Adhikarana १ (१-२) · Śloka २
अथातो महारोगाध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
Hide commentary
पूर्वं सामान्येन वातादिजन्या गदा उक्ताः, सम्प्रत्यवशिष्टान् केवलवातादिजन्यानभिधातुं महारोगाध्याध्योऽभिधीयते ||१-२||
Adhikarana २ (३) · Śloka ३
चत्वारो रोगा भवन्ति- आगन्तुवातपित्तश्लेष्मनिमित्ताः; तेषां चतुर्णामपि रोगाणां रोगत्वमेकविधं भवति, रुक्सामान्यात्; द्विविधा पुनः प्रकृतिरेषाम्, आगन्तुनिजविभागात्; द्विविधं चैषामधिष्ठानं, मनःशरीरविशेषात् ; विकाराः पुनरपरिसङ्ख्येयाः, प्रकृत्यधिष्ठानलिङ्गायतनविकल्पविशेषापरिसङ्ख्येयत्वात् ||३||
Hide commentary
आगन्तोरुक्तस्यापि त्रिशोथीये पुनरिह विशेषेण लक्षणाद्यभिधानार्थमभिधानम्| प्रकृतिरिह स्वभावः| मनःशरीरविशेषादिति आगन्तोरपि मनः शरीरं चाधिष्ठानम्, एवं निजस्यापि; आगन्तुग्रहणेन च मानसोऽपि कामादिर्गृह्यते| एवं चतुर्विधत्वादि प्रतिपाद्य पुनः प्रकारान्तरेणापरिसङ्ख्येयतां रोगाणामाह- विकारा इत्यादि| पुनरिति वक्ष्यमाणप्रकारान्तरेण| प्रकृतिः प्रत्यासन्नं कारणं वातादि, अधिष्ठानं दूष्यं, लिङ्गानि लक्षणानि, आयतनानि बाह्यहेतवो दुष्टाहाराचाराः; एषां विकल्परूपो विशेषो विकल्पविशेषः, तेषामपरिसङ्ख्येयत्वादिति| अत्र दोषाः संसर्गांशांशविकल्पादिभिरसङ्ख्येयाः, दूष्यास्तु शरीरावयवा अणुशः परस्परमेलकेन विभज्यमाना असङ्ख्येयाः, लिङ्गानि कृत्स्नविकारगतान्यसङ्ख्येयान्येव, आविष्कृतानि तु तन्त्रे कथितानि, हेतवश्चावान्तरविशेषादसङ्ख्येयाः प्रव्यक्ता एव| केचित् पुनः ‘एषां विकाराः’ इति पठन्ति, स तु पाठो नानुमतस्तावत्; यदि च स्यात्तदा देहमनःप्रत्यवमर्शकम् एषाम् इति पदं, बहुवचनं तु मनःशरीरयोर्बहुत्वविवक्षया||३||
Adhikarana ३ (४) · Śloka ४
मुखानि तु खल्वागन्तोर्नखदशनपतनाभिचाराभिशापाभिषङ्गाभिघातव्यध- बन्धनवेष्टनपीडनरज्जुदहनशस्त्राशनिभूतोपसर्गादीनि, निजस्य तु मुखं वातपित्तश्लेष्मणां वैषम्यम्||४||
Hide commentary
मुखानि कारणानि; यथा “रजस्वलागमनमलक्ष्मीमुखानाम्” (सू. २५) इति||४||
Adhikarana ४ (५) · Śloka ५
द्वयोस्तु खल्वागन्तुनिजयोः प्रेरणमसात्म्येन्द्रियार्थसंयोगः, प्रज्ञापराधः, परिणामश्चेति||५||
Hide commentary
प्रेरणमिति कारणम्, अनेकार्थत्वाद्धातूनाम्||५||
Adhikarana ५ (६) · Śloka ६
सर्वेऽपि तु खल्वेतेऽभिप्रवृद्धाश्चत्वारो रोगाः परस्परमनुबध्नन्ति, न चान्योन्येन सह सन्देहमापद्यन्ते ||६||
Hide commentary
अनुबध्नन्ति अनुगच्छन्ति| न सन्देहमापद्यन्त इति न सन्देहविषयतामापद्यन्ते; मिश्रीभूता अपि प्रतिस्वं भिन्नैर्लक्षणैर्भेदेन ज्ञायन्त इत्यर्थः||६||
Adhikarana ६ (७) · Śloka ७
आगन्तुर्हि व्यथापूर्वं समुत्पन्नो जघन्यं वातपित्तश्लेष्मणां वैषम्यमापादयति; निजे तु वातपित्तश्लेष्माणः पूर्वं वैषम्यमापद्यन्ते जघन्यं व्यथामभिनिर्वर्तयन्ति||७||
Hide commentary
आगन्तुनिजयोर्भेदकं लक्षणमाह- आगन्तुर्हीत्यादि| आगन्तुरुत्पन्नः सन्, व्यथापूर्वमिति पीडां प्रथमं कृत्वा, पश्चाद्दोषाणां वैषम्यमिति दोषवैषम्यलक्षणमुक्तं; स्वलक्षणकारकं तु वैषम्यमागन्तोरादितःप्रभृति विद्यमानमप्यकिञ्चित्करमिति भावः||७||
Adhikarana ७ (८) · Śloka ८
तेषां त्रयाणामपि दोषाणां शरीरे स्थानविभाग उपदेक्ष्यते; तद्यथा- बस्तिः पुरीषाधानं कटिः सक्थिनी पादावस्थीनि पक्वाशयश्च वातस्थानानि, तत्रापि पक्वाशयो विशेषेण वातस्थानं; स्वेदो रसो लसीका रुधिरमामाशयश्च पित्तस्थानानि, तत्राप्यामाशयो विशेषेण पित्तस्थानम्; उरः शिरो ग्रीवा पर्वाण्यामाशयो मेदश्च श्लेष्मस्थानानि, तत्राप्युरो विशेषेण श्लेष्मस्थानम्||८||
Hide commentary
आगन्तुनिजयोर्भेदकं लक्षणमभिधाय निजविकारकराणां वातादीनां भेदज्ञानार्थमाह- तेषामित्यादि| पुरीषाधानं पक्वाशयः| यद्यपि प्राणादिभेदभिन्नस्य वायोः पृथगेव स्थानानि वक्ष्यति; यथा- “स्थानं प्राणस्य शीर्षोरःकण्ठजिह्वास्यनासिकाः ” (चि. २८) इत्यादि; तथाऽपीदं वैशेषिकं स्थानं ज्ञेयं, यतोऽत्र प्रायो वातविकारा भवन्ति, भूताश्च दुर्जयाः; अत्र च विजिते वाते सर्ववातविकारावजय इति| लसीका उदकस्य पिच्छाभागः| पित्तस्थानेषु आमाशय इति आमाशयाधोभागाः, श्लेष्मस्थानेष्वामाशय आमाशयोर्ध्वभागः||८||
Adhikarana ८ (९-११) · Śloka ११
सर्वशरीरचरास्तु वातपित्तश्लेष्माणः सर्वस्मिञ्छरीरे कुपिताकुपिताः शुभाशुभानि कुर्वन्ति- प्रकृतिभूताः शुभान्युपचयबलवर्णप्रसादादीनि, अशुभानि पुनर्विकृतिमापन्ना विकारसञ्ज्ञकानि||९||
तत्र विकाराः सामान्यजा, नानात्मजाश्च|
तत्र सामान्यजाः पूर्वमष्टोदरीये व्याख्याताः, नानात्मजांस्त्विहाध्यायेऽनुव्याख्यास्यामः|
तद्यथा- अशीतिर्वातविकाराः, चत्वारिंशत् पित्तविकाराः, विंशतिः श्लेष्मविकाराः||१०||
तत्रादौ वातविकाराननुव्याख्यास्यामः|
तद्यथा- नखभेदश्च, विपादिका च, पादशूलं च, पादभ्रंशश्च, पादसुप्तता च, वातखुड्डता च, गुल्फग्रहश्च, पिण्डिकोद्वेष्टनं च, गृध्रसी च, जानुभेदश्च, जानुविश्लेषश्च, ऊरुस्तम्भश्च, ऊरुसादश्च, पाङ्गुल्यं च, गुदभ्रंशश्च, गुदार्तिश्च, वृषणाक्षेपश्च , शेफस्तम्भश्च, वङ्क्षणानाहश्च, श्रोणिभेदश्च, विड्भेदश्च, उदावर्तश्च, खञ्जत्वं च, कुब्जत्वं च, वामनत्वं च, त्रिकग्रहश्च, पृष्ठग्रहश्च, पार्श्वावमर्दश्च, उदरावेष्टश्च, हृन्मोहश्च , हृद्द्रवश्च, वक्षौद्घर्षश्च , वक्षौपरोधश्च, वक्षस्तोदश्च, बाहुशोषश्च, ग्रीवास्तम्भश्च, मन्यास्तम्भश्च, कण्ठोद्ध्वंसश्च, हनुभेदश्च , ओष्ठभेदश्च, अक्षिभेदश्च , दन्तभेदश्च, दन्तशैथिल्यं च, मूकत्वं च , वाक्सङ्गश्च, कषायास्यता च, मुखशोषश्च, अरसज्ञता च, घ्राणनाशश्च, कर्णशूलं च, अशब्दश्रवणं च, उच्चैःश्रुतिश्च , बाधिर्यं च, वर्त्मस्तम्भश्च, वर्त्मसङ्कोचश्च, तिमिरं च, अक्षिशूलं च, अक्षिव्युदासश्च, भ्रूव्युदासश्च, शङ्खभेदश्च, ललाटभेदश्च, शिरोरुक् च, केशभूमिस्फुटनं च, अर्दितं च, एकाङ्गरोगश्च, सर्वाङ्गरोगश्च, पक्षवधश्च , आक्षेपकश्च, दण्डकश्च, तमश्च , भ्रमश्च, वेपथुश्च, जृम्भा च, हिक्का च, विषादश्च, अतिप्रलापश्च, रौक्ष्यं च, पारुष्यं च, श्यावारुणावभासता च, अस्वप्नश्च, अनवस्थितचित्तत्वं च; इत्यशीतिर्वातविकारा वातविकाराणामपरिसङ्ख्येयानामाविष्कृततमा व्याख्याताः||११||
Hide commentary
सामान्यजा इति वातादिभिः प्रत्येकं मिलितैश्च ये जन्यन्ते| नानात्मजा इति ये वातादिभिर्दोषान्तरासम्पृक्तैर्जन्यन्ते| विपादिका पाणिपादस्फुटनम्| पादभ्रंशः पादस्यारोपविषयदेशादन्यत्र पतनम्| सुप्तिः पादयोर्निष्क्रियत्वं स्पर्शाज्ञता वा| वातखुड्डता ‘चालुक’ इति प्रसिद्धः| गृध्रसीशब्देन गृध्रसीशूलं गृह्यते| ऊरुस्तम्भेन च ऊरुस्तम्भनमात्रं वातजन्यत्वेन गृह्यते| एवं कर्णाक्षिशूलयोः शूलमात्रम्| वातजातीसारेऽपि विड्भेदो वातजः| एवं च न गृध्रस्यादीनां सामान्यजत्वं, यथोक्तांशस्य केवलवातजन्यत्वात्| उदरस्यावेष्टनमिवोदरावेष्टः| अशब्दश्रवणं शब्दाभावेऽपि शब्दश्रवणम्| उच्चैःश्रुतिः तारस्वरमात्रश्रवणम्, अल्पशब्दस्य तु सर्वथैवाश्रवणम्| बाधिर्यं शब्दमात्रस्यैवाश्रवणम्| तिमिरं तु वातजमेव, दोषान्तरसम्बन्धस्तत्रानुबन्धरूपः| एकाङ्गरोगः सर्वाङ्गरोगश्चेति ज्वरादिषु उष्णत्वशीतत्वादीनां कदाचिदेकाङ्गव्यापकत्वेनैकाङ्गरोगः, तेषामेव कदाचित् सर्वाङ्गव्यापकत्वेन सर्वाङ्गरोगः; दोषान्तरसम्बन्धेऽपि व्याप्त्यव्याप्ती वातकृते एव, “वायुना यत्र नीयन्ते तत्र वर्षन्ति मेघवत्” इति वचनात्| तथा भ्रमश्च वातिकः स्मृतिमोहरूपः| अत्र कस्यचिदङ्गस्य पादादेः शूलादयोऽभिहिता न हस्तादीनां; तत्र येऽभिहितास्ते प्रधानभूताः प्रायोभावित्वेन, अनुक्तास्तु वातविकाराणामपरिसङ्ख्येयत्वेन ग्राह्याः||९-११||
Adhikarana ९ (१२) · Śloka १२
सर्वेष्वपि खल्वेतेषु वातविकारेषूक्तेष्वन्येषु चानुक्तेषु वायोरिदमात्मरूपमपरिणामि कर्मणश्च स्वलक्षणं, यदुपलभ्य तदवयवं वा विमुक्तसन्देहा वातविकारमेवाध्यवस्यन्ति कुशलाः; तद्यथा- रौक्ष्यं शैत्यं लाघवं वैशद्यं गतिरमूर्तत्वमनवस्थितत्वं चेति वायोरात्मरूपाणि; एवंविधत्वाच्च वायोः कर्मणः स्वलक्षणमिदमस्य भवति तं तं शरीरावयवमाविशतः ; तद्यथा- स्रंसभ्रंसव्याससङ्गभेदसादहर्षतर्षकम्पवर्तचालतोदव्यथाचेष्टादीनि , तथा खरपरुषविशदसुषिरारुणवर्णकषायविरसमुखत्वशोषशूलसुप्तिसङ्कोचनस्तम्भनखञ्जतादीनि च वायोः कर्माणि; तैरन्वितं वातविकारमेवाध्यवस्येत्||१२||
Hide commentary
वायोरिदमित्यादौ वायोरिदमात्मरूपं स्वरूपम्| अपरिणामीति सहजसिद्धं नान्योपाधिकृतमित्यर्थः| कर्मणश्चेति विकृतस्य वायोः कर्मणः| स्वलक्षणमिति आत्मीयं लक्षणम्| अत्राप्यपरिणामीति सम्बध्यते; अपरिणामीति पित्तश्लेष्मसम्बन्धनिरपेक्षं, न तु शरीरावयवानपेक्षमिति; यतः ब्रूते- तं तं शरीरावयवमाविशतः इति; अत एव च स्रंसादीनां शरीरावयवापेक्षत्वेन न सर्वदा भावः| एवं च पित्तश्लेष्मणोरपि चात्मरूपादि व्याख्येयम्| अमूर्तत्वमिति अदृश्यत्वम्| एवंविधत्वादिति रौक्ष्यादियुक्तत्वाद्वायोरिति सम्बन्धः| स्रंसः किञ्चित्स्वस्थानचलनम्, भ्रंशस्तु दूरगतिः| व्यासः विस्तरणम्| हर्षः वायोरनवस्थितत्वेन प्रभावाद्वा क्रियते| वर्तुलीकरणं वर्तः| चालः स्पन्दः| रसवर्णौ वायुना रसवर्णरहितेनापि प्रभावात् क्रियेते||१२||
Adhikarana १० (१३) · Śloka १३
तं मधुराम्ललवणस्निग्धोष्णैरुपक्रमैरुपक्रमेत, स्नेहस्वेदास्थापनानुवासननस्तःकर्मभोजनाभ्यङ्गोत्सादनपरिषेकादिभिर्वातहरैर्मात्रां कालं च प्रमाणीकृत्य; तत्रास्थापनानुवासनं तु खलु सर्वत्रोपक्रमेभ्यो वाते प्रधानतमं मन्यन्ते भिषजः, तद्ध्यादित एव पक्वाशयमनुप्रविश्य केवलं वैकारिकं वातमूलं छिनत्ति; तत्रावजितेऽपि वाते शरीरान्तर्गता वातविकाराः प्रशान्तिमापद्यन्ते, यथा वनस्पतेर्मूले छिन्ने स्कन्धशाखाप्ररोहकुसुमफलपलाशादीनां नियतो विनाशस्तद्वत्||१३||
Hide commentary
प्रस्तावागतत्वेन चिकित्सासूत्रमाह- तं मधुरेत्यादि| आदित एवेति शीघ्रमेव| केवलं वैकारिकमिति सकलविकारकारकम् ||१३||
Adhikarana ११ (१४-१६) · Śloka १६
पित्तविकारांश्चत्वारिंशतमत ऊर्ध्वमनुव्याख्यास्यामः- ओषश्च, प्लोषश्च, दाहश्च, दवथुश्च, धूमकश्च, अम्लकश्च, विदाहश्च, अन्तर्दाहश्च, अंसदाहश्च , ऊष्माधिक्यं च, अतिस्वेदश्च (अङ्गस्वेदश्च), अङ्गगन्धश्च, अङ्गावदरणं च, शोणितक्लेदश्च, मांसक्लेदश्च, त्वग्दाहश्च, (मांसदाहश्च ), त्वगवदरणं च, चर्मदलनं च, रक्तकोठश्च, रक्तविस्फोटश्च, रक्तपित्तं च, रक्तमण्डलानि च, हरितत्वं च, हारिद्रत्वं च, नीलिका च, कक्षा(क्ष्या)च, कामला च, तिक्तास्यता च, लोहितगन्धास्यता च, पूतिमुखता च, तृष्णाधिक्यं च, अतृप्तिश्च, आस्यविपाकश्च, गलपाकश्च, अक्षिपाकश्च, गुदपाकश्च, मेढ्रपाकश्च, जीवादानं च , तमःप्रवेशश्च, हरितहारिद्रनेत्रमूत्रवर्चस्त्वं च; इति चत्वारिंशत्पित्तविकाराः पित्तविकाराणामपरिसङ्ख्येयानामाविष्कृततमा व्याख्याताः||१४||
सर्वेष्वपि खल्वेतेषु पित्तविकारेषूक्तेष्वन्येषु चानुक्तेषु पित्तस्येदमात्मरूपमपरिणामि कर्मणश्च स्वलक्षणं, यदुपलभ्य तदवयवं वा विमुक्तसन्देहाः पित्तविकारमेवाध्यवस्यन्ति कुशलाः; तद्यथा- औष्ण्यं तैक्ष्ण्यं द्रवत्वमनतिस्नेहो वर्णश्च शुक्लारुणवर्जो गन्धश्च विस्रो रसौ च कटुकाम्लौ सरत्वं च पित्तस्यात्मरूपाणि; एवंविधत्वाच्च पित्तस्य कर्मणः स्वलक्षणमिदमस्य भवति तं तं शरीरावयवमाविशतः; तद्यथा- दाहौष्ण्यपाकस्वेदक्लेदकोथकण्डूस्रावरागा यथास्वं च गन्धवर्णरसाभिनिर्वर्तनं पित्तस्य कर्माणि; तैरन्वितं पित्तविकारमेवाध्यवस्येत्||१५||
तं मधुरतिक्तकषायशीतैरुपक्रमैरुपक्रमेत स्नेहविरेकप्रदेहपरिषेकाभ्यङ्गादिभिः पित्तहरैर्मात्रां कालं च प्रमाणीकृत्य; विरेचनं तु सर्वोपक्रमेभ्यः पित्ते प्रधानतमं मन्यन्ते भिषजः; तद्ध्यादित एवामाशयमनुप्रविश्य केवलं वैकारिकं पित्तमूलमपकर्षति, तत्रावजिते पित्तेऽपि शरीरान्तर्गताः पित्तविकाराः प्रशान्तिमापद्यन्ते, यथाऽग्नौ व्यपोढे केवलमग्निगृहं शीतीभवति तद्वत्||१६||
Hide commentary
ओषः पार्श्वस्थितेनेव वह्निना पीडा| प्लोषः किञ्चिद्दहनमिव| दाहः सर्वाङ्गदहनमिव| दवथुः ‘धकधकिका’ इति लोके ख्याता| धूमकः धूमोद्वमनमिव| त्वगवदरणं बाह्यत्वङ्मात्रावदरणं; चर्मावदरणं तु षण्णामपि त्वचां दरणम्| रक्तपित्तं दोषान्तरासम्पृक्तं रक्तपित्तं पैत्तिकं ज्ञेयम्| एवं तृष्णायां च तृष्णामात्रम्| कक्षा कक्षदेशगतमांसदारणाः स्फोटाः सुश्रुतक्षुद्ररोगोक्ताः| गन्धो विस्र आमगन्धः| यथास्वमिति आत्मगन्धवर्णरससदृशम्| अग्निमद्गृहमग्निगृहम्||१४-१६||
Adhikarana १२ (१७-१९) · Śloka १९
श्लेष्मविकारांश्च विंशतिमत ऊर्ध्वं व्याख्यास्यामः; तद्यथा- तृप्तिश्च, तन्द्रा च, निद्राधिक्यं च, स्तैमित्यं च, गुरुगात्रता च, आलस्यं च, मुखमाधुर्यं च, मुखस्रावश्च, श्लेष्मोद्गिरणं च, मलस्याधिक्यं च, बलासकश्च , अपक्तिश्च, हृदयोपलेपश्च, कण्ठोपलेपश्च, धमनीप्रति(वि)चयश्च, गलगण्डश्च, अतिस्थौल्यं च, शीताग्निता च, उदर्दश्च, श्वेतावभासता च, श्वेतमूत्रनेत्रवर्चस्त्वं च; इति विंशतिः श्लेष्मविकाराः श्लेष्मविकाराणामपरिसङ्ख्येयानामाविष्कृततमा व्याख्याता भवन्ति||१७||
सर्वेष्वपि खल्वेतेषु श्लेष्मविकारेषूक्तेष्वन्येषु चानुक्तेषु श्लेष्मण इदमात्मरूपमपरिणामि कर्मणश्च स्वलक्षणं यदुपलभ्य तदवयवं वा विमुक्तसन्देहाः श्लेष्मविकारमेवाध्यवस्यन्ति कुशलाः; तद्यथा- स्नेहशैत्यशौक्ल्यगौरवमाधुर्यस्थैर्यपैच्छिल्यमार्त्स्न्यानि श्लेष्मण आत्मरूपाणि; एवंविधत्वाच्च श्लेष्मणः कर्मणः स्वलक्षणमिदमस्य भवति तं तं शरीरावयवमाविशतः; तद्यथा- श्वैत्यशैत्यकण्डूस्थैर्यगौरवस्नेहसुप्तिक्लेदोपदेहबन्धमाधुर्यचिरकारित्वानि श्लेष्मणः कर्माणि; तैरन्वितं श्लेष्मविकारमेवाध्यवस्येत्||१८||
तं कटुकतिक्तकषायतीक्ष्णोष्णरूक्षैरुपक्रमैरुपक्रमेत स्वेदवमनशिरोविरेचनव्यायामादिभिः श्लेष्महरैर्मात्रां कालं च प्रमाणीकृत्य; वमनं तु सर्वोपक्रमेभ्यः श्लेष्मणि प्रधानतमं मन्यन्ते भिषजः, तद्ध्यादित एवामाशयमनुप्रविश्योरोगतं केवलं वैकारिकं श्लेष्ममूलमूर्ध्वमुत्क्षिपति, तत्रावजिते श्लेष्मण्यपि शरीरान्तर्गताः श्लेष्मविकाराः प्रशान्तिमापद्यन्ते, यथा भिन्ने केदारसेतौ शालियवषष्टिकादीन्यनभिष्यन्द्यमानान्यम्भसा प्रशोषमापद्यन्ते तद्वदिति||१९||
Hide commentary
तृप्तिर्येन तृप्तमिवात्मानं सर्वदा मन्यते| बलासकः बलक्षयः; किंवा श्लेष्मोद्रेकान्मन्दज्वरित्वं, स्थूलाङ्गता वा बलासकः| धमनीप्रतिचयो धमन्युपलेपः | शीताग्निता मन्दाग्निता| मार्त्स्न्यं मसृणता| श्लेष्मकर्मसु सुप्तिर्निष्क्रियत्वेन, वाते तु स्पर्शाज्ञानेन| अत्रामाशयमनुप्रविश्येति वचनेन श्लेष्मस्थानेष्वामाशयस्य प्राधान्यं, पूर्वं तु ‘तत्रापि उरो विशेषेण’ इति वचनेनोरः प्रधानम्; एवमुभयमपि तुल्यं ज्ञेयम्||१७-१९||
Adhikarana १३ (२०-२२) · Śloka २२
भवन्ति चात्र- रोगमादौ परीक्षेत ततोऽनन्तरमौषधम्|
ततः कर्म भिषक् पश्चाज्ज्ञानपूर्वं समाचरेत्||२०||
यस्तु रोगमविज्ञाय कर्माण्यारभते भिषक्|
अप्यौषधविधानज्ञस्तस्य सिद्धिर्यदृच्छया||२१||
यस्तु रोगविशेषज्ञः सर्वभैषज्यकोविदः|
देशकालप्रमाणज्ञस्तस्य सिद्धिरसंशयम्||२२||
Hide commentary
सम्प्रति रोगज्ञानस्य चिकित्सायामुपयोगमाह- रोगमित्यादि| औषधं परीक्षेतेति सम्बन्धः| औषधपरीक्षा रोगापेक्षिणी, तेन तदनन्तरमेव सा भवतीति भावः| ततः कर्मेति चिकित्साम्| ज्ञानपूर्वमिति कर्मदर्शनजनितज्ञानपूर्वम्||२०-२२||
Adhikarana १४ (२३-२५) · Śloka २५
तत्र श्लोकाः- सङ्ग्रहः प्रकृतिर्देशो विकारमुखमीरणम् |
असन्देहोऽनुबन्धश्च रोगाणां सम्प्रकाशितः||२३||
दोषस्थानानि रोगाणां गणा नानात्मजाश्च ये|
रूपं पृथक् च दोषाणां कर्म चापरिणामि यत्||२४||
पृथक्त्वेन च दोषाणां निर्दिष्टाः समुपक्रमाः|
सम्यङ्महति रोगाणामध्याये तत्त्वदर्शिना||२५||
Hide commentary
सङ्ग्रहे सङ्ग्रह इति ‘चत्वारो रोगा’ इत्यादिसङ्क्षेपोक्तिः| प्रकृतिरिति ‘द्विविधा पुनः’ इत्यादिना| देश इति ‘द्विविधं चैषामधिष्ठानम्’ इत्यादिना| विकाराश्च मुखं च विकारमुखं, तत्र ‘विकाराः पुनः’ इत्यादिना विकाराः, ‘मुखानि’ इत्यादिना मुखम्| ‘द्वयोस्तु’ इत्यादिना ईरणम्| असन्देहः ‘न चान्योन्य’ इत्यादिना| ‘सर्वेषु’ इत्यादिना अनुबन्धः| नानात्मजाः सर्वे इति दोषान्तरासम्पृक्तदोषजन्या उक्ताः||२३-२५||
Adhikarana पुष्पिका · Śloka ५
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने महारोगाध्यायो नाम विंशोऽध्यायः||२०||
समाप्तो रोगचतुष्कः||५||
Hide commentary
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यव्याख्यायामायुर्वेददीपिकायां सूत्रस्थाने रोगचतुष्के महारोगाध्यायो विंशतितमः||२०||