तते, यश्चायुर्वेदफलेनारोग्यादिना अर्थी न भवति स च तथा, यश्चानुपादेयायुर्वेदज्ञाने देशे स्थितः स च तथा, यस्य च वपुषो वार्धक्यलक्षणः कालः स चायुर्वेदाध्ययनान्तगमनाशक्तत्वादेव यथोक्तानुपपत्तिदर्शनाद्भिषग्भवितुं नेच्छति, अतो न तान् प्रत्यायुर्वेदशास्त्रपरीक्षामप्युपदिशामः; यस्तु यथोक्तविपरीतधर्मयोगी स चायुर्वेदाध्ययनोपादानाद्भिषग्बुभूषुः शास्त्रं परीक्षेत| विविधानीति अगणितानि| सुमहद्यशस्वि च धीरपुरुषासेवितं च; किंवा सुमहद्यशस्विधीरपुरुषैरासेवितमिति विग्रहः| आप्तजनपूजितमिति बहुविधैराप्तैर्यथार्हमनुमतम्| उत्कृष्टमध्याल्पबुद्धयस्त्रिविधाः शिष्याः| अपगतपुनरुक्तमिति कर्तव्ये यद्दोषपाठं करोति, तेनाधिकरणवशप्राप्तं यत् करोति तत् पुनरुक्तमदोषं भवति| वचनं हि- “अधिकरणवशाद्दुर्गाद्गुणदोषप्राप्तितोऽर्थसम्बन्धात् | स्तुत्यर्थं संशयतः शिष्यधियां चाभिवृद्ध्यर्थम्|| अल्पतोऽन्तरितत्वाद्विशेषणेष्वपि च तन्त्रकृद्भिस्तु| यत्तन्त्रे स्यात् पुनरुक्तं नेष्यते तद्विभाव्य विवरणम्” इति| स्वाधारमिति शोभनाभिधेयम्| अनवपतितमिति अग्राम्यशब्दम्| अकष्टशब्दमिति अकृच्छ्रोच्चार्यशब्दं, किंवा प्रसिद्धाभिधेयशब्दम्| पुष्कलाभिधानमिति सम्यगर्थसमर्पकवाक्यम्| क्रमागतार्थमिति परिपाट्यागतार्थम्| सङ्गतार्थमिति प्रतिपादितार्थम्| असङ्कुलप्रकरणमिति अमिश्रीभूतप्रकरणम् | लक्षणवदिति आयुर्वेदप्रधानार्थहेतुलिङ्गौषधाख्यासाधारणधर्मकथनवत्; किंवा प्रशस्तशास्त्रलक्षणवत्| उदाहरणवदिति दृष्टान्तवत्||३||
Adhikarana ३ (४) · Śloka ४
ततोऽनन्तरमाचार्यं परीक्षेत; तद्यथा- पर्यवदातश्रुतं परिदृष्टकर्माणं दक्षं दक्षिणं शुचिं जितहस्तमुपकरणवन्तं सर्वेन्द्रियोपपन्नं प्रकृतिज्ञं प्रतिपत्तिज्ञमनुपस्कृतविद्यमनहङ्कृतमनसूयकमकोपनं क्लेशक्षमं शिष्यवत्सलमध्यापकं ज्ञापनसमर्थं चेति|
एवङ्गुणो ह्याचार्यः सुक्षेत्रमार्तवो मेघ इव शस्यगुणैः सुशिष्यमाशु वैद्यगुणैः सम्पादयति||४||
Hide commentary
अध्येतव्यं शास्त्रं परीक्ष्य यस्मात्तच्छास्त्रमध्येतव्यं तस्याचार्यस्य परीक्षामाह- तत इत्यादि| दक्षमिति अवामबुद्धिम्| उपकरणवन्तमिति अनेनानुपकरणे गुरौ चिकित्सावृत्त्यभावात् कर्मदर्शनं न भवति| अनुपस्कृतविद्यमिति शास्त्रान्तरज्ञानेन नास्त्येवोपस्कृता विद्या यस्य स तथा; य आयुर्वेदज्ञः सञ्शास्त्रान्तरेणापि संस्कृतो भवति, स तु नितरामुपादेयः| आर्तव इति यथोचितकालभवः||४||
Adhikarana ४ (५) · Śloka ५
तमुपसृत्यारिराधयिषुरुपचरेदग्निवच्च देववच्च राजवच्च पितृवच्च भर्तृवच्चाप्रमत्तः|
ततस्तत्प्रसादात् कृत्स्नं शास्त्रमधिगम्य शास्त्रस्य दृढतायामभिधानस्य सौष्ठवेऽर्थस्य विज्ञाने वचनशक्तौ च भूयो भूयः प्रयतेत सम्यक्||५||
Hide commentary
अग्न्यादिबहुदृष्टान्तदर्शनेन येन येन भावेनाग्न्यादयः सेव्यन्ते, तथा तथा गुरुः सेव्यत इति दर्शयति| दृढतायामिति शास्त्रग्रहणस्य स्थैर्ये| अभिधानस्येति शास्त्राभिधानस्य| वचनशक्तौ अर्थकीर्तनसामर्थ्ये||५||
Adhikarana ५ (६-७) · Śloka ७
तत्रोपायाननुव्याख्यास्यामः- अध्ययनम्, अध्यापनं, तद्विद्यसम्भाषा चेत्युपायाः||६||
तत्रायमध्ययनविधिः- कल्यः कृतक्षणः प्रातरुत्थायोपव्यूषं वा कृत्वाऽऽवश्यकमुपस्पृश्योदकं देवर्षिगोब्राह्मणगुरुवृद्धसिद्धाचार्येभ्यो नमस्कृत्य समे शुचौ देशे सुखोपविष्टो मनःपुरःसराभिर्वाग्भिःसूत्रमनुक्रामन् पुनः पुनरावर्तयेद् बुद्ध्वा सम्यगनुप्रविश्यार्थतत्त्वं स्वदोषपरिहारार्थं परदोषप्रमाणार्थं च; एवं मध्यन्दिनेऽपराह्णे रात्रौ च शश्वदपरिहापयन्नध्ययनमभ्यस्येत्|
इत्यध्ययनविधिः||७||
Hide commentary
तत्रेति शास्त्रदृढतादौ| तद्विद्यसम्भाषा तच्छास्त्राध्यायिना सह सम्भाषणम् | कल्यः नीरोगः| कृतक्षण इति अनन्यव्यापारत्वेनाध्ययनाय कृतकालपरिग्रहः| प्रातर्वा उत्थाय, उपव्यूषं वा उत्थायेति योजना| उपव्यूषमिति किञ्चिच्छेषायां रात्रौ| मनपुरःसराभिरिति एकाग्रमनःप्रणीताभिः| स्वदोषपरिहारपरदोषप्रमाणार्थमिति स्वकीयाध्ययनदोषपरिहारार्थं, परकीयाध्ययनदोषप्रमाणार्थं परकीयाध्ययनदोषज्ञानार्थमित्यर्थः| प्रमीयतेऽनेनेति प्रमाणं ज्ञानमात्रमीप्सितम्| सम्यग् बुद्ध्वाऽर्थतत्त्वं, बुद्ध्वा चाधीयानो निर्दोषाध्ययनो भवति, सम्यगध्ययनज्ञानाच्च परस्य सदोषमध्ययनं प्रतिपद्यते| इत्यध्ययनविधिरिति पूर्वप्रतिज्ञाताध्ययनविधेरुपसंहरणम्| यथोक्तेन विधिनाऽध्ययनं क्रियमाणं सुसङ्गृहीतं भवति| दृष्टादृष्टसम्पत्त्याऽध्ययनकालवर्जनं वेदाध्ययने निषिद्धमेवात्रापि तज्ज्ञेयमिति न विशेषेणोक्तम्||६-७||
Adhikarana ६ (८) · Śloka ८
अथाध्यापनविधिः- अध्यापने कृतबुद्धिराचार्यः शिष्यमेवादितः परीक्षेत; तद्यथा- प्रशान्तमार्यप्रकृतिकमक्षुद्रकर्माणमृजुचक्षुर्मुखनासावंशं तनुरक्तविशदजिह्वमविकृतदन्तौष्ठममिन्मिनं धृतिमन्तमनहङ्कृतं मेधाविनं वितर्कस्मृतिसम्पन्नमुदारसत्त्वं तद्विद्यकुलजमथवा तद्विद्यवृत्तं तत्त्वाभिनिवेशिनमव्यङ्गमव्यापन्नेन्द्रियं निभृतमनुद्धतमर्थतत्त्वभावकमकोपनमव्यसनिनं शीलशौचाचारानुरागदाक्ष्यप्रादक्षिण्योपपन्नमध्ययनाभिकाममर्थविज्ञाने कर्मदर्शने चानन्यकार्यमलुब्धमनलसं सर्वभूतहितैषिणमाचार्यसर्वानुशिष्टिप्रतिकरमनुरक्तं च, एवङ्गुणसमुदितमध्याप्यमाहुः||८||
Hide commentary
इह शिष्यगुणेषु ऋजुचक्षुर्मुखनासावंशत्वादयो गुणाः सहजलक्षणत्वेनोपादेयाः; अतो विपरीतलक्षणो हि जडो भवति| तद्विद्यवृत्तमिति आयुर्वेदज्ञाचारम्| निभृतमिति विनीतम्| अनुद्धतमिति अनहङ्कृतम्| अनुरागशब्देनाध्यायनानुराग उच्यते, अनुरक्तमित्यनेन च गुरावनुरक्तत्वमुच्यते| दाक्ष्यं दर्शयित्वाऽप्यनलसमिति यत् करोति तेन दाक्ष्यादारब्धेऽपि कार्ये बहुप्रयाससाध्येऽनलसमित्याह| अनुशिष्टिप्रतिकरमिति आज्ञाकरम्||८||
Adhikarana ७ (९-१०) · Śloka १०
एवंविधमध्ययनार्थिनमुपस्थितमारिराधयिषुमाचार्योऽनुभाषेत - उदगयने शुक्लपक्षे प्रशस्तेऽहनि तिष्यहस्तश्रवणाश्वयुजामन्यतमेन नक्षत्रेण योगमुपगते भगवति शशिनि कल्याणे कल्याणे च करणे मैत्रे मुहूर्ते मुण्डः कृतोपवासः स्नातः काषायवस्त्रसंवीतः सगन्धहस्तः समिधोऽग्निमाज्यमुपलेपनमुदकुम्भान् माल्यदामदीपहिरण्यहेमरजतमणिमुक्ताविद्रुमक्षौमपरिधीन् कुशलाजसर्षपाक्षतांश्च शुक्लानि सुमनांसि ग्रथिताग्रथितानि मेध्यान् भक्ष्यान् गन्धांश्च घृष्टानादायोपतिष्ठस्वेति||९||
स तथा कुर्यात्||१०||
Hide commentary
तिष्यः पुष्यनक्षत्रम्, अश्वयुग् अश्विनी| शशिनि कल्याणे इति उक्तनक्षत्रेष्वध्ययनार्थिनो यतः शशी कल्याणकरो भवति, उदित एव शशिन्यध्ययनं कर्तव्यम्| मैत्रे मुहूर्त इति अनुकूले मुहूर्ते; मुहूर्ताश्च शिवभुजगादयः| मुण्डः कृतवापनः| गन्धेन युक्तो हस्तः पञ्चाङ्गुलो गन्धहस्तः| हिरण्यशब्देनाघटितं हेम गृह्यते, हेमशब्देन च घटितम्| परिधयो हस्तप्रमाणा होमकुण्डचतुःपार्श्वे स्थाप्याः पालाशादिदण्डा उच्यन्ते| अत्र चोपार्जितवस्तुसान्निध्यमेव फलप्रदमिति ऋषिवचनादुन्नीयते, (तेन अन्योपाहृतमपीष्टगन्धादि नोद्भावनीयम्)||९-१०||
Adhikarana ८ (११-१२) · Śloka १२
तमुपस्थितमाज्ञाय समे शुचौ देशे प्राक्प्रवणे उदक्प्रवणे वा चतुष्किष्कुमात्रं चतुरस्रं स्थण्डिलं गोमयोदकेनोपलिप्तं कुशास्तीर्णं सुपरिहितं परिधिभिश्चतुर्दिशं यथोक्तचन्दनोदकुम्भक्षौमहेमहिरण्यरजतमणिमुक्ताविद्रुमालङ्कृतं मेध्यभक्ष्यगन्धशुक्लपुष्पलाजसर्षपाक्षतोपशोभितं कृत्वा, तत्र पालाशीभिरैङ्गुदीभिरौदुम्बरीभिर्माधुकीभिर्वा समिद्भिरग्निमुपसमाधाय प्राङ्मुखः शुचिरध्ययनविधिमनुविधाय मधुसर्पिर्भ्यां त्रिस्त्रिर्जुहुयादग्निमाशीःसम्प्रयुक्तैर्मन्त्रैर्ब्रह्माणमग्निं धन्वन्तरिं प्रजापतिमश्विनाविन्द्रमृषींश्च सूत्रकारानभिमन्त्रयमाणः पूर्वं स्वाहेति||११||
शिष्यश्चैनमन्वालभेत|
हुत्वा च प्रदक्षिणमग्निमनुपरिक्रामेत्|
परिक्रम्य ब्राह्मणान् स्वस्ति वाचयेत्; भिषजश्चाभिपूजयेत्||१२||
Hide commentary
किष्कुरिह हस्तप्रमाणम्| सुपरिहितमिति सुवेष्टितम्| उपधायेति आरोप्य| जुहुयादिति अध्यापक इत्यभिप्रायः| ब्रह्मादीन् स्वाहेति मन्त्रेण मन्त्रयमाण आचार्यः पूर्वमग्निं जुहुयादिति योजना| तेन ब्रह्माद्यृग्भिराशीःप्रयुक्ताभिः ‘ब्रह्मणे स्वाहा’ इत्यादिभिर्होमः कर्तव्यः| शिष्यश्चैनमन्वालमेतेति शिष्योऽपि गुरुहोमानन्तरमेव जुहुयादित्यर्थः||११-१२||
Adhikarana ९ (१३) · Śloka १३
अथैनमग्निसकाशे ब्राह्मणसकाशे भिषक्सकाशे चानुशिष्यात्- ब्रह्मचारिणा श्मश्रुधारिण सत्यवादिनाऽमांसादेन मेध्यसेविना निर्मत्सरेणाशस्त्रधारिणा च भवितव्यं, न च ते मद्वचनात् किञ्चिदकार्यं स्यादन्यत्र राजद्विष्टात् प्राणहराद्विपुलादधर्म्यादनर्थसम्प्रयुक्ताद्वाऽप्यर्थात्; मदर्पणेन मत्प्रधानेन मदधीनेन मत्प्रियहितानुवर्तिना च शश्वद्भवितव्यं, पुत्रवद्दासवदर्थिवच्चोपचरताऽनुवस्तव्योऽहम् , अनुत्सेकेनावहितेनानन्यमनसा विनीतेनावेक्ष्यावेक्ष्यकारिणाऽनसूयकेन चाभ्यनुज्ञातेन प्रविचरितव्यम्, अनुज्ञातेन (चाननुज्ञातेन च) प्रविचरता पूर्वं गुर्वर्थोपाहरणे यथाशक्ति प्रयतितव्यं, कर्मसिद्धिमर्थसिद्धं यशोलाभं प्रेत्य च स्वर्गमिच्छता भिषजा त्वया गोब्राह्मणमादौ कृत्वा सर्वप्राणभृतां शर्माशासितव्यमहरहरुत्तिष्ठता चोपविशता च, सर्वात्मना चातुराणामारोग्याय प्रयतितव्यं, जीवितहेतोरपि चातुरेभ्यो नाभिद्रोग्धव्यं, मनसाऽपि च परस्त्रियो नाभिगमनीयास्तथा सर्वमेव परस्वं, निभृतवेशपरिच्छदेन भवितव्यम्, अशौण्डेनापापेनापापसहायेन च, श्लक्ष्णशुक्लधर्म्यशर्म्यधन्यसत्यहितमितवचसा देशकालविचारिणा स्मृतिमता ज्ञानोत्थानोपकरणसम्पत्सु नित्यं यत्नवता च; न च कदाचिद्राजद्विष्टानां राजद्वेषिणां वा महाजनद्विष्टानां महाजनद्वेषिणां वाऽप्यौषधमनुविधातव्यं, तथा सर्वेषामत्यर्थविकृतदुष्टदुःखशीलाचारोपचाराणामनपवादप्रतिकारणां मुमूर्षूणां च, तथैवासन्निहितेश्वराणां स्त्रीणामनध्यक्षाणां वा; न च कदाचित् स्त्रीदत्तमामिषमादातव्यमननुज्ञातं भर्त्राऽथवाऽध्यक्षेण, आतुरकुलं चानुप्रविशता विदितेनानुमतप्रवेशिना सार्धं पुरुषेण सुसंवीतेनावाक्शिरसा स्मृतिमता स्तिमितेनावेक्ष्यावेक्ष्य मनसा सर्वमाचरता सम्यगनुप्रवेष्टव्यम्, अनुप्रविश्य च वाङ्मनोबुद्धीन्द्रियाणि न क्वचित् प्रणिधातव्यान्यन्यत्रातुरादातुरोपकारार्थादातुरगतेष्वन्येषु वा भावेषु, न चातुरकुलप्रवृत्तयो बहिर्निश्चारयितव्याः, ह्रसितं चायुषः प्रमाणमातुरस्य जानताऽपि त्वया न वर्णयितव्यं तत्र यत्रोच्यमानमातुरस्यान्यस्य वाऽप्युपघाताय सम्पद्यते; ज्ञानवताऽपि च नात्यर्थमात्मनो ज्ञाने विकत्थितव्यम्, आप्तादपि हि विकत्थमानादत्यर्थमुद्विजन्त्यनेके||१३||
Hide commentary
ते भवितव्यमिति त्वया भवितव्यम्| प्रविचरितव्यमिति चिकित्सार्थं व्यवहर्तव्यम्| गोब्राह्मणमादौ कृत्वेति प्रथमं गोब्राह्मणानां शर्म आशासितव्यं, ततश्चेतरेषां प्राणिनाम्| उपविशता चेति च्छेदः| शुण्डा मद्यशाला, तत्प्रचारी शौण्डः; अशौण्डस्तु तदप्रचारी| शुक्लमिव शुक्लं, निर्दोषत्वादेतद्वचनम्| यत्नवता भवितव्यमिति सम्बन्धः| राज्ञो द्विष्टो राजद्विष्टः, यस्तु राजानं द्वेष्टि स राजद्वेषी| आचारस्योपचरणमाचारोपचारः| अनध्यक्षाणां वा न प्रतिकर्तव्यमिति योजना| प्रवृत्तय इति वार्ताः| तत्रेति न वर्णयितव्यमित्यनेन सम्बध्यते| अन्यस्य आतुरपुत्रपित्रादेः; अन्यत्र उदासीने जीवितह्रासकथनं यशस्करमेव| न विकत्थितव्यं न श्लाघा कर्तव्या| आप्तादपि हीति अत्राप्तः सत्यवागुच्यते, अन्यत्रापि सत्यमेवाप्तं वक्ष्यति; यथाकालप्राप्तमेव ब्रूयादित्यर्थः||१३||
Adhikarana १० (१४) · Śloka १४
न चैव ह्यस्ति सुतरमायुर्वेदस्य पारं, तस्मादप्रमत्तः शश्वदभियोगमस्मिन् गच्छेत्, एतच्च कार्यम्, एवम्भूयश्च वृत्तसौष्ठवमनसूयता परेभ्योऽप्यागमयितव्यं, कृत्स्नो हि लोको बुद्धिमतामाचार्यः शत्रुश्चाबुद्धिमताम्, अतश्चाभिसमीक्ष्य बुद्धिमताऽमित्रस्यापि धन्यं यशस्यमायुष्यं पौष्टिकं लौक्यमभ्युपदिशतो वचः श्रोतव्यमनुविधातव्यं चेति|
अतः परमिदं ब्रूयात्- देवताग्निद्विजगुरुवृद्धसिद्धाचार्येषु ते नित्यं सम्यग्वर्तितव्यं, तेषु ते सम्यग्वर्तमानस्यायमग्निः सर्वगन्धरसरत्नबीजानि यथेरिताश्च देवताः शिवाय स्युः, अतोऽन्यथा वर्तमानस्याशिवायेति|
एवं ब्रुवति चाचार्ये शिष्यः ‘तथा’ इति ब्रूयात्|
यथोपदेशं च कुर्वन्नध्याप्यः, अतोऽन्यथा त्वनध्याप्यः|
अध्याप्यमध्यापयन् ह्याचार्यो यथोक्तैश्चाध्यापनफलैर्योगमाप्नोत्यन्यैश्चानुक्तैः श्रेयस्करैर्गुणैः शिष्यमात्मानं च युनक्ति|
इत्यध्यापनविधिरुक्तः||१४||
Hide commentary
न चैव हीत्यादि| यस्मादायुर्वेदोऽपि ज्ञातुं न शक्यते प्रायस्तेनायुर्वेदज्ञानार्थमुद्यमं गच्छेत्| अस्मिन्निति दुस्तरे आयुर्वेदे| अनुक्तसद्वृत्तकरणार्थमाह- एतच्चेत्यादि|- एतच्चेति ‘अथैनमग्निसकाशे’ इत्यादिग्रन्थोक्तमनुष्ठेयम्| एवम्भूयश्च वृत्तसौष्ठवमिति उक्तसदृशं च साधुवृत्तमित्यर्थः| लौक्यं लोकानुमतम्| इतिशब्दोऽवधारणे, तेन यदेवामित्रस्य धन्यादिगुणयुक्तं वचस्तदेवानुविधातव्यं श्रोतव्यं च| यथोक्तैरिति शास्त्रान्तरे; न ह्यस्मिन् शास्त्रेऽध्ययनफलं साक्षात् क्वचिदुक्तम्||१४||
Adhikarana ११ (१५-१६) · Śloka १६
सम्भाषाविधिमत ऊर्ध्वं व्याख्यास्यामः- भिषक् भिषजा सह सम्भाषेत|
तद्विद्यसम्भाषा हि ज्ञानाभियोगसंहर्षकरी भवति, वैशारद्यमपि चाभिनिर्वर्तयति, वचनशक्तिमपि चाधत्ते, यशश्चाभिदीपयति, पूर्वश्रुते च सन्देहवतः पुनः श्रवणाच्छ्रुतसंशयमपकर्षति, श्रुते चासन्देहवतो भूयोऽध्यवसायमभिनिर्वर्तयति, अश्रुतमपि च कञ्चिदर्थं श्रोत्रविषयमापादयति, यच्चाचार्यः शिष्याय शुश्रूषवे प्रसन्नः क्रमेणोपदिशति गुह्याभिमतमर्थजातं तत् परस्परेण सह जल्पन् पिण्डेन विजिगीषुराह संहर्षात्, तस्मात्तद्विद्यसम्भाषामभिप्रशंसन्ति कुशलाः||१५||
द्विविधा तु खलु तद्विद्यसम्भाषा भवति- सन्धायसम्भाषा, विगृह्यसम्भाषा च||१६||
Hide commentary
संहर्षः स्पर्धा, ज्ञानार्थमभियोगसंहर्षौ करोतीति ज्ञानाभियोगसंहर्षकरी| वैशारद्यमिति परवचनाभिभवपाण्डित्यम्; एतच्च सभायामभ्यासाद्भवति| भूयोऽध्यवसायमिति दृढनिश्चयम्| अथ कथं श्रुतत्वमपि कस्यचिद्गुह्यस्यार्थस्य स्यात्तदाह- जल्पन् पिण्डेनेति|- पिण्डेनेति सारोद्धारेण| ननु गुह्यश्चेत् सारतस्तत् कथमयं विजिगीषुस्तमाहेत्याह- संहर्षादिति| स्पर्धया तु गुह्योऽप्यर्थो विजयार्थमभिधीयत इति भावः| सन्धायसम्भाषा नये ‘संवाद’ इत्युच्यते| विगृह्यसम्भाषा तु जल्पवितण्डारूपा ज्ञेया||१५-१६||
Adhikarana १२ (१७) · Śloka १७
तत्र ज्ञानविज्ञानवचनप्रतिवचनशक्तिसम्पन्नेनाकोपनेनानुपस्कृतविद्येनानसूयकेनानुनेयेनानुनयकोविदेन क्लेशक्षमेण प्रियसम्भाषणेन च सह सन्धायसम्भाषा विधीयते|
तथाविधेन सह कथयन् विस्रब्धः कथयेत्, पृच्छेदपि च विस्रब्धः, पृच्छते चास्मै विस्रब्धाय विशदमर्थं ब्रूयात्, न च निग्रहभयादुद्विजेत, निगृह्य चैनं न हृष्येत्, न च परेषु विकत्थेत, न च मोहादेकान्तग्राही स्यात्, न चाविदितमर्थमनुवर्णयेत्, सम्यक् चानुनयेनानुनयेत्, तत्र चावहितः स्यात्|
इत्यनुलोमसम्भाषाविधिः||१७||
Hide commentary
तत्रेत्यादिना सन्धायसम्भाषाविधिमाह| विस्रब्धः कथयेदिति जल्पवितण्डोक्तनिग्रहाभीतः| कथयेदिति ब्रूयात्| निगृह्य चैनं न हृष्येदिति अनुलोमसम्भाषारूपवादे च यानि सम्भवन्ति निग्रहस्थानानि तत्त्वविघातीनि हेत्वाभासापसिद्धान्तन्यूनाधिकरूपाणि, तैरपि निगृह्य न हृष्येत्| जल्पोक्तनिग्रहस्थानानि त्वत्राग्राह्याण्येव| अविदितमिति प्रतिवादिनोऽविदितम्| अनुनयेच्च सम्यगनुनयेनेति सम्बन्धः; तेन चात्र छलजातिप्रयोगो न कर्तव्य इति शिक्षयति| तत्र चावहितः स्यादिति सम्यगनुनयेऽवधानं कुर्यात्||१७||
Adhikarana १३ (१८) · Śloka १८
अत ऊर्ध्वमितरेण सह विगृह्य सम्भाषायां जल्पेच्छ्रेयसा योगमात्मनः पश्यन्|
प्रागेव च जल्पाज्जल्पान्तरं परावरान्तरं परिषद्विशेषांश्च सम्यक् परीक्षेत|
सम्यक्परीक्षा हि बुद्धिमतां कार्यप्रवृत्तिनिवृत्तिकालौ शंसति, तस्मात् परीक्षामभिप्रशंसन्ति कुशलाः|
परीक्षमाणस्तु खलु परावरान्तरमिमान् जल्पकगुणाञ् श्रेयस्करान्दोषवतश्च परीक्षेत सम्यक्; तद्यथा- श्रुतं विज्ञानं धारणं प्रतिभानं वचनशक्तिरिति, एतान् गुणान् श्रेयस्करानाहुः; इमान् पुनर्दोषवतः, तद्यथा- कोपनत्वमवैशारद्यं भीरुत्वमधारणत्वमनवहितत्वमिति|
एतान् गुणान् गुरुलाघवतः परस्य चैवात्मनश्च तुलयेत्||१८||
Hide commentary
इतरेणेति अविशिष्टेन| वादे तु विशिष्टो गुरुर्ब्रह्मचारी वाऽधिकृतः; उक्तं हि न्याये- “तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयोर्थिभिरनसूयुभिरभ्युपेयात्” (न्या. द. ४/२/४०) इति| सम्भाषायामिति प्रवृत्तकथोपलक्षणं, तेन जल्पे वितण्डायां चेति ज्ञेयम्| परावरान्तरमिति प्रतिवादिन आत्मनश्च प्रतिभादिविशेषमित्यर्थः| जल्पान्तरमिति सामयिकसर्वार्थादिविशेषितं जल्पकविशेषमित्यर्थः||१८||
Adhikarana १४ (१९-२०) · Śloka २०
तत्र त्रिविधः परः सम्पद्यते- प्रवरः, प्रत्यवरः, समो वा, गुणविनिक्षेपतः; नत्वेव कार्त्स्न्येन||१९||
परिषत्तु खलु द्विविधा- ज्ञानवती, मूढपरिषच्च|
सैव द्विविधा सती त्रिविधा पुनरनेन कारणविभागेन- सुहृत्परिषत्, उदासीनपरिषत्, प्रतिनिविष्टपरिषच्चेति |
तत्र प्रतिनिविष्टायां परिषदि ज्ञानविज्ञानवचनप्रतिवचनशक्तिसम्पन्नायां मूढायां वा न कथं चित् केनचित् सह जल्पो विधीयते; मूढायां तु सुहृत्परिषद्युदासीनायां वा ज्ञानविज्ञानवचनप्रतिवचनशक्तीरन्तरेणाप्यदीप्तयशसा महाजनविद्विष्टेनापि सह जल्पो विधीयते|
तद्विधेन च सह कथयता आविद्धदीर्घसूत्रसङ्कुलैर्वाक्यदण्डकैः कथयितव्यम्, अतिहृष्टं मुहुर्मुहुरुपहसता परं निरूपयता च पर्षदमाकारैर्ब्रुवतश्चास्य वाक्यावकाशो न देयः; कष्टशब्दं च ब्रुवता वक्तव्यो नोच्यते, अथवा पुनर्हीना ते प्रतिज्ञा, इति|
पुनश्चाहू(ह्व)यमानः प्रतिवक्तव्यः- परिसंवत्सरो भवान् शिक्षस्व तावत्; न त्वया गुरुरुपासितो नूनम्, अथवा पर्याप्तमेतावत्ते; सकृदपि हि परिक्षेपिकं निहतं निहतमाहुरिति नास्य योगः कर्तव्यः कथञ्चित्|
अप्येवं श्रेयसा सह विगृह्य वक्तव्यमित्याहुरेके; नत्वेवं ज्यायसा सह विग्रहं प्रशंसन्ति कुशलाः||२०||
Hide commentary
गुणविनिक्षेपत इति गुणपरिमाणादुत्कृष्टगुणत्वेन प्रवर इत्यर्थः; प्रत्यवरः हीनगुणः, समगुणः समो वाद्यपेक्षयेत्यर्थः| नत्वेव कार्त्स्न्येनेति न कुलशीलधर्मादिनाऽपि प्रवरादिरिहाभिप्रेत इत्यर्थः| मूढपरिषदित्यत्र मूढेव मूढा किञ्चित्कृत्ये, सर्वथा मूढायां तु न कश्चिद्ब्रूते| न केनचिदिति नाधमेनापीत्यर्थः| आविद्धं वक्रम्| कथयितव्यमिति वक्तव्यम्| उपहसता परं प्रतिवादिनम्| तथा परिषदं निरूपयता आकारैरिति सम्बन्धः| कष्टशब्दमिति नातिप्रसिद्धार्थम्| नोच्यत इति त्वया नोच्यत इति वक्तव्यं; कष्टशब्दस्य ह्यर्थं मूढा परिषन्न जानात्येव, ततश्च कष्टशब्दस्यानर्थकतायाः परिषदं प्राप्य सुखसाध्यत्वमिति भावः | तथा कष्टशब्दं वदंस्त्वेवं वाच्यं- हीना ते प्रतिज्ञेति| परिसंवत्सरोऽध्ययनं गुरुमुपास्थाय पुनरधीष्व| पर्याप्तमेतावत्त इति ‘पक्षावसादाय’ इति शेषः| परिक्षेपिकमिति प्रतिक्षेपिकशब्दम्| नास्य योगः कर्तव्य इति न सकृत्पराभूतस्य पक्षस्य पुनः प्रतिक्षेपकहेतुना योगः कर्तव्य इत्यर्थः| कथञ्चिदित्यादिना श्रेयसा समं विगृह्यसम्भाषायामेकीयमतमाह; नत्वेवेत्यादिना आत्ममतमाह||१९-२०||
Adhikarana १५ (२१-२४) · Śloka २४
प्रत्यवरेण तु सह समानाभिमतेन वा विगृह्य जल्पता सुहृत्परिषदि कथयितव्यम्, अथवाऽप्युदासीनपरिषद्यवधानश्रवणज्ञानविज्ञानोपधारणवचनप्रतिवचनशक्तिसम्पन्नायां कथयता चावहितेन परस्य साद्गुण्यदोषबलमवेक्षितव्यं, समवेक्ष्य च यत्रैनं श्रेष्ठं मन्येत नास्य तत्र जल्पं योजयेदनाविष्कृतमयोगं कुर्वन्; यत्र त्वेनमवरं मन्येत तत्रैवैनमाशु निगृह्णीयात्|
तत्र खल्विमे प्रत्यवराणामाशु निग्रहे भवन्त्युपायाः; तद्यथा- श्रुतहीनं महता सूत्रपाठेनाभिभवेत्, विज्ञानहीनं पुनः कष्टशब्देन वाक्येन, वाक्यधारणाहीनमाविद्धदीर्घसूत्रसङ्कुलैर्वाक्यदण्डकैः, प्रतिभाहीनं पुनर्वचनेनैकविधेनानेकार्थवाचिना , वचनशक्तिहीनमर्धोक्तस्य वाक्यस्याक्षेपेण , अविशारदमपत्रपणेन, कोपनमायासनेन, भीरुं वित्रासनेन, अनवहितं नियमनेनेति|
एवमेतैरुपायैः परमवरमभिभवेच्छीघ्रम्||२१||
तत्र श्लोकौ- विगृह्य कथयेद्युक्त्या युक्तं च न निवारयेत्|
विगृह्यभाषा तीव्रं हि केषाञ्चिद्द्रोहमावहेत्||२२||
नाकार्यमस्ति क्रुद्धस्य नावाच्यमपि विद्यते|
कुशला नाभिनन्दन्ति कलहं समितौ सताम्||२३||
एवं प्रवृत्ते वादे कुर्यात्||२४||
Hide commentary
साद्गुण्यस्य विद्यमानगुणतायास्तथा दोषस्य बलं साद्गुण्यदोषबलम्| श्रेष्ठं मन्येतेति यत्र वादविषये प्रतिवादिनमधिकं पश्येदित्यर्थः| तत्र परस्य पुरःसरवादविषये तथा वादो निवर्तनीयः, यथा आविष्कृतः प्रकटीकृतः सभायां नायोगः स्यात्; अनभीष्टविषये तथा वादनिवृत्तिः कर्तव्या यथा कोऽपि न जानात्येवं तत्र वक्तुमक्षम इत्यर्थः| तत्रैवेति तत्रैव हीनपक्षे प्रवृत्तं निगृह्णीयादिति योजना| महता सूत्रपाठेनेति श्रुतहीनो ह्यपरिचयाद्दीर्घसूत्रपाठं कर्तुमक्षमः | विज्ञानहीनमिति अज्ञातार्थम्| नानार्थवाचिनेति अनेकार्थवाचिना, एकविधेनेति एकविधेन शब्देन; प्रतिभाहीनो ह्यनेकार्थं नावधारयति यत् केनाभिप्रायेणायं प्रयुक्तोऽनेन शब्द इति| वचनशक्तिहीनोऽर्धोक्तवाक्याक्षेपान्न पुनर्वक्तं क्षमो भवतीति दृष्टम्| अविशारदमिति अदृष्टसभम्; अदृष्टसभो ह्यपत्रपणेनातीव लज्जितः सन्न किञ्चित् प्रतिपद्यते| एवमिति ‘तद्यथा श्रुतहीनम्’ इत्यादिग्रन्थोक्तम्| प्रवृत्ते वादे कुर्यादिति च्छेदः||२१-२४||
Adhikarana १६ (२५) · Śloka २५
प्रागेव तावदिदं कर्तुं यतेत- सन्धाय पर्षदाऽयनभूतमात्मनः प्रकरणमादेशयितव्यं, यद्वा परस्य भृशदुर्गं स्यात्, पक्षमथवा परस्य भृशं विमुखमानयेत्; परिषदि चोपसंहितायामशक्यमस्माभिर्वक्तुम्, एषैव ते परिषद्यथेष्टं यथायोगं यथाभिप्रायं वादं वादमर्यादां च स्थापयिष्यतीत्युक्त्वा तूष्णीमासीत||२५||
Hide commentary
तथाऽप्रवृत्ते वादे किं कुर्यादित्याह- प्रागेवेत्यादि| अयनभूतमिति अभ्यासान्मार्गीभूतमिव अभ्यस्तमित्यर्थः| परस्य भृशदुर्गमिति प्रतिवादिनोऽविदितत्वेन दुर्गमिव दुर्गं; तत् पूर्वं सन्धितया परिषदाऽऽदेशयेत्| पक्षान्तरमाह- पक्षमथवेत्यादि| परस्य प्रतिवादिनः पक्षं भृशमत्यर्थं सभायां यथा विमुखं भवति, तथा वादं प्रवर्तयेत्; एतेन नास्ति परलोको नास्ति कर्मफलमित्यादि यदि परस्य पक्षो भवति, तदैतस्य पक्षस्य स्वाभाविकद्विष्टत्वेन यत्किञ्चित् स्वपक्षसाधनमुच्यते, तदेव परिषदपि गृह्णातीत्युक्तं भवति| उपसंहितायामिति सन्धिना युक्तायां तूष्णीमासीतेति योजना| उपसंहिता हि परिषत् परोक्षोणाभिमतत्वेनोपदर्शितमेव सर्वं करिष्यति, तदलमिहात्यर्थवचनेन माहात्म्यखण्डकेनेति भावः||२५||
Adhikarana १७ (२६) · Śloka २६
तत्रेदं वादमर्यादालक्षणं भवति- इदं वाच्यम्, इदमवाच्यम्, एवं पराजितो भवतीति||२६||
Hide commentary
वादमर्यादालक्षणमाह- तत्रेदमित्यादि| वादशब्देन चेह विगृह्य पक्षप्रतिपक्षवचनमात्रमुच्यते; सन्धायसम्भाषया तु तत्त्वबुभुत्सोर्वाद उक्तः||२६||
Adhikarana १८ (२७) · Śloka २७
इमानि तु खलु पदानि भिषग्वादमार्गज्ञानार्थमधिगम्यानि भवन्ति; तद्यथा- वादः, द्रव्यं, गुणाः, कर्म, सामान्यं, विशेषः, समवायः, प्रतिज्ञा, स्थापना, प्रतिष्ठापना, हेतुः, दृष्टान्तः, उपनयः, निगमनम्, उत्तरं, सिद्धान्तः, शब्दः, प्रत्यक्षम्, अनुमानम्, ऐतिह्यम्, औपम्यं, संशयः, प्रयोजनं, सव्यभिचारं, जिज्ञासा, व्यवसायः, अर्थप्राप्तिः, सम्भवः, अनुयोज्यम्, अननुयोज्यम्, अनुयोगः, प्रत्यनुयोगः, वाक्यदोषः, वाक्यप्रशंसा, छलम्, अहेतुः, अतीतकालम्, उपालम्भः, परिहारः, प्रतिज्ञाहानिः, अभ्यनुज्ञा, हेत्वन्तरम्, अर्थान्तरं, निग्रहस्थानमिति||२७||
Hide commentary
सम्प्रति वादमार्गज्ञानार्थं वादाभिज्ञेयानि द्रव्यगुणादीन्युपदर्शयन्नाह- इमानीत्यादि| भिषजां वादमार्गो भिषग्वादमार्गः| वादादयः स्वयमेवाचार्येणाग्रे विव्रियन्त इति नेह सञ्ज्ञाकथने विव्रियन्ते||२७||
Adhikarana १९ (२८) · Śloka २८
तत्र वादो नाम स यत् परेण सह शास्त्रपूर्वकं विगृह्य कथयति|
स च द्विविधः सङ्ग्रहेण- जल्पः, वितण्डा च|
तत्र पक्षाश्रितयोर्वचनं जल्पः, जल्पविपर्ययो वितण्डा|
यथा- एकस्य पक्षः पुनर्भवोऽस्तीति, नास्तीत्यपरस्य; तौ च स्वस्वपक्षहेतुभिः स्वस्वपक्षं स्थापयतः, परपक्षमुद्भावयतः, एष जल्पः|
जल्पविपर्ययो वितण्डा|
वितण्डा नाम परपक्षे दोषवचनमात्रमेव||२८||
Hide commentary
तत्रेत्यादिना वादलक्षणम्| इह वादशब्देन विगृह्यवादोऽभिप्रेतः, तत्त्वबुभुत्सुवादस्तु सन्धायसम्भाषयैवोक्तः| शास्त्रपूर्वकमित्यनेनार्थादिकलहवादं निषेधति| तत्र वादे विगृह्यसम्भाषारूपत्वादेव छलजातिनिग्रहस्थानानं विजिगीषाप्रवृत्तानां प्रयोगो लभ्यते| पक्षाश्रितयोरिति पक्षं साधयतोरित्यर्थः; तेन, वितण्डायामप्युत्तरवादिनः परपक्षदूषणलक्षणः पक्षोऽस्त्येव, परं स्वमतं न साधयतीति भेदः| यथैकस्येत्यादि जल्पोदाहरणम्| परपक्षे दोषवचनमात्रमित्यनेन न स्वपक्षसाधनवचनं वैतण्डिकस्येति दर्शयति||२८||
Adhikarana २० (२९-३०) · Śloka ३०
द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायाः स्वलक्षणैः श्लोकस्थाने पूर्वमुक्ताः||२९||
अथ प्रतिज्ञा- प्रतिज्ञा नाम साध्यवचनं; यथा- नित्यः पुरुष इति||३०||
Hide commentary
पूर्वमुक्ता दीर्घञ्जीवितीये||२९-३०||
Adhikarana २१ (३१) · Śloka ३१
अथ स्थापना- स्थापना नाम तस्या एव प्रतिज्ञाया हेतुदृष्टान्तोपनयनिगमनैः स्थापना|
पूर्वं हि प्रतिज्ञा, पश्चात् स्थापना, किं ह्यप्रतिज्ञातं स्थापयिष्यति; यथा- नित्यः पुरुष इति प्रतिज्ञा; हेतुः- अकृतकत्वादिति; दृष्टान्तः - यथाऽऽकाशमिति; उपनयः- यथा चाकृतकमाकाशं, तच्च नित्यं, तथा पुरुष इति; निगमनं- तस्मान्नित्य इति||३१||
Hide commentary
स्थापयति सिद्धमर्थं परं प्रति साधयतीति स्थापना| सा च साध्यं परं प्रति हेत्वादिभिश्चतुर्भिः साधयति| प्रतिज्ञाऽपि परं प्रति स्थापना भवति, यतः पञ्चावयवमेवानुमानं भवति, सा त्विह स्थाप्यत्वेनैव लब्धेति न स्थापनायामिहोदाहृता||३१||
Adhikarana २२ (३२) · Śloka ३२
अथ प्रतिष्ठापना- प्रतिष्ठापना नाम या तस्या एव परप्रतिज्ञाया विपरीतार्थस्थापना|
यथा- अनित्यः पुरुष इति प्रतिज्ञा ; हेतुः- ऐन्द्रियकत्वादिति; दृष्टान्तः- यथा घट इति, उपनयो- यथा घट ऐन्द्रियकः स चानित्यः, तथा चायमिति; निगमनं- तस्मादनित्य इति||३२||
Hide commentary
प्रतिष्ठापनापदं प्रथमं सम्प्रत्यवसरप्राप्ता प्रतिष्ठापनेति दर्शयति; द्वितीयं तु प्रतिष्ठापना नामेति तस्या एवेत्यादिना वक्ष्यमाणस्य लक्षणस्योपदर्शनार्थम्| एवं ‘स्थापना नाम’ इत्यादावपि पुनरुक्तस्य प्रयोजनं वाच्यम्| प्रतिष्ठापनापदगतस्य प्रतिशब्दस्यार्थं व्याकरोति- विपरीतार्थस्थापनेति; प्रतिशब्दोऽयं विपरीतार्थ इत्यर्थः| इयं च प्रतिष्ठापना आन्वीक्षिक्यां प्रकरणसमाख्यं हेतुदूषणम्||३२||
Adhikarana २३ (३३) · Śloka ३३
अथ हेतुः- हेतुर्नामोपलब्धिकारणं; तत् प्रत्यक्षम्, अनुमानम्, ऐतिह्यम्, औपम्यमिति; एभिर्हेतुभिर्यदुपलभ्यते तत् तत्त्वम्||३३||
Hide commentary
हेतुश्चाविनाभावलिङ्गवचनं यद्यपि, तथाऽपीह लिङ्गप्रग्राहकाणि प्रत्यक्षादिप्रमाणान्येव यथोक्तहेतुमूलत्वेन हेतुशब्देनाहेति बोद्धव्यम्; अन्यथा पुनः प्रत्यक्षाद्यभिधानं पुनरुक्तं स्यात्| उपलब्धिकारणमिति व्यापकस्य साध्यस्योपलब्धिकारणम्| तत्तत्त्वमिति तल्लिङ्गमित्यर्थः||३३||
Adhikarana २४ (३४) · Śloka ३४
अथ दृष्टान्तः- दृष्टान्तो नाम यत्र मूर्खविदुषां बुद्धिसाम्यं, यो वर्ण्यं वर्णयति |
यथा- अग्निरुष्णः, द्रवमुदकं, स्थिरा पृथिवी, आदित्यः प्रकाशक इति; यथा आदित्यः प्रकाशकस्तथा साङ्ख्यज्ञानं प्रकाशकमिति||३४||
Hide commentary
मूर्खविदुषां बुद्धिसाम्यमित्यनेन लौकिकानां पण्डितानां च योऽर्थोऽविवादसिद्धः स दृष्टान्तो भवति, न पण्डितमात्रसिद्धः| योऽपि लोकप्रसिद्धो दृष्टान्त उच्यते, स यावन्न प्रतिपाद्यपुरुषं प्रति साध्यते, न तावद्दृष्टान्ततामासादयतीति भावः| अथ बुद्धिसाम्यमात्रेण साध्यसाधर्म्यभावादिष्टत्वाद् दृष्टान्तो भवतीत्याह- यो वर्ण्यं वर्णयति; यः साध्यं साधयतीत्यर्थः| प्रसिद्धसाध्यसाधनसम्बन्धश्च दृष्टान्तः साध्यं साधयतीति भावः| अग्न्यादयश्च लोकप्रसिद्धत्वेनोदाहृताः; तेनैतेषामपि साध्यसाधनोदाहरणमादित्यादिवत् क्वचिद्द्वन्द्वेऽयमयमिवेति दर्शयति||३४||
Adhikarana २५ (३५-३६) · Śloka ३६
उपनयो निगमनं चोक्तं स्थापनाप्रतिष्ठापनाव्याख्यायाम्||३५||
अथोत्तरम्- उत्तरं नाम साधर्म्योपदिष्टे हेतौ वैधर्म्यवचनं, वैधर्म्योपदिष्टे वा हेतौ साधर्म्यवचनम्|
यथा- ‘हेतुसधर्माणो विकाराः, शीतकस्य हि व्याधेर्हेतुभिः साधर्म्यं हिमशिशिरवातसंस्पर्शाः’, इति ब्रुवतः परो ब्रूयात्- हेतुविधर्माणो विकाराः, यथा शरीरावयवानां दाहौष्ण्यकोथप्रपचने हेतुवैधर्म्यं हिमशिशिरवातसंस्पर्शा इति|
एतत् सविपर्ययमुत्तरम्||३६||
Hide commentary
उत्तरमित्यादि| उत्तरशब्देनेह जात्युत्तरमुत्तराभासमीप्सितं; यतोऽसाधकसाधर्म्यमात्रप्रत्यवस्थानमेवोत्तरविकरणे दर्शयिष्यति| उक्तं च न्याये- “साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः” (न्या. द. १/२/१८) इति| एतच्च साधर्म्यवैधर्म्योदाहरणार्थम्| तेन न्यायोक्ता जात्युत्तरा उत्कर्षापकर्षसमादयोऽप्यनुक्ता इहैवानुबोद्धव्याः| हेतुसधर्माण इति हेतुसदृशाः| शीतकः शीतं, हिमशिशिरवातगताः संस्पर्शाः शीतस्य हेतुभिः साधर्म्यमिति कृत्वा योजना| तेन हिमादीनां हेतूनां ये शीतस्पर्शास्ते शीतकेऽपीति साधर्म्यं हेतुविकारयोरिति| परो ब्रूयादिति प्रतिवादी वदेत्| दाहौष्ण्यकोथप्रपचने ‘विकारे’ इति शेषः| हेतुवैधर्म्यं हेतुवैसादृश्यम्| हिमादिसंस्पर्शाः हिमादिजन्यस्पर्शाः, शरीरावयवदाहादिविकारे उष्णे विसदृशा इति वाक्यार्थः| एवं तावद् वैधर्म्योक्ते हेतौ विपर्ययाद्यदा हेतुसाम्यमुत्तरं क्रियते, तदा विपर्ययो भवति| एवमेवोदाहरणद्वयं सविपर्ययं सम्पूर्णमुत्तरं भवतीत्यर्थः||३५-३६||
Adhikarana २६ (३७) · Śloka ३७
अथ सिद्धान्तः- सिद्धान्तो नाम स यः परीक्षकैर्बहुविधं परीक्ष्य हेतुभिश्च साधयित्वा स्थाप्यते निर्णयः|
स चतुर्विधः- सर्वतन्त्रसिद्धान्तः, प्रतितन्त्रसिद्धान्तः, अधिकरणसिद्धान्तः, अभ्युपगमसिद्धान्तश्चेति|
तत्र सर्वतन्त्रसिद्धान्तो नाम तस्मिंस्तस्मिन् सर्वस्मिंस्तन्त्रे तत्तत् प्रसिद्धं; यथा सन्ति निदानानि, सन्ति व्याधयः, सन्ति सिद्ध्युपायाः साध्यानामिति|
प्रतितन्त्रसिद्धान्तो नाम तस्मिंस्तस्मिन्नेकैकस्मिंस्तन्त्रे तत्तत् प्रसिद्धं; यथा- अन्यत्राष्टौ रसाः षडत्र, पञ्चेन्द्रियाण्यत्र षडिन्द्रियाण्यन्यत्र तन्त्रे, वातादिकृताः सर्वे विकारा यथाऽन्यत्र, अत्र वातादिकृता भूतकृताश्च प्रसिद्धाः|
अधिकरणसिद्धान्तो नाम स यस्मिन्नधिकरणे प्रस्तूयमाने सिद्धान्यन्यान्यप्यधिकरणानि भवन्ति, यथा- ‘न मुक्तः कर्मानुबन्धिकं कुरुते, निस्पृहत्वात् इति प्रस्तुते सिद्धाः कर्मफल-मोक्ष-पुरुष-प्रेत्यभावा भवन्ति|
अभ्युपगमसिद्धान्तो नाम स यमर्थमसिद्धमपरीक्षितमनुपदिष्टमहेतुकं वा वादकालेऽभ्युपगच्छन्ति भिषजः; तद्यथा- द्रव्यं प्रधानमिति कृत्वा वक्ष्यामः, गुणाः प्रधानमिति कृत्वा वक्ष्यामः, वीर्यं प्रधानमिति कृत्वा वक्ष्यामः, इत्येवमादिः|
इति चतुर्विधः सिद्धान्तः||३७||
Hide commentary
बहुविधं परीक्ष्य हेतुभिः साधयित्वा स्थाप्यत इत्यस्य विवरणं- निर्णय इति; निर्णीयत इति निर्णयः| एतच्च सिद्धान्तलक्षणमभ्युपगमसिद्धान्ते नास्ति, तेन तत्र बुद्धिव्यवस्थितत्वेन चोक्तं सिद्धान्तत्वं ज्ञेयम्| सिद्धान्तं विभजते- स इत्यादि| प्रतितन्त्रसिद्धान्ते षड्रसा अष्टौ रसा इति परस्परविरुद्धेऽपि वादे स्वयुक्तिव्यवस्थापनबलात्तु सिद्धान्तत्वं ज्ञेयम्| यस्मिन्नित्यादौ अधिकरणे इति अभिधेयप्रधानत्वे | अन्यान्यपीति साक्षादनभिधीयमानान्यपि| अनुबध्नातीति आनुबन्धिकं जन्मान्तरेऽप्यनुगामीत्यर्थः| मुक्त इति प्रत्यासन्नमुक्तिः, सर्वथामुक्तस्त्वशरीरत्वात् कर्म न करोति; किंवा आनुबन्धिकं विशेषेण न करोति| सिद्धा इत्यादि| यदीह कर्मफलं न स्यात्तदा मुमुक्षुणाऽपि क्रियते कर्म, फलोद्विग्नो ह्ययं न तत् कर्म करोति; यदि च मोक्षो न स्यात्तदा मुक्त इति वचनं न स्यात्; तथा यदि च पुरुषो न स्यात्तदा कस्य वा बन्धः, कस्य वा मोक्षः स्यात्; यदा जन्मान्तरं न स्यात्तदा कर्मणो जन्मान्तरानुबन्धित्वमनुपपन्नं स्यादिति; न मुक्त इत्यादिवदता अधिकरणबलादेव सिद्धाः सिद्धान्तत्वेन कर्मफलादयः स्वीकृता भवन्ति| असिद्धमित्यस्य विवरणम्- अपरीक्षितमित्यादि||३७||
Adhikarana २७ (३८) · Śloka ३८
अथ शब्दः- शब्दो नाम वर्णसमाम्नायः; स चतुर्विधः- दृष्टार्थश्च, अदृष्टार्थश्च, सत्यश्च, अनृतश्चेति|
तत्र दृष्टार्थो नाम- त्रिभिर्हेतुभिर्दोषाः प्रकुप्यन्ति, षड्भिरुपक्रमैश्च प्रशाम्यन्ति, सति श्रोत्रादिसद्भावे शब्दादिग्रहणमिति|
अदृष्टार्थः पुनः- अस्ति प्रेत्यभावः, अस्ति मोक्ष इति|
सत्यो नाम- यथार्थभूतः; सन्त्यायुर्वेदोपदेशाः, सन्ति सिद्ध्युपायाः साध्यानां व्याधीनां, सन्त्यारम्भफलानीति|
सत्यविपर्ययश्चानृतः||३८||
Hide commentary
शब्दशब्देनेह सङ्केतबलादर्थप्रकाशिका वर्णमालोच्यते| आप्तोपदेशशब्दस्तु द्विविधः- परमाप्तब्रह्मादिप्रणीतः, तथा लौकिकाप्तप्रणीतश्च; ऐतिह्यशब्देन परमाप्तप्रणीतोऽवरुद्धः, लौकिकाप्तप्रणीतश्च शब्दैकदेशरूपः सत्यप्रकारविहितो ज्ञेयः| वर्णसमाम्नाय इति वर्णमेलक इत्यर्थः| वर्णानां यद्यप्यत्र सहस्थायिनां मेलको नास्ति, तथाऽप्येकस्मृतिसमानरूपित्वेन किंवा पूर्वपूर्वानुभवजनितसंस्कारसहितान्त्यवर्णानुभवारोहेण मेलको ज्ञेयः| दृष्टार्थ इति प्रमाणान्तरोपलब्धियोग्यार्थः| त्रिभिर्हेतुभिरिति प्रज्ञापराधादिभिः| षडुपक्रमा लङ्घनादयो लङ्घनबृंहणीयोक्ताः| एतेषां वाक्यानामिहैव दृश्यतेऽर्थ इति दृष्टार्थत्वम्| सत्यविपर्ययः- ‘न सन्त्यायुर्वेदोपदेशाः’ इत्यादिर्ज्ञेयः||३८||
Adhikarana २८ (३९) · Śloka ३९
अथ प्रत्यक्षं- प्रत्यक्षं नाम तद्यदात्मना चेन्द्रियैश्च स्वयमुपलभ्यते; तत्रात्मप्रत्यक्षाः सुखदुःखेच्छाद्वेषादयः, शब्दादयस्त्विन्द्रियप्रत्यक्षाः||३९||
Hide commentary
आत्मनेति मनसा, तेन मानसप्रत्यक्षं सुखाद्यमवरुध्यते| इन्द्रियैश्चेत्यनेन बाह्यं प्रत्यक्षं गृह्यते| स्वयमुपलभ्यत इति साक्षादुपलभ्यते; अनेन चेन्द्रियव्यापारे सत्यपि यदनुमानविज्ञानं तदसाक्षात्कारित्वान्न प्रत्यक्षमिति दर्शयति||३९||
Adhikarana २९ (४०) · Śloka ४०
अथानुमानम्- अनुमानं नाम तर्को युक्त्यपेक्षः; यथा- अग्निं जरणशक्त्या, बलं व्यायामशक्त्या, श्रोत्रादीनि शब्दादिग्रहणेनेत्येवमादि||४०||
Hide commentary
तर्को युक्त्यपेक्ष इत्यनुमानलक्षणं विविधरोगविज्ञानीय एव व्याकृतम्| अनुमानोदाहरणमाह- अग्निं जरणशक्त्येत्यादिना||४०||
Adhikarana ३० (४१) · Śloka ४१
अथैतिह्यम्- ऐतिह्यं नामाप्तोपदेशो वेदादिः||४१||
Hide commentary
अलौकिकाप्तोपदेश ऐतिह्यपदेनोच्यत इत्याह- वेदादिरिति||४१||
Adhikarana ३१ (४२) · Śloka ४२
अथौपम्यम्- औपम्यं नाम यदन्येनान्यस्य सादृश्यमधिकृत्य प्रकाशनं; यथा- दण्डेन दण्डकस्य, धनुषा धनुःस्तम्भस्य, इष्वासेनाऽऽरोग्यदस्येति||४२||
Hide commentary
यदन्येनेत्यादौ अन्येनेति प्रसिद्धेन, अन्यस्येति अप्रसिद्धस्य| सादृश्यमधिकृत्येति सादृयं प्रतिपाद्यं सञ्ज्ञासञ्ज्ञिसम्बन्धं प्रति कारणतया अधिकृत्य; यदा तु भट्टनयेनोपमानं व्याख्येयं तदा सादृश्यं प्रतिपाद्यतया अधिकृत्येति योजनीयं, तेषां सादृश्यप्रतिपत्तिरुपमानार्थः| न्याये च सञ्ज्ञासञ्ज्ञिसम्बन्धप्रतीतिरुपमानफलं, तच्च प्रथमव्याख्यानाद्भवति; उक्तं हि तत्र- “प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम्” (न्या. द. १/१/६) इति| दण्डेन दण्डकस्येति दण्डेन प्रसिद्धेनाप्रसिद्धस्य दण्डकस्य साधर्म्यमाप्ताच्छ्रुतवान् कुम्भकारदण्डवद्विकारदर्शने सत्ययमसौ दण्डकसञ्ज्ञो विकार इति प्रत्येति, किंवा भट्टनयेन प्रसिद्धं दण्डगतं साधर्म्यमप्रसिद्धदण्डकाख्यविकारसम्बन्धितया प्रत्येति; एवमन्यत्राप्युदाहरणे ज्ञेयम्| इष्वासेनेति इषुमोक्षकेण, यथा इषुमोक्षकेण लक्ष्येऽनतिविप्रकृष्टे नापराध्यते, तथाऽऽरोग्यदेन वैद्यैन वैद्यगुणैरातुरं साधयता||४२||
Adhikarana ३२ (४३) · Śloka ४३
अथ संशयः- संशयो नाम सन्देहलक्षणानुसन्दिग्धेष्वर्थेष्वनिश्चयः ; यथा- दृष्टा ह्यायुष्मल्लक्षणैरुपेताश्चानुपेताश्च तथा सक्रियाश्चाक्रियाश्च पुरुषाः शीघ्रभङ्गाश्चिरजीविनश्च, एतदुभयदृष्टत्वात् संशयः- किमस्ति खल्वकालमृत्युरुत नास्तीति||४३||
Hide commentary
सन्देहलक्षणानुसन्दिग्धेष्वर्थेष्वित्यनेन सन्देहयोग्यं विषयं दर्शयति; अनेन च न्यायोक्त “समानानेकधर्मोपपत्तेः” (न्या. द. १/१/२३) इत्यादिवचनाद् विषयं संशयस्य दर्शयति| संशयलक्षणम् “अनिश्चयः” इति ज्ञेयम्; अनिश्चयः पाक्षिकविरुद्धधर्मावमर्शकरं ज्ञानं, यथा- स्थाणुर्वा पुरुषो वेति| दृष्टा हीत्यादिना संशयोत्पत्तिसामग्रीमाह| तत्रायुष्यलक्षणोपेतानामक्रियाणां शीघ्रभङ्गे तथा सक्रियाणां च चिरजीवने दृष्टे अकालमृत्युरस्तीति बुद्धिः| एतद्विपर्यये चाकालमृत्युर्नास्तीति बुद्धिः||४३||
Adhikarana ३३ (४४) · Śloka ४४
अथ प्रयोजनं- प्रयोजनं नाम यदर्थमारभ्यन्त आरम्भाः; यथा- यद्यकालमृत्युरस्ति ततोऽहमात्मानमायुष्यैरुपचरिष्याम्यनायुष्याणि च परिहरिष्यामि, कथं मामकालमृत्युः प्रसहेतेति||४४||
Hide commentary
यदर्थमिति यन्निमित्तम्| प्रसहेतेति मारयेदित्यर्थः||४४||
Adhikarana ३४ (४५) · Śloka ४५
अथ सव्यभिचारं- सव्यभिचारं नाम यद्व्यभिचरणं; यथा- भवेदिदमौषधमस्मिन् व्याधौ यौगिकमथवा नेति||४५||
Hide commentary
सव्यभिचारमिति अनैकान्तिकमित्यर्थः| अथवा नेति न भवेदिति| अनैकान्तिकं चात्रौषधं यौगिकत्वायौगिकत्वाभ्यां संशयजनकमेव; तेन संशयेन समभेकता न शङ्कनीयाऽनैकान्तिकस्य||४५||
Adhikarana ३५ (४६) · Śloka ४६
अथ जिज्ञासा- जिज्ञासा नाम परीक्षा; यथा भेषजपरीक्षोत्तरकालमुपदेक्ष्यते||४६||
Hide commentary
उत्तरकालमिति इहैव परीक्षाप्रकरणे; किंवा रसायने “भेषजं द्विविधं च तत्” (चि.अ.१पा.१) इत्यादिना||४६||
Adhikarana ३६ (४७-४८) · Śloka ४८
अथ व्यवसायः- व्यवसायो नाम निश्चयः; यथा- वातिक एवायं व्याधिः, इदमेवास्य भेषजं चेति||४७||
अथार्थप्राप्तिः- अर्थप्राप्तिर्नाम यत्रैकेनार्थेनोक्तेनापरस्यार्थस्यानुक्तस्यापि सिद्धिः; यथा- नायं सन्तर्पणसाध्यो व्याधिरित्युक्ते भवत्यर्थप्राप्तिः- अपतर्पणसाध्योऽयमिति, नानेन दिवा भोक्तव्यमित्युक्ते भवत्यर्थप्राप्तिः- निशि भोक्तव्यमिति||४८||
Hide commentary
अर्थप्राप्तिरिति अर्थापत्तिरित्यर्थः| इह उक्तेनेति वचनाच्छ्रुतार्थापत्तिरेव विवक्षिता, दृष्टार्थापत्तिरपि त्वेतत्सामान्यत्वेनैव ज्ञेया| इयं चार्थापत्तिरन्यथोपपत्त्या न प्रमाणमिति न प्रमाणप्रकरणे पठिता, या तु दोषरहिता साऽनुमानान्तर्गतैवेति भावः| यो ह्यपतर्पणसाध्योऽपि न स्यात्तं प्रति ‘नायं सन्तर्पणसाध्यः’ इतिवचनमेवासमर्थविशेषणतया न स्यादित्यर्थापत्तिर्नेत्यभिप्रायः, उभयथाऽप्यसाध्ये हि ‘असाध्यः’ इत्येतावदेव वक्तव्यं स्यात्| एवमन्यत्राप्युदाहरणे ज्ञेयम्||४७-४८||
Adhikarana ३७ (४९) · Śloka ४९
अथ सम्भवः- यो यतः सम्भवति स तस्य सम्भवः; यथा- षड्धातवो गर्भस्य, व्याधेरहितं, हितमारोग्यस्येति||४९||
Hide commentary
सम्भवति विद्यते अस्मादिति सम्भवः, कारणं हि अव्यक्तस्वजन्मकार्यमुक्तम्, यतः कारणं सत्कार्यवादिमते कार्ययुक्तमेव| तेन षड्धातौ गर्भोऽस्त्येव, एवमहितेऽपि व्याधिरस्त्येव, स उत्तरकालं व्यज्यते इति साङ्ख्यमतेनोक्तम्| ततश्च यदन्यत्र सम्भवोदाहरणमुक्तं यथा- ‘सम्भवति खार्यां द्रोण’ इत्यादि, तत्समानमेतदप्युदाहरणं भवति||४९||
Adhikarana ३८ (५०) · Śloka ५०
अथानुयोज्यम्- अनुयोज्यं नाम यद्वाक्यं वाक्यदोषयुक्तं तत्|
सामान्यतो व्याहृतेष्वर्थेषु वा विशेषग्रहणार्थं यद्वाक्यं तदप्यनुयोज्यं; यथा- ‘संशोधनसाध्योऽयं व्याधिः’ इत्युक्ते ‘किं वमनसाध्योऽयं, किंवा विरेचनसाध्यः’ इत्यनुयुज्यते||५०||
Hide commentary
अनुयोज्यान्तरमाह- सामान्यत इत्यादि||५०||
Adhikarana ३९ (५१) · Śloka ५१
अथाननुयोज्यम्- अननुयोज्यं नामातो विपर्ययेण; यथा- अयमसाध्यः||५१||
Hide commentary
अननुयोज्यमाह- अतो विपर्ययेणेति| यथोक्तानुयोज्यद्वयोदाहरणविपर्ययेण ज्ञेयम्||५१||
Adhikarana ४० (५२-५३) · Śloka ५३
अथानुयोगः- अनुयोगो नाम स यत् तद्विद्यानां तद्विद्यैरेव सार्धं तन्त्रे तन्त्रैकदेशे वा प्रश्नःप्रश्नैकदेशो वा ज्ञानविज्ञानवचनप्रतिवचनपरीक्षार्थमादिश्यते|
यथा- ‘नित्यः पुरुषः’ इति प्रतिज्ञाते यत् परः ‘को हेतुः’ इत्याह, सोऽनुयोगः||५२||
अथ प्रत्यनुयोगः- प्रत्यनुयोगो नामानुयोगस्यानुयोगः; यथा- अस्यानुयोगस्य पुनः को हेतुरिति||५३||
Hide commentary
अनुयोगमाह- अथेत्यादि| प्रश्न इतिशब्देन यथोक्तशास्त्रे सम्पूर्णप्रश्नो गृह्यते, यथाऽत्रैव ‘तत्र चेद्भिषक् भिषजं पृच्छेद्’ इत्यादिना यावदुक्तं तत् सम्पूर्णं ज्ञेयम्; अत्रैव चैकदेशोऽपि प्रश्नस्य ज्ञेयः||५२-५३||
Adhikarana ४१ (५४) · Śloka ५४
अथ वाक्यदोषः- वाक्यदोषो नाम यथा खल्वस्मिन्नर्थे न्यूनम्, अधिकम्, अनर्थकम्, अपार्थकं, विरुद्धं चेति; एतानि ह्यन्तरेण न प्रकृतोऽर्थः प्रणशयेत्|
तत्र न्यूनं- प्रतिज्ञाहेतूदाहरणोपनयनिगमनानामन्यतमेनापि न्यूनं न्यूनं भवति; यद्वा बहूपदिष्टहेतुकमेकेन हेतुना साध्यते तच्च न्यूनम्|
अथाधिकम्- अधिकं नाम यन्न्यूनविपरीतं, यद्वाऽऽयुर्वेदे भाष्यमाणे बार्हस्पत्यमौशनसमन्यद्वा यत्किञ्चिदप्रतिसम्बद्धार्थमुच्यते, यद्वा सम्बद्धार्थमपि द्विरभिधीयते तत् पुनरुक्तदोषत्वादधिकं; तच्च पुनरुक्तं द्विविधम्- अर्थपुनरुक्तं, शब्दपुनरुक्तं च; तत्रार्थपुनरुक्तं यथा- भेषजमौषधं साधनमिति, शब्दपुनरुक्तं पुनर्भेषजं भेषजमिति|
अथानर्थकम्- अनर्थकं नाम यद्वचनमक्षरग्राममात्रमेव स्यात् पञ्चवर्गवन्न चार्थतो गृह्यते|
अथापार्थकम्- अपार्थकं नाम यदर्थवच्च परस्परेणासंयुज्यमानार्थकं; यथा- चक्र-न(त)क्र-वंश-वज्र-निशाकरा इति|
अथ विरुद्धं- विरुद्धं नाम यद्दृष्टान्तसिद्धान्तसमयैर्विरुद्धं; तत्र पूर्वं दृष्टान्तसिद्धान्तावुक्तौः समयः पुनस्त्रिधा भवति; यथा- आयुर्वैदिकसमयः, याज्ञिकसमयः, मोक्षशास्त्रिकसमयश्चेति; तत्रायुर्वैदिकसमयः- चतुष्पादं भेषजमिति, याज्ञिकसमयः- आलभ्या यजमानैः पशव इति, मोक्षशास्त्रिकसमयः- सर्वभूतेष्वहिंसेति; तत्र स्वसमयविपरीतमुच्यमानं विरुद्धं भवति|
इति वाक्यदोषाः||५४||
Hide commentary
वाक्यदोषानुदाहरति- अथेत्यादि| अस्मिन्नर्थ इतिवचनेन छलहेत्वाभासादिपदगृहीतानपि वाक्यदोषत्वेन दर्शयति; छलादयो हि वाक्यदोषा एव, परं पृथग्गृहीतत्वादिह नोच्यन्ते; तथा शास्त्रान्तरोक्ताश्चासिद्धादयोऽनया भाषया सूच्यन्ते वाक्यदोषाः| यद्वेत्यादौ यदा पुरुषनित्यत्वे ये हेतव उक्ता ‘अनादित्वात्, अकृतकत्वात्, निर्विकारत्वात्’ इति, तेषु यदि सकलहेत्वभिधानं प्रतिज्ञाय एकं हेतुं ब्रूते, तदा प्रतिज्ञातार्थस्य न्यूनार्थत्वान्न्यूनं भवतीति ज्ञेयं; यदा हेतुर्वक्तव्यस्तदा एक एव वक्तव्यो युज्यते, एकस्यापि हेतोः साध्यसाधनसमर्थत्वात्; तेन तत्र बहुहेतुकथनमेवाधिकत्वाद्दोष एव भवतीति ज्ञेयम्| प्रकृत इति साध्यत्वेन प्रतिज्ञातः| बार्हस्पत्यमौशनसं च नीतिशास्त्रम्| अप्रतिसम्बद्धार्थमित्यनेन बार्हस्पत्याद्यपि यदि धनैषणाभिधानप्रसङ्गेन प्रसङ्गागतं भवति, तदा स्तोकक्रमेणोच्यमानमायुर्वेदोपकारकत्वेन नाधिकमिति दर्शयति| पुनरक्तदोषादिति दोषवतः पुनरुक्तादित्यर्थः| दोषवत्त्वं च यथा पुनरुक्तस्य, तथोक्तमेव| पञ्चवर्गवदिति क-ख-ग-घ-ङादिवर्गसमुदायवत्, तत्र त्वभिधेयोऽर्थो न प्रतिभाति| अर्थवदिति प्रत्येकं पदरूपतया प्रसिद्धार्थम्| परस्परेणायुज्यमानमिति वाक्यरूपतयाऽर्थाप्रत्यायकं; चक्रादयो हि शब्दाः क्रियां विना न वाक्यरूपार्थाभिधायका इत्यर्थः| विरुद्धे दृष्टान्तविरुद्धं यथा- यथा शीतं जलं तापकं तथा ज्वरोऽपीति| सिद्धान्तविरुद्धं यथा- वैद्यो ब्रूते- न भेषजं रोगहरमिति; आयुर्वेदे चतुष्पादमेव भेषजमिति सिद्धान्त एव, तथा चतुष्पादसञ्ज्ञा समयकृता ज्ञेया| एवं याज्ञिकानामालभ्यसञ्ज्ञा समयकृता| तत्र यदि स्वसमयविपरीतमभिदधाति तदा समयविरुद्धं भवति||५४||
Adhikarana ४२ (५५) · Śloka ५५
अथ वाक्यप्रशंसा- वाक्यप्रशंसा नाम यथा खल्वस्मिन्नर्थे त्वन्यूनम्, अनधिकम्, अर्थवत्, अनपार्थकम्, अविरुद्धम्, अधिगतपदार्थं चेति यत्तद्वाक्यमननुयोज्यमिति प्रशस्यते||५५||
Hide commentary
अननुयोज्यमिति नानुयोगार्हम्||५५||
Adhikarana ४३ (५६) · Śloka ५६
अथ च्छलं- छलं नाम परिशठमर्थाभासमनर्थकं वाग्वस्तुमात्रमेव|
तद्द्विविधं- वाक्छलं, सामान्यच्छलं च|
तत्र वाक्छलं नाम यथा- कश्चिद्ब्रूयात्- नवतन्त्रोऽयं भिषगिति, अथ भिषग् ब्रूयात्- नाहं नवतन्त्र एकतन्त्रोऽहमिति; परो ब्रूयात्- नाहं ब्रवीमि नव तन्त्राणि तवेति, अपि तु नवाभ्यस्तं ते तन्त्रमिति; भिषक् ब्रूयात्- न मया नवाभ्यस्तं तन्त्रम्, अनेकधाऽभ्यस्तं मया तन्त्रमिति; एतद्वाक्छलम्|
सामान्यच्छलं नाम यथा- व्याधिप्रशमनायौषधमित्युक्ते, परो ब्रूयात्- सत् सत्प्रशमनायेति किं नु भवानाह; सन् हि रोगः, सदौषधं; यदि च सत् सत्प्रशमनाय भवति, तत्र सत् कासः, सत् क्षयः, सत्सामान्यात् कासस्ते क्षयप्रशमनाय भविष्यतीति|
एतत् सामान्यच्छलम्||५६||
Hide commentary
छलमित्यादि| परिशठमिति वञ्चनाप्रवृत्तम्| अर्थवदिवाभासत इत्यर्थाभासः| एतदेव विवृणोति- अपार्थकमित्यादि| अपगतसमीचीनार्थत्वेन वाग्वस्तुमात्रमित्यर्थः| छलं ह्यभिप्रेतार्थादर्थान्तरं परिकल्प्य परवचनोपघाताय प्रतिकल्प्यते| यदुक्तं न्याये “वचनविघातोऽर्थविकल्पोपपत्त्या च्छलम्” (न्या. द. १/२/१०) इति| अत्र वाक्छले एवोपचारच्छलं न्यायोक्तं सम्भवति| सामान्यशब्दोक्ते ह्यर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलं; तेन ‘मञ्चाः क्रोशन्ति’ इत्यत्रापि मञ्चशब्दो मुख्यः सन् मञ्चे वर्तते, उपचारात्तु मञ्चस्थेषु पुरुषेषु मञ्चशब्दप्रयोगे सति ‘कथमचेतना मञ्चाः क्रोशन्ति’?, इत्याक्षेपो वाक्छल एव प्रविशतीति भावः| नवतन्त्रोऽयमित्यादि व्यक्तम्| सामान्यच्छललक्षणमत्रानुक्तं, तत्र न्यायोक्तलक्षणमेव ज्ञेयं; यथा- ‘सम्भवतोऽर्थस्यातिसामान्ययोगादसम्भूतार्थकल्पना सामान्यच्छलम्’ (न्या. द. १/२/१३) इति| सत् सत्प्रशमायेति सता सतः प्रशमः क्रियते इति तव मतमिति कृत्वा च्छलवादी पूर्वपक्षं करोति, तेनाविवक्षितेन सत्त्वसामान्येन प्रत्यवस्थानात् सामान्यच्छलं भवति||५६||
Adhikarana ४४ (५७) · Śloka ५७
अथाहेतुः- अहेतुर्नामप्रकरणसमः, संशयसमः, वर्ण्यसमश्चेति|
तत्र प्रकरणसमो नामाहेतुर्यथा- अन्यः शरीरादात्मा नित्य इति; परो ब्रूयात्- यस्मादन्यः शरीरादात्मा, तस्मान्नित्यः; शरीरं ह्यनित्यमतो विधर्मिणा चात्मना भवितव्यमित्येष चाहेतुः; नहि य एव पक्षः स एव हेतुरिति|
संशयसमो नामाहेतुर्य एव संशयहेतुः स एव संशयच्छेदहेतुः; यथा- अयमायुर्वेदैकदेशमाह, किन्न्वयं चिकित्सकः स्यान्न वेति संशये परो ब्रूयात्- यस्मादयमायुर्वेदैकदेशमाह तस्माच्चिकित्सकोऽयमिति, न च संशयच्छेदहेतुं विशेषयति, एष चाहेतुः; न हि य एव संशयहेतुः, स एव संशयच्छेदहेतुर्भवति|
वर्ण्यसमो नामाहेतुः- यो हेतुर्वर्ण्याविशिष्टः; यथा- कश्चिद्बूयात्- अस्पर्शत्वाद्बुद्धिरनित्या शब्दवदिति; अत्र वर्ण्यः शब्दो बुद्धिरपि वर्ण्या, तदुभयवर्ण्याविशिष्टत्वाद्वर्ण्यसमोऽप्यहेतुः||५७||
Hide commentary
अहेतुः असाधकहेतुरित्यर्थः| प्रक्रियते साध्यत्वेनाधिक्रियत इति व्युत्पत्त्या प्रकरणं पक्षः , तेन समः प्रकरणसमः| अन्यः शरीरादात्मा नित्य इति प्रतिज्ञायां शरीरादन्यत्वं नित्यत्वं चात्मनः साध्यम्| अतो विधर्मिणेति शरीरादनित्याद्विधर्मिणा नित्येनेत्यर्थः| य एव पक्ष इत्यनेनान्यत्वं च शरीरादात्मनो न सिद्धमिति दर्शयति, सति हि नित्यत्वे चेतनाधारस्य शरीरादन्यत्वमपि सिध्यति; चार्वाकपक्षे तु शरीरमेव चेतनमनित्यं चेति तं प्रत्युभयमपि साध्यं; न च साध्यं साधनं भवति, असिद्धत्वादिति भावः| अयमायुर्वेदैकदेशमाहेति आयुर्वेदैकदेशाभिधानं चिकित्सकाचिकित्सकगमकत्वेन संशयहेतुः, एकदेशकथनं हि शास्त्रानभ्यासेऽपि कुतश्चिच्छ्रवणादपि भवतीति भावः| न संशयच्छेदहेतुं विशेषयतीति न संशयच्छेदहेतुं विशिष्टं दर्शयतीत्यर्थः| एष चाहेतुरिति यथोक्तो हेतुरहेतुः संशयोच्छेदे इत्यर्थः| वर्ण्येन साध्येन दृष्टान्तोऽप्यसिद्धत्वेन सम इति वर्ण्यसमः| वर्ण्यः शब्द इति अस्पर्शत्वयोगादनित्यत्वेन शब्दोऽपि साध्यः, न च साध्यो दृष्टान्तो भवति| उभयवर्ण्याविशिष्टत्वादिति उभयत्र वर्ण्ये दृष्टान्ते च वर्ण्यस्य साध्यस्य साध्यत्वेनाविशिष्टत्वादित्यर्थः||५७||
Adhikarana ४५ (५८) · Śloka ५८
अथातीतकालम्- अतीतकालं नाम यत् पूर्वं वाच्यं तत् पश्चादुच्यते, तत् कालातीतत्वादग्राह्यं भवतीति; पूर्वं वा निग्रहप्राप्तमनिगृह्य परिगृह्य पक्षान्तरितं पश्चान्निगृहीते, तत्तस्यातीतकालत्वान्निग्रहवचनमसमर्थं भवतीति||५८||
Hide commentary
यत् पूर्वं वाच्यं तत् पश्चादुच्यते इति यथा निगमनमभिधाय पश्चात् प्रतिज्ञोच्यते| निग्रहप्राप्तमिति निग्रहणीयं ज्ञातम्||५८||
Adhikarana ४६ (५९) · Śloka ५९
अथोपालम्भः- उपालम्भो नाम हेतोर्दोषवचनं; यथा- पूर्वमहेतवो हेत्वाभासा व्याख्याताः||५९||
Hide commentary
हेतोर्दोषवचनमित्यनेन कालात्ययापदिष्टासिद्धयोर्द्वयोरपीहानुक्तयोर्ग्रहणं कर्तव्यम्; उदाहरणार्थं त्वहेतव उक्ताः| हेतुवदाभासन्त इति हेत्वाभासाः||५९||
Adhikarana ४७ (६०-६१) · Śloka ६१
अथ परिहारः- परिहारो नाम तस्यैव दोषवचनस्य परिहरणं; यथा- नित्यमात्मनि शरीरस्थे जीवलिङ्गान्युपलभ्यन्ते, तस्य चापगमान्नोपलभ्यन्ते, तस्मादन्यः शरीरादात्मा नित्यश्चेति||६०||
अथ प्रतिज्ञाहानिः- प्रतिज्ञाहानिर्नाम सा पूर्वपरिगृहीतां प्रतिज्ञां पर्यनुयुक्तो यत् परित्यजति, यथा प्राक् प्रतिज्ञां कृत्वा नित्यः पुरुष इति, पर्यनुयुक्तस्त्वाह- अनित्य इति||६१||
Hide commentary
यथा नित्यमात्मनीत्यादिना प्रकरणसमत्वेनोक्तहेतौ दोषमुद्धरति| नित्यमिति सर्वदा| जीवलिङ्गानि प्रतिसन्धानस्मरणादीनि| तस्यापगमान्नोपलभ्यन्त इत्यनेन मृतशरीरे चेतनाद्यभावादन्यदेव तत्कारणमुन्नीयते, यदपगमान्न चेतयते मृतशरीरं, तस्मादन्यत्वमात्मनः सिद्धं, ततश्च शरीरादन्यत्वाच्छरीरविधर्मित्वेन पूर्वव्युत्पादितेन नित्यत्वमपि सिध्यतीत्याह- नित्यश्चेति||६०-६१||
Adhikarana ४८ (६२-६४) · Śloka ६४
अथाभ्यनुज्ञा- अभ्यनुज्ञा नाम सा य इष्टानिष्टाभ्युपगमः||६२||
अथ हेत्वन्तरं- हेत्वन्तरं नाम प्रकृतहेतौ वाच्ये यद्विकृतहेतुमाह||६३||
अथार्थान्तरम्- अर्थान्तरं नामैकस्मिन् वक्तव्येऽपरं यदाह|
यथा- ज्वरलक्षणे वाच्ये प्रमेहलक्षणमाह||६४||
Hide commentary
इष्टानिष्टाभ्युपगमो यथा- “भवान् चौर” इत्युक्ते स्वदोषमपरिहृत्य वचनं- भवानपि चौर इति| एतद्धि वचनं स्वीयमनिष्टं चौरत्वं परस्य चेष्टं चौरत्वमभ्यनुजानाति| तदेवं वचनं न्याये “मतानुज्ञा” शब्देनोच्यते||६२-६४||
Adhikarana ४९ (६५-६६) · Śloka ६६
अथ निग्रहस्थानं- निग्रहस्थानं नाम पराजयप्राप्तिः; तच्च त्रिरभिहितस्य वाक्यस्यापरिज्ञानं परिषदि विज्ञानवत्यां, यद्वा अननुयोज्यस्यानुयोगोऽनुयोज्यस्य चाननुयोगः|
प्रतिज्ञाहानिः, अभ्यनुज्ञा, कालातीतवचनम्, अहेतुः, न्यूनम्, अधिकं, व्यर्थम्, अनर्थकं, पुनरुक्तं, विरुद्धं, हेत्वन्तरम्, अर्थान्तरं च निग्रहस्थानम्||६५||
इति वादमार्गपदानि यथोद्देशमभिनिर्दिष्टानि भवन्ति||६६||
Hide commentary
निग्रहस्य पराजयस्य स्थानमिव स्थानं कारणमिति निग्रहस्थानम्| परिषदि विज्ञानवत्यामित्यनेन यदि परिषत्तस्य त्रिरभिहितस्यार्थं विजानाति, प्रतिवादी च न जानाति, तदा तस्य निग्रहस्थानं भवति| अन्यानप्युक्तानेव निग्रहस्थानत्वेनाह - अननुयोज्यस्यानुयोग इत्यादि| एते च व्याकृता एव| अत्र चाप्रतिभादयोऽपि न्यायोक्ता अन्तर्भावनीया बुद्धिमद्भिः, आयुवेदे तथाविधोपकारकत्वाभावादेतत् प्रपञ्चविषयमपि न प्रपञ्चितं; न्यायविदां त्वेतदनुक्तमपि सुगममेव , तदवेदिनां च मनाक्प्रपञ्चोक्तमपि नालं ज्ञानायेत्यलं प्रपञ्चेन||६५-६६||
Adhikarana ५० (६७) · Śloka ६७
वादस्तु खलु भिषजां प्रवर्तमानो प्रवर्तेतायुर्वेद एव, नान्यत्र|
अत्र हि वाक्यप्रतिवाक्यविस्तराः केवलाश्चोपपत्तयः सर्वाधिकरणेषु|
ताः सर्वाः समवेक्ष्यावेक्ष्य सर्वं वाक्यं ब्रूयात्, नाप्रकृतकमशास्त्रमपरीक्षितमसाधकमाकुलमव्यापकं वा|
सर्वं च हेतुमद्ब्रूयात्|
हेतुमन्तो ह्यकलुषाः सर्व एव वादविग्रहाश्चिकित्सिते कारणभूताः, प्रशस्तबुद्धिवर्धकत्वात्; सर्वारम्भसिद्धिं ह्यावहत्यनुपहता बुद्धिः||६७||
Hide commentary
इदानीं यथोक्तवाद एवायुर्वेदे आयुर्वेदाध्यायिभिः कर्तव्यः, एवम्भूतस्यैव वादस्य विवक्षितत्वं सम्यग्ज्ञानजनकत्वादित्याह- वाद इत्यादि| अथ किमर्थं वादविषयाः सन्तीत्याह- अत्र हीत्यादि| सर्वाधिकरणेषु ‘सन्ति’ इति शेषः| अव्यापकं वेति ब्रूयादिति पूर्वेण सम्बन्धः| वादो विग्रहः शरीरमिव येषां ते वादविग्रहा जल्पभेदा वितण्डाभेदाश्च| प्रशस्तबुद्धिकर्तृत्वेन कथं वादश्चिकित्सायां कारणं भवतीत्याह- सर्वेत्यादिना| न केवलं चिकित्सासिद्धिं करोत्यनुपहता बुद्धिः, किन्तु सर्वारम्भसिद्धिं करोतीत्यर्थः||६७||
Adhikarana ५१ (६८) · Śloka ६८
इमानि खलु तावदिह कानिचित् प्रकरणानि भिषजां ज्ञानार्थमुपदेक्ष्यामः|
ज्ञानपूर्वकं हि कर्मणां समारम्भं प्रशंसन्ति कुशलाः|
ज्ञात्वा हि कारण-करण-कार्ययोनि-कार्य-कार्यफलानुबन्ध-देश-काल-प्रवृत्त्युपायान् सम्यगभिनिर्वर्तमानः कार्याभिनिर्वृत्ताविष्टफलानुबन्धं कार्यमभिनिर्वर्तयत्यनतिमहता यत्नेन कर्ता||६८||
Hide commentary
सम्प्रति बुद्धेर्वर्धनकारणतद्विद्यसम्भाषाविध्यभिधानप्रसङ्गेणायुर्वेदोपयुक्तकारणाद्यभिधायकान्यपि प्रकरणानि बुद्धिवर्धनान्यभिधातुं प्रतिजानीते- इमानीत्यादि| ज्ञानपूर्वकमिति कर्तव्यकार्यानुगुणपदार्थज्ञानपूर्वकमित्यर्थः| यानि ज्ञात्वा क्रियमाणं कार्यं साधु भवति तान्याह- ज्ञात्वा हीत्यादि| अभिनिर्वर्तमान इति आभिमुख्येन वर्तमानः| इष्टं तादात्विकं फलमनुबन्धश्चायतीयफलं यस्य तदिष्टफलानुबन्धम्||६८||
Adhikarana ५२ (६९) · Śloka ६९
तत्र कारणं नाम तद् यत् करोति, स एव हेतुः, स कर्ता||६९||
Hide commentary
उक्तानि कारणादीनि व्याकरोति- तत्रेत्यादिना| यदिति कारणप्रत्यवमर्शान्नपुंसकम्| करोतीति स्वातन्त्र्येण करोति| तेनेह कारणशब्देन स्वतन्त्रकारणं कर्तृलक्षणमुच्यते||६९||
Adhikarana ५३ (७०) · Śloka ७०
करणं पुनस्तद् यदुपकरणायोपकल्पते कर्तुः कार्याभिनिर्वृत्तौ प्रयतमानस्य||७०||
Hide commentary
करणं विवृणोति- करणं पुनरित्यादि| उपकरणायेति कर्तुः सम्पाद्ये कार्ये सन्निहितं सहकारितया व्याप्रियते| कार्याभिनिर्वृत्ताविति कार्याभिनिर्वृत्तिमुद्दिश्य| यतमानस्येति यत्नं कुर्वतः| एतेन यः कार्ये कारणान्तरप्रेरकः, स चात्र कर्ता कारणशब्देनोच्यते; यत्तु कर्त्रधीनव्यापारे साधकतमं, तत् करणम्| कर्तृत्वं च तस्यैव मुख्यं यो हि बुद्धिप्रयत्नयुक्तत्वादितरकारणप्रेरको भवति, अचेतने तु कर्तृत्वव्यपदेशः स्वातन्त्र्यविवक्षया भाक्तः||७०||
Adhikarana ५४ (७१) · Śloka ७१
कार्ययोनिस्तु सा या विक्रियमाणा कार्यत्वमापद्यते||७१||
Hide commentary
कार्यस्य योनिः समवायिकारणं कार्ययोनिः| येत्यादि या योनिः कारणरूपा विक्रियमाणा रूपान्तरमापद्यमाना कार्यत्वमापद्यते कार्यरूपा भवतीत्यर्थः| तत्र घटस्य मृत्तिका कार्ययोनिः; मृदेव ह्यवस्थान्तरप्राप्त्या घटो भवति||७१||
Adhikarana ५५ (७२) · Śloka ७२
कार्यं तु तद्यस्याभिनिर्वृत्तिमभिसन्धाय कर्ता प्रवर्तते||७२||
Hide commentary
अभिनिर्वृत्तिमभिसन्धायेति कर्तव्यताबुद्धिं स्थिरीकृत्य||७२||
Adhikarana ५६ (७३) · Śloka ७३
कार्यफलं पुनस्तद् यत्प्रयोजना कार्याभिनिर्वृत्तिरिष्यते||७३||
Hide commentary
कार्यफलशब्देनेह तादात्विकं कार्यफलं ज्ञेयं, यथा- कुम्भकारस्य घटकरणे तन्मूल्यप्राप्तिः; अनुबन्धस्त्वायतीयं फलं, यथा- घटमूल्यविनियोगः कुटुम्बपोषणादौ||७३||
Adhikarana ५७ (७४) · Śloka ७४
अनुबन्धः खलु स यः कर्तारमवश्यमनुबध्नाति कार्यादुत्तरकालं कार्यनिमित्तः शुभो वाऽप्यशुभो भावः||७४||
Hide commentary
अनुबध्नातीति उत्तरकालं कर्तारमुपतिष्ठते| शुभो वाऽप्यशुभो वेति शुभस्य कार्यस्य शुभः, अशुभस्य चाशुभः||७४||
Adhikarana ५८ (७५) · Śloka ७५
देशस्त्वधिष्ठानम्||७५||
Hide commentary
देशस्त्वधिष्ठानमिति कार्यानुगुणोऽननुगुणो वा आधाररूपो देशः||७५||
Adhikarana ५९ (७६) · Śloka ७६
कालः पुनः परिणामः||७६||
Hide commentary
परिणाम इति परिणामी ऋत्वयनादिरूपः कालः| तेन नित्यगं कालं निरस्यति, तस्य सर्वसाधारणत्वेन कार्यं प्रत्यनपेक्षणीयत्वात्||७६||
Adhikarana ६० (७७) · Śloka ७७
प्रवृत्तिस्तु खलु चेष्टा कार्यार्था; सैव क्रिया, कर्म, यत्नः, कार्यसमारम्भश्च||७७||
Hide commentary
प्रवृत्तेश्चेष्टादिशब्दाः पर्याया एव लक्षणम्||७७||
Adhikarana ६१ (७८) · Śloka ७८
उपायः पुनस्त्रयाणां कारणादीनां सौष्ठवमभिविधानं च सम्यक् कार्यकार्यफलानुबन्धवर्ज्यानां, कार्याणामभिनिर्वर्तक इत्यतस्तूपायः ; कृते नोपायार्थोऽस्ति, न च विद्यते तदात्वे, कृताच्चोत्तरकालं फलं, फलाच्चानुबन्ध इति||७८||
Hide commentary
उपायमाह- उपायः पुनरित्यादि| सौष्ठवमिति सुष्ठुत्वं कर्त्रादीनां कार्यानुगुणयोगित्वमित्यर्थः| अभिविधानं च सम्यगिति कारणादीनां कार्यानुगुण्येनावस्थानं, यथा- भेषजस्य शिरोविरेचनकारकस्य तापनपिचुदानमित्यादि; यथा वा पटकारणानां तन्त्वादीनां पटवापनयोग्यतयाऽवस्थानम्| एतच्चोपायरूपं सौष्ठवमभिविधानं च कार्यादित्रिकरहितानां कारणादीनां ज्ञेयमित्याह- कार्येत्यादि| उपायस्य स्वरूपान्तरमाह - कार्याणामभिनिर्वर्तक इत्यतस्तूपाय इति| असत्युपाये कारणादीनि कार्यं न कुर्वन्तीत्यर्थः| अथ कथं कार्यादिषूपायत्वं न सम्भवतीत्याह- कृत इत्यादि| उपायो हि कार्यकारकः, तत्र कृते उत्पन्ने कार्ये नोपायार्थोऽस्ति, न हि कृतं पुनः क्रियते; तेन कार्यगतमप्युपायत्वं न पुनः कार्योत्पादे स्वीकुर्मः| अथानुत्पन्ने कार्ये उपायरूपता भविष्यतीत्याह- न च विद्यते तदात्वे; ‘कार्यम्’ इति शेषः; तदात्वे कार्योत्पत्तेः पूर्वं कार्यमेव नास्ति, तेन तदात्वेऽप्युपायत्वं कार्यस्य नास्तीति| यदा च कार्य एवोपायत्वमुपायोत्तरकालीनत्वेन नास्ति तदा कार्योत्तरकालजयोः फलानुबन्धयोरपि उपायार्थो नास्तीत्याह- कृताच्चोत्तरकालमित्यादि||७८||
Adhikarana ६२ (७९) · Śloka ७९
एतद्दशविधमग्रे परीक्ष्यं, ततोऽनन्तरं कार्यार्था प्रवृत्तिरिष्टा|
तस्माद्भिषक् कार्यं चिकीर्षुः प्राक् कार्यसमारम्भात् परीक्षया केवलं परीक्ष्यं परीक्ष्य कर्म समारभेत कर्तुम्||७९||
Hide commentary
उपसंहरति- एतदित्यादि||७९||
Adhikarana ६३ (८०) · Śloka ८०
तत्र चेद्भिषगभिषग्वा भिषजं कश्चिदेवं खलु पृच्छेद्- वमनविरेचनास्थापनानुवासनशिरोविरेचनानि प्रयोक्तुकामेन भिषजा कतिविधया परीक्षया कतिविधमेव परीक्ष्यं, कश्चात्र परीक्ष्यविशेषः, कथं च परीक्षितव्यः, किम्प्रयोजना च परीक्षा, क्व च वमनादीनां प्रवृत्तिः, क्व च निवृत्तिः, प्रवृत्तिनिवृत्तिलक्षणसंयोगे च किं नैष्ठिकं, कानि च वमनादीनां भेषजद्रव्याण्युपयोगं गच्छन्तीति||८०||
Hide commentary
सम्प्रत्युक्तं कारणादिदशकं वैद्योपयुक्तभिषगादिदृष्टान्तेन दर्शयितुं तत्र चेदित्यादिप्रकरणमारभते| अभिषग्वेति किञ्चिद्भिषगित्यर्थः| कतिविधं परीक्ष्यमिति कतिप्रकारं परीक्षणीयम्| प्रवृत्तिनिवृत्तिलक्षणसंयोग इति प्रवृत्त्यनुगुणनिवृत्त्यनुगुणयोर्लक्षणयोरेकत्र मेलके| किं नैष्ठिकमिति निष्ठा निश्चयस्तद्भवं नैष्ठिकं; किं निश्चयेन कर्तव्यमित्यर्थः||८०||
Adhikarana ६४ (८१) · Śloka ८१
स एवं पृष्टो यदि मोहयितुमिच्छेत्, ब्रूयादेनं- बहुविधा हि परीक्षा तथा परीक्ष्यविधिभेदः, कतमेन विधिभेदप्रकृत्यन्तरेण भिन्नया परीक्षया केन वा विधिभेदप्रकृत्यन्तरेण परीक्ष्यस्य भिन्नस्य भेदाग्रं भवान् पृच्छत्याख्यायमानं ; नेदानीं भवतोऽन्येन विधिभेदप्रकृत्यन्तरेण भिन्नया परीक्षयाऽन्येन वा विधिभेदप्रकृत्यन्तरेण परीक्ष्यस्य भिन्नस्याभिलषितमर्थं श्रोतुमहमन्येन परीक्षाविधिभेदेनान्येन वा विधिभेदप्रकृत्यन्तरेण परीक्ष्यं भित्त्वाऽन्यथाऽऽचक्षाण इच्छां पूरयेयमिति||८१||
Hide commentary
यदि मोहयितुमिच्छेदिति यदि विगृह्यसम्भाषाप्रवृत्तत्वेन मोहयितुमिच्छेदित्यर्थः| तथेति बहुविध इत्यर्थः| विधिरूपो भेदो विधिभेदः, तस्य प्रकृत्यन्तरमिति कारणान्तरम्| भेदाग्रमिति भेदपरिमाणं, भेदपरिमाणं चेह भेदसङ्ख्यापरिच्छेद एव ज्ञेयः| आख्यायमानमिति च्छेदः| किमर्थमेवं पुनः पृच्छसीत्याकाङ्क्षायामाह- नेदानीमित्यादि| भवतोऽन्यथा श्रोतुमभिलषितमर्थमहमन्यथाऽऽचक्षाणो न भवत इच्छां पूरयेयं; तेन त्वमेव तावद्विशेषयित्वा पृच्छेति वाक्यार्थः| यदा तु, ‘वेदानीं न पूरयेयम् ’ इतिपाठः, तदा वेदानीमित्यग्रे आचक्षाण इच्छां न पूरयेयमिति योज्यं; किंवा, नेति पूर्वेण युज्यते| तेन, कतमेन विधिभेदप्रकृत्यन्तरेणाख्यायमानं भवानिच्छति, केन वा विधिभेदप्रकृत्यन्तरेणाख्यायमानमिच्छति न, इति योज्यम्| इदानीमित्यादि तु पूर्ववदाशङ्कायां वचनम्| एतद्विशेषपृच्छया पृच्छको व्याकुलो भवतीति भावः| परीक्ष्यस्यार्थं भवतः श्रोतुमभिलषितमन्यथा आचक्षाण इति योजना||८१||
Adhikarana ६५ (८२) · Śloka ८२
स यदुत्तरं ब्रूयात्तत् समीक्ष्योत्तरं वाच्यं स्याद्यथोक्तं च प्रतिवचनविधिमवेक्ष्य; सम्यक् यदि तु ब्रूयान्न चैनं मोहयितुमिच्छेत्, प्राप्तं तु वचनकालं मन्येत, काममस्मै ब्रूयादाप्तमेव निखिलेन||८२||
Hide commentary
तत् समीक्ष्येति तद्वचनं समीक्ष्य यदौपयिकं भवति| यथोक्तं प्रतिवचनविधिमित्यत्रैवाध्याये विगृह्यसम्भाषाविधावुक्तमवेक्ष्योत्तरं वाच्यम्| पक्षान्तरमाह- सम्यगित्यादि| सम्यग्यदि तु ब्रूयादिति यदि सन्धायसम्भाषायां ब्रूयात्| प्राप्तमिति उचितम्, उचिते हि वचनकाले वक्तव्यमेव; आप्तमेवेति यथार्थमेवेत्यर्थः||८२||
Adhikarana ६६ (८३) · Śloka ८३
द्विविधा तु खलु परीक्षा ज्ञानवतां- प्रत्यक्षम्, अनुमानं च|
एतद्धि द्वयमुपदेशश्च परीक्षा स्यात्|
एवमेषा द्विविधा परीक्षा, त्रिविधा वा सहोपदेशेन||८३||
Hide commentary
तदेव यथार्थमुत्तरं पूर्वप्रश्नेषु यथाक्रमेणाह- द्विविधात्वित्यादि| ज्ञानवतामित्याप्तोपदेशरूपशास्त्रजनितज्ञानवताम्| पक्षान्तरे परीक्षात्रैविध्यमाह- एतद्धीत्यादि| एतच्च परीक्षाया द्वैविध्यं त्रैविध्यं वा त्रिविधरोगविशेषविज्ञानीय एव व्याख्यातम्||८३||
Adhikarana ६७ (८४) · Śloka ८४
दशविधं तु परीक्ष्यं कारणादि यदुक्तमग्रे, तदिह भिषगादिषु संसार्य सन्दर्शयिष्यामः- इह कार्यप्राप्तौ कारणं भिषक्, करणं पुनर्भेषजं, कार्ययोनिर्धातुवैषम्यं, कार्यं धातुसाम्यं, कार्यफलं सुखावाप्तिः, अनुबन्धः खल्वायुः, देशो भूमिरातुरश्च, कालः पुनः संवत्सरश्चातुरावस्था च, प्रवृत्तिः प्रतिकर्मसमारम्भः, उपायस्तु भिषगादीनां सौष्ठवमभिविधानं च सम्यक्|
इहाप्यस्योपायस्य विषयः पूर्वेणैवोपायविशेषेण व्याख्यातः|
इति कारणादीनि दश दशसु भिषगादिषु संसार्य सन्दर्शितानि, तथैवानुपूर्व्यैतद्दशविधं परीक्ष्यमुक्तं च||८४||
Hide commentary
भिषगादिषु संसार्येति भिषगादीनि चोपयुक्तान्युदाहरणानि कृत्वा| धातुवैषम्यमिति विषमतां गता धातवः; धातव एव हि विषमामवस्थां परित्यज्य समावस्थामापद्यमाना आरोग्याख्यस्य धातुसाम्यस्य समवायिकारणतया कार्ययोनितामापद्यन्ते| सुखावाप्तिरिति अरोग्यावाप्तिः| उक्तं च- “सुखसञ्ज्ञकमारोग्यं” (सू.अ.९) इति| आयुश्चानुबन्धफलरूपं यद्यप्यत्र रोगिगतं न वैद्यगतं, तथाऽपि वैद्येन काङ्क्षितत्वाद्वैद्यगतमेव तद्विज्ञेयम्| तेनानुबन्धलक्षणे कर्तारमभिप्रैतीति यदुक्तं तदुपपन्नम्| कर्ता ह्यत्र भिषक्, तेनातुरगतमप्यायुर्भिषगपेक्षितत्वेन भिषज एव फलमिति ज्ञेयम्| प्रतिकर्म चिकित्सा| इहाप्यस्येत्यादि| अत्रापि कार्यफलानुबन्धव्यतिरिक्तानां कारणादीनां सौष्ठवमभिविधानं च यथोक्तन्यायेनोपाय इति दर्शयति||८४||
Adhikarana ६८ (८५-८६) · Śloka ८६
तस्य यो यो विशेषो यथा यथा च परीक्षितव्यः, स तथा तथा व्याख्यास्यते||८५||
कारणं भिषगित्युक्तमग्रे, तस्य परीक्षा- भिषङ्नाम यो भिषज्यति, यः सूत्रार्थप्रयोगकुशलः, यस्य चायुः सर्वथा विदितं यथावत्|
स च सर्वधातुसाम्यं चिकीर्षन्नात्मानमेवादितः परीक्षेत गुणिषु गुणतः कार्याभिनिर्वृत्तिं पश्यन्, कच्चिदहमस्य कार्यस्याभिनिर्वर्तने समर्थो न वेति; तत्रेमे भिषग्गुणा यैरुपपन्नो भिषग्धातुसाम्याभिनिर्वर्तने समर्थो भवति; तद्यथा- पर्यवदातश्रुतता, परिदृष्टकर्मता, दाक्ष्यं, शौचं, जितहस्तता, उपकरणवत्ता, सर्वेन्द्रियोपपन्नता, प्रकृतिज्ञता, प्रतिपत्तिज्ञाता चेति||८६||
Hide commentary
कश्च परीक्ष्यविशेषः? कथं च परीक्षितव्यः? इति प्रश्नद्वयोत्तरं दातुमाह- तस्येत्यादि| यो यो विशेष इति कारणादीनां यो यो दृष्टकर्मत्वादिः सजातीयाद्वैद्यातुरादेस्तथा विजातीयाच्च भेषजादेर्विशेष इत्यर्थः| यथा परीक्षितव्य इत्यस्योदाहरणं ‘कच्चिदहमस्य’ इत्येवं(प्रकार)ग्रन्थे वक्ष्यमाणं ज्ञेयम्| भिषज्यति चिकित्सति| सर्वथेति हिताहितसुखदुःखत्वादिना| स चेति कारणं भिषङ्न परेण परीक्षणीयः, किं त्वात्मनाऽप्यात्मानं परीक्षेतेति दर्शयति | अथ कथमात्मानं परीक्षेतेत्याह- गुणिष्वित्यादि| आत्मानं गुणयोगतया परीक्षेतेत्यर्थः| गुणत इति हेतौ पञ्चमी| कच्चिदिति इच्छाप्रकाशने| प्रतिपत्तिः उत्पन्नायामापदि झटिति कर्तव्यकरणम्||८५-८६||
Adhikarana ६९ (८७) · Śloka ८७
करणं पुनर्भेषजम्|
भेषजं नाम तद्यदुपकरणायोपकल्पते भिषजो धातुसाम्याभिनिर्वृत्तौ प्रयतमानस्य विशेषतश्चोपायान्तेभ्यः|
तद्द्विविधं व्यपाश्रयभेदात्- दैवव्यपाश्रयं, युक्तिव्यपाश्रयं चेति|
तत्र दैवव्यपाश्रयं- मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोपवासस्वस्त्ययनप्रणिपातगमनादि, युक्तिव्यपाश्रयं- संशोधनोपशमने चेष्टाश्च दृष्टफलाः|
एतच्चैव भेषजमङ्गभेदादपि द्विविधं- द्रव्यभूतमः, अद्रव्यभूतं च|
तत्र यदद्रव्यभूतं तदुपायाभिप्लुतम्|
उपायो नाम भयदर्शनविस्मापनविस्मारणक्षोभणहर्षणभर्त्सनवधबन्धस्वप्नसंवाहनादिरमूर्तो भावविशेषो यथोक्ताः सिद्ध्युपायाश्चोपायाभिप्लुता इति|
यत्तु द्रव्यभूतं तद्वमनादिषु योगमुपैति|
तस्यापीयं परीक्षा- इदमेवम्प्रकृत्यैवङ्गुणमेवम्प्रभावमस्मिन् देशे जातमस्मिन्नृतावेवं गृहीतमेवं निहितमेवमुपस्कृतमनया च मात्रया युक्तमस्मिन् व्याधावेवंविधस्य पुरुषस्यैवतावन्तं दोषमपकर्षत्युपशमयति वा, यदन्यदपि चैवंविधं भेषजं भवेत्तच्चानेन विशेषेण युक्तमिति||८७||
Hide commentary
विशेषतश्चोपायान्तेभ्य इत्यनेन कार्ययोनिप्रवृत्तिदेशकालोपायेभ्योऽन्यद्यद्यत् कर्तुरुपकरणं भवति तत् करणमिति दर्शयति| कार्ययोनिर्हि लोके विकार्यकर्मतया साधकतमात् करणात् पृथगुच्यते, प्रवृत्त्युपाययोस्तु कर्तृकरणादिधर्मत्वेन न करणसञ्ज्ञा, देशकालौ तु न साधकतमौ; तेनोपायान्तेभ्यो यथोक्तविशेषेण यत् कर्तुरुपकरणं भवति, तत् करणम्| अत्र दैवव्यपाश्रययुक्तिव्यपाश्रयद्वैविध्ये तु सत्त्वावजयोऽपि भेषजमवरुद्धं ज्ञेयं; सत्त्वावजयो हि दृष्टद्वारोपकारी युक्तिव्यपाश्रये, तथाऽदृष्टद्वारोपकारी तु दैवव्यपाश्रये प्रविशति| अत एवोक्तं युक्तिव्यपाश्रयव्याकरणे- चेष्टाश्च दृष्टफला इति| चेष्टाशब्देन मनश्चेष्टाऽपि सत्त्वावजयलक्षणा गृह्यते| पुनरौषधस्य प्रकारान्तरेण द्वैविध्यमाह- अङ्गभेदादित्यादि| अङ्गं शरीरं स्वरूपमिति यावत्; तेन स्वरूपभेदादित्यर्थः| द्रव्यभूतं द्रव्यरूपम् एवमद्रव्यरूपम्| उपायाभिप्लुतमिति उपायव्याप्तम्, उपायग्रहणगृहीतमिति यावत्| एवं मन्यते- भयादयोऽमूर्ता भावा न साक्षादारोग्यकारणानि भवन्ति, किं तर्हि शरीरस्थितानेव वातादीन् तथा कुर्वन्ति समत्वेनोत्पाद्यमानान् येनारोग्यं भवति, न ह्यमूर्तानि मूर्तानां शरीरधातूनामुत्पत्तौ समवायिकारणानि भवन्ति; भेषजं तु द्रव्यभूतं समशरीरोत्पादे समवायिकारणं भवत्येव, तेन द्रव्यस्यारोग्यं प्रति साधकतमत्वं साधुः अमूर्तानां तु भयादीनां न भेषजवत् साधकतमत्वमिति कृत्वा द्रव्यजन्य एव धातुसाम्ये तेषामुपायत्वं युक्तम्| एवं सूक्ष्मया बुद्ध्या भयादीनामुपायत्वं, स्थूलया तु बुद्ध्या भेषजत्वमपीति कृत्वा भयादिषु भेषजव्यवहारश्चाचार्याभिमतो द्विविधभेषजेऽर्थेऽद्रव्यभूतभयादिग्रहणादुन्नीयते | न केवलमद्रव्यभूतं भेषजमुपायव्याप्तं, किं त्वन्येऽपि परिचारकादय उपायग्रहणगृहीता एवेत्याह- यथोक्ताः सिद्ध्युपायाश्चेति| यथोक्ताः सिद्ध्युपायाः परिचारकादयोऽत्र दशविधपरीक्ष्ये साक्षादनुक्तास्तेऽपि उपायाभिप्लुता एवेत्यर्थः| किंवा उपायाभिप्लुतमिति उपायमिश्रितम्| तत्र भयाद्यमूर्तभेषज एव यथोक्ता उपायाः कारणादिसौष्ठवसम्यगभिविधानरूपा अद्रव्यभूतभेषजपक्षगृहीता इत्यर्थः| तेन, भयादिषु तथोपायशब्दाभिधेयेषु च अद्रव्यभूतभेषजशब्दप्रयोगो भवतीति दर्शयति| ये तु ‘उपायान्ताभिप्लुतम्’ इति पठन्ति, ते देशकालावेव अद्रव्यभूतभेषजमिति वदन्ति; वदन्ति च द्रव्यशब्देन क्वाथकल्काद्युपयोजनीयं द्रव्यमुच्यते इति| एतच्च नातिमनोहारि| अनेन चेति साधनभूतेन च ‘एवम्प्रकृत्या’ इत्यादिनोक्तेन तथा साध्येन च ‘एवंविधस्य पुरुषस्य’ इत्यादिनोक्तेन विशेषेण युक्तमभूदित्यर्थः||८७||
Adhikarana ७० (८८) · Śloka ८८
कार्ययोनिर्धातुवैषम्यं, तस्य लक्षणं विकारागमः|
परीक्षा त्वस्य विकारप्रकृतेश्चैवोनातिरिक्तलिङ्गविशेषावेक्षणं विकारस्य च साध्यासाध्यमृदुदारुणलिङ्गविशेषावेक्षणमिति||८८||
Hide commentary
तस्य लक्षणं धातुवैषम्यस्य प्रत्यात्मरूपमित्यर्थः| विकारप्रकृतेरिति विकारकारणस्य दोषस्येत्यर्थः||८८||
Adhikarana ७१ (८९) · Śloka ८९
कार्यं धातुसाम्यं, तस्य लक्षणं विकारोपशमः|
परीक्षा त्वस्य- रुगुपशमनं, स्वरवर्णयोगः, शरीरोपचयः, बलवृद्धिः, अभ्यवहार्याभिलाषः, रुचिराहारकाले, अभ्यवहृतस्य चाहारस्य काले सम्यग्जरणं, निद्रालाभो यथाकालं, वैकारिणां च स्वप्नानामदर्शनं, सुखेन च प्रतिबोधनं, वातमूत्रपुरीषरेतसां मुक्तिः, सर्वाकारैर्मनोबुद्धीन्द्रियाणां चाव्यापत्तिरिति||८९||
Hide commentary
सर्वाकारैरिति सर्वशुभलक्षणैः||८९||
Adhikarana ७२ (९०) · Śloka ९०
कार्यफलं सुखावाप्तिः, तस्य लक्षणं- मनोबुद्धीन्द्रियशरीरतुष्टिः||९०||
Hide commentary
सुखावाप्तिरिति आत्मगुणसुखप्राप्तिः||९०||
Adhikarana ७३ (९१) · Śloka ९१
अनुबन्धस्तु खल्वायुः, तस्य लक्षणं- प्राणैः सह संयोगः||९१||
Hide commentary
प्राणैः सह संयोग इति प्राणलक्षणेन वायुना योग इत्यर्थः| तेन प्राणशब्दस्यायुषो भिन्नार्थत्वाल्लक्ष्यलक्षणयोरभेदः ||९१||
Adhikarana ७४ (९२-९३) · Śloka ९३
देशस्तु भूमिरातुरश्च||९२||
तत्र भूमिपरीक्षा आतुरपरिज्ञानहेतोर्वा स्यादौषधपरिज्ञानहेतोर्वा|
तत्र तावदियमातुरपरिज्ञानहेतोः|
तद्यथा- अयं कस्मिन् भूमिदेशे जातः संवृद्धो व्याधितो वा; तस्मिंश्च भूमिदेशे मनुष्याणामिदमाहारजातम्, इदं विहारजातम्, इदमाचारजातम्, एतावच्च बलम्, एवंविधं सत्त्वम्, एवंविधं सात्म्यम्, एवंविधो दोषः, भक्तिरियम्, इमे व्याधयः, हितमिदम्, अहितमिदमिति प्रायोग्रहणेन |
औषधपरिज्ञानहेतोस्तु कल्पेषु भूमिपरीक्षा वक्ष्यते||९३||
Hide commentary
क्रमप्राप्तं देशमाह- देश इत्यादि| आतुरशब्देनेह शङ्क्यमानातुर्यतया स्वस्थवृत्तोपपादनीयः स्वस्थोऽपि गृह्यते| सोऽपि परीक्ष्यत एव स्वस्थवृत्तप्रयोगार्थम्| परिशब्दो विशेषार्थः, तेनातुरस्य सकलदेशकृतविशेषेण ज्ञानमातुरपरिज्ञानम्| एवं भेषजपरिज्ञानेऽपि देशकृतविशेषज्ञानं परिज्ञानं बोद्धव्यम्| संवृद्ध इति वर्धितः| एवंविधं सात्म्यमिति ओकसात्म्यमित्यर्थः| इदं हितमित्यनेन च देशापेक्षया विपरीतगुणसात्म्यं ब्रूते| प्रायोग्रहणेनेति च्छेदः, प्रायोग्रहणेन नैकान्ततः परीक्षेतेति योजना| प्रायःशब्देन च देशेनाहाराद्यनुमानं न निश्चितं किं तु प्रायोभावीति दर्शयति| कल्पेष्विति मदनादिकल्पेषु| तत्र च यद्यपि प्रथम एव कल्पे भूमिपरीक्षा वक्तव्या, तथाऽप्यन्तरकल्पेष्वपि तदर्थस्यातिदेशेन कथनाद्बहुवचनं कृतम्, उत्तरकल्पवक्तव्यान्यपि हि द्रव्याणि यथोक्त एव देशे ग्राह्याणीति दर्शनार्थम्||९२-९३||
Adhikarana ७५ (९४) · Śloka ९४
आतुरस्तु खलु कार्यदेशः|
तस्य परीक्षा आयुषः प्रमाणज्ञानहेतोर्वा स्याद्, बलदोषप्रमाणज्ञानहेतोर्वा|
तत्र तावदियं बलदोषप्रमाणज्ञानहेतोः; दोषप्रमाणानुरूपो हि भेषजप्रमाणविकल्पो बलप्रमाणविशेषापेक्षो भवति|
सहसा ह्यतिबलमौषधमपरीक्षकप्रयुक्तमल्पबलमातुरमतिपातयेत्; न ह्यतिबलान्याग्नेयवायवीयान्यौषधान्यग्निक्षारशस्त्रकर्माणि वा शक्यन्तेऽल्पबलैः सोढुम्; असह्यातितीक्ष्णवेगत्वाद्धितानि सद्यःप्राणहराणि स्युः|
एतच्चैव कारणमपेक्षमाणा हीनबलमातुरमविषादकरैर्मृदुसुकुमारप्रायैरुत्तरोत्तरगुरुभिरविभ्रमैरनात्ययिकैश्चोपचरन्त्यौषधैः; विशेषतश्च नारीः, ता ह्यनवस्थितमृदुविवृतविक्लवहृदयाः प्रायः सुकुमार्योऽबलाः परसंस्तभ्याश्च|
तथा बलवति बलवद्व्याधिपरिगते स्वल्पबलमौषधमपरीक्षकप्रयुक्तमसाधकमेव भवति|
तस्मादातुरं परीक्षेत प्रकृतितश्च, विकृतितश्च, सारतश्च, संहननतश्च, प्रमाणतश्च, सात्म्यतश्च, सत्त्वतश्च, आहारशक्तितश्च, व्यायामशक्तितश्च, वयस्तश्चेति, बलप्रमाणविशेषग्रहणहेतोः||९४||
Hide commentary
भूमिरूपं देशमभिधायातुररूपमाह- आतुरस्तु खल्वित्यादि| कार्यदेश इति कर्तव्यधातुसाम्याधार इत्यर्थः| बलस्य दोषस्य च प्रमाणं बलदोषप्रमाणम्| इयमिति अग्रे ‘तस्मादातुरं परीक्षेत’ इत्यादिग्रन्थवक्ष्यमाणा| अथ किमर्थं बलदोषप्रमाणपरीक्षा कर्तव्येत्याह- दोषप्रमाणेत्यादि| दोषप्रमाणापेक्षया भेषजप्रमाणं क्रियते, तेनैव सम्यक् साध्यसिद्धिर्यस्माद्भवति तस्माद्बलप्रमाणपरीक्षा शरीरस्य कर्तव्येति प्रकरणार्थः| बलप्रमाणविशेषापेक्ष इति यदि बलवच्छरीरं भवति तदैव दोषप्रमाणापेक्षया महौषधप्रमाणं भवति, विपर्यये तु न भवति| एतदेव विपर्ययेण व्याकरोति- सहसेत्यादि| अल्पबले रोगिण्यपरीक्षकप्रयुक्तमेवातिमात्रं भेषजं भवतीत्युक्तं, न तु परीक्षकप्रयुक्तमिति| सद्यःप्राणहराणि स्युरिति ‘अल्पबले’ इत्यर्थाद्गृह्यते| अविषादकरं शरीरमनसोरग्लानिकरम्| उत्तरोत्तरं प्रमाणलक्षणगुरुत्वं येषां, तैः| तेन यदि दुर्बले महादोषः, स च भूरिमात्रभेषजसाध्यस्तथाऽपि तदात्वव्यापत्तिभयान्न सहसा भेषजभूयस्त्वं कर्तव्यं, किन्तूत्तरोत्तरमभ्यासवशाद्बलमपेक्ष्य भेषजभूयस्त्वं कर्तव्यमिति दर्शयति| अविभ्रमैरिति पाककालेऽप्यवैकारिकैः| अनात्ययिकैरिति न महाविपत्तिकरैः| यथोक्तगुणं भेषजं विशेषेण स्त्रीणां कर्तव्यमित्याह- विशेषत इत्यादि| हृदयशब्देन हृदयस्थं मन इति ज्ञेयम्| मृदुविवृतम् अगम्भीरम्| विक्लवं स्तोकक्लेशाभिभवनीयम्, अनेन च दुर्बलचेतस्त्वमुक्तम्| परसंस्तभ्याः न स्वयमात्मानं सत्त्वबलात् स्तम्भयन्ति| तथेत्यादिना स्वल्पप्रमाणभेषजदोषमाह| बलवद्याधिपरिगते इति वचनेन य एव बलवान् व्याधिर्बलवतः स एवानल्पभेषजासाध्यः; यस्तु बलवतोऽप्यल्पबलः सोऽल्पभेषजसाध्य एव| परीक्षाहेतुमभिधाय यथा शरीरं परीक्षणीयं तदाह- तस्मादित्यादि| बलप्रमाणविशेषग्रहणहेतोरित्यत्र देहबलं दोषबलं च सामान्येन गृह्यते| येन विकृतितः शरीरज्ञानं दोषबलज्ञानहेतोर्भवति, तदेव ‘प्रकृत्यादीनां विकृतिवर्ज्यानां’ इत्यादिना वक्ष्यति| किंवा बलं शरीरबलमेवोच्यते; तत्र च विकृतिबलेनापि शरीरबलं बुध्यत इति कृत्वा इह सामान्येनोक्तम्, उत्तरत्र तु विकृत्या दोषप्रमाणं प्रायो विज्ञायत इति कृत्वा ‘विकृतिबलत्रैविध्येन दोषबलत्रैविध्यमनुमीयते ’ इत्युक्तम्||९४||
Adhikarana ७६ (९५) · Śloka ९५
तत्र प्रकृत्यादीन् भावाननुव्याख्यास्यामः |
तद्यथा- शुक्रशोणितप्रकृतिं, कालगर्भाशयप्रकृतिं, आतुराहारविहारप्रकृतिं, महाभूतविकारप्रकृतिं च गर्भशरीरमपेक्षते|
एतानि हि येन येन दोषेणाधिकेनैकेनानेकेन वा समनुबध्यन्ते, तेन तेन दोषेण गर्भोऽनुबध्यते; ततः सा सा दोषप्रकृतिरुच्यते मनुष्याणां गर्भादिप्रवृत्ता|
तस्माच्छ्लेष्मलाः प्रकृत्या केचित्, पित्तलाः केचित्, वातलाः केचित्, संसृष्टाः केचित्, समधातवः केचिद्भवन्ति|
तेषां हि लक्षणानि व्याख्यास्यामः||९५||
Hide commentary
प्रकृतिमिति स्वभावम्| एतानीति शुक्रादीनि| अत्र शुक्रे शोणिते वा यादृगवस्थो दोषस्तादृग्गर्भे प्रकृतिर्भवति; तथा शुक्रशोणितमेलककाले ऋतुरूपे यो दोष उत्कटो भवति, स प्रकृतिमारभते; एवं गर्भाशयस्थश्च दोषः; मातुराहारविहारौ तत्कालीनौ यद्दोषकरणस्वभावौ, सा च प्रकृतिर्गर्भशरीरे भवति| एषु च प्रकृत्यारम्भकेषु कारणेषु यद्बलवद्भवति कारणान्तरबृंहितं च, तदेव प्रकृत्यारम्भकं भवति| कालादयश्च शुक्रशोणितमेव कुर्वन्तः प्रकृतिजनका भवन्तीति तन्त्रान्तरे शुक्रशोणितगतदोषेणैव प्रकृत्युत्पादो दर्शितः| गर्भादिप्रवृत्तेति गर्भस्यादिमेलके प्रवृत्ता| अत्र च समैर्दोषैर्वृद्धैर्गर्भजन्मैव न भवतीति विकृतदोषत्रयप्रकृतेरनभिधानादिति ज्ञेयम्| प्रकृतिविकारश्च सूत्रस्थान एव व्याकृतः ||९५||
Adhikarana ७७ (९६) · Śloka ९६
श्लेष्मा हि स्निग्धश्लक्ष्णमृदुमधुरसारसान्द्रमन्दस्तिमितगुरुशीतविज्जलाच्छः|
तस्य स्नेहाच्छ्लेष्मलाः स्निग्धाङ्गाः, श्लक्ष्णत्वाच्छ्लक्ष्णाङ्गाः, मृदुत्वाद्दृष्टिसुखसुकुमारावदातगात्राः, माधुर्यात् प्रभूतशुक्रव्यवायापत्याः, सारत्वात् सारसंहतस्थिरशरीराः, सान्द्रत्वादुपचितपरिपूर्णसर्वाङ्गाः, मन्दत्वान्मन्दचेष्टाहारव्याहाराः, स्तैमित्यादशीघ्रारम्भक्षोभविकाराः, गुरुत्वात् साराधिष्ठितावस्थितगतयः, शैत्यादल्पक्षुत्तृष्णासन्तापस्वेददोषाः, विज्जलत्वात् सुश्लिष्टसारसन्धिबन्धनाः, तथाऽच्छत्वात् प्रसन्नदर्शनाननाः प्रसन्नस्निग्धवर्णस्वराश्च भवन्ति|
त एवङ्गुणयोगाच्छ्लेष्मला बलवन्तो वसुमन्तो विद्यावन्त ओजस्विनः शान्ता आयुष्मन्तश्च भवन्ति||९६||
Hide commentary
मृदुत्वं जलकृतम्| अवदातगात्रा इति मृदुत्वादेवावदातत्वम्| अशीघ्रशब्द आरम्भादिभिः प्रत्येकमभिसम्बध्यते| सारगतयो न स्खलन्ति, अधिष्ठितगतयः सर्वेण पदेन महीमाक्रामन्ति, अवस्थितगतय इति अवस्थितत्वेन न चपला गतिर्भवति| प्रसन्ने दर्शनानने यस्य स तथा| वसुमत्त्वादि प्रकृतिरूपं यद्भवति, तत् प्रकृतिप्रभावाज्ज्ञेयम्||९६||
Adhikarana ७८ (९७) · Śloka ९७
पित्तमुष्णं तीक्ष्णं द्रवं विस्रमम्लं कटुकञ्च|
तस्यौष्ण्यात् पित्तला भवन्त्युष्णासहा, उष्णमुखाः, सुकुमारावदातगात्राः , प्रभूतविप्लुव्यङ्गतिलपिडकाः, क्षुत्पिपासावन्तः, क्षिप्रवलीपलितखालित्यदोषाः, प्रायोमृद्वल्पकपिलश्मश्रुलोमकेशाश्च; तैक्ष्ण्यात्तीक्ष्णपराक्रमाः, तीक्ष्णाग्नयः, प्रभूताशनपानाः, क्लेशासहिष्णवो, दन्दशूकाः; द्रवत्वाच्छिथिलमृदुसन्धिमांसाः, प्रभूतसृष्टस्वेदमूत्रपुरीषाश्च; विस्रत्वात् प्रभूतपूतिकक्षास्यशिरःशरीरगन्धाः; कट्वम्लत्वादल्पशुक्रव्यवायापत्याः; त एवङ्गुणयोगात् पित्तला मध्यबला मध्यायुषो मध्यज्ञानविज्ञानवित्तोपकरणवन्तश्च भवन्ति||९७||
Hide commentary
दन्दशूकाः पुनः पुनर्भक्षणशीलाः| प्रभूताशनत्वं तु बहुभक्षणत्वेन| प्रभूतः पूतिः कक्षाप्रभृतिषु गन्धो येषां ते तथा||९७||
Adhikarana ७९ (९८-९९) · Śloka ९९
वातस्तु रूक्षलघुचलबहुशीघ्रशीतपरुषविशदः|
तस्य रौक्ष्याद्वातला रूक्षापचिताल्पशरीराः प्रततरूक्षक्षामसन्नसक्तजर्जरस्वरा जागरूकाश्च भवन्ति, लघुत्वाल्लघुचपलगतिचेष्टाहारव्याहाराः, चलत्वादनवस्थितसन्ध्यक्षिभ्रूहन्वोष्ठजिह्वाशिरःस्कन्धपाणिपादाः, बहुत्वाद्बहुप्रलापकण्डरासिराप्रतानाः, शीघ्रत्वाच्छ्रीघ्रसमारम्भक्षोभविकाराः शीघ्रत्रासरागविरागाः श्रुतग्राहिणोऽल्पस्मृतयश्च, शैत्याच्छीतासहिष्णवः प्रततशीतकोद्वेपकस्तम्भाः, पारुष्यात् परुषकेशश्मश्रुरोमनखदशनवदनपाणिपादाः, वैशद्यात् स्फुटिताङ्गावयवाः सततसन्धिशब्दगामिनश्च भवन्ति; त एवङ्गुणयोगाद्वातलाः प्रायेणाल्पबलाश्चाल्पायुषश्चाल्पापत्याश्चाल्पसाधनाश्चाल्पधनाश्च भवन्ति||९८||
संसर्गात् संसृष्टलक्षणाः||९९||
Hide commentary
प्रततः प्रसृतः| सन्नः हीनः, सक्तः बद्धः, जर्जरः भग्नपात्रध्वनिसमः| सततसन्धिशब्दगामिन इति सन्धिस्फुटनशब्दवन्तः||९८-९९||
Adhikarana ८० (१००) · Śloka १००
सर्वगुणसमुदितास्तु समधातवः|
इत्येवं प्रकृतितः परीक्षेत||१००||
Hide commentary
सर्वगुणसमुदिता इति सर्वप्रकृतिषूक्तप्रशस्तगुणयुक्ताः; यदुक्तं वाग्भटे- ‘समधातुः समस्तासु श्रेष्ठा’ (वा.सू.अ.१) इति| यदि च प्रशस्तगुणवान् न स्यात्, न तदा श्रेष्ठत्वं स्यात्| साम्यस्थिताश्च दोषाः साम्यप्रभावादेव गुणान् परं कुर्वते, न दोषानिति ज्ञेयम्||१००||
Adhikarana ८१ (१०१) · Śloka १०१
विकृतितश्चेति विकृतिरुच्यते विकारः|
तत्र विकारं हेतु-दोष-दूष्य-प्रकृति-देश-काल-बलविशेषैर्लिङ्गतश्च परीक्षेत, न ह्यन्तरेण हेत्वादीनां बलविशेषं व्याधिबलविशेषोपलब्धिः|
यस्य हि व्याधेर्दोष-दूष्य-प्रकृति-देश-काल-बलसाम्यं भवति, महच्च हेतुलिङ्गबलं, स व्याधिर्बलवान् भवति; तद्विपर्ययाच्चाल्पबलः; मध्यबलस्तु दोषदूष्यादीनामन्यतमसामान्याद्धेतुलिङ्गमध्यबलत्वाच्चोपलभ्यते||१०१||
Hide commentary
साम्यं भवतीति परस्परतुल्यगुणता भवति| महच्च हेतुलिङ्गबलमिति हेतवो लिङ्गानि च बलवन्ति भूयांसि च| अन्यतमसामान्यादिति दोषादीनां येन केनचित् सामान्ये सतीत्यर्थः||१०१||
Adhikarana ८२ (१०२-११५) · Śloka ११५
सारतश्चेति साराण्यष्टौ पुरुषाणां बलमानविशेषज्ञानार्थमुपदिश्यन्ते; तद्यथा- त्वग्रक्तमांसमेदोऽस्थिमज्जशुक्रसत्त्वानीति||१०२||
तत्र स्निग्धश्लक्ष्णमृदुप्रसन्नसूक्ष्माल्पगम्भीरसुकुमारलोमा सप्रभेव च त्वक् त्वक्साराणाम्|
सा सारता सुखसौभाग्यैश्वर्योपभोगबुद्धिविद्यारोग्यप्रहर्षणान्यायुष्यत्वं चाचष्टे||१०३||
कर्णाक्षिमुखजिह्वानासौष्ठपाणिपादतलनखललाटमेहनं स्निग्धरक्तवर्णं श्रीमद्भ्राजिष्णु रक्तसाराणाम्|
सा सारता सुखमुद्धतां मेधां मनस्वित्वं सौकुमार्यमनतिबलमक्लेशसहिष्णुत्वमुष्णासहिष्णुत्वं चाचष्टे||१०४||
शङ्खललाटकृकाटिकाक्षिगण्डहनुग्रीवास्कन्धोदरकक्षवक्षःपाणिपादसन्धयः स्थिरगुरुशुभमांसोपचिता मांससाराणाम्|
सा सारता क्षमां धृतिमलौल्यं वित्तं विद्यां सुखमार्जवमारोग्यं बलमायुश्च दीर्घमाचष्टे||१०५||
वर्णस्वरनेत्रकेशलोमनखदन्तौष्ठमूत्रपुरीषेषु विशेषतः स्नेहो मेदःसाराणाम्|
सा सारता वित्तैश्वर्यसुखोपभोगप्रदानान्यार्जवं सुकुमारोपचारतां चा चष्टे||१०६||
पार्ष्णिगुल्फजान्वरत्निजत्रुचिबुकशिरःपर्वस्थूलाः स्थूलास्थिनखदन्ताश्चास्थिसाराः|
ते महोत्साहाः क्रियावन्तः क्लेशसहाः सारस्थिरशरीरा भवन्त्यायुष्मन्तश्च||१०७||
मृद्वङ्गा बलवन्तः स्निग्धवर्णस्वराः स्थूलदीर्घवृत्तसन्धयश्च मज्जसाराः|
ते दीर्घायुषो बलवन्तः श्रुतवित्तविज्ञानापत्यसम्मानभाजश्च भवन्ति||१०८||
सौम्याः सौम्यप्रेक्षिणः क्षीरपूर्णलोचना इव प्रहर्षबहुलाः स्निग्धवृत्तसारसमसंहतशिखरदशनाः प्रसन्नस्निग्धवर्णस्वरा भ्राजिष्णवो महास्फिचश्च शुक्रसाराः|
ते स्त्रीप्रियोपभोगा बलवन्तः सुखैश्वर्यारोग्यवित्तसम्मानापत्यभाजश्च भवन्ति||१०९||
स्मृतिमन्तो भक्तिमन्तः कृतज्ञाः प्राज्ञाः शुचयो महोत्साहा दक्षा धीराः समरविक्रान्तयोधिनस्त्यक्तविषादाः सुव्यवस्थितगतिगम्भीरबुद्धिचेष्टाः कल्याणाभिनिवेशिनश्च सत्त्वसाराः|
तेषां स्वलक्षणैरेव गुणा व्याख्याताः||११०||
तत्र सर्वैः सारैरुपेताः पुरुषा भवन्त्यतिबलाः परमसुखयुक्ताः क्लेशसहाः सर्वारम्भेष्वात्मनि जातप्रत्ययाः कल्याणाभिनिवेशिनः स्थिरसमाहितशरीराः सुसमाहितगतयः सानुनादस्निग्धगम्भीरमहास्वराः सुखैश्वर्यवित्तोपभोगसम्मानभाजो मन्दजरसो मन्दविकाराः प्रायस्तुल्यगुणविस्तीर्णापत्याश्चिरजीविनश्च||१११||
अतो विपरीतास्त्वसाराः||११२||
मध्यानां मध्यैःसारविशेषैर्गुणविशेषा व्याख्याता भवन्ति||११३||
इति साराण्यष्टौ पुरुषाणां बलप्रमाणविशेषज्ञानार्थमुपदिष्टानि भवन्ति||११४||
कथं नु शरीरमात्रदर्शनादेव भिषङ्मुह्येदयमुपचितत्वाद्बलवान्, अयमल्पबलः कृशत्वात्, महाबलोऽयं महाशरीरत्वात्, अयमल्पशरीरत्वादल्पबल इति; दृश्यन्ते ह्यल्पशरीराः कृशाश्चैके बलवन्तः; तत्र पिपीलिकाभारहरणवत् सिद्धिः|
अतश्च सारतः परीक्षेतेत्युक्तम् ||११५||
Hide commentary
सारतश्चेत्यादौ सारशब्देन विशुद्धतरो धातुरुच्यते| सप्रभेवेति प्रभायुक्ता त्वक्| त्वक्साराणामिति च्छेदः| अथेयं सारता किं करोतीत्याह- सा सारतेत्यादि| एवमन्यत्रापि सा सारतेत्यादि व्याख्यातव्यम्| श्रीमदिति शोभायुक्तम्| अरत्निः कफोणिका| शिखरदशना इति शोभनदशनाः| स्त्रीप्रिय उपभोगः सम्भोगो येषां ते तथा| समरे विक्रम्य युध्यन्तीति समरविक्रान्तयोधिनः| स्वस्थिता इति न परस्थिताः| तुल्यगुणविस्तीर्णापत्या इति जनितात्मसदृशापत्याः| प्रायःशब्दो नियमेन निषेधयति| मध्यानामिति स्तोकसाराणाम्| मध्यैः सारविशेषैरिति ये तत्र सम्भवन्ति सारास्तद्युक्तैः सारगुणैरित्यर्थः| उपचितत्वादिति स्थूलत्वात्| महाशरीरत्वादिति अतिप्रमाणशरीरत्वात्| पिपीलिकाभारहरणवदिति स्वल्पाः पिपीलिका यथा सारशरीरत्वेन महान्तं भारं नयन्ति, तथाऽल्पकृशशरीरा इत्यर्थः||१०२-११५||
Adhikarana ८३ (११६) · Śloka ११६
संहननतश्चेति संहननं, संहतिः , संयोजनमित्येकोऽर्थः|
तत्र समसुविभक्तास्थि, सुबद्धसन्धि, सुनिविष्टमांसशोणितं, सुसंहतं शरीरमित्युच्यते|
तत्र सुसंहतशरीराः पुरुषा बलवन्तः, विपर्ययेणाल्पबलाः, मध्यत्वात् संहननस्य मध्यबला भवन्ति||११६||
Hide commentary
संहतिरिति निबिडसन्धानतेत्यर्थः||११६||
Adhikarana ८४ (११७) · Śloka ११७
प्रमाणतश्चेति शरीरप्रमाणं पुनर्यथास्वेनाङ्गुलिप्रमाणेनोपदेक्ष्यते उत्सेधविस्तारायामैर्यथाक्रमम्|
तत्र पादौ चत्वारि षट् चतुर्दशाङ्गुलानि, जङ्घे त्वष्टादशाङ्गुले षोडशाङ्गुलपरिक्षेपे च, जानुनी चतुरङ्गुले षोडशाङ्गुलपरिक्षेपे, त्रिंशदङ्गुलपरिक्षेपावष्टादशाङ्गुलावूरु, षडङ्गुलदीर्घौ वृषणावष्टाङ्गुलपरिणाहौ, शेफः षडङ्गुलदीर्घं पञ्चाङ्गुलपरिणाहं, द्वादशाङ्गुलिपरिणाहो भगः, षोडशाङ्गुलविस्तारा कटी, दशाङ्गुलं बस्तिशिरः, दशाङ्गुलविस्तारं द्वादशाङ्गुलमुदरं, दशाङ्गुलविस्तीर्णे द्वादशाङ्गुलायामे पार्श्वे, द्वादशाङ्गुलं स्तनान्तरं, द्व्यङ्गुलं स्तनपर्यन्तं, चतुर्विशत्यङ्गुलविशालं द्वादशाङ्गुलोत्सेधमुरः, द्व्यङ्गुलं हृदयम्, अष्टाङ्गुलौ स्कन्धौ, षडङ्गुलावंसौ, षोडशाङ्गुलौ प्रबाहू, पञ्चदशाङ्गुलौ प्रपाणी, हस्तौ द्वादशाङ्गुलौ , कक्षावष्टाङ्गुलौ, त्रिकं द्वादशाङ्गुलोत्सेधम्, अष्टादशाङ्गुलोत्सेधं पृष्ठं, चतुरङ्गुलोत्सेधा द्वाविंशत्यङ्गुलपरिणाहा शिरोधरा, द्वादशाङ्गुलोत्सेधं चतुर्विंशत्यङ्गुलपरिणाहमाननं, पञ्चाङ्गुलमास्यं, चिबुकौष्ठकर्णाक्षिमध्यनासिकाललाटं चतुरङ्गुलं, षोडशाङ्गुलोत्सेधं द्वात्रिंशदङ्गुलपरिणाहं शिरः; इति पृथक्त्वेनाङ्गावयवानां मानमुक्तम्|
केवलं पुनःशरीरमङ्गुलिपर्वाणि चतुरशीतिः|
तदायामविस्तारसमं समुच्यते|
तत्रायुर्बलमोजः सुखमैश्वर्यं वित्तमिष्टाश्चापरे भावा भवन्त्यायत्ताः प्रमाणवति शरीरे; विपर्ययस्त्वतो हीनेऽधिके वा||११७||
Hide commentary
प्रमाणतश्चेत्यादिना प्रशस्तं प्रमाणमङ्गावयवानामाह| पादौ उत्सेधेन चत्वारि, विस्तारेण षट्, दैर्घ्येण चतुर्दशाङ्गुलानीति यथाक्रमं भवतः| जङ्घा जान्वधस्तादुच्यते| परिक्षेपः परिणाहः| जानुः जङ्घोरुसन्धिः| परिणाहपरिमाणं च यदुच्यते तन्मध्यस्थानस्य, तेनासमपरिणाहमानेषु जङ्घादिषु मध्यस्थानमेतज्ज्ञेयम्| कठ्या उत्सेधपरिमाणं नोक्तं, तस्या उत्सेधस्योर्वन्तराधिसन्धित्वेन पृथगुत्सेधप्रमाणस्याविद्यमानत्वात्| प्रबाहुरंसादर्वाक् कफोणिपर्यन्तम्| प्रपाणिः कफोण्यधस्तात्| त्रिकमिति गुदास्थ्नः प्रभृति कटीकपालोर्ध्वपर्यन्तम्| चिबुकं च ओष्ठश्च कर्णौ च अक्षिमध्यं च नासिका च ललाटं च प्रति प्रति चतुरङ्गुलम्| षडङ्गुलोत्सेधं शिर इति पृष्ठमनु ग्रीवाया उपरि ज्ञेयम्| केवलमिति पादतलात् प्रभृति शिरःपर्यन्तं चतुरशीत्यङ्गुलं भवति, एवं सार्धत्रिहस्तप्रमाणत्वं शरीरस्य स्वहस्तेन भवति| अत्र च प्रत्यवयवोत्सेधेन चतुरशीत्यङ्गुलादधिकं यच्छरीरं भवति, तदवयवानामवयवान्तरदैर्ध्यानुप्रविष्टानां ग्रहणात्; तेन प्रत्यवयवदैर्ध्यमानेन न चतुरशीत्यङ्गुलं गणनीयं किं तु समुदितमेव शरीरम्| तत्र पादस्याङ्गुलानि चत्वारि, जङ्घाया अष्टादश, जानुनश्चत्वारि, ऊर्वोरष्टादश, पृष्ठस्याष्टादश, ग्रीवायाश्चत्वारि, शिरसः षट्, एवं चतुरशीत्यङ्गुलानि घटन्ते| सुश्रुतेन समं योऽत्र मानविरोधः सोऽत्राङ्गुलिमानभेदाच्छमयितव्यः| तत्र हि सविंशमङ्गुलिशतं पुरुषमानमुक्तम्| तेन तत्राङ्गुलि(ल)मानमेवाल्पं ज्ञेयम्| आयामविस्तारसममिति यथोक्तप्रत्यवयवायामविस्तारयुक्तं; किंवा, यावताऽऽयामेन चतुरशीत्यङ्गुलं, तावद्यदि विस्तृतबाहुद्वयप्रमाणेन च विस्तारेण शरीरं भवति, तदा आयामविस्तारसमं भवति| तत्रेति यथोक्तप्रमाणवति शरीरे इति योजनीयम्| हीने इति हीनप्रमाणे| अधिके इति अधिकप्रमाणे||११७||
Adhikarana ८५ (११८) · Śloka ११८
सात्म्यतश्चेति सात्म्यं नाम तद्यत् सातत्येनोपसेव्यमानमुपशेते|
तत्र ये घृतक्षीरतैलमांसरससात्म्याः सर्वरससात्म्याश्च ते बलवन्तः क्लेशसहाश्चिरजीविनश्च भवन्ति, रूक्षसात्म्याः पुनरेकरससात्म्याश्च ये ते प्रायेणाल्पबला अल्पक्लेशसहा अल्पायुषोऽल्पसाधनाश्च भवन्ति, व्यामिश्रसात्म्यास्तु ये ते मध्यबलाः सात्म्यनिमित्ततो भवन्ति||११८||
Hide commentary
सात्म्यतश्चेत्यत्र सात्म्यशब्देन ओकसात्म्यमुच्यते, प्रकृतिसात्म्यादीनां भेषजादिपरीक्षयैव परीक्षितत्वादिति ज्ञेयम्| अल्पसाधना इति अल्पभेषजाः, एकरससात्म्यानां पञ्चरसा असात्म्यत्वेनापथ्या इति भावः||११८||
Adhikarana ८६ (११९) · Śloka ११९
सत्त्वतश्चेति सत्त्वमुच्यते मनः|
तच्छरीरस्य तन्त्रकमात्मसंयोगात्|
तत् त्रिविधं बलभेदेन- प्रवरं, मध्यम्, अवरं चेति; अतश्च प्रवरमध्यावरसत्त्वाः पुरुषा भवन्ति|
तत्र प्रवरसत्त्वाः सत्त्वसारास्ते सारेषूपदिष्टाः, स्वल्पशरीरा ह्यपि ते निजागन्तुनिमित्तासु महतीष्वपि पीडास्वव्यथा दृश्यन्ते सत्त्वगुणवैशेष्यात्; मध्यसत्त्वास्त्वपरानात्मन्युपनिधाय संस्तम्भयन्त्यात्मनाऽऽत्मानं परैर्वाऽपि संस्तभ्यन्ते; हीनसत्त्वास्तु नात्मना नापि परैः सत्त्वबलं प्रति शक्यन्ते उपस्तम्भयितुं, महाशरीरा ह्यपि ते स्वल्पानामपि वेदनानामसहा दृश्यन्ते, सन्निहितभयशोकलोभमोहमाना रौद्रभैरवद्विष्टबीभत्सविकृतसङ्कथास्वपि च पशुपुरुषमांसशोणितानि चावेक्ष्य विषादवैवर्ण्यमूर्च्छोन्मादभ्रमप्रपतनानामन्यतममाप्नुवन्त्यथवा मरणमिति||११९||
Hide commentary
तन्त्रकमिति प्रेरक धारकं च| ते सारेषूपदिष्टा इति य एव सत्त्वसारास्त एव प्रवरसत्त्वा इति ज्ञेया इत्यर्थः| सत्त्वगुणवैशेष्यादिति सत्त्वगुणेन संस्तम्भितवेदनाविकारत्वादव्यथा इव दृश्यन्त इत्यर्थः| परानात्मन्युपनिधायेति परं वेदनासहं दृष्ट्वा, ‘चेदयं वेदनासहस्तदहमपि वेदनासहो भवामि’ इति कृत्वा वेदनां सहत इत्यर्थः||११९||
Adhikarana ८७ (१२०) · Śloka १२०
आहारशक्तितश्चेति आहारशक्तिरभ्यवहरणशक्त्या जरणशक्तया च परीक्ष्या; बलायुषी ह्याहारायत्ते||१२०||
Hide commentary
जरणशक्त्या चेतिवचनाद्यो बहु भुङ्क्ते परिणमयति च, असावाहारशक्तिमानिहोच्यते, न तु वस्तुगपरिणतिगृहीतः||१२०||
Adhikarana ८८ (१२१) · Śloka १२१
व्यायामशक्तितश्चेति व्यायामशक्तिरपि कर्मशक्त्या परीक्ष्या|
कर्मशक्त्या ह्यनुमीयते बलत्रैविध्यम् ||१२१||
Hide commentary
कर्म भारवहनादि, तत्र शक्तिः कर्मशक्तिः||१२१||
Adhikarana ८९ (१२२) · Śloka १२२
वयस्तश्चेति कालप्रमाणविशेषापेक्षिणी हि शरीरावस्था वयोऽभिधीयते|
तद्वयो यथास्थूलभेदेन त्रिविधं- बालं, मध्यं, जीर्णमिति|
तत्र बालमपरिपक्वधातुमजातव्यञ्जनं सुकुमारमक्लेशसहमसम्पूर्णबलं श्लेष्मधातुप्रायमाषोडशवर्षं, विवर्धमानधातुगुणं पुनः प्रायेणानवस्थितसत्त्वमात्रिंशद्वर्षमुपदिष्टं; मध्यं पुनः समत्वागतबलवीर्यपौरुषपराक्रमग्रहणधारणस्मरणवचनविज्ञानसर्वधातुगुणं बलस्थितमवस्थितसत्त्वमविशीर्यमाणधातुगुणं पित्तधातुप्रायमाषष्टिवर्षमुपदिष्टम्; अतः परं हीयमानधात्विन्द्रियबलवीर्यपौरुषपराक्रमग्रहणधारणस्मरणवचनविज्ञानं भ्रश्यमानधातुगुणं वायुधातुप्रायं क्रमेण जीर्णमुच्यते आवर्षशतम्|
वर्षशतं खल्वायुषः प्रमाणमस्मिन् काले; सन्ति च पुनरधिकोनवर्षशतजीविनोऽपि मनुष्याः; तेषां विकृतिवर्ज्यैः प्रकृत्यादिबलविशेषैरायुषो लक्षणतश्च प्रमाणमुपलभ्य वयसस्त्रित्वं विभजेत्||१२२||
Hide commentary
वयःस्वरूपमाह- कालेत्यादि| कालप्रमाणविशेषापेक्षिणीति कालस्य प्रमाणविशेषेण योगाद्भवतीत्यर्थः| यथास्थूलभेदेनेतिवचनाद् बालबालतराद्यवस्थाभेदादधिकमपि वयो भवतीति दर्शयति| बालो द्विविधः- अपरिपक्वधातुराषोडशवर्षात्, तथा वर्धमानधातुरात्रिशत्तमात् | तदेतयोर्बालभेदयोरुपयुक्तत्वेन भेदमाह- तत्रेत्यादि| षोडशवर्षीयो हि बालोऽल्पमृदुभेषजोपचर्यत्वादिना शास्त्रे वक्तव्यः, तदूर्ध्वं बालोऽपि नाल्पभेषजत्वादिना तथोपचर्यते| क्रमेणेति नैकदैव, षष्टिवर्षादूर्ध्वं धात्वादिहानिरिति दर्शयति| अस्मिन् काल इति कलौ| अथाधिकवर्षशतजीविनां कथं वयस्त्रित्वं विभक्तव्यमित्याह- तेषामित्यादि| प्रकृत्यादयो दश परीक्ष्या अत्रैव प्रकृतिविकृतिसारेत्यादिनोक्ताः; अत्र विकृतिवर्ज्यानामित्यनेन विकृतेः परित्यागः कृतः| तेन प्रकृतिसारादीनां बलविशेषैः प्रवरावरमध्यभेदभिन्नप्रकृत्यादिभेदेन कृतैः प्रवरावरमध्यरूपैरायुषः प्रमाणं प्रवरावराद्युपलभ्य वयस्त्रित्वं विभजनीयम्| एतेन यस्य प्रकृतिबलमुत्तमं श्लेष्मप्रकृतेः समप्रकृतेर्वा तस्यायुदीर्घं भवति, हीने तु प्रकृतिबले हीनम्; एवं सारादावपि ज्ञेयम्| एवं वयःप्रकृत्यादीनां सर्वेषामेवोत्तमेन बलेन युक्तः स शताधिकं जीवति| तेन, तस्य विंशतिवर्षाधिकशतं यद्यायुरुपलभ्यते, तदा पूर्वोक्तवयोविभागानुमानादाषट्त्रिंशद्वर्षाणि स बालो भवति, द्विसप्ततिवर्षश्च स मध्यः, शेषे तु वृद्धः; यस्तु प्रकृत्यादीनां मध्यमत्वेनाल्पायुरशीतिवर्षोऽवधार्यते, स पञ्चविंशतिवर्षाणि बालः, पञ्चाशतं मध्यः, ततो वृद्ध इत्यादि विभजनीयम्| न केवलं प्रकृत्यादिनाऽऽयुरवधार्यं, किन्त्वायुर्लक्षणैरपि शरीरप्रतिबद्धैः शारीरे वक्तव्यैरित्याह - आयुषो लक्षणतश्चेति| आयुर्लक्षणेनापि वयोऽवधार्य बाल्यादिवयोविभागः कर्तव्य इत्यर्थः| अयं च स्तोकन्यूनाधिकशतायुषां बाल्यादिविभागः कर्तव्यः; येषां तु विंशतिवर्षादि परमायुषो मानं न तेषां तदनुमानेन वयोभेदः, ते ह्यप्राप्तमध्यावस्था एव म्रियन्ते||१२२||
Adhikarana ९० (१२३) · Śloka १२३
एवं प्रकृत्यादीनां विकृतिवर्ज्यानां भावानां प्रवरमध्यावरविभागेन बलविशेषं विभजेत्|
विकृतिबलत्रैविध्येन तु दोषबलं त्रिविधमनुमीयते|
ततो भैषज्यस्य तीक्ष्णमृदुमध्यविभागेन त्रैविध्यं विभज्य यथादोषं भैषज्यमवचारयेदिति||१२३||
Hide commentary
प्रकृत्यादिविभागेन शरीरबलपरीक्षामुक्तामुपसंहरति- एवमित्यादि| दोषबलं तु यथा शरीररूपदेशपरीक्षया परीक्ष्यं तदाह- विकृतिबलेत्यादि||१२३||
Adhikarana ९१ (१२४) · Śloka १२४
आयुषः प्रमाणज्ञानहेतोः पुनरिन्द्रियेषु जातिसूत्रीये च लक्षणान्युपदेक्ष्यन्ते||१२४||
Hide commentary
शरीरबलदोषबलपरीक्षार्थं शरीरपरीक्षां प्रतिज्ञातामभिधाय पुनरायुः प्रमाणज्ञानार्थं शरीरपरीक्षामतिदिशति- आयुष इत्यादि| इन्द्रियेष्विति इन्द्रियस्थानाध्यायेषु| तत्रेन्द्रिये वर्णादिविकृत्या रिष्टरूपया ह्रसितमायुर्ज्ञातव्यं, जातिसूत्रीये शारीरे च जन्मप्रतिबद्धैर्लक्षणैर्दीर्घायुष्ट्वमल्पायुष्ट्वं च ज्ञातव्यम् ||१२४||
Adhikarana ९२ (१२५) · Śloka १२५
कालः पुनः संवत्सरश्चातुरावस्था च|
तत्र संवत्सरो द्विधा त्रिधा षोढा द्वादशधा भूयश्चाप्यतः प्रविभज्यते तत्तत्कार्यमभिसमीक्ष्य|
अत्र खलु तावत् षोढा प्रविभज्य कार्यमुपदेक्ष्यते- हेमन्तो ग्रीष्मो वर्षाश्चेति शीतोष्णवर्षलक्षणास्त्रय ऋतवो भवन्ति, तेषामन्तरेष्वितरे साधारणलक्षणास्त्रय ऋतवः- प्रावृट्शरद्वसन्ता इति|
प्रावृडिति प्रथमः प्रवृष्टः कालः, तस्यानुबन्धो हि वर्षाः|
एवमेते संशोधनमधिकृत्य षट् विभज्यन्ते ऋतवः||१२५||
Hide commentary
देशपरीक्षां समाप्य कालपरीक्षामाह- काल इत्यादि| संवत्सरोऽयनभेदेन द्विविधः, शीतोष्णवर्षभेदेन त्रिविधः, ऋतुभेदेन षोढा, मासभेदेन द्वादशधा, पक्षभेदाच्चतुर्विंशतिधा , प्रहरादिनाऽनेकधेति ज्ञेयम्| तत्तत् कार्यमिति अयनादिज्ञेयभेदेन सम्पाद्यं कार्यमित्यर्थः| साधारण इति अनतिशीतोष्णवर्षः| प्रावृषं विभजते- प्रावृडित्यादि| प्रथमप्रवृष्टशब्देनाऽऽषाढश्रावणावुच्येते| एतच्च द्विमासमृतुभेदभागमादिं कृत्वा शेषमासद्विकेन वर्षादयो यथाक्रमं ज्ञेयाः| अयं च ऋतुक्रमो न रसोत्पत्त्यादौ, किन्तु शरीरशोधनप्रवृत्तावेवेति दर्शयता ‘संशोधनमधिकृत्य’ इत्युक्तम्, एवमेव च क्रमं सिद्धौ वक्ष्यति- “प्रावृट् शुक्रनभौ ज्ञेयौ शरदूर्जसहौ पुनः| तपस्यश्च मधुश्चैव वसन्तः शोधनं प्रति” (सि.अ.६) इति| अस्मिन्नृतुक्रमे शिशिरो नास्ति| ये तु ब्रुवते- गङ्गाया दक्षिणकूले वर्षा बहु भवति तेन तत्र प्रावृडादिक्रमः, गङ्गोत्तरकूले शीतं बहु भवति तेन तत्र हेमन्तशिशिरौ भवतः; उक्तं हि काश्यपेन- यत्- “भूयो वर्षति पर्जन्यो गङ्गाया दक्षिणे जलम्| तेन प्रावृडवर्षाख्यौ ऋतू तेषां प्रकल्पितौ|| गङ्गाया उत्तरे कूले हिमवदम्बुसङ्कुले | भूयः शीतमतस्तेषां हेमन्तशिशिरावृतू” इति| एत्तच्च न, अत्र ‘संशोधनमधिकृत्य’ इति वचनात्| यदि देशकृतोऽयं भेदः स्यात्तदा तमेव भेदकं ब्रूयात्, न संशोधनम्| तेन, काश्यपोक्तदेशभेदेन प्रावृडादिक्रमो न तावदिहाभिमतः| अविकल्पकाश्च शरीरौषधानामिति न शरीरस्य कृत्रिमतापादितगुणेन भेदकाः, तथौषधस्य च न प्रमाणोत्कर्षापकर्षभेदकारका इत्यर्थः| विकल्पकाश्च शरीरौषधानामिति यदाऽऽत्ययिकत्वेनावश्यकर्तव्या भवन्ति वमनादयः, तदौषधस्य कृत्रिमगुणोपधानेन यथावक्ष्यमाणेन, तथा शरीरस्य च विकल्पका भवन्ति||१२५||
Adhikarana ९३ (१२६-१२७) · Śloka १२७
तत्र साधारणलक्षणेष्वृतुषु वमनादीनां प्रवृत्तिर्विधीयते, निवृत्तिरितरेषु|
साधारणलक्षणा हि मन्दशीतोष्णवर्षत्वात् सुखतमाश्च भवन्त्यविकल्पकाश्च शरीरौषधानाम्, इतरे पुनरत्यर्थशीतोष्णवर्षत्वाद्दुःखतमाश्च भवन्ति विकल्पकाश्च शरीरौषधानाम्||१२६||
तत्र हेमन्ते ह्यतिमात्रशीतोपहतत्वाच्छरीरमसुखोपपन्नं भवत्यतिशीतवाताध्मातमतिदारुणीभूतमवबद्धदोषं च, भेषजं पुनः संशोधनार्थमुष्णस्वभावमतिशीतोपहतत्वान्मन्दवीर्यत्वमापद्यते, तस्मात्तयोः संयोगे संशोधनमयोगायोपपद्यते शरीरमपि च वातोपद्रवाय|
ग्रीष्मे पुनर्भृशोष्णोपहतत्वाच्छरीरमसुखोपपन्नं भवत्युष्णवातातपाध्मातमतिशिथिलमत्यर्थप्रविलीनदोषं, भेषजं पुनः संशोधनार्थमुष्णस्वभावमुष्णानुगमनात्तीक्ष्णतरत्वमापद्यते, तस्मात्तयोः संयोगे संशोधनमतियोगायोपपद्यते शरीरमपि पिपासोपद्रवाय|
वर्षासु तु मेघजलावतते गूढार्कचन्द्रतारे धाराकुले वियति भूमौ पङ्कजलपटलसंवृतायामत्यर्थोपक्लिन्नशरीरेषु भूतेषु विहतस्वभावेषु च केवलेष्वौषधग्रामेषु तोयतोयदानुगतमारुतसंसर्गाद् गुरुप्रवृत्तीनि वमनादीनि भवन्ति, गुरुसमुत्थानानि च शरीराणि|
तस्माद्वमनादीनां निवृत्तिर्विधीयते वर्षान्तेष्वृतुषु , न चेदात्ययिकं कर्म|
आत्ययिके पुनः कर्मणि काममृतुं विकल्प्य कृत्रिमगुणोपधानेन यथर्तुगुणविपरीतेन भेषजं संयोगसंस्कारप्रमाणविकल्पेनोपपाद्य प्रमाणवीर्यसमं कृत्वा ततः प्रयोजयेदुत्तमेन यत्नेनावहितः||१२७||
Hide commentary
यथा हेमन्तादिषु दुःखतमत्वं भवति तदाह- तत्र हेमन्त इत्यादि| अवबद्धदोषमिति अतिबद्धदोषम्| तयोरिति यथोक्तशरीरभेषजयोः| तोयस्य तोयदानुगतमारुतस्य च संसर्गस्तस्मात्| गुरुप्रवृत्तीनीति गुरोर्यथा न सुखकारिणी प्रवृत्तिर्भवति, तथाऽस्यापीत्यर्थः; किंवा बहुप्रतिविधेयप्रवृत्तीनि गुरुप्रवृत्तीनि| गुरुसमुत्थानानीति संशोधनक्लिष्टानि शरीराणि तदा महता प्रयत्नेन चिरेण च कालेन प्रकृतिं प्राप्नुवन्तीत्यर्थः| वर्षान्तेष्विति हेमन्तग्रीष्मवर्षासु| हेमन्तादिष्वप्यात्ययिके व्याधौ संशोधनं दर्शयन्नाह- न चेदित्यादि| विकल्प्येति अल्पगुणयुक्तं कृत्वा| कृत्रिमगुणोपधानं यथा- शीते शीतप्रतीकारार्थमुष्णसदनादिकरणम्; उक्तं चान्यत्र- “शीते शीतप्रतीकारमुष्णे चोष्णनिवारणम्| कृत्वा कुर्यात् क्रियां प्राप्तां क्रियाकालं न हापयेत्”- (सु.सू.अ.३५) इति| ऋतौ प्रतीकारं दर्शयित्वा भेषजप्रतीकारमाह- भेषजमित्यादि| संयोगविकल्पो यथा- शीते त्रिवृताया उष्णेन गोमूत्रेणालोडनं; प्रमाणविकल्पो यथा- अयोगप्रतीकारार्थमतिमात्रत्रिवृद्दानमित्यादि| अत्र च प्रमाणविकल्पस्तथा कर्तव्यो यथा प्राणाविरोधः स्यात्, तथा संयोगविकल्पश्च तथा कर्तव्यो यथा विरुद्धवीर्यभेषजमेलको न स्यादिति दर्शयन्नाह- प्रमाणवीर्यसमं कृत्वेति||१२६-१२७||
Adhikarana ९४ (१२८) · Śloka १२८
आतुरावस्थास्वपि तु कार्याकार्यं प्रति कालाकालसञ्ज्ञा; तद्यथा- अस्यामवस्थायामस्य भेषजस्याकालः , कालः पुनरन्यस्येति; एतदपि हि भवत्यवस्थाविशेषेण; तस्मादातुरावस्थास्वपि हि कालाकालसञ्ज्ञा|
तस्य परीक्षा- मुहुर्मुहुरातुरस्य सर्वावस्थाविशेषावेक्षणं यथावद्भेषजप्रयोगार्थम्|
न ह्यतिपतितकालमप्राप्तकालं वा भेषजमुपयुज्यमानं यौगिकं भवति; कालो हि भैषज्यप्रयोगपर्याप्तिमभिनिर्वर्तयति||१२८||
Hide commentary
आतुरावस्थालक्षणं कालमाह- आतुरावस्थास्वित्यादि| तत्रोदाहरणं यथा- नवज्वरे न कषायकालः, अतिक्रान्तषडहे ज्वरे कषायकाल इत्यादि| भैषज्यप्रयोगपर्याप्तिमिति भेषजप्रयोगसाध्यसिद्धिमित्यर्थः ||१२८||
Adhikarana ९५ (१२९) · Śloka १२९
प्रवृत्तिस्तु प्रतिकर्मसमारम्भः|
तस्य लक्षणं भिषगौषधातुरपरिचारकाणां क्रियासमायोगः||१२९||
Hide commentary
कालमभिधाय क्रमप्राप्तां प्रवृत्तिमाह- प्रवृत्तिस्त्वित्यादि| प्रतिकर्म चिकित्सा||१२९||
Adhikarana ९६ (१३०) · Śloka १३०
उपायः पुनर्भिषगादीनां सौष्ठवमभिविधानं च सम्यक्|
तस्य लक्षणं- भिषगादीनां यथोक्तगुणसम्पत् देशकालप्रमाणसात्म्यक्रियादिभिश्च सिद्धिकारणैः सम्यगुपपादितस्यौषधस्यावचारणमिति||१३०||
Hide commentary
परिशिष्टमुपायमाह- उपाय इत्यादि| यथोक्तगुणसम्पदित्यनेन सौष्ठवमुक्तम्||१३०||
Adhikarana ९७ (१३१) · Śloka १३१
एवमेते दश परीक्ष्यविशेषाः पृथक् पृथक् परीक्षितव्या भवन्ति||१३१||
Hide commentary
एवमित्यादिना तु सम्यगभिविधानं ब्रूते||१३१||
Adhikarana ९८ (१३२) · Śloka १३२
परीक्षायास्तु खलु प्रयोजनं प्रतिपत्तिज्ञानम्|
प्रतिपत्तिर्नाम यो विकारो यथा प्रतिपत्तव्यस्तस्य तथाऽनुष्ठानज्ञानम्||१३२||
Hide commentary
किंप्रयोजना परीक्षेत्यस्योत्तरं- परीक्षायास्त्वित्यादि| प्रतिपत्तिशब्दार्थं विभजते- य इत्यादि| प्रतिपत्तव्य इति अनुष्ठानेन योजयितव्यः||१३२||
Adhikarana ९९ (१३३) · Śloka १३३
यत्र तु खलु वमनादीनां प्रवृत्तिः, यत्र च निवृत्तिः, तद्व्यासतः सिद्धिषूत्तरमुपदेक्ष्यामः||१३३||
Hide commentary
‘क्व च वमनादीनां प्रवृत्तिः, क्व च निवृत्तिः’ इत्यस्योत्तरमतिदेशेनाह- यत्र त्वित्यादि||१३३||
Adhikarana १०० (१३४) · Śloka १३४
प्रवृत्तिनिवृत्तिलक्षणसंयोगे तु गुरुलाघवं सम्प्रधार्य सम्यगध्यवस्येदन्यतरनिष्ठायाम्|
सन्ति हि व्याधयः शास्त्रेषूत्सर्गापवादैरुपक्रमं प्रति निर्दिष्टाः|
तस्माद्गुरुलाघवं सम्प्रधार्य सम्यगध्यवस्येदित्युक्तम्||१३४||
Hide commentary
‘प्रवृत्तिनिवृत्तिलक्षणसंयोगे किं नैष्ठिकम्’ इत्यस्योत्तरं- प्रवृत्तीत्यादि| अध्यवस्येदिति अध्यवसायं कुर्यादित्यर्थः| अन्यतरनिष्ठायामिति अन्यतरपक्षव्यवस्थायाम्| अत्र गुरुलाघवे ज्ञाते गुरुप्रतिक्रियानिश्चयोऽनुक्तोऽपि ज्ञायते; तेन शास्त्रकारेण गुरुव्याधिप्रतीकारनिष्ठायामध्यवसायं कुर्यादिति साक्षान्न कृतम्| एतदेव गुरुव्याधिप्रतीकारं लघुव्याध्युपपादकेन वचनभङ्ग्यन्तरेणाह- सन्ति हीत्यादि| सम्यगध्यवस्येदिति उत्सर्गलघुं परित्यज्यापवादगुरुमुपक्रम्यतयाऽध्यवस्येत्; बलवन्तमुपद्रवं वेत्यादिना हि दुर्बलं परित्यज्य बलवच्चिकित्सामभिधास्यति||१३४||
Adhikarana १०१ (१३५) · Śloka १३५
यानि तु खलु वमनादिषु भेषजद्रव्याण्युपयोगं गच्छन्ति तान्यनुव्याख्यास्यामः|
तद्यथा- फलजीमूतकेक्ष्वाकुधामार्गवकुटजकृतवेधनफलानि, फलजीमूतकेक्ष्वाकुधामार्गवपत्रपुष्पाणि आरग्वधवृक्षकमदनस्वादुकण्टकपाठापाटलाशार्ङ्गेष्टामूर्वासप्तपर्णनक्तमालपिचुमर्दपटोलसुषवीगुडूची- चित्रकसोमवल्कशतावरीद्वीपीशिग्रुमूलकषायैः, मधुकमधूककोविदारकर्वुदारनीपविदुलबिम्बीशणपुष्पीसदापुष्पाप्रत्यक्पुष्पाकषायैश्च, एलाहरेणुप्रियङ्गुपृथ्वीकाकुस्तुम्बुरुतगरनलदह्रीवेरतालीशोशीरकषायैश्च , इक्षुकाण्डेक्ष्विक्षुवालिकादर्भपोटगलकालङ्कृ(ङ्क)तकषायैश्च, सुमनासौमनस्यायनीहरिद्रादारुहरिद्रावृश्चीरपुनर्नवामहासहाक्षुद्रसहाकषायैश्च, शाल्मलिशाल्मलिकभद्रपर्ण्येलापर्ण्युपोदिकोद्दालकधन्वनराजादनोपचित्रागोपीशृङ्गाटिकाकषायैश्च, पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरसर्षपफाणितक्षीरक्षारलवणोदकैश्च, यथालाभं यथेष्टं वाऽप्युपसंस्कृत्य वर्तिक्रियाचूर्णावलेहस्नेहकषायमांसरसयवागूयूषकाम्बलिकक्षीरोपधेयान्मोदकानन्यांश्च भक्ष्यप्रकारान् विविधाननुविधाय यथार्हं वमनार्हाय दद्याद्विधिवद्वमनम्|
इति कल्पसङ्ग्रहो वमनद्रव्याणाम्|
कल्पमेषां विस्तारेणोत्तरकालमुपदेक्ष्यामः||१३५||
Hide commentary
सम्प्रति ‘कानि च वमनादिषु भेषजद्रव्याणि योगं गच्छन्ति’ इत्यस्योत्तरं- यानीत्यादी| शार्ङ्गेष्टा गुञ्जा, सोमवल्कः खदिरः; सुषवी कारवेल्लकः| द्वीपी कण्टकारी, द्वीपिशत्रुरिति पाठे शतावरी ज्ञेया| विदुलो वेतसः, शतपुष्पा घण्टारवा, सदापुष्पा रक्तार्कः | कालङ्कृतो कासमर्दः , पोटगलो होग्गलः| सुमना जाती, सौमनस्यायनी जातिकलिका जातिकोषो वा| शाल्मलिको रोहितकः, स्वल्पशाल्मलिर्वा, भद्रपर्णी भादाली, एलापर्णी रास्ना, उद्दालः बहुवारः, गोपी सारिवा| वर्तिक्रिया वर्तिरूपदीर्घभक्ष्यकरणम्| अत्र ‘आरग्वधादि’ ‘मध्वादि’ इति पृथग्वर्गकरणं प्रायः समानगुणतां विच्छेदपाठेन दर्शयितुं कृतम्| कल्पनं कल्पः प्रयोग इत्यर्थः| उत्तरकालमिति कल्पस्थाने||१३५||
Adhikarana १०२ (१३६) · Śloka १३६
विरेचनद्रव्याणि तु श्यामात्रिवृच्चतुरङ्गुलतिल्वकमहावृक्षसप्तलाशङ्खिनीदन्तीद्रवन्तीनां क्षीरमूलत्वक्पत्रपुष्पफलानि यथायोगं तैस्तैः क्षीरमूलत्वक्पत्रपुष्पफलैर्विक्लिप्ताविक्लिप्तैः , अजगन्धाश्वगन्धाजशृङ्गीक्षीरिणीनीलिनीक्लीतककषायैश्च, प्रकीर्योदकीर्यामसूरविदलाकम्पिल्लकविडङ्गगवाक्षीकषायैश्च, पीलुप्रियालमृद्वीकाकाश्मर्यपरूषकबदरदाडिमामलकहरीतकीबिभीतकवृश्चीरपुनर्नवाविदारिगन्धादिकषायैश्च, सीधुसुरासौवीरकतुषोदकमैरेयमेदकमदिरामधुमधूलकधान्याम्लकुवलबदरखर्जूरकर्कन्धुभिश्च, दधिदधिमण्डोदश्विद्भिश्च, गोमहिष्यजावीनां च क्षीरमूत्रैर्यथालाभं यथेष्टं वाऽप्युपसंस्कृत्य वर्तिक्रियाचूर्णासवलेहस्नेहकषायमांसरसयूषकाम्बलिकयवागूक्षीरोपधेयान् मोदकानन्यांश्च भक्ष्यप्र(वि)कारान् विविधांश्च योगाननुविधाय यथार्हं विरेचनार्हाय दद्याद्विरेचनम्|
इति कल्पसङ्ग्रहो विरेचनद्रव्याणाम्|
कल्पमेषां विस्तरेण यथावदुत्तरकालमुपदेक्ष्यामः||१३६||
Hide commentary
विक्लिप्तिः द्रव्यान्तरसंयोगः, अविक्लिप्तिः केवलप्रयोगः; तेन विक्लिप्ताविक्लिप्तैरिति संयुक्तायुक्तैरित्यर्थः| क्षीरिणी दुग्धिका, क्लीतकं यष्टीमधु| मसूरविदला श्यामलता| प्रथमं तु श्यामा श्याममूला त्रिवृदेवोक्ता||१३६||
Adhikarana १०३ (१३७) · Śloka १३७
आस्थापनेषु तु भूयिष्ठकल्पानि द्रव्याणि यानि योगमुपयान्ति तेषु तेष्ववस्थान्तरेष्वातुराणां, तानि द्रव्याणि नामतो विस्तरेणोपदिश्यमानान्यपरिसङ्ख्येयानि स्युरतिबहुत्वात्; इष्टश्चानतिसङ्क्षेपविस्तरोपदेशस्तन्त्रे, इष्टं च केवलं ज्ञानं, तस्माद्रसत एव तान्यत्र व्याख्यास्यामः|
रससंसर्गविकल्पविस्तरो ह्येषामपरिसङ्ख्येयः, समवेतानां रसानामंशांशबलविकल्पातिबहुत्वात्|
तस्माद्द्रव्याणां चैकदेशमुदाहरणार्थं रसेष्वनुविभज्य रसैकैकश्येन च नामलक्षणार्थं षडास्थापनस्कन्धा रसतोऽनुविभज्य व्याख्यास्तन्ते||१३७||
Hide commentary
भूयिष्ठकल्पानीति बहुप्रयोगाणि प्रायःप्रयोज्यानि च| इष्टश्चानतिसङ्क्षेपविस्तरोपदेश इति अनतिसङ्क्षेपविस्तरेण शास्त्रे कथनमिष्टम्| इष्टं च केवलं ज्ञानमिति अनतिसङ्क्षेपविस्तराभिधानेन यदनुक्तं तस्यापि यथासामान्यद्वारा ज्ञानं भवति तदपीष्टं ग्रन्थकर्तुः श्रोतुश्चेत्यर्थः| तस्माद्रसत एवेति रसं प्राधान्येनोद्दिश्य रसाश्रयद्रव्यस्यानतिसङ्क्षेपविस्तारोपदेशेनेत्यर्थः| तानीति आस्थापनोपयोगीनि द्रव्याणि| अत्र च रसद्वारा निर्देशेऽपि रससंसर्गस्यातिबहुत्वेन कृत्स्नद्रव्यनिर्देशवदसङ्ख्येयता स्यादिति कृत्वा षड्भिरेव रसैर्निर्देशः कर्तव्य आस्थापनोपयोगिद्रव्याणामिति दर्शयन्नाह- रसेत्यादि| उदाहरणार्थमिति मधुरादिरसस्याधारभूतस्य द्रव्यस्योदाहरणार्थम्| रसेष्वनुविभज्येति रसेषु मधुरादिषु द्रव्याणामेकदेशमाधारतयोपदिश्येत्यर्थः| रसैकैकश्येनेति न रससंसर्गेण| नामलक्षणार्थं षडास्थापनस्कन्धा इति साक्षादुक्तानां जीवकादीनां नामार्थं, तथा अनुक्तानां मधुरादिद्रव्याणां तज्जातीयत्वेन लक्षणार्थमास्थापनयोगिद्रव्यसमूहा व्याख्यास्यन्त इति; किंवा, नामलक्षणार्थमिति नामज्ञानार्थम्| आस्थाप्यतेऽनेनेति आस्थापनं जीवकादिद्रव्यं; स्कन्धः समूहः| रसतोऽनुविभज्येति मधुरादिरसतया निर्दिश्येत्यर्थः||१३७||
Adhikarana १०४ (१३८) · Śloka १३८
यत्तु षड्विधमास्थापनमेकरसमित्याचक्षते भिषजः, तद्दुर्लभतमं संसृष्टरसभूयिष्ठत्वाद्द्रव्याणाम्|
तस्मान्मधुराणि मधुरप्रायाणि मधुरविपाकानि मधुरप्रभावाणि च मधुरस्कन्धे मधुराण्येव कृत्वोपदेक्ष्यन्ते, तथेतराणि द्रव्याण्यपि||१३८||
Hide commentary
अयं च मधुरादिरसेन द्रव्यगणनिर्देशो न मधुराद्येकरसस्यैव द्रव्यस्य सङ्ग्रहेण यथा परैराख्यायते तथाऽस्माभिरपीष्यते, किन्तु यत्र सत्यपि रसान्तरे मधुरादयः प्रधानं, यद्वा द्रव्यं मधुरादिकार्यकारि विपाकप्रभावात् , तदपि मधुरादिगण एवास्माभिः पठनीयमिति दर्शयन्नाह- यत्त्वित्यादि| एकरसमिति शुद्धैकरसम्| मधुरप्रायाणीति उत्कृष्टमधुररसानि| तथेतराणीति अम्लादीनि अम्लप्रायाणि अम्लपाकानि च अम्लमेव कृत्वोपदेक्ष्यामः; तथा लवणादिष्वप्येवमेव तथेतराणीतिपदेन दर्शयति||१३८||
Adhikarana १०५ (१३९) · Śloka १३९
तद्यथा- जीवकर्षभकौ जीवन्ती वीरा तामलकी काकोली क्षीरकाकोली मुद्गपर्णी माषपर्णी शालपर्णी पृश्निपर्ण्यसनपर्णी मधुपर्णी मेदा महामेदा कर्कटशृङ्गी शृङ्गाटिका छिन्नरुहा च्छत्राऽतिच्छत्रा श्रावणी महाश्रावणी सहदेवा विश्वदेवा शुक्ला क्षीरशुक्ला बलाऽतिबला विदारी क्षीरविदारी क्षुद्रसहा महासहा ऋष्यगन्धाऽश्वगन्धा वृश्चीरः पुनर्नवा बृहती कण्टकारिकोरुबूको मोरटः श्वदंष्ट्रा संहर्षा शतावरी शतपुष्पा मधूकपुष्पी यष्टीमधु मधूलिका मृद्वीका खर्जूरं परूषकमात्मगुप्ता पुष्करबीजं कशेरुकं राजकशेरुकं राजादनं कतकं काश्मर्यं शीतपाक्योदनपाकी तालखर्जूरमस्तकमिक्षुरिक्षुवालिका दर्भः कुशः काशः शालिर्गुन्द्रेत्कटकः शरमूलं राजक्षवकः ऋष्यप्रोक्ता द्वारदा भारद्वाजी वनत्रपुष्यभीरुपत्री हंसपादी काकनासिका कुलिङ्गाक्षी क्षीरवल्ली कपोलवल्ली कपोतवल्ली सोमवल्ली गोपवल्ली मधुवल्ली चेति; एषामेवंविधानामन्येषां च मधुरवर्गपरिसङ्ख्यातानामौषधद्रव्याणां छेद्यानि खण्डशश्छेदयित्वा भेद्यानि चाणुशो भेदयित्वा प्रक्षाल्य पानीयेन सुप्रक्षालितायां स्थाल्यां समावाप्य पयसाऽर्धोदकेनाभ्यासिच्य साधयेद्दर्व्या सततमवघट्टयन्; तदुपयुक्तभूयिष्ठेऽम्भसि गतरसेष्वौषधेषु पयसि चानुपदग्धे स्थालीमुपहृत्य सुपरिपूतं पयः सुखोष्णं घृततैलवसामज्जलवणफाणितोपहितं बस्तिं वातविकारिणे विधिज्ञो विधिवद्दद्यात्; शीतं तु मधुसर्पिर्भ्यामुपसंसृज्य पित्तविकारिणे विधिवद्दद्यात्|
इति मधुरस्कन्धः||१३९||
Hide commentary
वीरा जालन्धरं शाकम्| अस(श)नपर्णी अपराजिता| मधुपर्णी विकङ्कतम्| छत्रा कोकिलाक्षः| अतिच्छत्रा अरुणकोकिलाक्षः| महाश्रावणी अलम्बुषा| शुक्ला शर्करा| क्षीरशुक्ला बृहच्छृङ्गाटिका | क्षुद्रसहा कुमारी| ऋष्यगन्धा ऋष्यजाङ्गलकः, बलाभेदो वा| मोरटः मूर्वा| संहर्षा बन्दाकः| मधुकपर्णी मधुकभेदः| मधूलिका मर्कटहस्ततृणम्| राजादनं वेञ्चुलिकीति ख्यातम्| कशेरुः चिञ्चोडकः| राजकशेरुः कशेरुभेदः| शीतपाकी शीतला| ओदनपाकी नीलझिण्टी| ऋष्यप्रोक्ता बलाभेदः| द्वारदा शाकतरुः| भारद्वाजी वनकार्पासी| वनत्रपुषी बृहत्फला गोडुम्बा| अभीरुपत्री शतावरीभेदः| कुलिङ्गाक्षी पेटिका, कुलिङ्गापाठपक्षे उच्चटा| क्षीरवल्ली क्षीरलता| कपोलपल्ली ‘कवडवेण्डुआ’ इति ख्याता| कपोतवल्ली सूक्ष्मैला| सोमवल्ली सोमलता| गोपवल्ली अनन्तमूलम्| मधुवल्ली यष्टीमधुभेदः||१३९||
Adhikarana १०६ (१४०) · Śloka १४०
आम्राम्रातकलकुचकरमर्दवृक्षाम्लाम्लवेतसकुवलबदरदाडिममातुलुङ्गगण्डीरामलकनन्दीतकशीतक- तिन्तिण्डीकदन्तशठैरावतककोशाम्रधन्वनानां फलानि, पत्राणि चाम्रातकाश्मन्तकचाङ्गेरीणां चतुर्विधानां चाम्लिकानां द्वयोश्च कोलयोश्चामशुष्कयोर्द्वयोश्चैव शुष्काम्लिकयोर्ग्राम्यारण्ययोः, आसवद्रव्याणि च सुरासौवीरकतुषोदकमैरेयमेदकमदिरामधुशुक्तशीधुदधिदधिमण्डोदश्विद्धान्याम्लादीनि च, एषामेवंविधानामन्येषां चाम्लवर्गपरिसङ्ख्यातानामौषधद्रव्याणां छेद्यानि खण्डशश्छेदयित्वा भेद्यानि चाणुशो भेदयित्वा द्रवैः स्थाल्यामभ्यासिच्य साधयित्वोपसंस्कृत्य यथावत्तैलवसामज्जलवणफाणितोपहितं सुखोष्णं बस्तिं वातविकारिणे विधिज्ञो विधिवद्दद्यात्|
इत्यम्लस्कन्धः||१४०||
Hide commentary
अम्लस्कन्धे नन्दीतकः कर्परनन्दी, शीतकः अम्ललोटः, ऐरावतः नागरङ्गम्| अम्लिका कन्दप्रधाना कामरूपे प्रसिद्धा अम्लिकाभेद एवेत्याहुः| द्रवैः स्थिराणीति द्रवमज्जनात् स्थिरीभूतानीत्यर्थः(?)||१४०||
Adhikarana १०७ (१४१) · Śloka १४१
सैन्धवसौवर्चलकालविडपाक्यानूपकूप्यवालुकैलमौलकसामुद्ररोमकौद्भिदौषरपाटेयकपांशुजान्येवम्प्रकाराणि चान्यानि लवणवर्गपरिसङ्ख्यातानि, एतान्यम्लोपहितान्युष्णोदकोपहितानि वा स्नेहवन्ति सुखोष्णं बस्तिं वातविकारिणे विधिज्ञो विधिवद्दद्यात्|
इति लवणस्कन्धः||१४१||
Hide commentary
कूप्यादयो लवणभेदा देशान्तरप्रसिद्धाः; तेन देशान्तरीयेभ्यो ज्ञेयाः| रोमकं रूमानदीभवम्||१४१||
Adhikarana १०८ (१४२) · Śloka १४२
पिप्पलीपिप्पलीमूलहस्तिपिप्पलीचव्यचित्रकशृङ्गवेरमरिचाजमोदार्द्रकविडङ्गकुस्तुम्बुरुपीलुतेजोवत्येलाकुष्ठ- भल्लातकास्थिहिङ्गुनिर्यासकिलिममूलकसर्षपलशुनकरञ्जशिग्रुकमधुशिग्रुकखरपुष्पभूस्तृणसुमुखसुरसकुठेरकार्जक- गण्डीरकालमालकपर्णासक्षवकफणिज्झकक्षारमूत्रपित्तानीति; एषामेवंविधानां चान्येषां कटुकवर्गपरिसङ्ख्यातानामौषधद्रव्याणां छेद्यानि खण्डशश्छेदयित्वा भेद्यानि चाणुशो भेदयित्वा गोमूत्रेण सह साधयित्वोपसंस्कृत्य यथावन्मधुतैललवणोपहितं सुखोष्णं बस्तिं श्लेष्मविकारिणे विधिज्ञो विधिवद्दद्यात्|
इति कटुकस्कन्धः||१४२||
Hide commentary
तेजस्विनी तेजोवती| किलिमं देवदारु||१४२||
Adhikarana १०९ (१४३) · Śloka १४३
चन्दननलदकृतमालनक्तमालनिम्बतुम्बुरुकुटजहरिद्रादारुहरिद्रामुस्तमूर्वाकिराततिक्तककटुकरोहिणीत्रायमाणा- कारवेल्लिकाकरीरकरवीरकेबुककठिल्लकवृषमण्डूकपर्णीकर्कोटकवार्ताकुकर्कशकाकमाचीकाकोदुम्बरिकासुषव्यतिविषा- पटोलकुलकपाठागुडूचीवेत्राग्रवेतसविकङ्कतबकुलसोमवल्कसप्तपर्णसुमनार्कावल्गुजवचातगरागुरुवालकोशीराणीति , एषामेवंविधानां चान्येषां तिक्तवर्गपरिसङ्ख्यातानामौषधद्रव्याणां छेद्यानि खण्डशश्छेदयित्वा भेद्यानि चाणुशो भेदयित्वा प्रक्षाल्य पानीयेनाभ्यासिच्य साधयित्वोपसंस्कृत्य यथावन्मधुतैललवणोपहितं सुखोष्णं बस्तिं श्लेष्मविकारिणे विधिज्ञो विधिवद्दद्यात्, शीतं तु मधुसर्पिर्भ्यामपसंसृज्य पित्तविकारिणे विधिज्ञो विधिवद्दद्यात्|
इति तिक्तस्कन्धः||१४३||
Hide commentary
तिक्तवर्गे कर्कशः पटोलभेदः||१४३||
Adhikarana ११० (१४४) · Śloka १४४
प्रियङ्ग्वनन्ताम्रास्थ्यम्बष्ठकीकट्वङ्गलोध्रमोचरससमङ्गाधातकीपुष्पपद्मापद्मकेशरजम्ब्वाम्रप्लक्षवट- कपीतनोदुम्बराश्वत्थभल्लातकास्थ्यश्मन्तकशिरीषशिंशपासोमवल्कतिन्दुकप्रियालबदरखदिर- सप्तपर्णाश्वकर्णस्यन्दनार्जुनारिमेदैलवालुकपरिपेलवकदम्बशल्लकीजिङ्गिनीकाशकशेरुकराजकशेरुकट्फलवंश- पद्मकाशोकशालधवसर्जभूर्जशणखरपुष्पापुरशमीमाचीकवरकतुङ्गाजकर्णस्फूर्जकबिभीतककुम्भीपुष्करबीज- बिसमृणालतालखर्जूरतरुणानीति , एषामेवंविधानां चान्येषां कषायवर्गपरिसङ्ख्यातानामौषधद्रव्याणां छेद्यानि खण्डशश्छेदयित्वा भेद्यानि चाणुशो भेदयित्वा प्रक्षाल्य पानीयेनाभ्यासिच्य साधयित्वोपसंस्कृत्य यथावन्मधुतैललवणोपहितं सुखोष्णं बस्तिं श्लेष्मविकारिणे विधिज्ञो विधिवद्दद्यात्, शीतं तु मधुसर्पिर्भ्यामुपसंसृज्य पित्तविकारिणे दद्यात्|
इति कषायस्कन्धः||१४४||
Hide commentary
कषायवर्गे अश्वकर्णः प्रियालशालः, परिपेलवं कैवर्तमुस्तकं, जिङ्गिनी स्वनामख्याता, माचीकः देवदारुः, अजकर्णः शालभेदः, कुम्भी ‘कुम्भीक’ इति ख्याता, किंवा हठः, मृणालं मृणालनालिका, तालखर्जूरतरुणानीति तालखर्जूराङ्कुरा इत्यर्थः| अत्र च स्कन्धेषु यद्द्रव्यं स्कन्धद्वये पठ्यते तदुभयगुणयुक्तत्वेनोभयत्रपि योगीति ज्ञेयम्||१४४||
Adhikarana १११ (१४५-१४६) · Śloka १४६
तत्र श्लोकाः- षड्वर्गाः परिसङ्ख्याता य एते रसभेदतः|
आस्थापनमभिप्रेत्य तान्विद्यात्सार्वयौगिकान्||१४५||
सर्वशो हि प्रणिहिताः सर्वरोगेषु जानता|
सर्वान्रोगान्नियच्छन्ति येभ्य आस्थापनं हितम्||१४६||
Hide commentary
सार्वयौगिकानिति सर्वेष्वास्थापनसाध्येषु रोगेषु वातव्याधिज्वरगुल्मादिषु यथोक्तदोषसम्बन्धे सति यौगिकानित्यर्थः| एतदेव विवृणोति- सर्वशो हीत्यादि| सर्वश इति समस्तवर्गेण अर्धवर्गेण यथालाभं वा||१४५-१४६||
Adhikarana ११२ (१४७-१४८) · Śloka १४८
येषां येषां प्रशान्त्यर्थं ये ये न परिकीर्तिताः|
द्रव्यवर्गा विकाराणां तेषां ते परिकोपकाः||१४७||
इत्येते षडास्थापनस्कन्धा रसतोऽनुविभज्य व्याख्याताः||१४८||
Hide commentary
इदानीं सर्ववर्गाणां सर्वेष्वास्थापनसाध्यरोगेषु यौगिकत्वं यदुक्तं तत्र पित्तज्वरे कटुवर्गेणास्थापनं पित्तकरत्वाज्ज्वरवर्धकं भवति, तेन न दोषविशेषेण सर्वगणानां यौगिकत्वमेतदुक्तं, किन्तु सामान्येन सर्वास्थापनसाध्यरोगहितत्वं, दोषविशेषेषु तु तत्र तत्राननुगुणवर्गस्य प्रकोपकस्य निषेध एवेति दर्शयन्नाह- येषामित्यादि| येषां येषामिति वातादिविकाराणामुक्तानामिह| तत्र मधुरस्कन्धः कफप्रशान्त्यर्थमनुक्तः, तेन कफवर्धकः; एवमम्लादिवर्गेष्वपि ज्ञेयम्| किंवा सार्वयौगिकानित्यनेनोक्तानां वर्गाणां समासव्यासयोगेन सकलास्थापनसाध्यरोगहरत्वमुच्यते, न प्रत्येकं; प्रत्येकं तु वर्गाणां साध्यत्वेनानुक्तरोगाहन्तृत्वमुच्यते येषामित्यादिना||१४७-१४८||
Adhikarana ११३ (१४९) · Śloka १४९
तेभ्यो भिषग्बुद्धिमान् परिसङ्ख्यातमपि यद्यद्द्रव्यमयौगिकं मन्येत, तत्तदपकर्षयेत्; यद्यच्चानुक्तमपि यौगिकं मन्येत, तत्तद्विदध्यात्; वर्गमपि वर्गेणोपसंसृजेदेकमेकेनानेकेन वा युक्तिं प्रमाणीकृत्य|
प्रचरणमिव भिक्षुकस्य बीजमिव कर्षकस्य सूत्रं बुद्धिमतामल्पमप्यनल्पज्ञानाय भवति; तस्माद्बुद्धिमतामूहापोहवितर्काः, मन्दबुद्धेस्तु यथोक्तानुगमनमेव श्रेयः|
यथोक्तं हि मार्गमनुगच्छन् भिषक् संसाधयति कार्यमनतिमहत्त्वाद्वा विनिपातयत्यनतिह्रस्वत्वादुदाहरणस्येति||१४९||
Hide commentary
सम्प्रत्युक्तवर्गेषु व्याध्यादिपर्यालोचनया यौगिकत्वमपेक्ष्य यौगिकप्रक्षेपमयौगिकोद्धरणं च दर्शयन्नाह- तेभ्य इत्यादि| बुद्धिमानितिपदेन बुद्धिमतैव प्रक्षेपोद्धारौ गणे कर्तव्यौ, नाल्पबुद्धिनोहापोहकरणासमर्थेनेति दर्शयति| एकं वर्गमेकेन वर्गेणोपसृजेदनेकेन वा वर्गेणेति योज्यम्| युक्तिं प्रमाणीकृत्येति इदमत्र यौगिकमिदमयौगिकमिति ऊहं प्रमाणीकृत्येत्यर्थः| प्रचरणं भिक्षामूलं तण्डुलादि पात्रस्थम्| ननु मन्दबुद्धेः कथं यथोक्ताननुगमनं? यथोक्तमयौगिकमूहेन बुद्धिमन्तः प्रतिपद्यन्ते तत्रैव तन्मन्दधीः प्रयुञ्जानो न कथमनर्थमावहेदित्याह- यथोक्तं हीत्यादि| अनतिमहत्त्वाद्वा विनिपातयतीत्यनेन मन्दबुद्धेर्यथोक्तमाचरत ऊहं विना न महती व्यापद्भवतीति दर्शयति| यतः शास्त्रे हि यो विधिर्यथोक्तः, स प्रायो यौगिक एव भवति तत्र; यत्रापि शरीरादिभेदेनायौगिकः, तत्रापि स्तोकमात्रेण यौगिक इत्यर्थः| अनतिह्रस्वत्वादुदाहरणस्येति शास्त्रे उदाहरणत्वेनोक्तस्य विधेरनतिसङ्क्षेपादित्यर्थः| एतेन यदि स्तोकं रोगसाधनोदाहरणं स्यात्, ऊह्यमेव बहु, तदा मन्दबुद्धिः साक्षादुदाहरणविषयाज्ञानात् तथा स्वयमुहाक्षमत्वाच्च न रोगशान्तिलक्षणं कार्यं कर्तुं क्षमः स्यात्; यतस्तूदाहरणानि बहूनि, तेन तैरेवोदाहरणात्मकप्रयोगौस्तत्साध्यत्वेनोक्तव्याधीन् साधयतीति युक्तम्| इमौ चावापोद्धारौ गणोक्त एव द्रव्ये प्रायौ ज्ञेयौ| यदुक्तं सुश्रुते- “गणोक्तमपि यद्द्रव्यं भवेद्व्याधावयौगिकम्| तदुद्धरेत, प्रक्षिपेत्तु यन्मन्येद्यौगिकं तु तत्” (सु.चि.अ.१) इति| ये तु संयोगमहिम्ना कार्यकरा अगस्त्यहरीतक्यादयः, न तेष्वावापोद्धारौ कर्तव्यौ| एनमेव चार्थमभिप्रेत्योक्तं सुश्रुते- “एष चागमसिद्धत्वात्तथैव फलदर्शनात्| मन्त्रवत् सम्प्रयोक्तव्यो न मीमांस्यः कथञ्चन” (सु.चि.अ.१) इति||१४९||
Adhikarana ११४ (१५०) · Śloka १५०
अतः परमनुवासनद्रव्याण्यनुव्याख्यास्यामः|
अनुवासनं तु स्नेह एव|
स्नेहस्तु द्विविधः- स्थावरात्मकः, जङ्गमात्मकश्च|
तत्र स्थावरात्मकः स्नेहस्तैलमतैलं च|
तद्द्वयं तैलमेव कृत्वोपदेक्ष्यामः, सर्वतस्तैलप्राधान्यात्|
जङ्गमात्मकस्तु वसा, मज्जा, सर्पिरिति|
तेषां तैलवसामज्जसर्पिषां यथापूर्वं श्रेष्ठं वातश्लेष्मविकारेष्वनुवासनीयेषु, यथोत्तरं तु पित्तविकारेषु, सर्व एव वा सर्वविकारेष्वपि योगमुपयान्ति संस्कारविधिविशेषादिति||१५०||
Hide commentary
क्रमप्राप्तमनुवासनद्रव्यमाह- अतः परमित्यादि| अत्र तैलमिति तैलभूतं सर्षपस्नेहादि| तैलप्राधान्यादिति स्थावरस्नेहेषु तिलतैलस्यैव प्राधान्यादित्यर्थः| एतेन तैले यो विधिः स सार्षपादौ बोद्धव्यः, तैलशब्देन तु सार्षपादीनामिह ग्रहणं तिलभवस्नेहस्य प्राधान्यप्रख्यापनार्थं ; तैलशब्देन सार्षपादीनां ग्रहणं भवत्येव| यदुक्तं सुश्रुते- “निष्पत्तेस्तद्गुणत्वाच्च तैलत्वमितरेष्वपि” (सु.सू.अ.१५) इति||१५०||
Adhikarana ११५ (१५१) · Śloka १५१
शिरोविरेचनद्रव्याणि पुनरपामार्गपिप्पलीमरिचविडङ्गशिग्रुशिरीषतुम्बुरुपिल्वजाज्यमोदावार्ताकीपृथ्वीकैलाहरेणुकाफलानि च, सुमुखसुरसकुठेरकगण्डीरकालमालकपर्णासक्षवकफणिज्झकहरिद्राशृङ्गवेरमूलकलशुनतर्कारीसर्षपपत्राणि च, अर्कालर्ककुष्ठनागदन्तीवचापामार्गश्वेताज्योतिष्मतीगवाक्षीगण्डीरपुष्प्यवाक्पुष्पीवृश्चिकालीवयस्थातिविषामूलानि च, हरिद्राशृङ्गवेरमूलकलशुनकन्दाश्च, लोध्रमदनसप्तपर्णनिम्बार्कपुष्पाणि च, देवदार्वगुरुसरलशल्लकीजिङ्गिन्यसनहिङ्गुनिर्यासाश्च, तेजोवतीवराङ्गेङ्गुदीशोभाञ्जनकबृहतीकण्टकारिकात्वचश्चेति|
शिरोविरेचनं सप्तविधं, फल-पत्र-मूल-कन्द-पुष्प-निर्यास-त्वगाश्रयभेदात्|
लवणकटुतिक्तकषायाणि चेन्द्रियोपशयानि तथाऽपराण्यनुक्तान्यपि द्रव्याणि यथायोगविहितानि शिरोविरेचनार्थमुपदिश्यन्त इति||१५१||
Hide commentary
परिशेष्याच्छिरोविरेचनान्याह- शिरोविरेचनेत्यादि| फलानि चेति चकारेण तस्मादुक्तद्रव्यादङ्गान्तरोपयोगं च दर्शयति| तेन शिग्रोर्वक्ष्यमाणत्वगुपयोगश्च भवति, एवमन्यत्राप्युदाहार्यम्| सुमुखादयः पर्णासभेदाः, तर्कारी जयन्ती| गण्डीरपुष्पी शमठः, वयस्था ब्राह्मी| वराङ्गं गुडत्वक्| इन्द्रियोपशयानीत्यनेन यानि लवणादीनि इन्द्रियानुपघातकानि तान्येव शिरोविरेचने योज्यानि; तथाऽपराणीति मधुराम्लकषायाण्यपि यानि शिरोविरेचने यौगिकानि||१५१||
Adhikarana ११६ (१५२-१५४) · Śloka १५४
तत्र श्लोकाः- लक्षणाचार्यशिष्याणां परीक्षा कारणं च यत्|
अध्येयाध्यापनविधी सम्भाषाविधिरेव च||१५२||
षड्भिरूनानि पञ्चाशद्वादमार्गपदानि च|
पदानि दश चान्यानि कारणादीनि तत्त्वतः||१५३||
सम्प्रश्नश्च परीक्षादेर्नवको वमनादिषु|
भिषग्जितीये रोगाणां विमाने सम्प्रकाशितः||१५४||
Hide commentary
सङ्ग्रहे लक्षणाचार्यशिष्याणामिति शास्त्राचार्यशिष्याणां परीक्षा, लक्षणं हि शास्त्रमुच्यते| कारणं च यदिति शास्त्रादिपरीक्षाकारणं च यदित्यर्थः, ‘एवम्भूतं शास्त्रममल इवादित्यः’ इत्यादिशास्त्रपरीक्षाकारणम्| आचार्यपरीक्षाकारणं तु ‘एवंविधो ह्याचार्यः’ इत्यादि| शिष्यपरीक्षाकारणं तु ‘अध्याप्यमध्यापयन् ह्याचार्यः’ इत्यादि| अध्येयम् अध्येतव्यं, तस्य विधिरध्ययनविधिरेव||१५२-१५४||
Adhikarana ११७ (१५५-१५७) · Śloka १५७
बहुविधमिदमुक्तमर्थजातं बहुविधवाक्यविचित्रमर्थकान्तम्|
बहुविधशुभशब्दसन्धियुक्तं बहुविधवादनिसूदनं परेषाम्||१५५||
इमां मतिं बहुविधहेतुसंश्रयां विजज्ञिवान् परमतवादसूदनीम्|
न सज्जते परवचनावमर्दनैर्न शक्यते परवचनैश्च मर्दितुम्||१५६||
दोषादीनां तु भावानां सर्वेषामेव हेतुमत्|
मानात् सम्यग्विमानानि निरुक्तानि विभागशः||१५७||
Hide commentary
इदमुक्तमर्थजातमिति लक्षणाचार्यशिष्यपरीक्षादिरूपमभिधेयजातमुक्तम्| अर्थकान्तमिति यथा सम्बद्धार्थत्वादिना गुणेन कमनीयार्थं भवति तथोक्तमित्यर्थः| शब्दस्य वाक्ये योजनं शब्दसन्धिः| दोषादीनामित्यादिना विमानस्थानार्थसङ्ग्रहं करोति| हेतुमदिति उपपत्तिमद्यथा भवति तथा दोषादिमानादित्यर्थः| निरुक्तानीति निरुक्त्योक्तानि| निरुक्तिश्च दोषादयो विशेषेण मीयन्ते ज्ञायन्ते एभिरिति विमानानि||१५५-१५७||
Adhikarana पुष्पिका · Śloka ८
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने रोगभिषग्जितीयविमानं नामाष्टमोऽध्यायः||८||
(अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते|
अनेनावधिना स्थानं विमानानां समर्थितम्|)|
Hide commentary
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां विमानस्थाने रोगभिषग्जितीयविमानं नामाष्टमोऽध्यायः||८||