Adhikarana १ (१-२) · Śloka २
अथात उपकल्पनीयमध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
Hide commentary
स्नेहस्वेदोपपन्नस्य संशोधनमनन्तरमित्यनेनैवोक्तात् सम्बन्धात् स्वेदाध्यायानन्तरं शोधनविधेरभिधायकमुपकल्पनीयमाह| उपकल्पनीयमिति शोधनोपकल्पनामधिकृत्य कृतोऽध्याय उपकल्पनीयः||१-२||
Adhikarana २ (३-४) · Śloka ४
इह खलु राजानं राजमात्रमन्यं वा विपुलद्रव्यं वमनं विरेचनं वा पाययितुकामेन भिषजा प्रागेवौषधपानात् सम्भारा उपकल्पनीया भवन्ति सम्यक्चैव हि गच्छत्यौषधे प्रतिभोगार्थाः, व्यापन्ने चौषधे व्यापदः परिसङ्ख्याय प्रतीकारार्थाः; न हि सन्निकृष्टे काले प्रादुर्भूतायामापदि सत्यपि क्रयाक्रये सुकरमाशु सम्भरणमौषधानां यथावदिति||३||
एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच- ननु भगवन्! आदावेव ज्ञानवता तथा प्रतिविधातव्यं यथा प्रतिविहिते सिध्येदेवौषधमेकान्तेन, सम्यक्प्रयोगनिमित्ता हि सर्वकर्मणां सिद्धिरिष्टा, व्यापच्चासम्यक्प्रयोगनिमित्ता; अथ सम्यगसम्यक् च समारब्धं कर्म सिद्ध्यति व्यापद्यते वाऽनियमेन, तुल्यं भवति ज्ञानमज्ञानेनेति||४||
Hide commentary
राज्ञ इव मात्रा परिच्छदो यस्य स राजमात्रः| विपुलद्रव्यस्तु वणिगादिः| परिसङ्ख्यायेति ज्ञात्वा| क्रयः पण्यम्, आक्रयो मूल्यम्| अनियमेनेति सम्यगारब्धं सिध्यति व्यापद्यते च||३-४||
Adhikarana ३ (५) · Śloka ५
तमुवाच भगवानात्रेयः- शक्यं तथा प्रतिविधातुमस्माभिरस्मद्विधैर्वाऽप्यग्निवेश! यथा प्रतिविहिते सिध्येदेवौषधमेकान्तेन, तच्च प्रयोगसौष्ठवमुपदेष्टुं यथावत्; नहि कश्चिदस्ति य एतदेवमुपदिष्टमुपधारयितुमुत्सहेत, उपधार्य वा तथा प्रतिपत्तुं प्रयोक्तुं वा; सूक्ष्माणि हि दोषभेषजदेशकालबलशरीराहारसात्म्यसत्त्वप्रकृतिवयसामवस्थान्तराणि, यान्यनुचिन्त्यमानानि विमलविपुलबुद्धेरपि बुद्धिमाकुलीकुर्युः किं पुनरल्पबुद्धेः; तस्मादुभयमेतद्यथावदुपदेक्ष्यामः- सम्यक्प्रयोगं चौषधानां, व्यापन्नानां च व्यापत्साधनानि सिद्धिषूत्तरकालम्||५||
Hide commentary
प्रयोगसौष्ठवं प्रयोगसुष्ठुत्वं, यथावदुपदेष्टुं शक्यमस्माभिरस्मद्विधैर्वेति योजना| एतदिति प्रयोगसौष्ठवम्| एवमिति यथावद्| उपधारयितुमिति ग्रन्थेन धारयितुम्| प्रतिपत्तुमिति अर्थतो ग्रहीतुम्| सूक्ष्माणीत्यादि सूक्ष्माणीव सूक्ष्माणि दुर्बोधत्वेन; तत्र दोषस्यावस्थान्तराणि- क्षयस्तथा वृद्धिस्तथा समत्वं, एवमूर्ध्वदेहगमनं तथाऽधोदेहगमनं तिर्यग्गमनं वा, तथा शाखाश्रयित्वं कोष्ठाश्रयित्वं मध्यमार्गाश्रयित्वं, तथा स्वदेशगमनं परदेशगमनं, तथा स्वतन्त्रत्वं परतन्त्रत्वं, तथांऽशांशविकल्पः, तथा धातुविशेषाश्रयित्वं, तथा कालप्रकृतिदूष्यानुगुणत्वादिकृत्स्नतन्त्रप्रतिपादितानि ज्ञेयानि; एवं भेषजस्यावस्थान्तराणि- तरुणत्वं, वृद्धत्वम्, आर्द्रत्वं, शुष्कत्वं, द्रव्यान्तरसंयुक्तत्वं, स्वरसादिकल्पनायोगित्वं, रसवीर्यविपाकैः प्रभावैश्च तस्मिन् देहे दोषादौ तत्तत्कार्यकर्तृत्वमेवमादीनि; देशस्त्वानूपजाङ्गलसाधारणप्रशस्तादिभेदभिन्नः; कालावस्थान्तराणि तु ऋतुभेदाः, पूर्वाह्णादिश्च तथा व्याध्यवस्था ज्वराष्टाहादय इत्येवमादीनि; बलं तु सहजं युक्तिकृतं तथा कालकृतमुत्कृष्टापकृष्टमध्यादिभेदभिन्नं; शरीरं तु स्थूलत्वकृशत्वसारवत्त्वनिःसारवत्त्वादि, तथा परिपालनीयदृष्टिमर्माद्यवयवविशेषादिभिश्च भिन्नम्; आहारस्तु प्रकृतिकरणसंयोगराशिभेदादिभिर्भिन्नः; सात्म्यं तु देशतः कालतो व्याधितः प्रकृतितः स्वभावतोऽभ्यासतश्च भिन्नं भवति; सत्त्वं तु भयशौर्यविषादहर्षादियोगभिन्नं भवति; प्रकृतिभेदास्त्वनेकप्रकारभिन्नवाताद्यारब्धत्वेन बोद्धव्याः; वयोभेदास्तु बाल्ययौवनवार्धक्यतदवान्तरभेदाः ; एतानि दोषाद्यवस्थान्तराणि चिकित्साप्रयोगे यथायथाऽपेक्ष्यन्ते, तदुदाहरणं शास्त्रेऽनुसरणीयम्, इह लिख्यमानं तु विस्तरत्वं ग्रन्थस्यावहतीति नोक्तम्| उभयमेतदुत्तरकालं सिद्धिषूपदेक्ष्याम इति योजना||५||
Adhikarana ४ (६) · Śloka ६
इदानीं तावत् सम्भारान् विविधानपि समासेनोपदेक्ष्यामः; तद्यथा- दृढं निवातं प्रवातैकदेशं सुखप्रविचारमनुपत्यकं धूमातपजलरजसामनभिगमनीयमनिष्ठानां च शब्दस्पर्शरसरूपगन्धानां सोदपानोदूखलमुसलवर्चःस्थानस्नानभूमिमहानसं वास्तुविद्याकुशलः प्रशस्तं गृहमेव तावत् पूर्वमुपकल्पयेत्||६||
Hide commentary
विविधानपीति अपिशब्दः समासेनापीत्येवंरूपो ज्ञेयः; तेन गृहादयोऽपि विस्तरेणोच्यन्ते, सङ्ग्रहणीयादयश्च समासेनेति द्वयमपि सुस्थं स्यात्; यदि वा ‘द्विविधानपि’ इति पाठः, तेन भोगार्थानि तथा व्यापत्साधनानि गृह्यन्ते| अनुपत्यकं यद् विदूरमन्यस्य महतो गृहस्य| उदकं पीयते येन तदुदपानम्||६||
Adhikarana ५ (७) · Śloka ७
ततः शीलशौचाचारानुरागदाक्ष्यप्रादक्षिण्योपपन्नानुपचारकुशलान् सर्वकर्मसु पर्यवदातान् सूपौदनपाचकस्नापकसंवाहकोत्थापकसंवेशकौषधपेषकांश्च परिचारकान् सर्वकर्मस्वप्रतिकूलान्, तथा गीतवादित्रोल्लापकश्लोकगाथाख्यायिकेतिहासपुराणकुशलानभिप्रायज्ञाननुमतांश्च देशकालविदः पारिषद्यांश्च, तथा लावकपिञ्जिलशशहरिणैणकालपुच्छकमृगमातृकोरभ्रान्, गां दोग्ध्रीं शीलवतीमनातुरां जीवद्वत्सां सुप्रतिविहिततृणशरणपानीयां, पात्र्याचमनीयोदकोष्ठमणिकघटपिठरपर्योगकुम्भीकुम्भकुण्डशराव- दर्वीकटोदञ्चनपरिपचनमन्थानचर्मचेलसूत्रकार्पासोर्णादीनि च, शयनासनादीनि चोपन्यस्तभृङ्गारप्रतिग्रहाणि सुप्रयुक्तास्तरणोत्तरप्रच्छदोपधानानि सोपाश्रयाणि संवेशनोपवेशनस्नेहस्वेदाभ्यङ्गप्रदेहपरिषेकानुलेपनवमनविरेचनास्थापनानुवासन- शिरोविरेचनमूत्रोच्चारकर्मणामुपचारसुखानि, सुप्रक्षालितोपधानाश्च सुश्लक्ष्णखरमध्यमा दृषदः, शस्त्राणि चोपकरणार्थानि, धूमनेत्रं च, बस्तिनेत्रं चोत्तरबस्तिकं च, कुशहस्तकं च, तुलां च, मानभाण्डं च, घृततैलवसामज्जक्षौद्रफाणितलवणेन्धनोदकमधुसीधुसुरासौवीरकतुषोदक- मैरेयमेदकदधिदधिमण्डोदस्विद्धान्याम्लमूत्राणि च, तथा शालिषष्टिकमुद्गमाषयवतिलकुलत्थबदरमृद्वीकाकाश्मर्यपरूषकाभयामलकबिभीतकानि, नानाविधानि च स्नेहस्वेदोपकरणानि द्रव्याणि, तथैवोर्ध्वहरानुलोमिकोभयभाञ्जि, सङ्ग्रहणीयदीपनीयपाचनीयोपशमनीयवातहरादिसमाख्यातानि चौषधानि; यच्चान्यदपि किञ्चिह्यापदः परिसङ्ख्याय प्रतीकारार्थमुपकरणं विद्यात्, यच्च प्रतिभोगार्थं, तत्तदुपकल्पयेत्||७||
Hide commentary
प्रादक्षिण्यम् आनुकूल्यम्| उल्लापकं स्तोत्रम्, इतिहासः अज्ञायमानकर्तृकाप्तोपदेशः| मृगमातृका पृथूदरो हरिणः| शरणं गृहम्| आचमनीयोदकोष्ठम् आचमानार्थमुदककोष्ठं; किंवा आचम्यते येन पात्रेण तदाचमनं; मणिको गोलकः , पिठरः स्थाली, पर्योगः कटाहः, कुम्भो दृढावयवोऽल्पमुखो घटः, कटः तृणादिरचितमासनम्, उदञ्चनं पिधानशरावः, परिपचनं तैलपाचनिका| ऊर्णा गड्डररोमाणि| सुप्रक्षालितेत्यादौ उपधानः शिलापुत्र इति प्रसिद्धः, दृषदः पाषाणपट्टकाः| शस्त्राणि चोपकरणार्थानीति कुद्दालकर्तरीप्रभृतीनि| कुशहस्तकं सम्मार्जनी; अन्ये तु आर्द्रद्रव्यपरिपचनमभिदधति| मानभाण्डं प्रतिमानम्||७||
Adhikarana ६ (८-९) · Śloka ९
ततस्तं पुरुषं यथोक्ताभ्यां स्नेहस्वेदाभ्यां यथार्हमुपपादयेत्, तं चेदस्मिन्नन्तरे मानसः शारीरो वा व्याधिः कश्चित्तीव्रतरः सहसाऽभ्यागच्छेत्तमेव तावदस्योपावर्तयितुं यतेत, ततस्तमुपावर्त्य तावन्तमेवैनं कालं तथाविधेनैव कर्मणोपाचरेत्||८||
ततस्तं पुरुषं स्नेहस्वेदोपपन्नमनुपहतमनसमभिसमीक्ष्य सुखोषितं सुप्रजीर्णभक्तं शिरःस्नातमनुलिप्तगात्रं स्रग्विणमनुपहतवस्त्रसंवीतं देवताग्निद्विजगुरुवृद्धवैद्यानर्चितवन्तमिष्टे नक्षत्रतिथिकरणमुहूर्ते कारयित्वा ब्राह्मणान् स्वस्तिवाचनं प्रयुक्ताभिराशीर्भिरभिमन्त्रितां मधुमधुकसैन्धवफाणितोपहितां मदनफलकषायमात्रां पाययेत्||९||
Hide commentary
तं चेत्यादौ अस्मिन्नन्तर इति स्नेहस्वेदकरणसमये| तावन्तमेव कालमिति यावता कालेनागतव्याधिप्रशमः कृतस्तावन्तम्| इष्ट इति शोधनकर्तृपुरुषनक्षत्राद्यनुगुणे औषधप्रयोगार्थं विहित इत्यर्थः; यदुक्तं ज्योतिष- “पुष्यो हस्तस्तथा ज्येष्ठा रोहिणी श्रवणाश्विनौ| स्वाति सौम्यं च भैषज्ये कुर्यादन्यत्र वर्जयेत्” इत्यादि| कारयित्वेति स्वस्तिवाचनं कारयित्वा||८-९||
Adhikarana ७ (१०-११) · Śloka ११
मदनफलकषायमात्राप्रमाणं तु खलु सर्वसंशोधनमात्राप्रमाणानि च प्रतिपुरुषमपेक्षितव्यानि भवन्ति; यावद्धि यस्य संशोधनं पीतं वैकारिकदोषहरणायोपपद्यते न चातियोगायोगाय, तावदस्य मात्राप्रमाणं वेदितव्यं भवति||१०||
पीतवन्तं तु खल्वेनं मुहूर्तमनुकाङ्क्षेत, तस्य यदा जानीयात् स्वेदप्रादुर्भावेण दोषं प्रविलयनमापद्यमानं, लोमहर्षेण च स्थानेभ्यः प्रचलितं, कुक्षिसमाध्मापनेन च कुक्षिमनुगतं, हृल्लासास्यस्रवणाभ्यामपि चोर्ध्वमुखीभूतम्, अथास्मै जानुसममसम्बाधं सुप्रयुक्तास्तरणोत्तरप्रच्छदोपधानं सोपाश्रयमासनमुपवेष्टुं प्रयच्छेत्, प्रतिग्रहांश्चोपचारयेत्, लालाटप्रतिग्रहे पार्श्वोपग्रहणे नाभिप्रपीडने पृष्ठोन्मर्दने चानपत्रपणीयाः सुहृदोऽनुमताः प्रयतेरन्||११||
Hide commentary
प्रतिपुरुषमपेक्षितव्यानीत्यनेन प्रतिपुरुषं शोधनमात्राभेदं दर्शयति| यावद्धीत्यादि मात्राशितीयोक्तः ‘यावद्ध्यस्याशनं’ (सू.अ.५) इत्यादिग्रन्थव्याख्यानानुसारेण व्याख्येयम्| अनुकाङ्क्षेतेति परीक्षयन् धारयेत्| असम्बाधमिति असङ्कीर्णम्| प्रतिगृह्णन्तीति प्रतिग्रहः पतद्ग्रहाः| ललाटप्रतिग्रहादय अनपत्रपणीया अलज्जाविषयाः||१०-११||
Adhikarana ८ (१२) · Śloka १२
अथैनमनुशिष्यात्- विवृतोष्ठतालुकण्ठो नातिमहता व्यायामेन वेगानुदीर्णानुदीरयन् किञ्चिदवनम्य ग्रीवामूर्ध्वशरीरमुपवेगमप्रवृत्तान् प्रवर्तयन् सुपरिलिखितनखाभ्यामङ्गुलिभ्यामुत्पलकुमुदसौगन्धिकनालैर्वा कण्ठमभिस्पृशन् सुखं प्रवर्तयस्वेति, स तथाविधं कुर्यात्; ततोऽस्य वेगान् प्रतिग्रहगतानवेक्षेतावहितः, वेगविशेषदर्शनाद्धि कुशलो योगायोगातियोगविशेषानुपलभेत, वेगविशेषदर्शी पुनः कृत्यं यथार्हमवबुध्येत लक्षणेन; तस्माद्वेगानवेक्षेतावहितः||१२||
Hide commentary
उपवेगं वेगसमीपम्; एतेन सर्वथाऽप्रवृत्ते वेगे प्रवर्तनं निषेधयति| वेगविशेषदर्शनाद्धीत्यादिग्रन्थस्य भाविनो योगायोगादीन् वेगविषयानुपलभ्य तर्कयतीत्यर्थः; किंवा, सिद्धौ वैगिकी शुद्धिरभिधातव्या “जघन्यमध्यप्रवरे तु वेगाश्चत्वार इष्टा वमने षडष्टौ” (सि.अ.१) इत्यादिना, तामनेन दर्शयति||१२||
Adhikarana ९ (१३) · Śloka १३
तत्रामून्ययोगयोगातियोगविशेषज्ञानानि भवन्ति; तद्यथा- अप्रवृत्तिः कुतश्चित् केवलस्य वाऽप्यौषधस्य विभ्रंशो विबन्धो वेगानामयोगलक्षणानि भवन्ति; काले प्रवृत्तिरनतिमहती व्यथा यथाक्रमं दोषहरणं स्वयं चावस्थानमिति योगलक्षणानि भवन्ति, योगेन तु दोषप्रमाणविशेषेण तीक्ष्णमृदुमध्यविभागो ज्ञेयः; योगाधिक्येन तु फेनिलरक्तचन्द्रिकोपगमनमित्यतियोगलक्षणानि भवन्ति|
तत्रातियोगायोगनिमित्तानिमानुपद्रवान् विद्यात्- आध्मानं परिकर्तिका परिस्रावो हृदयोपसरणमङ्गग्रहो जीवादानं विभ्रंशः स्तम्भः क्लमश्चेत्युपद्रवाः||१३||
Hide commentary
अप्रवृत्तिः कुतश्चिदिति सर्वस्यैवाप्रवृत्तिः; तथा केवलस्य कृत्स्नस्य शोधनीयदोषस्याप्रवृत्तिः; तथौषधस्य विभ्रंशः प्रातिलोम्येन गमनं; यथा- वमनस्याध ऊर्ध्वं च विरेचनस्य, एतदेव सिद्धावुक्तं- “अयोगः प्रातिलोम्येन नचाऽल्पं वा प्रवर्तनम्” (सि. अ.६) इति| किंवा, कुतश्चिद्धाऽप्रवृत्तिः स्तोकदोषप्रवृत्तिरित्यर्थः, तथा केवलस्य चाप्यौषधस्य प्रवृत्तिरिति योजना| यथाक्रममिति वमने प्रथमं श्लेष्मा, तदनु पित्तं, तदनु वायुः; यदुक्तं- “क्रमात् कफः पित्तमथानिलश्च यस्यैति सम्यग्वमितः स इष्टः” (सि. अ.१) इति| सम्यग्योगोऽपि हर्तव्यदोषस्याल्पत्वमध्यत्वोत्कृष्टत्वेन त्रिविधो भवतीति दर्शयन्नाह- योगेन त्वित्यादि| तुशब्दोऽवधारणे, तेन योगेनैव यः प्रमाणविशेषोऽल्पादिस्तेन, न त्वयोगातियोगाभ्यामित्यर्थः; अयं च तीक्ष्णादियोगविभागः पेयाक्रमोत्कर्षार्थः, तथाहि वक्ष्यति सिद्धौ- “पेयां विलेपीं” (सि. अ.१.) इत्यादि| तत्रातियोगेत्यादौ आध्मानादयः शोधनसिद्धौ “बहुदोषस्य रूक्षस्य” (सि. अ.६) इत्यादिना ग्रन्थेन प्रपञ्चेन वक्तव्याः, अतस्तत्रैषां योगातियोगजन्यो यश्चायोगजन्यः स स्फुटो ज्ञेयः||१३||
Adhikarana १० (१४-१५) · Śloka १५
योगेन तु खल्वेनं छर्दितवन्तमभिसमीक्ष्य सुप्रक्षालितपाणिपादास्यं मुहूर्तमाश्वास्य, स्नैहिकवैरेचनिकोपशमनीयानां धूमानामन्यतमं सामर्थ्यतः पाययित्वा, पुनरेवोदकमुपस्पर्शयेत्||१४||
उपस्पृष्टोदकं चैनं निवातमागारमनुप्रवेश्य संवेश्य चानुशिष्यात्- उच्चैर्भाष्यमत्याशनमतिस्थानमतिचङ्क्रमणं क्रोधशोकहिमातपावश्यायातिप्रवातान् यानयानं ग्राम्यधर्ममस्वपनं निशि दिवा स्वप्नं विरुद्धाजीर्णासात्म्याकालप्रमितातिहीनगुरुविषमभोजनवेगसन्धारणोदीरणमिति भावानेतान्मनसाऽप्यसेवमानः सर्वमहो गमयस्वेति |
स तथा कुर्यात्||१५||
Hide commentary
स्नैहिकादिधूमपानविकल्पः पुरुषप्रकृत्यपेक्षः; अत एव सामर्थ्यत इत्युक्तं, यद्यस्य युज्यत इत्यर्थः| अतिस्थानमिति अत्यर्थं दण्डायमानत्वेनावस्थितिः| प्रमितभोजनम् एकरसाभ्यासः| अतिहीनं नष्टशक्तिकं धान्यादि| गुरुशब्देन स्वभावगुरुलट्टुकचिपिटकादेर्यथोक्तमात्रयाऽपि भोजननिषेधः||१४-१५||
Adhikarana ११ (१६) · Śloka १६
अथैनं सायाह्ने परे वाऽह्नि सुखोदकपरिषिक्तं पुराणानां लोहितशालितण्डुलानां स्ववक्लिन्नां मण्डपूर्वां सुखोष्णां यवागूं पाययेदग्निबलमभिसमीक्ष्य, एवं द्वितीये तृतीये चान्नकाले, चतुर्थे त्वन्नकाले तथाविधानामेव शालितण्डुलानामुत्स्विन्नां विलेपीमुष्णोदकद्वितीयामस्नेहलवणामल्पस्नेहलवणां वा भोजयेत्, एवं पञ्चमे षष्ठे चान्नकाले, सप्तमे त्वन्नकाले तथाविधानामेव शालीनां द्विप्रसृतं सुस्विन्नमोदनमुष्णोदकानुपानं तनुना तनुस्नेहलवणोपपन्नेन मुद्गयूषेण भोजयेत्, एवमष्टमे नवमे चान्नकाले, दशमे त्वन्नकले लावकपिञ्जलादीनामन्यतमस्य मांसरसेनौदकलावणिकेन नातिसारवता भोजयेदुष्णोदकानुपानम्; एवमेकादशे द्वादशे चान्नकाले; अत ऊर्ध्वमन्नगुणान् क्रमेणोपभुञ्जानः सप्तरात्रेण प्रकृतिभोजनमागच्छेत्||१६||
Hide commentary
सायाह्न इत्यादौ सम्यगग्निशुद्धिलक्षणभूते सायाह्ने, किञ्चित्त्वविशुद्धावपरेऽह्नि| यदुक्तं सिद्धौ- “वमितं लङ्घयेत् सम्यग्जीर्णलिङ्गान्यवेक्षयन्| तानि दृष्ट्वा तु पेयादिक्रमं कुर्यान्न लङ्घनम्” (सि. अ.६) इति| मण्डपूर्वां मण्डप्रधानाम्| अयं च द्वादशकालनिवर्तनीयः क्रमः प्रधानशुद्धिशुद्धे ज्ञेयः, मध्ये त्वष्टानुकालिकः, तथाऽल्पे चतुरनुकालिकः; उक्तं हि- “पेयां विलेपीं” (सि. अ.१) इत्यादि| अन्नगुणान् मधुरादीन् गुरुकठिनादींश्च| एतच्च संसर्जनक्रमादूर्ध्वं सप्तरात्रेण प्रकृतिभोजनगमनं तदा कर्तव्यं यदि वमनानन्तरं विरेचनं न कर्तव्यं भवति, तत्करणे तु संसर्जनक्रमादूर्ध्वमेव स्नेहपानं; यदुक्तं- “संसृष्टभक्तं नवमेऽह्नि सर्पिस्तं पाययेद्वाऽप्यनुवासयेद्वा” (सि. अ.१) इति| तथा सुश्रुतेऽप्युक्तं- “पक्षाद्विरेको वान्तस्य” (सु.चि. अ.३६) इति| यदि संसर्जनक्रमं तथाऽनुगुणाभ्यासं च कृत्वा स्नेहः क्रियते, तदा पक्षाद्विरेको वान्तस्य न स्यात्||१६||
Adhikarana १२ (१७-१८) · Śloka १८
अथैनं पुनरेव स्नेहस्वेदाभ्यामुपपाद्यानुपहतमनसमभिसमीक्ष्य सुखोषितं सुप्रजीर्णभक्तं कृतहोमबलिमङ्गलजपप्रायश्चित्तमिष्टे तिथिनक्षत्रकरणमुहूर्ते ब्राह्मणान् स्वस्ति वाचयित्वा त्रिवृत्कल्कमक्षमात्रं यथार्हालोडनप्रतिविनीतं पाययेत् प्रसमीक्ष्य दोषभेषजदेशकालबलशरीराहारसात्म्यसत्त्वप्रकृतिवयसामवस्थान्तराणि विकारांश्च, सम्यक् विरिक्तं चैनं वमनोक्तेन धूमवर्जेन विधिनोपपादयेदाबलवर्णप्रकृतिलाभात्, बलवर्णोपपन्नं चैनमनुपहतमनसमभिसमीक्ष्य सुखोषितं सुप्रजीर्णभक्तं शिरःस्नातमनुलिप्तगात्रं स्रग्विणमनुपहतवस्त्रसंवीतमनुरूपालङ्कारालङ्कृतं सुहृदां दर्शयित्वा ज्ञातीनां दर्शयेत्, अथैनं कामेष्ववसृजेत्||१७||
भवन्ति चात्र- अनेन विधिना राजा राजमात्रोऽथवा पुनः|
यस्य वा विपुलं द्रव्यं स संशोधनमर्हति||१८||
Hide commentary
अथैनमिति कृतसंसर्जनक्रमम्| प्रतिविनीतम् आलोडितम्| दोषादयः पूर्ववद्व्याख्येयाः| विकारांश्चेति कुष्ठज्वरादीन् विरेचनसाध्यान्; पूर्वं तु “सूक्ष्माणि हि” इत्यादौ विकारो नोक्तः, तस्य परीक्ष्यत्वेनैव ग्रहणात्; किंवा दोषग्रहणेनैव तत्र विकारग्रहणम्| कामेषु ईप्सितेषु, अवसृजेत् निर्यन्त्रणं कुर्यात्||१७-१८||
Adhikarana १३ (१९-२१) · Śloka २१
दरिद्रस्त्वापदं प्राप्य प्राप्तकालं विशोधनम्|
पिबेत् काममसम्भृत्य सम्भारानपि दुर्लभान्||१९||
न हि सर्वमनुष्याणां सन्ति सर्वे परिच्छदाः|
न च रोगा न बाधन्ते दरिद्रानपि दारुणाः||२०||
यद्यच्छक्यं मनुष्येण कर्तुमौषधमापदि|
तत्तत् सेव्यं यथाशक्ति वसनान्यशनानि च||२१||
Hide commentary
सम्प्रति दरिद्रस्य यथोक्तं सम्भारमकृत्वाऽपि संशोधनकरणमाह- दरिद्र इत्यादि| दुर्लभानिति वचनेन सुलभानि दरिद्रेणाऽप्युत्पादनीयानि||१९-२१||
Adhikarana १४ (२२) · Śloka २२
मलापहं रोगहरं बलवर्णप्रसादनम्|
पीत्वा संशोधन सम्यगायुषा युज्यते चिरम्||२२||
Hide commentary
संशोधनकरणगुणमाह- मलापहमित्यादि||२२||
Adhikarana १५ (२३-२५) · Śloka २५
तत्र श्लोकाः- ईश्वराणां वसुमतां वमनं सविरेचनम्|
सम्भारा ये यदर्थं च समानीय प्रयोजयेत्||२३||
यथा प्रयोज्या मात्रा या यदयोगस्य लक्षणम्|
योगातियोगयोर्यच्च दोषा ये चाप्युपद्रवाः||२४||
यदसेव्यं विशुद्धेन यश्च संसर्जनक्रमः|
तत् सर्वं कल्पनाध्याये व्याजहार पुनर्वसुः||२५||
Hide commentary
सङ्ग्रहे- ईश्वराः सविलासाः; तेन राज्ञो राजमात्रस्य च ग्रहणम्| प्रयोजयेदिति ‘सम्भारान्’ इति शेषः||२३-२५||
Adhikarana पुष्पिका · Śloka १५
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने उपकल्पनीयो नाम पञ्चदशोऽध्यायः||१५||
Hide commentary
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां सूत्रस्थाने निर्देशचतुष्के पञ्चदशोऽध्यायः||१५||