Skip to content

२७. अन्नपानविध्यध्यायः

Adhikarana १ (१-२) · Śloka

अथातोऽन्नपानविधिमध्यायं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

Hide commentary

सम्प्रति सामान्येनोक्तानां गुणकर्मभ्यां प्रतिव्यक्त्यनुक्तानां प्रतिव्यक्तिप्राय उपयोगिद्रव्यस्य विशिष्टगुणकर्मकथनार्थमन्नपानविधिरध्यायोऽभिधीयते| अत्रोत्पन्नस्य छप्रत्ययस्य लुक्| अत्रान्ने काठिन्यसामान्यात् खाद्यं, पाने च द्रवत्वसामान्याल्लेह्यमवरुद्धं ज्ञेयम्| अन्नपानं विधीयते विशिष्टगुणकर्मयोगितया प्रतिपाद्यतेऽनेनेत्यन्नपानविधिः; द्रव्याणां गुणकर्मकथनमेव चान्नपानविधिः, यतस्तद्धि ज्ञात्वाऽन्नपानं विधीयते||१-२||

Adhikarana २ (३) · Śloka

इष्टवर्णगन्धरसस्पर्शं विधिविहितमन्नपानं प्राणिनां प्राणिसञ्ज्ञकानां प्राणमाचक्षते कुशलाः, प्रत्यक्षफलदर्शनात्; तदिन्धना ह्यन्तरग्नेः स्थितिः; तत् सत्त्वमूर्जयति, तच्छरीरधातुव्यूहबलवर्णेन्द्रियप्रसादकरं यथोक्तमुपसेव्यमानं, विपरीतमहिताय सम्पद्यते||३||

🔊 Audio coming soon

Hide commentary

किं तदन्नपानं करोतीत्याह- इष्टेत्यादि| इष्टमिति अभिमतं हितं च; किंवा इष्टं प्रियं, हितं तु विधिविहितशब्देनैव प्राप्यते| विधिर्वक्ष्यमाणरसविमाने “तदेतदाहारविधानम” (वि. १) इत्यादिग्रन्थवाच्यः, तथेन्द्रियोपक्रमणीये च “नारत्नपाणिः” (सू. ८) इत्यादिनोक्तं विधानं; तेन विधिना विहितं विधिविहितम्| अत्र वर्णादिषु शब्दाग्रहणमन्नपाने प्रायः शब्दस्याविद्यमानत्वात्| वर्णादिषु यद्यत् प्रथममन्नपाने गुह्यते, तत्तत् पूर्वमुक्तम्| रसस्तु स्पर्शस्य पश्चाद्गृह्यमाणोऽपि प्राधान्यख्यापनार्थं स्पर्शस्याग्रे कृतः| प्राणिनामित्यनेनैव लब्धेऽपि “प्राणिसञ्ज्ञकानाम्” इति वचनं स्थावरप्राणिप्रतिषेधार्थं; वृक्षादयो हि वनस्पतिसत्त्वानुकारोपदेशाच्छास्त्रे प्राणिन उक्ताः; नतु लोके प्राणिसञ्ज्ञकाः, किन्तर्हि जङ्गमा एव| इह च मनुष्यस्यैवाधिकृतत्वेऽपि सामान्येन सकलप्राणिप्राणहेतुतयाऽऽहारकथनं मनुष्यव्यतिरिक्तेऽपि प्राणिन्याहारस्य प्राणजनकत्वोपदर्शनार्थम्| प्राणमिति प्राणहेतुत्वात्; यथा- आयुर्घृतम्| अथ कथं तत् प्राणमाचक्षत इत्याह- प्रत्यक्षफलदर्शनादिति |- प्रत्यक्षेणैव ह्याहारं विधिना कुर्वतां प्राणा अनुवर्तन्त इति, तथा निराहाराणां प्राणा नह्यवतिष्ठन्त इति दृश्यत इत्यर्थः| प्रत्यक्षशब्दश्चेह स्फुटप्रमाणे वर्तते, यतः प्राणानामन्नकार्यत्वमनुमानगम्यमेव| अन्नकार्यत्व एव प्राणानां हेतुमाह- तदिन्धना हीत्यादिना| यस्मादन्तरग्निस्थितिश्चान्नपानहेतुना, अग्निस्थितिश्च प्राणहेतुः, ततोऽन्नं प्राणा इति भावः; उक्तं हि- “बलमारोग्यमायुश्च प्राणाश्चाग्नौ प्रतिष्ठिताः”| किंवा, पूर्वमन्नपानस्य प्राणहेतुत्वमुक्तं, तदिन्धना हीत्यादिनाऽग्निहेतुत्वं वर्ण्यते| सत्त्वमूर्जयतीति मनोबलं करोति| धातुव्यूहो धातुसङ्घातः| विपरीतम् अविधिसेवितम्||३||

Adhikarana ३ (४) · Śloka

तस्माद्धिताहितावबोधनार्थमन्नपानविधिमखिलेनोपदेक्ष्यामोऽग्निवेश! तत् स्वभावादुदक्तं क्लेदयति, लवणं विष्यन्दयति, क्षारः पाचयति, मधु सन्दधाति, सर्पिः स्नेहयति, क्षीरं जीवयति, मांसं बृंहयति, रसः प्रीणयति, सुरा जर्जरीकरोति, शीधुरवधमति, द्राक्षासवो दीपयति, फाणितमाचिनोति, दधि शोफं जनयति, पिण्याकशाकं ग्लपयति, प्रभूतान्तर्मलो माषसूपः, दृष्टिशुक्रघ्नः क्षारः, प्रायः पित्तलमम्लमन्यत्र दाडिमामलकात्, प्रायः श्लेष्मलं मधुरमन्यत्र मधुनः पुराणाच्च शालिषष्टिकयवगोधूमात्, प्रायस्तिकं वातलमवृष्यं चान्यत्र वेगाग्रामृतापटोलपत्रात्, प्रायः कटुकं वातलमवृष्यं चान्यत्र पिप्पलीविश्वभेषजात्||४||

🔊 Audio coming soon

Hide commentary

अन्नपानं विधीयते येन तं विधिं द्रव्यगुणकर्मरूपं, तथा चरशरीरावयवादिरूपं चाखिलेन कार्त्स्न्येनोपदेक्ष्यामः| यद्यपि चेह द्रव्यं प्रति प्रति गुणकर्मभ्यां न निर्देक्ष्यति, वक्ष्यति हि- “अन्नपानैकदेशोऽयमुक्तः प्रायोपयोगिकः” इति, तथाऽप्यनुक्तानामपि द्रव्याणां चरशरीरावयवाद्युपदेशेन, तथा पूर्वाध्यायोक्तपार्थिवादिद्रव्यगुणकर्मकथनेन च तद्विधानमप्युक्तं भवतीत्यत उक्तम्- अखिलेननेति; वक्ष्यति हि- “यथा नानौषधं किं चिद्देशजानां वचो यथा| द्रव्यं तु तत्तथा वाच्यमनुक्तमिह यद्भवेत्”, तथा “चरः शरीरवयवाः” इत्यादि; किंवा, विधिशब्दोऽशितपीतलीढखादितप्रकारवाची, तेन चाशितादयः सर्व एवाखिलेन वाच्यः, तत्कारणभूतानि तु द्रव्याणि रक्तशाल्यादीन्येकदेशेनोक्तानि, अतो वक्ष्यति- ‘अन्नपानैकदेशोऽयमुक्तः’ इति| अन्नपाने च वक्तव्ये यद्द्रव्यं प्राय उपयुज्यते, तस्य सामान्यगुणमभिधाय वर्गसङ्ग्रहेण गुणमुपदेक्ष्यति| उदकाभिधानं चाग्रे कृतम्, उदकस्यान्ने पाने च व्याप्रियमाणत्वात्| तदित्युदाहरणं; किंवा स स्वभावो यस्य स तत्स्वभावः, तस्मात् क्लेदनस्वभावादित्यर्थः| यद्यपि ‘उदकमाश्वासकराणां, जलं स्तम्भनानाम्’ (सू. २६) इत्युक्तं, तथाऽपीहानुक्तक्लेदनकर्माभिधानार्थं पुनरुच्यते| इह जललवणादीनां यत् कर्मोच्यते तत्तेषामितरकर्मभ्यः प्रधानं ज्ञेयम्, अग्र्याधिकारे तु तत्कर्मकर्तृद्रव्यान्तरप्रशस्तता ज्ञेया| क्षारः पचन्तमग्निं पाचयति, तेन पाचयतीति हेतौ णिच्| स्नेहयतीत्यादौ तु “तत्करोति तदाचष्टे” इति णिच्| सन्दधातीति विश्लिष्टानि त्वङ्मांसादीनि संश्लेषयति| रसः मांसरसः| प्रीणयतीति क्षीणान् पुष्णाति, नत्वतिबृहत्त्वं करोति; तेन मांसकर्मणा बृंहणेन समं नैक्यम्| जर्जरीकरोतीति श्लथमांसाद्युपचयं करोति; यदुक्तं हारीते- “सुरा जर्जरीकरोत्यसृङ्मेदोबाहुल्यात्” इति, तथा ह्यत्रैवोक्तं- “सुरा कृशानां पुष्ट्यर्थम्” इति| अवधमयतीति विलिखतीत्यर्थः, अनेकार्थत्वाद्धातूनां; वचनं हि- ‘लेखनः शीतरसिकः’ इति, तथा हारीतेऽप्युक्तं- “शीधुरवधमयति वाय्वग्निप्रबोधनात्” इति| आचिनोति ‘दोषान्’ इति शेषः, तन्त्रान्तरवचनं हि- “वातपित्तकफांस्तस्मादाचिनोति च फाणितम्” इति| पिण्याकः तिलकल्कः; निघण्टुकारस्त्वाह- पिण्याको हरितशिग्रुः| ग्लपयति हर्षक्षयं करोति| प्रभूतान्तर्मलस्य पुरीषस्य कर्ता प्रभूतान्तर्मलः; यद्यपि ‘माषो बहुमलः’ इति वक्ष्यति, तथाऽपि माषविकृतेः सूपस्येह गुणकथनं, तेन न पुनरुक्तं; न चावश्यं प्रकृतिधर्मो विकृतिमनुगच्छति, यतः सक्तूनां सिद्धपिण्डिका गुर्वी एव भवति, तस्मान्माषविकृतावपि मलवृद्धिदर्शनार्थमेतदभिधानम्| क्षारस्य पाचनत्वं गुणोऽभिहितः, इह तु दृष्टिशुक्रघ्नत्वं दोष इति पृथगुच्यते| प्रायः पित्तलमिति विशेषेणान्येभ्यो लवणकटुकेभ्योऽम्लं पित्तलम्| एवमन्यत्रापि प्रायःशब्दो विशेषार्थो वाच्यः; किंवा प्रायःशब्दोऽम्लेन सम्बध्यते| अत्र पित्तमादावम्लजन्यतयोक्तं, दोषप्राधान्यस्यानियतत्वात्; उक्तं हि- “न ते पृथक् पित्तकफानिलेभ्य” (सू. १९) इति, तथा “समपित्तानिलकफा” (सू. ७) इति; किंवा पित्तोष्मा वह्निः, स चेहान्नपानपचने प्रधानं; यदुक्तं- “यदन्नं देहधात्वोजोबलवर्णादिपोषकम्| तत्राग्निर्हेतुराहारान्नह्यपक्वाद्रसादयः” (चि. १५) इति; तेनेह वह्निकारणपित्तजनकमेवादावुच्यते; यतश्च पित्तजनकमग्रे वक्तव्यम्, अतो रसप्रधानमपि मधुरो नादावुक्तः| मधुन इति विच्छेदपाठेन नवानवस्य मधुनः कफाकर्तृत्वं दर्शयति| इह च षड्रसस्यैव कथनमेतत्त्रयेणैव, अनुक्तानां लवणतिक्तषायाणामपि पाकद्वारा ग्रहणात्; यतो लवणः पाकात् प्रायो मधुरः, तिक्तकषायौ कटुकौ पाकतो भवतः| ‘प्रायः सर्वं तिक्तं’ इत्यादिस्तु ग्रन्थो हारीतीयः, इह केनापि प्रमादाल्लिखितः||४||

Adhikarana ४ (५-७) · Śloka

परमतो वर्गसङ्ग्रहेणाहारद्रव्याण्यनुव्याख्यास्यामः ||५|| शूकधान्यशमीधान्यमांसशाकफलाश्रयान्| वर्गान् हरितमद्याम्बुगोरसेक्षुविकारिकान्||६|| दश द्वौ चापरौ वर्गौ कृतान्नाहारयोगिनाम्| रसवीर्यविपाकैश्च प्रभावैश्च प्रचक्ष्महे||७||

🔊 Audio coming soon

Hide commentary

वर्गेण शूकधान्यादीनां आहारद्रव्याणां सङ्ग्रहो वर्गसङ्ग्रहः| रसवीर्येत्यादौ प्रभावोऽल्पविषयतया पृथक्पठितः| रसादिनिर्देशश्च यथायोग्यतया ज्ञेयः, तेन न सर्वद्रव्ये सर्वरसाद्यभिधानं भविष्यति| अत्र शूकधान्यमादावाहारप्रधानत्वात्; शूकवन्ति धान्यानि शूकधान्यानि||५-७||

Adhikarana ५ (८-१२) · Śloka १२

अथ शूकधान्यवर्गः- रक्तशालिर्महाशालिः कलमः शकुनाहृतः | तूर्णको दीर्घशूकश्च गौरः पाण्डुकलाङ्गुलौ||८|| सुगन्धको लोहवालः सारिवाख्यः प्रमोदकः| पतङ्गस्तपनीयश्च ये चान्ये शालयः शुभाः||९|| शीता रसे विपाके च मधुराश्चाल्पमारुताः| बद्धाल्पवर्चसः स्निग्धा बृंहणाः शुक्रमूत्रलाः||१०|| रक्तशालिर्वरस्तेषां तृष्णाघ्नस्त्रिमलापहः | महांस्तस्यानु कलमस्तस्याप्यनु ततः परे||११|| यवका हायनाः पांसुवाप्यनैषधकादयः | शालीनां शालयः कुर्वन्त्यनुकारं गुणागुणैः||१२||

🔊 Audio coming soon

Hide commentary

इह च द्रव्यनामानि नानादेशप्रसिद्धानि, तेन नामज्ञाने सामर्थ्यं तथाभूतं नास्त्येवान्येषामपि टीकाकृतां, तेन देशान्तरिभ्यो नाम प्रायशो ज्ञेयं, यत्तु प्रचरति गौडे तल्लेखिष्यामोऽन्यदेशप्रसिद्धं च किञ्चित्| कलमो वेदाग्रहारेषु स्वनामप्रसिद्धः| शकुनाहृतः श्रावस्त्यां वक्रनाम्ना प्रसिद्धः| रक्तशालिः प्रसिद्ध एव| महाशालिर्मगधे प्रसिद्धः| अत्र च शालिर्हैमन्तिकं धान्यं, षष्टिकादयश्च ग्रैष्मिकाः, व्रीहयः शारदा इति व्यवस्था| रक्तशाल्यादीनां मधुरपाकित्वेऽपि बद्धवर्चस्त्वं प्रभावादेव| महांस्तस्यान्विति रक्तशालेरनु, तेन रक्तशालिगुणा महाशालेर्मनागल्पाः; एवं तस्यानु कलम इत्यत्रापि वाच्यम्| तस्येति महाशालेः| ततः परे इति शकुनाहृतादयः, उत्तरोत्तरमल्पगुणा इत्यर्थः| गुणागुणैरिति शालीनां रक्तशाल्यादीनां ये गुणास्तृष्णाघ्नत्वत्रिमलापहत्वादयः, तेषामगुणैस्तद्गुणविपरीतैर्दोषैर्यवकादयोऽनुकारं कुर्वन्ति, ततश्च यवकास्तृष्णात्रिमलादिकरा इति| गुणशब्दश्चेह प्रशंसायाम् ||८-१२||

Adhikarana ६ (१३-१५) · Śloka १५

शीतः स्निग्धोऽगुरुः स्वादुस्त्रिदोषघ्नः स्थिरात्मकः| षष्टिकः प्रवरो गौरः कृष्णगौरस्ततोऽनु च||१३|| वरकोद्दालकौ चीनशारदोज्ज्वलदर्दुराः| गन्धनाः कुरुविन्दाश्च षष्टिकाल्पान्तरा गुणैः||१४|| मधुरश्चाम्लपाकश्च व्रीहिः पित्तकरो गुरुः| बहुमूत्रपुरीषोष्मा त्रिदोषस्त्वेव पाटलः||१५||

🔊 Audio coming soon

Hide commentary

षष्टिकगुणेऽकारप्रश्लेषादगुरुरिति बोद्धव्यं, मात्राशितीये (सू. ५) षष्टिको लघुः पठितः| ततोऽनु चेति गौरषष्टिकादल्पान्तरगुणः| वरकोद्दालकादयः षष्टिकविशेषाः; केचित् कुधान्यानि वरकादीनि वदन्ति| व्रीहिरिति शारदाशुधान्यस्य सञ्ज्ञा| पाटलो व्रीहिविशेषः| तन्त्रान्तरेऽपि पठ्यते- “त्रिदोषस्त्वेव पाटलः” इति, सुश्रुते पाटलशब्देनैतद्व्यतिरिक्तो धान्यविशेषो ज्ञेयः, तेन तद्गुणकथनेन नेह विरोधः||१३-१५||

Adhikarana ७ (१६-१८) · Śloka १८

सकोरदूषः श्यामाकः कषायमधुरो लघुः| वातलः कफपित्तघ्नः शीतः सङ्ग्राहिशोषणः||१६|| हस्तिश्यामाकनीवारतोयपर्णीगवेधुकाः| प्रशान्तिकाम्भःश्यामाकलौहित्याणुप्रियङ्गवः ||१७|| मुकुन्दो झिण्टिगर्मूटी वरुका वरकास्तथा| शिबिरोत्कटजूर्णाह्वाः श्यामाकसदृशा गुणैः||१८||

🔊 Audio coming soon

Hide commentary

कोरदूषादयः कुधान्यविशेषाः| कोरदूषः कोद्रवः, कोरदूषस्य केवलस्य श्लेष्मपित्तघ्नत्वं, तेन यदुक्तं रक्तपित्तनिदाने- “यदा जन्तुर्यवकोद्दालककोरदूषप्रायाण्यन्नानि भुङ्क्ते” (नि. २) इत्यादिना पित्तकर्तृत्वं कोरदूषस्य, तत्तत्रैवोक्तनिष्पावकाञ्जिकादियुक्तस्य संयोगमहिम्ना बोद्धव्यम्| श्यामाकादयोऽपि तृणधान्यविशेषाः| हस्तिश्यामाकः श्यामाकभेद एव; नीवार उडिका; गवेधुको घुलुञ्चः, स ग्राम्यारण्यभेदेन द्विविधः| प्रशातिका उडिकैव स्थलजा रक्तशूका; अम्भःश्यामाका जलजा ओडिका लोके ‘डे’ इत्युच्यते; प्रियङ्गुः ‘काङ्गनी’ इति प्रसिद्धा| मुकुन्दो ‘वाकसतृण’ इति; वरुकः शणबीजं; वरकः श्यामबीजं; शिविरस्तीरभुक्तौ ‘सिद्ध(क्ता)क’ इत्युच्यते; जूर्णाह्वो ‘जोनार’ इति ख्यातः||१६-१८||

Adhikarana ८ (१९-२०) · Śloka २०

रूक्षः शीतोऽगुरुः स्वादुर्बहुवातशकृद्यवः| स्थैर्यकृत् सकषायश्च बल्यः श्लेष्मविकारनुत्||१९|| रूक्षः कषायानुरसो मधुरः कफपित्तहा| मेदःक्रिमिविषघ्नश्च बल्यो वेणुयवो मतः||२०||

🔊 Audio coming soon

Hide commentary

यवस्य गुरोरपि बहुवातत्वं रूक्षत्वात्; किंवा सुश्रुते यवो लघुः पठितः, तेनात्राप्यगुरुरिति मन्तव्यं; बल्यश्च स्रोतः- शुद्धिकरत्वात् प्रभावाद्वा| अस्य च शीतमधुरकषायत्वेनानुक्तमपि पित्तहन्तृत्वं लभ्यत एव, तेन सुश्रुते “कफपित्तहन्ता” (सु. सू. ४६) इत्युक्तमुपपन्नम्||१९-२०||

Adhikarana ९ (२१-२२) · Śloka २२

सन्धानकृद्वातहरो गोधूमः स्वादुशीतलः| जीवनो बृंहणो वृष्यः स्निग्धः स्थैर्यकरो गुरुः||२१|| नान्दीमुखी मधूली च मधुरस्निग्धशीतले| इत्ययं शूकधान्यानां पूर्वो वर्गः समाप्यते||२२|| इति शूकधान्यवर्गः प्रथमः|

🔊 Audio coming soon

Hide commentary

गोधूमस्य स्वादुशीतस्निग्धादिगुणोपयोगाच्छ्लेष्मकर्तृत्वं भवत्येव, अत एव सुश्रुते “श्लेष्मकर” (सु. सू. ४६) इत्युक्तम्| यत्तु वसन्ते कफप्रधाने “यवगोधूमभोजनः” (सू. ६) इत्युक्तं तत् पुराणगोधूमाभिप्रायेण; पुराणश्च गोधूमः कफं न करोतीत्युक्तमेव ‘प्रायः श्लेष्मलं मधुरम्’ इत्यादिना ग्रन्थेनात्रैवाध्याये| नन्दीमुखी यविका, मधूली गोधूमभेदः| इत्ययमत्र ‘इति’ प्रकारार्थः| समाप्त इति वक्तव्ये समाप्यत इति यत् करोति, तेन ज्ञापयति- यत्- बहुद्रव्यत्वान्नायं समाप्तो गणः, किन्तु यथाकथञ्चित् प्रसिद्धगुणकथनेन समाप्यते| एवमन्यत्रापि षष्ठो वर्गः समाप्यत इत्यादौ व्याख्येयम्||२१-२२||

Adhikarana १० (२३-३४) · Śloka ३४

अथ शमीधान्यवर्गः- कषायमधुरो रूक्षः शीतः पाके कटुर्लघुः| विशदः श्लेष्मपित्तघ्नो मुद्गः सूप्योत्तमो मतः||२३|| वृष्यः परं वातहरः स्निग्धोष्णो मधुरो गुरुः| बल्यो बहुमलः पुंस्त्वं माषः शीघ्रं ददाति च||२४|| राजमाषः सरो रुच्यः कफशुक्राम्लपित्तनुत्| तत्स्वादुर्वातलो रूक्षः कषायो विशदो गुरुः||२५|| उष्णाः कषायाः पाकेऽम्लाः कफशुक्रानिलापहाः| कुलत्था ग्राहिणः कासहिक्काश्वासार्शसां हिताः||२६|| मधुरा मधुराः पाके ग्राहिणो रूक्षशीतलाः| मकुष्ठकाः प्रशस्यन्ते रक्तपित्तज्वरादिषु||२७|| चणकाश्च मसूराश्च खण्डिकाः सहरेणवः| लघवः शीतमधुराः सकषाया विरूक्षणाः||२८|| पित्तश्लेष्मणि शस्यन्ते सूपेष्वालेपनेषु च| तेषां मसूरः सङ्ग्राही कलायो वातलः परम्||२९|| स्निग्धोष्णो मधुरस्तिक्तः कषायः कटुकस्तिलः| त्वच्यः केश्यश्च बल्यश्च वातघ्नः कफपित्तकृत्||३०|| मधुराः शीतला गुर्व्यो बलघ्न्यो रूक्षणात्मिकाः| सस्नेहा बलिभिर्भोज्या विविधाः शिम्बिजातयः||३१|| शिम्बी रूक्षा कषाया च कोष्ठे वातप्रकोपिनी| न च वृष्या न चक्षुष्या विष्टभ्य च विपच्यते||३२|| आढकी कफपित्तघ्नी वातला, कफवातनुत्| अवल्गुजः सैडगजो, निष्पावा वातपित्तलाः||३३|| काकाण्डोमा(ला)त्मगुप्तानां माषवत् फलमादिशेत्| द्वितीयोऽयं शमीधान्यवर्गः प्रोक्तो महर्षिणा||३४|| इति शमीधान्यवर्गो द्वितीयः|

🔊 Audio coming soon

Hide commentary

धान्यत्वेन शमीधान्यवर्गेऽभिधातव्ये प्रधानत्वान्मुद्गो निरुच्यते| सूप्यं सूपयोग्यं शमीधान्यं, तत्रोत्तमः सूप्योत्तमः | वृष्य इत्यादिमाषगुणे स्रिग्धोष्णमधुरत्वादिगुणयोगादेव वातहरत्वे लब्धे पुनस्तदभिधानं विशेषवातहन्तृत्वप्रतिपादनार्थम्, एवमन्यत्राप्येवञ्जातीये व्याख्येयम्| पुंस्त्वं शुक्रम्| शीघ्रमितिवचनेन शुक्रस्रुतिकरत्वलक्षणमपि वृष्यत्वं माषस्य दर्शयति, शुक्रस्रुतिकरं च वृष्यशब्देनोच्यत एव, वचनं हि- “शुक्रस्रुतिकरं किञ्चित् किञ्चित् शुक्रविवर्धनम्| स्रुतिवृद्धिकरं किञ्चित्त्रिविधं वृष्यमुच्यते” इति; तदेवं सम्पूर्णवृष्यत्वं माषे बोद्धव्यम्| राजमाषगुणकथने तत्स्वादुरिति माषवत्स्वादुः; किंवा रूक्षश्चेत्यादि पाठान्तरम्| उष्ण इत्यादिना कुलत्थगुणः, कुलत्थश्च शुक्लकृष्णचित्रलोहितभेदेन चतुर्विधो भवति, तथा ग्राम्यवन्यभेदेन च द्विविधोऽपि; अत एव तन्त्रान्तरे “वन्यः कुलत्थस्तद्वच्च विशेषान्नेत्ररोगनुत्” इत्युक्तम्| मकुष्टको ‘मोठ’ इति ख्यातः| चणकः प्रसिद्धः| खण्डिका त्रिपुटकलायः, हरेणुः वर्तुलकलायः| कलायो वातल इति त्रिपुटकलायः| तिलगुणो यद्यपि विशेषेण नोक्तः, तथाऽपि प्रधाने कृष्णतिले ज्ञेयः; उक्तं हि सुश्रुते- “तिलेषु सर्वेष्वसितः प्रधानो, मध्यः सितो, हीनतरास्ततोऽन्ये” (सु. ४६) इति | विविधाः शिम्बीजातय इति कृष्णपीतरक्तश्वेतकुशिम्बीभेदा इत्यर्थः| ‘शिम्बी रूक्षा’ इत्यादि केचित् पठन्ति| आढकी तुवरी वातलेति च्छेदः| कफवातनुदित्यवल्गुजैडगजयोर्बीजस्य गुणः| निष्पावो वल्लः| काकाण्डः शूकरशिम्बिः , उमा अतसी, ऊर्णापाठपक्षे तस्यैवोर्णा| शमीधान्यवर्ग इत्यत्र शमी शिम्बिः, तदन्तर्गतं धान्यम्||२३-३४||

Adhikarana ११ (३५-३६) · Śloka ३७

अथ मांसवर्गः- गोखराश्वतरोष्ट्राश्वद्वीपिसिंहर्क्षवानराः| वृको व्याघ्रस्तरक्षुश्च बभ्रुमार्जारमूषिकाः||३५|| लोपाको जम्बुकः श्येनो वान्तादश्चाषवायसौ| शशघ्नी मधुहा भासो गृध्रोलूककुलिङ्गकाः||३६|| धूमिका कुररश्चेति प्रसहा मृगपक्षिणः|३७|

🔊 Audio coming soon

Hide commentary

सूप्यानन्तरं मांसस्य व्यञ्जनत्वेन प्राधान्यान्मांसवर्गाभिधानम्| खरः गर्दभः; अश्वतरः वेगसरः, स चाश्वायां खराज्जातः; द्वीपिः चित्रव्याघ्रः; ऋक्षः भल्लूकः| वृकः कुक्कुरानुकारी पशुशत्रुः; तरक्षुः व्याघ्रभेदः ‘तरच्छ’ इति ख्यातः; बभ्रुः अतिलोमशः कुक्कुरः पर्वतोपकण्ठे भवति, केचिद्बृहन्नकुलमाहुः| लोपाकः स्वल्पशृगालो महालाङ्गूलः| श्येनः पक्षी प्रसिद्धः| वान्तादः कुक्कुरः| चासः(षः) ‘कनकवायस ’ इति ख्यातः| शशघ्नी ‘पाञ्जिः’ इति ख्याता| भासः भस्मवर्णः पक्षी शिखावान् प्रसहवर्गे| कुलिङ्गः कालचटकः||३५-३६||-

Adhikarana १२ (३७-३८) · Śloka ३८

श्वेतः श्यामश्चित्रपृष्ठः कालकः काकुलीमृगः||३७|| कूर्चिका चिल्लटो भेको गोधा शल्लकगण्डकौ| कदली नकुलः श्वाविदिति भूमिशयाः स्मृताः||३८||

🔊 Audio coming soon

Hide commentary

काकुलीमृगः ‘मालुयासर्प’ इति ख्यातः, तस्य श्वेत इत्यादयश्चत्वारो भेदाः| कूर्चिका सङ्कुचः| चिल्लटः चियारः| शल्लकः महाशकली, ‘शलक’ इति ख्यातः; गण्डकः गोधाभेदः| कदली ‘कदलीहट्ट’ इति ख्यातः| श्वावित् ‘सेज्जक’ इति ख्यातः| भूमिशया बिलेशयाः||३७-३८||

Adhikarana १३ (३९) · Śloka ३९

सृमरश्चमरः खङ्गो महिषो गवयो गजः| न्यङ्कुर्वराहश्चानूपा मृगाः सर्वे रुरुस्तथा||३९||

🔊 Audio coming soon

Hide commentary

सृमरः महाशूकरः| चमरः केशमृत्युः| खङ्गः गण्डकः| गवयः गवाकारः| न्यङ्कुः न्यङ्कुशो हरिणः| रुरुः बहुशृङ्गो हरिणः||३९||

Adhikarana १४ (४०) · Śloka ४१

कूर्मः कर्कटको मत्स्यः शिशुमारस्तिमिङ्गिलः| शुक्तिशङ्खोद्रकुम्मीरचुलुकीमकरादयः||४०|| इति वारिशयाः प्रोक्ता...|४१|

🔊 Audio coming soon

Hide commentary

शिशुमारः गोतुण्डनक्रः| तिमिङ्गिलः सामुद्रो महामत्स्यः| शुक्तिः मुक्ताप्रभवो जन्तुः, ऊद्रः जलबिडालः, कुम्भीरः घटिकावान्, चुलुकी ‘शुशु’ इति ख्यातः| शिशुमारादीनां मत्स्यग्रहणेन ग्रहणे प्राप्ते विशेषव्यवहारार्थं पुनरभिधानम्||४०||-

Adhikarana १५ (४१-४४) · Śloka ४४

...वक्ष्यन्ते वारिचारिणः| हंसः क्रौञ्चो बलाका च बकः कारण्डवः प्लवः||४१|| शरारिः पुष्कराह्वश्च केशरी मणितुण्डकः | मृणालकण्ठो मद्गुश्च कादम्बः काकतुण्डकः||४२|| उत्क्रोशः पुण्डरीकाक्षो मेघरावोऽम्बकुक्कुटी| आरा नन्दीमुखी वाटी सुमुखाः सहचारिणः||४३|| रोहिणी कामकाली च सारसो रक्तशीर्षकः| चक्रवाकस्तथाऽन्ये च खगाः सन्त्यम्बुचारिणः||४४||

🔊 Audio coming soon

Hide commentary

हंसश्चतुर्विधोऽपि राजहंसादिर्ग्राह्यः| क्रौञ्चः ‘कोञ्च’ इति ख्यातः| बकः पाण्डुरपक्षः| बलाका शुक्ला| कारण्डवः काकवक्त्रः| प्लवः स्वनामप्रसिद्धः प्रसेवगलः| शरारिः ‘शराली’ इति लोके| मद्गुः पानीयकाकः| कादम्बः कलहंसः| काकतुण्डकः श्वेतकारण्डवः| उत्क्रोशः ‘कुरल’ इति ख्यातः| पुण्डरीकाक्षः पुण्डरः| मेघरावः मेघनादः; मेघरावश्चातक इत्यन्ये, तन्न तस्य वारिचरत्वाभावात्| अम्बुकुक्कुटी जलकुक्कुटी| आरा स्वनामख्याता| नन्दीमुखी पत्राटी| सारसः प्रसिद्धः| रक्तशीर्षकः सारसभेदो लोहितशिराः| अम्बुचारिण इति जले प्लवन्त इत्यर्थः||४१-४४||

Adhikarana १६ (४५-४६) · Śloka ४६

पृषतः शरभो रामः श्वदंष्ट्रो मृगमातृका| शशोरणौ कुरङ्गश्च गोकर्णः कोट्टकारकः||४५|| चारुष्को हरिणैणौ च शम्बरः कालपुच्छकः| ऋष्यश्च वरपोतश्च विज्ञेया जाङ्गला मृगाः||४६||

🔊 Audio coming soon

Hide commentary

पृषतः चित्रहरिणः| शरभः अष्टापद उष्ट्रप्रमाणो महाशृङ्गः पृष्ठगतचतुष्पादः काश्मीरे प्रसिद्धः| रामः हिमालये महामृगः| श्वदंष्ट्रः चतुर्दंष्ट्रः कार्तिकपुरे प्रसिद्धः| मृगमातृका स्वल्पा पृथूदरा हरिणजातिः| कुरङ्गः हरिणभेदः| गोकर्णः गोमुखहरिणविशेषः | हरिणः ताम्रवर्णः, एणः कृष्णसारः| ऋष्यः नीलाण्डो हरिणः| चारुष्कादयोऽपि हरिणभेदा एव| शशस्तु सुश्रुते बिलेशयेषु पठितः, तददूरान्तरार्थम्||४५-४६||

Adhikarana १७ (४७-४९) · Śloka ४९

लावो वर्तीरकश्चैव वार्तीकः सकपिञ्जलः| चकोरश्चोपचक्रश्च कुक्कुभो रक्तवर्त्मकः||४७|| लावाद्या विष्किरास्त्वेते वक्ष्यन्ते वर्तकादयः| वर्तको वर्तिका चैव बर्ही तित्तिरिकुक्कुटौ||४८|| कङ्कशारपदेन्द्राभगोनर्दगिरिवर्तकाः| क्रकरोऽवकरश्चैव वारडश्चेति विष्किराः||४९||

🔊 Audio coming soon

Hide commentary

लावः प्रसिद्धः| वर्तीरः कपिञ्जलभेदः| कपिञ्जलः गौरतित्तिरिः| वार्तीकः चटकभेदः सङ्घातचारी| उपचक्रः चकोरभेदः| कुक्कुभः प्रसिद्धः; रक्तवर्त्मक इति कुक्कुभविशेषणं, तेन स्थूलकुक्कुभो गृह्यते| वर्तकः ‘वट्टही’ इति ख्यातः| वार्तिका स्वल्पप्रमाणा जात्यन्तरमेव, केचित्तु वर्तकस्त्रियं वर्तिकां वदन्ति; अस्याश्च ग्रहणं स्त्रीलिङ्गभेदेऽपि विशेषलाघवप्रतिषेधार्थम्, अन्यथा स्त्रीत्वेन वर्तिकाद्वर्तिकाया लाघवं स्यात्| बर्ही मयूरः| शारपदेन्द्राभः मल्लकङ्कः| गोनर्दो ‘घोडाकङ्क’ इति ख्यातः| क्रकरः प्रसिद्धः| लावादिवर्तिकादिविष्किरगणद्वयकरणं गुणभेदकथनार्थम्||४७-४९||

Adhikarana १८ (५०-५२) · Śloka ५३

शतपत्रो भृङ्गराजः कोयष्टिर्जीवजीवकः| कैरातः कोकिलोऽत्यूहो गोपापुत्रः प्रियात्मजः||५०|| लट्टा लट्ट(टू)षको बभ्रुर्वटहा डिण्डिमानकः| जटी दुन्दुभिपाक्कारलोहपृष्ठकुलिङ्गकाः ||५१|| कपोतशुकशारङ्गाश्चिरटीकङ्कुयष्टिकाः| सारिका कलविङ्कश्च चटकोऽङ्गारचूडकः||५२|| पारावतः पाण्ड(न)विक इत्युक्ताः प्रतुदा द्विजाः|५३|

🔊 Audio coming soon

Hide commentary

शतपत्रः काष्ठकुक्कुटकः| भृङ्गराजः प्रसिद्धो भ्रमरवर्णः| कोयष्टिः ‘कोडा’ इति ख्यातः| जीवञ्जीवकः विषदर्शनमृत्युः| अत्यूहः डाहुकः, ‘दात्यूह’ इति वा पाठः, स च प्रसिद्धः| लट्टा फेञ्चाको रक्तपुच्छाधोभागः, लटूषकोऽपि तद्भेदः| डिण्डिमानकः डिण्डिमवदुत्कटध्वनिः| कुलिङ्ग इति वनचटकाकारः पीतमस्तकः ‘वाऐ’ इति लोके| कलविङ्कः ग्राम्यचटकः| चटकस्तु देवकुलचटकः स्वल्पप्रमाणः| यान्यत्रानुक्तान्यप्रसिद्धानि तानि तद्विद्भ्यो देशान्तरिभ्यश्च ज्ञेयानि||५०-५२||-

Adhikarana १९ (५३-५५) · Śloka ५६

प्रसह्य भक्षयन्तीति प्रसहास्तेन सञ्ज्ञिताः||५३|| भूशया बिलवासित्वादानूपानूपसंश्रयात् | जले निवासाज्जलजा जलेचर्याज्जलेचराः||५४|| स्थलजा जाङ्गलाः प्रोक्ता मृगा जाङ्गलचारिणः| विकीर्य विष्किराश्चेति प्रतुद्य प्रतुदाः स्मृताः||५५|| योनिरष्टविधा त्वेषा मांसानां परिकीर्तिता|५६|

🔊 Audio coming soon

Hide commentary

प्रसहादिसञ्ज्ञानिरुक्त्या लक्षणमाह| प्रसह्येति हठात्| आनूपानूपसंश्रयादिति पूर्वत्रासिद्धविधेरनित्यत्वेनानूपा इत्यत्र यलोपस्य सिद्धत्वेनैव संहिता ज्ञेया| जलेचर्यादिति जलवासिनामेव हंसादीनां जले चरणमात्रत्वं बोद्धव्यम्| ‘स्थलजा’ इत्युक्ते गजादिष्वपि स्थलजातेषु प्रसक्तिः स्यादित्याह- जाङ्गलचारिण इति| विकीर्येत्यत्र ‘भक्षयन्ति’ इति शेषः; एवं प्रतुद्येत्यत्रापि, प्रतुद्येति बहुधाऽभिहत्य||५३-५५||-

Adhikarana २० (५६-६०) · Śloka ६१

प्रसहा भूशयानूपवारिजा वारिचारिणः||५६|| गुरूष्णस्निग्धमधुरा बलोपचयवर्धनाः| वृष्याः परं वातहराः कफपित्तविवर्धनाः||५७|| हिता व्यायामनित्येभ्यो नरा दीप्ताग्नयश्च ये| प्रसहानां विशेषेण मांसं मांसाशिनां भिषक्||५८|| जीर्णार्शोग्रहणीदोषशोषार्तानां प्रयोजयेत्| लावाद्यो वैष्किरो वर्गः प्रतुदा जाङ्गला मृगाः||५९|| लघवः शीतमधुराः सकषाया हिता नृणाम्| पित्तोत्तरे वातमध्ये सन्निपाते कफानुगे||६०|| विष्किरा वर्तकाद्यास्तु प्रसहाल्पान्तरा गुणैः|६१|

🔊 Audio coming soon

Hide commentary

प्रसहा द्विविधा मांसादा व्याघ्रश्येनादयः, तथा अमांसादाश्च गवादयः; तेन मांसादानां विशेषमाह- प्रसहानामित्यादि| जीर्णत्वेनार्शःप्रभृतीनां चिरानुबन्धं दर्शयति| प्रतुदा इत्यत्र तथा जाङ्गला इत्यत्र चकारो लुप्तनिर्दिष्टः| कफानुगे इति च्छेदः||५६-६०||-

Adhikarana २१ (६१-६२) · Śloka ६३

नातिशीतगुरुस्निग्धं मांसमाजमदोषलम्||६१|| शरीरधातुसामान्यादनभिष्यन्दि बृंहणम्| मांसं मधुरशीतत्वाद्गुरु बृंहणमाविकम्||६२|| योनावजाविके मिश्रगोचरत्वादनिश्चिते|६३|

🔊 Audio coming soon

Hide commentary

शरीरधातुसामान्यादिति मनुष्यमांससमानत्वात्| एतेन शीतगुरुस्निग्धत्वेन युक्तमप्याजमांसं शरीरधातुसाम्यात् कफं न करोतीत्युक्तं भवति| आविकं मांसं मधुरशीतत्वेन पित्तहरमपि बोद्धव्यम्, अत एव शरद्विधावप्युक्तम्- “उरभ्रशरभान्” (सू. ६) इति| रक्तपित्तनिदाने (नि. २) तु वराहमहिषेत्यादिना द्रव्यान्तरसंयुक्तस्यैवाविकमांसस्य रक्तपित्तकर्तृत्वं ज्ञेयम्| योनाविति प्रसहाद्यष्टविधजातौ| मिश्रगोचरत्वादिति कदाचिदनूपसेवनात्, कदाचिद्धन्वसेवनात्, कदाचिदुभयसेवनादजाव्योरनिश्चितयोनित्वमित्यर्थः| अत्र, ‘अनिश्चिते’ इति योनिविशेषणं, किंवा अजा च अवी च एते अनिश्चिते| ननु यद्येवं तदा तित्तिरिरपि धन्वानूपसेवनान्न विष्किरगणे पठनीयः| नैवं, तित्तिरिजातिविशेषस्य धन्वानूपयोर्नियमेन निषेवणाद्गुणनियमः पार्यते कर्तुम्; अव्यजयोस्तु नियमोऽयं नास्ति, यतः केचिदजावी धन्वमात्रचरे, केचिच्चानूपमात्रचरे, केचिच्चोभयामात्रचरे; तेन तयोर्नियमचरकृतो योनिभेदः कर्तुं न पार्यते||६१-६२||-

Adhikarana २२ (६३-८७) · Śloka ८७

सामान्येनोपदिष्टानां मांसानां स्वगुणैः पृथक्||६३|| केषाञ्चिद्गुणवैशेष्याद्विशेष उपदेक्ष्यते| दर्शनश्रोत्रमेधाग्निवयोवर्णस्वरायुषाम्||६४|| बर्ही हिततमो बल्यो वातघ्नो मांसशुक्रलः| गुरूष्णस्निग्धमधुराः स्वरवर्णबलप्रदाः||६५|| बृंहणाः शुक्रलाश्चोक्ता हंसा मारुतनाशनाः| स्निग्धाश्चोष्णाश्च वृष्याश्च बृंहणाः स्वरबोधनाः||६६|| बल्याः परं वातहराः स्वेदनाश्चरणायुधाः| गुरूष्णो मधुरो नातिधन्वानूपनिषेवणात्||६७|| तित्तिरिः सञ्जयेच्छीघ्रं त्रीन् दोषाननिलोल्बणान्| पित्तश्लेष्मविकारेषु सरक्तेषु कपिञ्जलाः||६८|| मन्दवातेषु शस्यन्ते शैत्यमाधुर्यलाघवात्| लावाः कषायमधुरा लघवोऽग्निविवर्धनाः||६९|| सन्निपातप्रशमनाः कटुकाश्च विपाकतः| गोधा विपाके मधुरा कषायकटुका रसे||७०|| वातपित्तप्रशमनी बृंहणी बलवर्धनी| शल्लको मधुराम्लश्च विपाके कटुकः स्मृतः||७१|| वातपित्तकफघ्नश्च कासश्वासहरस्तथा| कषायविशदाः शीता रक्तपित्तनिबर्हणाः||७२|| विपाके मधुराश्चैव कपोता गृहवासिनः| तेभ्यो लघुतराः किञ्चित् कपोता वनवासिनः ||७३|| शीताः सङ्ग्राहिणश्चैव स्वल्पमूत्रकराश्च ते| शुकमांसं कषायाम्लं विपाके रूक्षशीतलम्||७४|| शोषकासक्षयहितं सङ्ग्राहि लघु दीपनम्| चटका मधुराः स्निग्धा बलशुक्रविवर्धनाः||७५|| सन्निपातप्रशमनाः शमना मारुतस्य च| कषायो विशदो रूक्षः शीतः पाके कटुर्लघुः||७६|| शशः स्वादुः प्रशस्तश्च सन्निपातेऽनिलावरे| मधुरा मधुराः पाके त्रिदोषशमनाः शिवाः||७७|| लघवो बद्धविण्मूत्राः शीताश्चैणाः प्रकीर्तिताः| स्नेहनं बृंहणं वृष्यं श्रमघ्नमनिलापहम्||७८|| वराहपिशितं बल्यं रोचनं स्वेदनं गुरु| गव्यं केवलवातेषु पीनसे विषमज्वरे||७९|| शुष्ककासश्रमात्यग्निमांसक्षयहितं च तत्| स्निग्धोष्णं मधुरं वृष्यं माहिषं गुरु तर्पणम्||८०|| दार्ढ्यं बृहत्त्वमुत्साहं स्वप्नं च जनयत्यपि| गुरूष्णा मधुरा बल्या बृंहणाः पवनापहाः||८१|| मत्स्याः स्निग्धाश्च वृष्याश्च बहुदोषाः प्रकीर्तिताः| शैवालशष्पभोजित्वात्स्वप्नस्य च विवर्जनात्||८२|| रोहितो दीपनीयश्च लघुपाको महाबलः| वर्ण्यो वातहरो वृष्यश्चक्षुष्यो बलवर्धनः||८३|| मेधास्मृतिकरः पथ्यः शोषघ्नः कूर्म उच्यते| खङ्गमांसमभिष्यन्दि बलकृन्मधुरं स्मृतम्||८४|| स्नेहनं बृंहणं वर्ण्यं श्रमघ्नमनिलापहम्| धार्तराष्ट्रचकोराणां दक्षाणां शिखिनामपि||८५|| चटकानां च यानि स्युरण्डानि च हितानि च| क्षीणरेतःसु कासेषु हृद्रोगेषु क्षतेषु च||८६|| मधुराण्यविदाहीनि सद्योबलकराणि च| शरीरबृंहणे नान्यत् खाद्यं मांसाद्विशिष्यते||८७|| इति वर्गस्तृतीयोऽयं मांसानां परिकीर्तितः| इति मांसवर्गस्तृतीयः|

🔊 Audio coming soon

Hide commentary

केषाञ्चिदिति वक्ष्यमाणमयूरादीनाम्| गुणवैशेष्यादिति विशिष्टगुणशालित्वात्| मयूरस्य गुरुत्वस्निग्धत्वं वर्तकादिगणपठितत्वेनैव लब्धं सत् पुनरुच्यते विशेषार्थम्| एवमन्यत्रापि गणोक्तगुणकथनेन लब्धस्य पुनः कथने व्याख्येयम्| चरणायुधः कुक्कुटः| धन्वानूपनिषेवणादिति हेतुकथनेन य एव धन्वानूपनिषेवी तित्तिरिः स एव यथोक्तगुण इति ज्ञेयम्| एवमन्येऽपि ये गवादयो धन्वानूपनिषेविणस्तेऽपि तित्तिरिसमानगुणा भवन्ति, तित्तिरिस्तु विशेषेणेति तित्तिरिः साक्षादुक्तः| किंवा, तित्तिरेरेव एवङ्गुणत्वे धन्वानूपनिषेवणं हेतुः, नान्यत्र गवादेरनूपदेशादेरिति ज्ञेयम्| कपोता गृहवासिन इति पारावताः| चटका मधुरा इत्यादि केचित् पठन्त्येव, ये तु न पठन्ति तेषां मते चटकस्य प्रतुदसामान्यगुणलब्धं वृष्यत्वं “तृप्तिं चटकमांसानां गत्वा योऽनुपिबेत् पयः” (चि. २) इत्यादिवृष्यप्रयोगादेव लभ्यते| मयूरादीनां तु बहवो गुणा गणोक्तगुणाधिका इति पृथक् पाठः कृतः| “मांसं बृंहणानाम्” (सू. २५) इत्यनेनैवाग्र्याधिकारवचनेन मांसस्य बृंहणत्वे लब्धे ‘शरीरबृंहणे नान्यत्’ इत्यादिवचनं प्रकरणप्राप्तत्वेन तथा तस्यैवार्थस्य दार्ढ्यार्थं च ज्ञेयम्||६३-८७||-

Adhikarana २३ (८८-९७) · Śloka ९८

अथ शाकवर्गः- पाठाशुषाशटीशाकं वास्तुकं सुनिषण्णाकम्||८८|| विद्याद्ग्राहि त्रिदोषघ्नं भिन्नवर्चस्तु वास्तुकम्| त्रिदोषशमनी वृष्या काकमाची रसायनी||८९|| नात्युष्णशीतवीर्या च भेदिनी कुष्ठनाशिनी| राजक्षवकशाकं तु त्रिदोषशमनं लघु||९०|| ग्राहि शस्तं विशेषेण ग्रहण्यर्शोविकारिणाम्| कालशाकं तु कटुकं दीपनं गरशोफजित्||९१|| लघूष्णं वातलं रूक्षं कालायं शाकमुच्यते| दीपनी चोष्णवीर्या च ग्राहिणी कफमारुते||९२|| प्रशस्यतेऽम्लचाङ्गेरी ग्रहण्यर्शोहिता च सा| मधुरा मधुरा पाके भेदिनी श्लेष्मवर्धनी||९३|| वृष्या स्निग्धा च शीता च मदघ्नी चाप्युपोदिका| रूक्षो मदविषघ्नश्च प्रशस्तो रक्तपित्तिनाम्||९४|| मधुरो मधुरः पाके शीतलस्तण्डुलीयकः| मण्डूकपर्णी वेत्राग्रं कुचेला वनतिक्तकम्||९५|| कर्कोटकावल्गुजकौ पटोलं शकुलादनी| वृषपुष्पाणि शार्ङ्गेष्टा केम्बूकं सकठिल्लकम्||९६|| नाडी कलायं गोजिह्वा वार्ताकं तिलपर्णिका| कौलकं कार्कशं नैम्बं शाकं पार्पटकं च यत्||९७|| कफपित्तहरं तिक्तं शीतं कटु विपच्यते|९८|

🔊 Audio coming soon

Hide commentary

शाकानामपि व्यञ्जनत्वेनानन्तरमुपदेशः| शुषा कासमर्दः| शटी स्वनामप्रसिद्धा| वास्तुकं टङ्कवास्तुकम्| नात्युष्णशीतवीर्येति नोष्णत्वं प्रकर्षप्राप्तमस्या नापि शीतत्वमित्यर्थः| यत्तु सुश्रुते “तिक्ता काकमाची वातं शमयति, उष्णवीर्यत्वात्” (सु. सू. ४०) इत्युक्तं तद्वीर्यवादिमतेन, अत एव द्रव्यगुणे सुश्रुतेऽपि “नात्युष्णशीता” (सु. सू. ४६) इत्येवमेव पठितम्| राजक्षवकः दुग्धिका| कालशाकं ‘कालिया’ इति ख्यातं, कालाख्यमिति कालशाकमेवोच्यते पुनः; अन्ये तु ‘कालायं’ इति पठन्ति| मण्डूकपर्णी मणिमणीति ख्याता| कुचेला अकर्णविद्धकाभेदः| वनतिक्तकं पथ्यसुन्दरम्| अवल्गुजो वाल्गुजी| शकुलादनी कटुरोहिणी| शार्ङ्गेष्टा काकतिक्ता| कठिल्लकः पुनर्नवा| नाडी नाडीचः| कलायो वर्तुलकलायः| तिलपर्णिका हुलहुलिका| गोजिह्वा दार्विपत्रिका| कुलकः कारवेल्लकः, केचित्तु कुलकं पटोलभेदमाहुः| कर्कशः स्वल्पकर्कोटकः||८८-९७||-

Adhikarana २४ (९८-११३) · Śloka ११३

सर्वाणि सूप्यशाकानि फञ्जी चिल्ली कुतुम्बकः||९८|| आलुकानि च सर्वाणि सपत्राणि कुटिञ्जरम् | शणशाल्मलिपुष्पाणि कर्बुदारः सुवर्चला||९९|| निष्पावः कोविदारश्च पत्तुरश्चुच्चुपर्णिका| कुमारजीवो लोट्टाकः पालङ्क्या मारिषस्तथा||१००|| कलम्बनालिकासूर्यः कुसुम्भवृकधूमकौ| लक्ष्मणा च प्रपुन्नाडो नलिनीका कुठेरकः||१०१|| लोणिका यवशाकं च कूष्माण्डकमवल्गुजम्| यातुकः शालकल्याणी त्रिपर्णी पीलुपर्णिका||१०२|| शाकं गुरु च रूक्षं च प्रायो विष्टभ्य जीर्यति| मधुरं शीतवीर्यं च पुरीषस्य च भेदनम्||१०३|| स्विन्नं निष्पीडितरसं स्नेहाढ्यं तत् प्रशस्यते| शणस्य कोविदारस्य कर्बुदारस्य शाल्मलेः||१०४|| पुष्पं ग्राहि प्रशस्तं च रक्तपित्ते विशेषतः| न्यग्रोधोदुम्बराश्वत्थप्लक्षपद्मादिपल्लवाः||१०५|| कषायाः स्तम्भनाः शीता हिताः पित्तातिसारिणाम्| वायुं वत्सादनी हन्यात् कफं गण्डीरचित्रकौ||१०६|| श्रेयसी बिल्वपर्णी च बिल्वपत्रं तु वातनुत्| भण्डी शतावरीशाकं बला जीवन्तिकं च यत्||१०७|| पर्वण्याः पर्वपुष्प्याश्च वातपित्तहरं स्मृतम्| लघु भिन्नशकृत्तिक्तं लाङ्गलक्युरुबूकयोः||१०८|| तिलवेतसशाकं च शाकं पञ्चाङ्गुलस्य च| वातलं कटुतिक्ताम्लमधोमार्गप्रवर्तनम्||१०९|| रूक्षाम्लमुष्णं कौसुम्भं कफघ्नं पित्तवर्धनम्| त्रपुसैर्वारुकं स्वादु गुरु विष्टम्भि शीतलम्||११०|| मुखप्रियं च रूक्षं च मूत्रलं त्रपुसं त्वति| एर्वारुकं च सम्पक्वं दाहतृष्णाक्लमार्तिनुत्||१११|| वर्चोभेदीन्यलाबूनि रूक्षशीतगुरूणि च| चिर्भटैर्वारुके तद्वद्वर्चोभेदहिते तु ते||११२|| सक्षारं पक्वकूष्माण्डं मधुराम्लं तथा लघु| सृष्टमूत्रपुरीषं च सर्वदोषनिबर्हणम्||११३||

🔊 Audio coming soon

Hide commentary

सूप्यशाकानि माषपर्ण्यादीनि| फञ्जी ब्राह्मणयष्टिका| चिल्ली गौडवास्तुकः| कुतुम्बकः द्रोणपुष्पिका| आलुकानि पिण्डालुकादीनि| कर्बुदारः काञ्चनः| सुवर्चला सूर्यभक्तिका, केचित् फप्पुकमाहुः| पत्तूरः शालिञ्चः| चुच्चुपर्णिका नाडीचभेदः| कुमारजीवः जीवशाकम्| लोट्टाकः लोट्टामारिषः| नालिका गोनाडीचः| आसुरी राजिका मण्डको वा| वृकधूमकः भूमिशिरीषः| लक्ष्मणा स्वनामख्याता| नलिनी पद्ममृणालं, नीलिनीतिपाठपक्षे बुह्ना| यवशाकं क्षेत्रवास्तुकम्| कूष्माण्डः सर्पच्छत्रम्| अवल्गुजमिति अवल्गुजभेदः| यातुकः शुक्ला शालपर्णी| शालकल्याणी शालिञ्चभेदः| त्रिपर्णी हंसपादिका| पीलुपर्णी मोरटकः| गण्डीरः शमठः| बिल्वपर्णी बिल्वार्जकम्| भण्डी स्वनामख्याता| पर्वणी पर्वशाकम्| पर्वपुष्पी कुक्कुटी| पञ्चाङ्गुलः चित्रैरण्डः| एर्वारुकं राजकर्कटी| कूष्माण्डकं सुश्रुते बाल्याद्यवस्थाभेदेन पठितं तदप्यविरुद्धभेव, यतो बालमध्ययोस्तत्र पित्तहरत्वं कफकरत्वं चोक्तं, तदपीह पित्तोत्तरे कफोत्तरे सन्निपाते बोद्धव्यम्||९८-११३||

Adhikarana २५ (११४-१२४) · Śloka १२४

केलूटं च कदम्बं च नदीमाषकमैन्दुकम्| विशदं गुरु शीतं च समभिष्यन्दि चोच्यते||११४|| उत्पलानि कषायाणि रक्तपित्तहराणि च| तथा तालप्रलम्बं स्यादुरःक्षतरुजापहम्||११५|| खर्जूरं तालशस्यं च रक्तपित्तक्षयापहम्| तरूटबिसशालूकक्रौञ्चादनकशेरुकम्||११६|| शृङ्गाटकाङ्कलोड्यं च गुरु विष्टम्भि शीतलम्| कुमुदोत्पलनालास्तु सपुष्पाः सफलाः स्मृताः||११७|| शीताः स्वादुकषायास्तु कफमारुतकोपनाः| कषायमीषद्विष्टम्भि रक्तपित्तहरं स्मृतम्||११८|| पौष्करं तु भवेद्बीजं मधुरं रसपाकयोः| बल्यः शीतो गुरुः स्निग्धस्तर्पणो बृंहणात्मकः||११९|| वातपित्तहरः स्वादुर्वृष्यो मुञ्जातकः परम्| जीवनो बृंहणो वृष्यः कण्ठ्यः शस्तो रसायने||१२०|| विदारिकन्दो बल्यश्च मूत्रलः स्वादुशीतलः| अम्लिकायाः स्मृतः कन्दो ग्रहण्यर्शोहितो लघुः||१२१|| नात्युष्णः कफवातघ्नो ग्राही शस्तो मदात्यये| त्रिदोषं बद्धविण्मूत्रं सार्षपं शाकमुच्यते||१२२|| (तद्वत् स्याद्रक्तनालस्य रूक्षमम्लं विशेषतः|) तद्वत् पिण्डालुकं विद्यात् कन्दत्वाच्च मुखप्रियम्| सर्पच्छत्रकवर्ज्यास्तु बह्व्योऽन्याश्छत्रजातयः||१२३|| शीताः पीनसकर्त्र्यश्च मधुरा गुर्व्य एव च| चतुर्थः शाकवर्गोऽयं पत्रकन्दफलाश्रयः||१२४|| इति शाकवर्गश्चतुर्थः|

🔊 Audio coming soon

Hide commentary

केलुटे हारीतवचनं- “केलुटं स्वादु विटपं तत्कन्दः स्वादुशीतलः” इति| कदम्बं कदम्बिकां वदन्ति, केचित्तु स्वल्पकदम्बकमाहुः| नदीमाषकः ‘उदीमानक’ इति ख्यातः| ऐन्दुकं निक्षारः| तालप्रलम्बः तालाङ्कुरः| शस्यशब्देनेह मस्तकमज्जा गृह्यते| तरुटः कह्लारकन्दः| क्रौञ्चादनं धिञ्चुलिका| कशेरुकशब्देन चिञ्चोडका राजकशेरुकश्च गृह्यते| अङ्कालोड्यं ह्रस्वोत्पलकन्दः| मुञ्जातक औत्तरापथिककन्दः| अम्लिका स्वल्पविटपा प्रायः कामरूपादौ भवति| सर्पच्छत्रं सर्पफणाकारं छत्रकम्| अन्याश्छत्रजातयः करीषपलालादिजा बहुला ज्ञेयाः| पत्रकन्दफलाश्रय इति प्राधान्येन, तेन पुष्पाद्याश्रयत्वमपि शाकवर्गस्य ज्ञेयम्||११४-१२४||

Adhikarana २६ (१२५-१६५) · Śloka १६५

अथ फलवर्गः- तृष्णादाहज्वरश्वासरक्तपित्तक्षतक्षयान्| वातपित्तमुदावर्तं स्वरभेदं मदात्ययम्||१२५|| तिक्तास्यतामास्यशोषं कासं चाशु व्यपोहति| मृद्वीका बृंहणी वृष्या मधुरा स्निग्धशीतला||१२६|| मधुरं बृंहणं वृष्यं खर्जूरं गुरु शीतलम्| क्षयेऽभिघाते दाहे च वातपित्ते च तद्धितम्||१२७|| तर्पणं बृंहणं फल्गु गुरु विष्टम्भि शीतलम्| परूषकं मधूकं च वातपित्ते च शस्यते||१२८|| मधुरं बृंहणं बल्यमाम्रातं तर्पणं गुरु| सस्नेहं श्लेष्मलं शीतं वृष्यं विष्टभ्य जीर्यति||१२९|| तालशस्यानि सिद्धानि नारिकेलफलानि च| बृंहणस्निग्धशीतानि बल्यानि मधुराणि च||१३०|| मधुराम्लकषायं च विष्टम्भि गुरु शीतलम्| पित्तश्लेष्मकरं भव्यं ग्राहि वक्रविशोधनम्||१३१|| अम्लं परूषकं द्राक्षा बदराण्यारुकाणि च| पित्तश्लेष्मप्रकोपीणि कर्कन्धुनिकुचान्यपि||१३२|| नात्युष्णं गुरु सम्पक्वं स्वादुप्रायं मुखप्रियम्| बृंहणं जीर्यति क्षिप्रं नातिदोषलमारुकम्||१३३|| द्विविधं शीतमुष्णं च मधुरं चाम्लमेव च| गुरु पारावतं ज्ञेयमरुच्यत्यग्निनाशनम्||१३४|| भव्यादल्पान्तरगुणं काश्मर्यफलमुच्यते| तथैवाल्पान्तरगुणं तूदमम्लं परूषकात्||१३५|| कषायमधुरं टङ्कं वातलं गुरु शीतलम्| कपित्थमामं कण्ठघ्नं विषघ्नं ग्राहि वातलम् ||१३६|| मधुराम्लकषायत्वात् सौगन्ध्याच्च रुचिप्रदम्| परिपक्वं च दोषघ्नं विषघ्नं ग्राहि गुर्वपि||१३७|| बिल्वं तु दुर्जरं पक्वं दोषलं पूतिमारुतम्| स्निग्धोष्णतीक्ष्णं तद्बालं दीपनं कफवातजित्||१३८|| रक्तपित्तकरं बालमापूर्णं पित्तवर्धनम्| पक्वमाम्रं जयेद्वायुं मांसशुक्रबलप्रदम्||१३९|| कषायमधुरप्रायं गुरु विष्टम्भि शीतलम्| जाम्बवं कफपित्तघ्नं ग्राहि वातकरं परम्||१४०|| बदरं मधुरं स्निग्धं भेदनं वातपित्तजित्| तच्छुष्कं कफवातघ्नं पित्ते न च विरुध्यते||१४१|| कषायमधुरं शीतं ग्राहि सिम्बि(ञ्चि)तिकाफलम्| गाङ्गेरुकी करीरं च बिम्बी तोदनधन्वनम्||१४२|| मधुरं सकषायं च शीतं पित्तकफापहम्| सम्पक्वं पनसं मोचं राजादनफलानि च||१४३|| स्वादूनि सकषायाणि स्निग्धशीतगुरूणि च| कषायविशदत्वाच्च सौगन्ध्याच्च रुचिप्रदम्||१४४|| अवदंशक्षमं हृद्यं वातलं लवलीफलम्| नीपं शताह्वकं पीलु तृणशून्यं विकङ्कतम्||१४५|| प्राचीनामलकं चैव दोषघ्नं गरहारि च| ऐङ्गुदं तिक्तमधुरं स्निग्धोष्णं कफवातजित्||१४६|| तिन्दुकं कफपित्तघ्नं कषायं मधुरं लघु| विद्यादामलके सर्वान् रसांल्लवणवर्जितान्||१४७|| रूक्षं स्वादु कषायाम्लं कफपित्तहरं परम्| रसासृङ्मांसमेदोजान्दोषान् हन्ति बिभीतकम्||१४८|| स्वरभेदकफोत्क्लेदपित्तरोगविनाशनम्| अम्लं कषायमधुरं वातघ्नं ग्राहि दीपनम्||१४९|| स्निग्धोष्णं दाडिमं हृद्यं कफपित्ताविरोधि च| रूक्षाम्लं दाडिमं यत्तु तत् पित्तानिलकोपनम्||१५०|| मधुरं पित्तनुत्तेषां पूर्वं दाडिममुत्तमम्| वृक्षाम्लं ग्राहि रूक्षोष्णं वातश्लेष्मणि शस्यते||१५१|| अम्लिकायाः फलं पक्वं तस्मादल्पान्तरं गुणैः| गुणैस्तैरेव संयुक्तं भेदनं त्वम्लवेतसम्||१५२|| शूलेऽरुचौ विबन्धे च मन्देऽग्नौ मद्यविप्लवे | हिक्काश्वासे च कासे च वम्यां वर्चोगदेषु च||१५३|| वातश्लेष्मसमुत्थेषु सर्वेष्वेवोपदिश्यते| केसरं मातुलुङ्गस्य लघु शेषमतोऽन्यथा||१५४|| रोचनो दीपनो हृद्यः सुगन्धिस्त्वग्विवर्जितः| कर्चूरः कफवातघ्नः श्वासहिक्कार्शसां हितः||१५५|| मधुरं किञ्चिदम्लं च हृद्यं भक्तप्ररोचनम्| दुर्जरं वातशमनं नागरङ्गफलं गुरु ||१५६|| वातामाभिषुकाक्षोटमुकूलकनिकोचकाः| गुरूष्णस्निग्धमधुराः सोरुमाणा बलप्रदाः||१५७|| वातघ्ना बृंहणा वृष्याः कफपित्ताभिवर्धनाः| प्रियालमेषां सदृशं विद्यादौष्ण्यं विना गुणैः||१५८|| श्लेष्मलं मधुरं शीतं श्लेष्मातकफलं गुरु| श्लेष्मलं गुरु विष्टम्भि चाङ्कोटफलमग्निजित्||१५९|| गुरूष्णं मधुरं रूक्षं केशघ्नं च शमीफलम्| विष्टम्भयति कारञ्जं वातश्लेष्माविरोधि च||१६०|| आम्रातकं दन्तशठमम्लं सकरमर्दकम्| रक्तपित्तकरं विद्यादैरावतकमेव च||१६१|| वातघ्नं दीपनं चैव वार्ताकं कटु तिक्तकम्| वातलं कफपित्तघ्नं विद्यात् पर्पटकीफलम्||१६२|| पित्तश्लेष्मघ्नमम्लं च वातलं चाक्षिकीफलम्| मधुराण्यम्लपाकीनि पित्तश्लेष्महराणि च||१६३|| अश्वत्थोदुम्बरप्लक्षन्यग्रोधानां फलानि च| कषायमधुराम्लानि वातलानि गुरूणि च||१६४|| भल्लातकास्थ्यग्निसमं तन्मांसं स्वादु शीतलम्| पञ्चमः फलवर्गोऽयमुक्तः प्रायोपयोगिकः||१६५|| इति फलवर्गः|

🔊 Audio coming soon

Hide commentary

फलानामपि केषाञ्चिच्छाकवदुपयोगात् फलवर्गमाह| मृद्वीकाऽग्रेऽभिधीयते श्रेष्ठगुणत्वात्| फल्गु औदुम्बरम्| मधूकशब्देन समानगुणत्वात् फलं कुसुमं च ज्ञेयम्| परूषकं चेह मधुरपरूषकं ज्ञेयम्| आम्रातम् ‘आमडा’ इति ख्यातमाम्रफलसदृशमिति चन्द्रिका; एतच्च द्विविधं मधुरमम्लं च; अत्र मधुरस्यैव गुणः, अम्लस्य वक्ष्यमाणत्वात्| तालशस्यानीति तालफलानि, यथा “हरीतकीनां शस्यानि” (चि. १) इत्यत्र फलमेव शस्यमुच्यते| सिद्धानि पक्वानि; तेन पक्वतालस्य ग्रहणम्| भव्यं कर्मरङ्गफलं; केचित्त्वक्संहतिमात्रफलं वदन्ति| आरुकं कार्तिकेयपुरे प्रसिद्धम्| कर्कन्धूः शृगालबदरी, कर्कन्धूनिकुचयोर्विच्छिद्य पाठेन नित्यं पित्तश्लेष्मकर्तृत्वं तयोर्दर्शयति| परूषकादीनां तु मधुराम्लभेदेन द्विरूपाणां य एव परूषकादयोऽम्लास्त एव पित्तश्लेष्मकरा इति| पारावतः कामरूपप्रसिद्धः| अत्र यो मधुरः स शीतः, यश्चाम्लः स उष्ण इति ज्ञेयम्| एवं रसनिर्देशेनैव वीर्ये लब्धेऽपि पुनर्वीर्याख्यानमम्लस्यामलकस्य शीततादर्शनाद्बोद्धव्यम्| टङ्कं काश्मीरप्रसिद्धम्| सिद्धमिति कालवशात् पक्वम्| कपित्थबिल्वाम्राणामवस्थाभेदेन गुणकथनं सर्वावस्थासु तेषामुपयोज्यत्वात्| बदरं मध्यप्रमाणं; तद्धि मधुरमेव भवति| गाङ्गेरुकं नागबलाफलम्| करीरो मरुजो द्रुमः| तोदनं धन्वनभेदः| राजादनं क्षीरी| अवदंशक्षममिति लवलीफलं प्राश्य द्रव्यान्तरे रुचिर्भवति| नीपं कदम्बकम्| शताह्वकफलं ‘सेह’ इति ख्यातम्| पीलु औत्तरापथिकम्| तृणशून्यं केतकीफलम्| प्राचीनामलकं पानीयामलकम्| तिन्दुकं केन्दुः| दाडिमगुणे कफपित्ताविरोधीति अम्लदाडिमं पित्ताविरोधि, मधुरं तु कफाविरोधि, एवं च त्रिदोषहरत्वमस्योपपन्नं; यदुक्तं सुश्रुते- “द्विविधं तत्तु विज्ञेयं मधुरं चाम्लमेव च| त्रिदोषघ्नं तु मधुरमम्लं वातकफापहम्” (सु. सू. ४६) इति| वृक्षाम्लं महार्द्रकम्| अम्लिका तिन्तिडी| शेषमिति त्वङ्मांसम्, अतोऽन्यथेति गुरु; किंवा, शूलेऽरुचावित्याद्युक्तकेशरगुणविपरीतम्| वातामादय औत्तरापथिकाः| प्रियालोऽयं मगधप्रसिद्धः| दन्तशठः जम्बीरः; केचिदम्लोटं वदन्ति| इहाम्रातकमम्लं ग्राह्यं, पूर्वं तु मधुरमाम्रातकमुक्तम्| करमर्दं द्विविधं ग्रामजं वनजं च| ऐरावतम् अम्लातकं; किंवा नागरङ्गम्| वार्ताकं दक्षिणापथे फलवत् खाद्यते यद्गोष्ठवार्ताकसञ्ज्ञकं, तस्येह गुणः; किंवा फलवदसिद्धस्यैव वार्ताकस्योपयोज्यस्यायं गुणः| आक्षिकी लता तस्याः फलमाक्षिकम्| अनुपाकि ‘अनुया’ इति ख्याता| अग्निसममिति स्फोटादिजनकत्वात्||१२५-१६५||

Adhikarana २७ (१६६-१७७) · Śloka १७७

अथ हरितवर्गः- रोचनं दीपनं वृष्यमार्द्रकं विश्वभेषजम्| वातश्लेष्मविबन्धेषु रसस्तस्योपदिश्यते||१६६|| रोचनो दीपनस्तीक्ष्णः सुगन्धिर्मुखशोधनः| जम्बीरः कफवातघ्नः क्रिमिघ्नो भक्तपाचनः||१६७|| बालं दोषहरं, वृद्धं त्रिदोषं, मारुतापहम्| स्निग्धसिद्धं, विशुष्कं तु मूलकं कफवातजित्||१६८|| हिक्काकासविषश्वासपार्श्वशूलविनाशनः| पित्तकृत् कफवातघ्नः सुरसः पूतिगन्धहा||१६९|| यवानी चार्जकश्चैव शिग्रुशालेयमृष्टकम्| हृद्यान्यास्वादनीयानि पित्तमुत्क्लेशयन्ति च||१७०|| गण्डीरो जलपिप्पल्यस्तुम्बरुः शृङ्गवेरिका| तीक्ष्णोष्णकटुरूक्षाणि कफवातहराणि च||१७१|| पुंस्त्वघ्नः कटुरूक्षोष्णो भूस्तृणो वक्रशोधनः| खराह्वा कफवातघ्नी बस्तिरोगरुजापहा||१७१|| धान्यकं चाजगन्धा च सुमुखश्चेति रोचनाः| सुगन्धा नातिकटुका दोषानुत्क्लेशयन्ति च||१७३|| ग्राही गृञ्जनकस्तीक्ष्णो वातश्लेष्मार्शसां हितः| स्वेदनेऽभ्यवहारे च योजयेत्तमपित्तिनाम्||१७४|| श्लेष्मलो मारुतघ्नश्च पलाण्डुर्न च पित्तनुत् | आहारयोगी बल्यश्च गुरुर्वृष्योऽथ रोचनः||१७५|| क्रिमिकुष्ठकिलासघ्नो वातघ्नो गुल्मनाशनः| स्निग्धश्चोष्णश्च वृष्यश्च लशुनः कटुको गुरुः||१७६|| शुष्काणि कफवातघ्नान्येतान्येषां फलानि च| हरितानामयं चैष षष्ठो वर्गः समाप्यते||१७७|| इति हरितवर्गः|

🔊 Audio coming soon

Hide commentary

हरितानामप्यार्द्रकादीनां फलवदग्निपाकमन्तरेण भोजनस्य प्राक् पश्चाच्चोपयोगात् फलमनु हरितकथनं, फलेभ्यस्तु पश्चादभिधानं हरितस्य तृप्त्यनाधायकत्वात्| आर्द्रकमिति विशेषणं शुण्ठीव्यवृत्त्यर्थं, शुण्ठीगुणश्चाहारसंयोगिवर्गे भविष्यति| जम्बीरः पर्णासभेदः, जम्बीरफलं सुगन्धि| बालं दोषहरमिति तरुणावस्थायामव्यक्तरसायां त्रिदोषहरम्| तन्त्रान्तरवचनं हि- “यावद्धि चाव्यक्तरसान्वितानि नवप्ररूढानि च मूलकानि| भवन्ति तावल्लघुदीपनानि पित्तानिलश्लेष्महराणि चैव”| वृद्धं त्रिदोषमिति तदेव प्रवृद्धम्, एनामेव मूलकावस्थामभिप्रेत्य चोक्तं- “मूलकं कन्दानामपथ्यत्वे प्रकृष्टतमम्” (सू. २५) इति| मारुतापहं स्निग्धसिद्धमिति सामान्येन बालं वृद्धं च| ‘शुष्काणि कफवातघ्नान्येतानि’ इति वक्ष्यमाणग्रन्थेनैव शुष्कमूलकस्य कफवातहन्तृत्वे लब्धे पुनर्वचनं प्रकर्षप्राप्त्यर्थम्| पूतिगन्धहेति शरीरस्य तथा व्यञ्जनार्थं मांसस्य च पूतिगन्धतां हन्ति| अर्जकः श्वेतपर्णासः| शिग्रुः विटपशोभाञ्जनः; शालेयश्चाणक्यमूलं मरौ प्रसिद्धं, किंवा शालेयमिति मिस्तेयं पाटकप्रसिद्धं, वचनं हि- “चाणक्यमूलमिस्तेये शालेयाभिख्यया जगुः” इति; मृष्टकं राजिका| गण्डीरो द्विविधो रक्तः शुक्लश्च; तत्र यो रक्तः स हि कटुत्वेन हरितवर्गे पठ्यते, यस्तु शुक्लो जलजः स शाकवर्गे पठित इति नैकस्य वर्गद्वये पाठः| जलपिप्पली जले पिप्पल्याकारा भवति| शृङ्गवेरी गोजिह्विका, किंवा आर्द्रकाकृतिः शृङ्गवेरी; यदुक्तं- “शृङ्गवेरवदाकृत्या शृङ्गवेरीति भाषिता| कुस्तुम्बुरुसमाकृत्या तुम्बुरूणि वदन्ति च” इति| भूस्तृणो गन्धतृणः| खराह्वा कृष्णजीरकम्| अजगन्धा वनयवानी| सुमुखः पर्णासभेदः| अयं च धान्यकादीनामार्द्राणां गुणः, शुष्काणां त्वाहारयोगिगणे “कारवी कुञ्चिका” इत्यादिना गुणं निर्देक्ष्यति| गृञ्जनकः स्वल्पनालपत्रः पलाण्डुरेव| एतानीति हरितवर्गोक्तानि| शुष्काणीत्यादिना यद्यपि शुष्काणामपि शुण्ठीप्रभृतीनां गुण उक्तो भवति, तथाऽपि विशेषगुणान्तरकथनार्थं पुनस्तदभिधानमाहारसंयोगिवर्गे भविष्यतीति न पौनरुक्त्यम्||१६६-१७७||

Adhikarana २८ (१७८) · Śloka १७८

अथ मद्यवर्गः- प्रकृत्या मद्यमम्लोष्णमम्लं चोक्तं विपाकतः| सर्वं सामान्यतस्तस्य विशेष उपदेक्ष्यते||१७८||

🔊 Audio coming soon

Hide commentary

अन्नमभिधाय पानं वक्तव्यं, तत्रापि पानप्रधानमपि पानीयमुल्लङ्घ्य हर्षादिकर्तृत्वाज्जनानां मुख्यपेयत्वाच्च मद्यमाह| प्रकृत्येति स्वभावात्| यद्यपि च मद्ये पीयमाने नाम्लरसता प्रतीयते व्यक्ता, तथाऽपि दन्तहर्षमुखस्रावाद्यम्लकार्यकर्तृत्वादम्लमेव| वचनं हि- “मधुराणि मधुरप्रभावाणि मधुराण्येव कृत्वोपदेक्ष्यामः, तथेतराण्यपि” (वि. ८) इति| तेन, अम्लप्रभावस्य मद्यस्याम्लरसत्वमेव; अत एवोक्तं- “सर्वेषां मद्यमम्लानामुपर्युपरि वर्तते” (चि. २४) इति| विपाकत इति तृतीयायां तसिः||१७८||

Adhikarana २९ (१७९-१९५) · Śloka १९५

कृशानां सक्तमूत्राणां ग्रहण्यर्शोविकारिणाम्| सुरा प्रशस्ता वातघ्नी स्तन्यरक्तक्षयेषु च||१७९|| हिक्काश्वासप्रतिश्यायकासवर्चोग्रहारुचौ| वम्यानाहविबन्धेषु वातघ्नी मदिरा हिता||१८०|| शूलप्रवाहिकाटोपकफवातार्शसां हितः| जगलो ग्राहिरूक्षोष्णः शोफघ्नो भक्तपाचनः||१८१|| शोषार्शोग्रहणीदोषपाण्डुरोगारुचिज्वरान्| हन्त्यरिष्टः कफकृतान् रोगान्रोचनदीपनः ||१८२|| मुखप्रियः सुखमदः सुगन्धिर्बस्तिरोगनुत् | जरणीयः परिणतो हृद्यो वर्ण्यश्च शार्करः||१८३|| रोचनो दीपनो हृद्यः शोषशोफार्शसां हितः| स्नेहश्लेष्मविकारघ्नो वर्ण्यः पक्वरसो मतः||१८४|| जरणीयो विबन्धघ्नः स्वरवर्णविशोधनः| लेखनः शीतरसिको हितः शोफोदरार्शसाम्||१८५|| सृष्टभिन्नशकृद्वातो गौडस्तर्पणदीपनः| पाण्डुरोगव्रणहिता दीपनी चाक्षिकी मता ||१८६|| सुरासवस्तीव्रमदो वातघ्नो वदनप्रियः| छेदी मध्वासवस्तीक्ष्णो मैरेयो मधुरो गुरुः||१८७|| धातक्याऽभिषुतो हृद्यो रूक्षो रोचनदीपनः| माध्वीकवन्न चात्युष्णो मृद्वीकेक्षुरसासवः||१८८|| रोचनं दीपनं हृद्यं बल्यं पित्ताविरोधि च| विबन्धघ्नं कफघ्नं च मधु लघ्वल्पमारुतम्||१८९|| सुरा समण्डा रूक्षोष्णा यवानां वातपित्तला| गुर्वी जीर्यति विष्टभ्य श्लेष्मला तु मधूलिका||१९०|| दीपनं जरणीयं च हृत्पाण्डुक्रिमिरोगनुत्| ग्रहण्यर्शोहित भेदि सौवीरकतुषोदकम्||१९१|| दाहज्वरापहं स्पर्शात् पानाद्वातकफापहम्| विबन्धघ्नमवस्रंसि दीपनं चाम्लकाञ्जिकम्||१९२|| प्रायशोऽभिनवं मद्यं गुरुदोषसमीरणम्| स्रोतसां शोधनं जीर्णं दीपनं लघु रोचनम्||१९३|| हर्षणं प्रीणनं मद्यं भयशोकश्रमापहम्| प्रागल्भ्यवीर्यप्रतिभातुष्टिपुष्टिबलप्रदम्||१९४|| सात्त्विकैर्विधिवद्युक्त्या पीतं स्यादमृतं यथा| वर्गोऽयं सप्तमो मद्यमधिकृत्य प्रकीर्तितः||१९५|| इति मद्यवर्गः सप्तमः|

🔊 Audio coming soon

Hide commentary

सुरा अनुद्धृतमण्डा| मदिरा तु सुरामण्डः| जगलः भक्तकिण्वकृता सुरा| अरिष्ट औषधक्वाथमध्वादिसम्पादितो वक्ष्यमाणो दन्त्यभयारिष्टादिः| शार्करः शर्कराप्रकृतिक आसवः| पक्वरसः यः क्वथितेनेक्षुरसेन क्रियते| शीतरसिकस्तु शीतेक्षुरसकृतः| गौडः गुडप्रकृतिकः| सुरासवः यत्र सुरयैव तोयकार्यं क्रियते| मधूकपुष्पकृतो मध्वासवः| मैरेयलक्षणं यथा- “आसवस्य सुरायाश्च द्वयोरेकत्र भाजने| सन्धानं तद्विजानीयान्मैरेयमुभयाश्रयम्” इति| धातक्याऽभिषुतो धातकीफलासवः| माध्वीकं मधुप्रधानं ‘रोचनं दीपनं’ इत्यादिना वक्ष्यमाणं; तद्वन्मृद्वीकेक्षुरसाभ्यां मिलिताभ्यां कृत आसवो ज्ञेयः| मध्विति मधुप्रधान आसवः| सुरा समण्डेति यवतण्डुलकृता बोद्धव्या| विष्टभ्येति विच्छेदः| मधूलकः गोधूमभेदः, तत्कृतं मद्यं मधूलकम्; अन्ये तु मेदकमाहुः| दीपनमित्यादि सौवीरतुषोदकगुणः| अम्लकाञ्जिकमिति काञ्जिकमेवाम्लगुणम्||१७९-१९५||

Adhikarana ३० (१९६) · Śloka १९६

अथ जलवर्गः- जलमेकविधं सर्वं पतत्यैन्द्रं नभस्तलात्|१९६|

🔊 Audio coming soon

Hide commentary

सम्प्रति पानप्रधानस्य जलस्य गुणमाह- जलमित्यादि| सर्वमिति सुश्रुतप्रतिपादितधारकारहैमतौषारमपि| एकविधमिति “शिवाः खल्वापः” (सू. २६) इत्यादिनोक्तगुणं, तथा ‘शीतं शुचि’ इत्यादिवक्ष्यमाणगुणम्| ऐन्द्रमिति प्राण्यदृष्टवशेनेन्द्रप्रेरितम्|१९६|-

Adhikarana ३१ (१९६) · Śloka १९६

तत् पतत् पतितं चैव देशकालावपेक्षते||१९६||

🔊 Audio coming soon

Hide commentary

एकविधत्वेऽपि तस्य भेदहेतुमाह- तत् पतदित्यादि| पतद् देशमाकाशगतभूतरूपं, कालं च शीतोष्णादिरूपं; तथपतितं च भूमिविशेषरूपं देशं, कालं च तथैवापेक्षते; ‘गुणदोषा सम्बन्धे ’ इति शेषः||१९६||

Adhikarana ३२ (१९७) · Śloka १९७

खात् पतत् सोमवाय्वर्कैः स्पृष्टं कालानुवर्तिभिः| शीतोष्णस्निग्धरूक्षाद्यैर्यथासन्नं महीगुणैः||१९७||

🔊 Audio coming soon

Hide commentary

एनमेव देशकालसम्बन्धमाह- खादित्यादि| सोमग्रहणेन सौम्यत्वात् पृथिव्या अपि गगनगतधूलीरूपायास्तथा मेघसहचरितलूतादिविषादिरूपायाश्च ग्रहणं वक्तव्यं; किंवा वायुग्रहणादेव वायुना नीयमानायाः पृथिव्या ग्रहणम्| स्पृष्टं ‘भवति’ इतिशेषः| कालानुवर्तिभिरिति कालपराधीनैः; एतेन कालकृत एव सोमादिसम्बन्धविशेषो जले विशेषं करोति, तेन न कालस्याकिञ्चित्करता| पतितजलस्य देशकालसम्बन्धमाह- शीतोष्णेत्यादि| यथासन्नमिति यस्मिन् काले यस्यां मह्यां ये गुणाः शीतादय उद्रिक्ता भवन्ति, तैः स्पृष्टं जलं भवति| एतेन सुश्रुते प्रतिपादितगाङ्गसामुद्रभेदो गुणदोषसम्बन्धमात्रकृत एव दिव्यजलस्येति दर्शयति| तेन, यद्विषादिजुष्टं तत् सामुद्रसमानगुणत्वात् सामुद्रं, यद्धूल्यादिना विषादिना च रहितं तत्तद्गुणत्वाद्गाङ्गमित्युक्तं सुश्रुते| आश्विने तु मासि दिव्यजलस्य धूलीविषादिसम्बन्धो न भवत्येव, कालमहिम्ना भवन्नपि वा न जलं तथा दूषयति; अत उक्तं सूश्रुते- “सामुद्रं तन्न पातव्यं मासादाश्वयुजाद्विना” (सु. सू. ४५) इति| अत्र हारीतवचनात् कार्तिकाग्रहायणयोरप्यान्तरीक्षं जलं ग्राह्यमेव भवति; यदाह- “प्रवृत्तायां शरद्यस्मात् पश्चाद्वाते प्रवाति च| हेमन्ते चापि गृह्नीयात्तज्जलं मृन्मयैर्घटैः” इति| तेन ‘आश्वयुजाद्विना’ इति वचनं आश्वयुजात् प्रभृति जलोपादेयतोपदर्शनार्थं, न त्वाश्विन एवोपादेयतोपदर्शनपरम्| अन्ये त्वाहुः- आश्विन एव परमान्तरीक्षं ग्राह्यमिति| जतूकर्णवचनं हि- “वर्षासु चरन्ति घनैः सहोरगा वियति कीटलूताश्च| तद्विषजुष्टमपेयं खजलमगस्त्योदयात् पूर्वम्” इति||१९७||

Adhikarana ३३ (१९८) · Śloka १९८

शीतं शुचि शिवं मृष्टं विमलं लघु षड्गुणम्| प्रकृत्या दिव्यमुदकं,...|१९८|

🔊 Audio coming soon

Hide commentary

दिव्यजलस्य प्राकृतगुणमाह- शीतमित्यादि| शिवमिति कल्याणकरत्वेन| मृष्टमिति वदनप्रियत्वेन|१९८|-

Adhikarana ३४ (१९८-२०८) · Śloka २०८

...भ्रष्टं पात्रमपेक्षते||१९८|| श्वेते कषायं भवति पाण्डरे स्यात्तु तिक्तकम्| कपिले क्षारसंसृष्टमूषरे लवणान्वितम्||१९९|| कटु पर्वतविस्तारे मधुरं कृष्णमृत्तिके| एतत् षाड्गुण्यमाख्यातं महीस्थस्य जलस्य हि| तथाऽव्यक्तरसं विद्यादैन्द्रं कारं हिमं च यत्||२००|| यदन्तरीक्षात् पततीन्द्रसृष्टं चोक्तैश्च पात्रैः परिगृह्यतेऽम्भः| तदैन्द्रमित्येव वदन्ति धीरा नरेन्द्रपेयं सलिलं प्रधानम् ||२०१|| ईषत्कषायमधुरं सुसूक्ष्मं विशदं लघु| अरूक्षमनभिष्यन्दि सर्वं पानीयमुत्तमम्||२०२|| गुर्वभिष्यन्दि पानीयं वार्षिकं मधुरं नवम्| तनु लघ्वनभिष्यन्दि प्रायः शरदि वर्षति||२०३|| तत्तु ये सुकुमाराः स्युः स्निग्धभूयिष्ठभोजनाः| तेषां भोज्ये च भक्ष्ये च लेह्ये पेये च शस्यते||२०४|| हेमन्ते सलिलं स्निग्धं वृष्यं बलहितं गुरु| किञ्चित्ततो लघुतरं शिशिरे कफवातजित्||२०५|| कषायमधुरं रूक्षं विद्याद्वासन्तिकं जलम्| ग्रैष्मिकं त्वनभिष्यन्दि जलमित्येव निश्चयः| ऋतावृताविहाख्याताः सर्व एवाम्भसो गुणाः||२०६|| विभ्रान्तेषु तु कालेषु यत् प्रयच्छन्ति तोयदाः| सलिलं तत्तु दोषाय युज्यते नात्र संशयः||२०७|| राजभी राजमात्रैश्च सुकुमारैश्च मानवैः| सुगृहीताः शरद्यापः प्रयोक्तव्या विशेषतः||२०८||

🔊 Audio coming soon

Hide commentary

वक्ष्यमाणगुणविशेषहेतुमाह- भ्रष्टमित्यादि| पात्रमपेक्षत इति नद्यादिपात्रविशेषसम्बन्धमपेक्ष्य गुणविशेषवद्भवति| एतच्च यद्यापि ‘देशकालावपेक्षत’ इत्यनेन पूर्वमेवोक्तं, तथाऽपि कालापेक्षया देशविशेषस्य प्रकर्षेण गुणविशेषे हेतुताप्रदर्शनार्थं पुनरुक्तम्| केचित्तु “श्वेते कषायं भवति” इत्यादिग्रन्थं पठन्ति, स तु नातिप्रसिद्धः||१९८-२०८||

Adhikarana ३५ (२०९-२१२) · Śloka २१२

नद्यः पाषाणविच्छिन्नविक्षुब्धाभिहतोदकाः | हिमवत्प्रभवाः पथ्याः पुण्या देवर्षिसेविताः||२०९|| नद्यः पाषाणसिकतावाहिन्यो विमलोदकाः| मलयप्रभवा याश्च जलं तास्वमृतोपमम्||२१०|| पश्चिमाभिमुखा याश्च पथ्यास्ता निर्मलोदकाः| प्रायो मृदुवहा गुर्व्यो याश्च पूर्वसमुद्रगाः||२११|| पारियात्रभवा याश्च विन्ध्यसह्यभवाश्च याः| शिरोहृद्रोगकुष्ठानां ता हेतुः श्लीपदस्य च||२१२||

🔊 Audio coming soon

Hide commentary

आधारविशेषे गुणविशेषमाह- नद्य इत्यादि| पाषाणैर्विच्छिन्नं विक्षुब्धमभिहतं चोदकं यासां तास्तथा; एतेन, अधित्यकाप्रभवा एव हिमालये नद्यः पथ्या उक्ता भवन्ति नोपत्यकाप्रभवाः, यतोऽधित्यकाप्रभवास्वेव पाषाणविच्छिन्नत्वादि; अतश्च सुश्रुते यदुक्तं- “हिमवत्प्रभवा हृद्रोगादीन् जनयन्ति” (सु. सू. ४५) इति, तदुपत्यकाप्रभवाभिप्रायेणेति न विरोधः| यत्तु तत्रोक्तं “मलयप्रभवाः क्रिमीञ्जनयन्ति” (सु. सू. ४५) तदपाषाणसिकतावाहिनद्यभिप्रायेण, इह पाषाणसिकतावाहिनदीष्वमृतोपमिति न विरोधः| यत्तु, पारियात्रभवानां शिरोरोगादिकर्तृत्वं, तत् पारियात्रदरीभवनदीजलाभिप्रायेण, सुश्रुते तु पारियात्रतडागभवनदीजलाभिप्रायेणोक्तं- “पारियात्रभवाः पथ्याः” (सु. सू. ४५) इति| तदुक्तं विश्वामित्रेण- “तडागजं दरीजं च तडागाद्यत् सरिज्जलम्| बलारोग्यकरं तत् स्याद्दरीजं दोषलं मतम्” इति| प्रायोग्रहणात् पूर्वसमुद्रगमनेऽपि गाङ्गं पथ्यं भवति; किंवा यथोक्तलक्षणहिमालयभवत्वादेव गाङ्गं जलं पथ्यम्| पारियात्रादयः पर्वताः स्वनामप्रसिद्धाः||२०९-२१२||

Adhikarana ३६ (२१३-२१६) · Śloka २१६

वसुधाकीटसर्पाखुमलसन्दूषितोदकाः| वर्षाजलवहा नद्यः सर्वदोषसमीरणाः||२१३|| वापीकूपतडागोत्ससरःप्रस्रवणादिषु| आनूपशैलधन्वानां गुणदोषैर्विभावयेत्||२१४|| पिच्छिलं क्रिमिलं क्लिन्नं पर्णशैवालकर्दमैः| विवर्णं विरसं सान्द्रं दुर्गन्धं न हितं जलम्||२१५|| विस्रं त्रिदोषं लवणमम्बु यद्वरुणालयम्| इत्यम्बुवर्गः प्रोक्तोऽयमष्टमः सुविनिश्चितः||२१६|| इति जलवर्गोऽष्टमः|

🔊 Audio coming soon

Hide commentary

वर्षासु जलं वहन्तीति वर्षाजलवहाः; यदुक्तमग्र्याधिकारे “वर्षानादेयमुदकानाम्” (सू. २५) इति, तस्येहापथ्यत्वे उपपत्तिवर्णनमिति न पौनरुक्त्यम्| प्रस्रवणादिष्वित्यत्र ‘जलं’ इति शेषः| वाप्यादयोऽनूपदेशे धन्वनि हिमालियादिपर्वतेषु च भवेयुः, ततश्चानूपादिजलगुणैरेव तद्गुणनिर्देशः कर्तव्यः; पश्चिमाभिमुखनदीजलपूर्वाभिमुखनदीजलानूपजलखधन्वजलपर्वतजलगुणाश्चोक्ता एव, तेन तद्गुणातिदेशो वाप्यादिषु बोद्धव्यः| उक्तं च हारीतेन- “अनूपदेशे यद्वारि गुरु तच्छ्लेष्मवर्धनम्| विपरीतमतो मुख्यं जाङ्गलं लघु चोच्यते” इति| सुश्रुतेऽपि वाप्यादीनां पृथगेव गुण उक्तः; स चेह कूपादीनां सक्षारत्वादिः प्रत्यक्षदृष्टो ग्रन्थविस्तरभयान्नोक्त इति मन्तव्यम्| वापी इष्टकादिबद्धतीर्था दीर्घिका; कूपः प्रसिद्धः; तटादागो गतिर्यस्य स तडागः, स पुनरुच्चदेशादागच्छज्जलबन्धनाद्भवति, अन्ये तु पुष्करीणीं तडागमाहुः; उत्सा निम्नादुत्तिष्ठज्जलस्थानं; सरो दिव्यखातं पुरुषव्यापारं विना, तत्पुनः पम्पादि; प्रस्रवणः निर्झरः| अन्ये तु ‘ह्रदधाराजलादिषु’ इति पठन्ति; तत्र ह्रदः नदीस्थजलप्रदेशो गम्भीरो जलाशयः, धारा तु पर्वतादेव जलधारारूपा पतन्ती; आदिग्रहणात् केदारचुण्डादीनां ग्रहणम्| क्लिन्नं पर्णादिभिर्युतं सदित्यर्थः| वरुणालये समुद्रे| विस्रम् आमगन्धि| सुविनिश्चित इति सर्वजलगुणकथनात्||२१३-२१६||

Adhikarana ३७ (२१७-२२४) · Śloka २२४

अथ गोरसवर्गः- स्वादु शीतं मृदु स्निग्धं बहलं श्लक्ष्णपिच्छिलम्| गुरु मन्दं प्रसन्नं च गव्यं दशगुणं पयः||२१७|| तदेवङ्गुणमेवौजः सामान्यादभिवर्धयेत्| प्रवरं जीवनीयानां क्षीरमुक्तं रसायनम्||२१८|| महिषीणां गुरुतरं गव्याच्छीततरं पयः| स्नेहान्यूनमनिद्राय हितमत्यग्नये च तत्||२१९|| रूक्षोष्णं क्षीरमुष्ट्रीणामीषत्सलवणं लघु| शस्तं वातकफानाहक्रिमिशोफोदरार्शसाम्||२२०|| बल्यं स्थैर्यकरं सर्वमुष्णं चैकशफं पयः| साम्लं सलवणं रूक्षं शाखावातहरं लघु||२२१|| छागं कषायमधुरं शीतं ग्राहि पयो लघु| रक्तपित्तातिसारघ्नं क्षयकासज्वरापहम्||२२२|| हिक्काश्वासकरं तूष्णं पित्तश्लेष्मलमाविकम्| हस्तिनीनां पयो बल्यं गुरु स्थैर्यकरं परम्||२२३|| जीवनं बृंहणं सात्म्यं स्नेहनं मानुषं पयः| नावनं रक्तपित्ते च तर्पणं चाक्षिशूलिनाम्||२२४||

🔊 Audio coming soon

Hide commentary

जीवनीयसामान्याज्जलमनु क्षीरमुच्यते , क्षीरजत्वाद्दध्यादयश्चोच्यन्ते| प्रसन्नमिति निर्दोषं, निर्दोषता तु प्रशस्तत्वेन गुण इत्युच्यते; किंवा गुणानामसङ्ख्येयत्वेन प्रसन्नत्वं गुर्वाद्यपठितमपि गुण एवेति ज्ञेयम्| एवङ्गुणमेवेति स्वाद्वादिदशगुणम्| सामान्यादिति समानत्वात्| महिषीक्षीरगुणे स्नेहादूनमिति महिषीक्षीरं गव्यक्षीरात् स्नेहोनं, गौरवशैत्याभ्यां तु तदधिकमिति केचिद्ब्रुवते; तन्न, प्रत्यक्षमेव हि महिषीक्षीरादधिकमेव घृतं दृश्यते; तथा जतूकर्णेऽप्युक्तं- “गुरु शीतं स्निग्धतरं माहिषमतिबल्यं बृंहणं चाग्र्यम्” इति, सुश्रुतेऽप्युक्तं- “गव्यात् स्निग्धतरं” (सू. ४५) इति; तस्मात् ‘स्नेहान्यूनं’ इति पाठः; तेन स्नेहादधिकमित्यर्थः; किंवा स्नेहान्यूनमिति स्नेहपूर्णमित्यर्थः| उष्ट्रीक्षीरादीनां सलवणत्वादि मधुरानुरसत्वेन बोद्धव्यं; मधुरस्तु रसः प्रधान एव, दीर्घञ्जीवितीये ‘प्रायशो मधुरं’ (सू. १) इत्युक्तं, न तु सर्वथा मधुरमेव| ऐकशफमिति वडवायाः | केचित्तु सर्वशब्देन खरवेगसरयोरपि क्षीरस्यायं गुण इति वदन्ति| उष्णमिति क्षीरान्तरापेक्षया, तेन सामान्यगुणे शीतत्वमुक्तमविरुद्धं भवति, यतो लघूत्तमात्तिक्तरसाद्गुरुरपि कटु लघुरेवोच्यते मधुराद्यपेक्षया, एवं शीततमादितरक्षीरादुष्णमपि वडवायाः क्षीरं शीतमेव मूत्रमध्वाद्यपेक्षया भवति; एवं रूक्षमित्येतदपि व्याख्येयम्| यद्यपि च हस्तिनीक्षीरादीनि शास्त्रे प्रयोगेषु नोक्तानि, तथाऽपि कथितगुणं बुद्ध्वा तत्र तत्र प्रयोज्यानि||२१७-२२४||

Adhikarana ३८ (२२५-२२७) · Śloka २२७

रोचनं दीपनं वृष्यं स्नेहनं बलवर्धनम्| पाकेऽम्लमुष्णं वातघ्नं मङ्गल्यं बृंहणं दधि||२२५|| पीनसे चातिसारे च शीतके विषमज्वरे| अरुचौ मूत्रकृच्छ्रे च कार्श्ये च दधि शस्यते||२२६|| शरद्ग्रीष्मवसन्तेषु प्रायशो दधि गर्हितम्| रक्तपित्तकफोत्थेषु विकारेष्वहितं च तत्||२२७||

🔊 Audio coming soon

Hide commentary

दधिगुणमाह- रोचनमित्यादि| अत्र रोचनमित्युक्त्वाऽपि अरुचाविति वचनमरुचिरोगहरत्वेन, रोचनता तूपयोगकाल एव द्रव्यान्तररुचिकरत्वेनोक्ता| बृंहणमिति रोगादिकृशस्य बृंहणं, कार्श्ये चेति सहजे कार्श्ये शस्यत इति बोद्धव्यं; तेन न पौनरुक्त्यम्| पीनसे चतुर्विधेऽपि प्रभावाद्धितं; किंवा पीनसपाचकत्वात् सर्वत्र हितम्| यच्च वृष्यशीतकहितत्वादि दधिगुणपर्यालोचनयाऽनुपपद्यमानमिह दृश्यते, तत् प्रभावाद्बोद्धव्यम्| यच्च गुणान्तरादेवाम्लत्वोष्णत्वस्निग्धत्वाल्लभ्यमानमपि वातघ्नत्वं पुनरुच्यते तत् प्रकर्षार्थं, तथा अम्लत्वादियुक्तस्यापि वातहन्तृतादिव्यभिचारदर्शनादिति बोद्धव्यम्| व्यभिचारोदाहरणानि च मन्दकमन्दजातमद्यादीन्यनुसर्तव्यानि| न्यायश्चायं सर्वान्नपानगुणकथने यथासम्भवं वर्णनीयः, ग्रन्थप्रचुरतरताभीत्या सर्वं वस्तु वयमत्र नोद्भावयामः| प्रायश इति वचनात् कालान्तरेऽपि गर्हितत्वं शरदादावपि च प्रकृत्यादिवशाद्धितत्वं दर्शयति||२२५-२२७||

Adhikarana ३९ (२२८) · Śloka २२८

त्रिदोषं मन्दकं, जातं वातघ्नं दधि, शुक्रलः| सरः, श्लेष्मानिलघ्नस्तु मण्डः स्रोतोविशोधनः||२२८||

🔊 Audio coming soon

Hide commentary

मन्दकं यदा क्षीरं विक्रियामापन्नं घनत्वं न याति तदा तन्मन्दकम्| जातं वातघ्नमिति यदा तु मन्दकावस्थामुत्सृज्य घनतया जातं सन्मधुरमीषदम्लं च भवति, तदा वातघ्नं विशेषेण भवतीत्यर्थः| पूर्वे तु दधिगुणाः सुजातस्य व्यक्ताम्लस्य बोद्धव्याः| शुक्रलः सर इति च्छेदः| सरो दध्युपरिस्नेहः, शुक्रलः शुक्रस्रुतिवृद्धिकरः; अत एव सुश्रुते सरगुणे “वृष्यः शुक्रविवर्धनः” (सु. सू. ४५) इति पदद्वयोपादानं कृतम्| मण्ड इति प्रकरणाद्दधिमण्डो मस्त्वित्यर्थः||२२८||

Adhikarana ४० (२२९) · Śloka २२९

शोफार्शोग्रहणीदोषमूत्रग्रहोदरारुचौ| स्नेहव्यापदि पाण्डुत्वे तक्रं दद्याद्गरेषु च||२२९||

🔊 Audio coming soon

Hide commentary

शोफेत्यादिना तक्रगुणः| मूत्रग्रहो मूत्रकृच्छ्रादि| गरोऽत्र कृत्रिमविषम्||२२९||

Adhikarana ४१ (२३०) · Śloka २३०

सङ्ग्राहि दीपनं हृद्यं नवनीतं नवोद्धृतम्| ग्रहण्यर्शोविकारघ्नमर्दितारुचिनाशनम्||२३०||

🔊 Audio coming soon

Hide commentary

सङ्ग्राहीत्यादि नवनीतगुणः| नवोद्धृतं सद्यस्कं; नवोद्धृतमिति वचनादभिनवस्यैव नवनीतस्य यथोक्तगुणाः प्रकर्षवन्तो भवन्ति, पुराणस्य तु नैते बलवन्तो गुणा भवन्तीति||२३०||

Adhikarana ४२ (२३१-२३३) · Śloka २३४

स्मृतिबुद्ध्यग्निशुक्रौजःकफमेदोविवर्धनम्| वातपित्तविषोन्मादशोषालक्ष्मीज्वरापहम् ||२३१|| सर्वस्नेहोत्तमं शीतं मधुरं रसपाकयोः| सहस्रवीर्यं विधिभिर्घृतं कर्मसहस्रकृत्||२३२|| मदापस्मारमूर्च्छायशोषोन्मादगरज्वरान्| योनिकर्णशिरःशूलं घृतं जीर्णमपोहति||२३३|| सर्पींष्यजाविमहिषीक्षीरवत् स्वानि निर्दिशेत्|२३४|

🔊 Audio coming soon

Hide commentary

उत्पादक्रमागतस्य घृतस्य गुणमाह- स्मृतीत्यादि| सहस्रवीर्यमिति भूरिशक्तिकम्| कथं सहस्रवीर्यमित्याह- विधिवदिति| विधिवद् विधियुक्तं सदित्यर्थः, विधिश्च नानाकर्मकारिभिर्द्रव्यैः संस्कारः संयोगश्च, अत एवोक्तं- “नान्यः स्नेहस्तथा कश्चित् संस्कारमनुवर्तते” (नि. १) इति, तथा तन्त्रान्तरे “घृतं योगवाहि” इति; तस्मात् सहस्रवीर्यतः कर्मसहस्रकृदिति योज्यम्| यत्तु सुश्रुतटीकाकृतः सुश्रुतोक्तघृतगुणेषु “त्रिदोषापकर्षणं” इति पठन्ति, तत् संस्कारेण कफहरणादिति ज्ञेयम्| मदेत्यादि| जीर्णं तु दशवर्षातीतं; वचनं हि- “पुराणं दशवर्षं स्यात् प्रपुराणमतः परम्” इति| यथा यथा च जीर्णत्वप्रकर्षस्तथा तथा गुणोत्कर्षो ज्ञेयः| उक्तं हि हारीते- “यथा यथा जरां याति गुणवत् स्यात्तथा तथा” इति| अनुक्तसर्पिर्गुणानतिदिशति- सर्पींषीत्यादि| सर्पींषि स्वानीति सम्बन्धः; तेन, अजाक्षीरवदजासर्पिर्निर्दिशेदिति| एवं शेषयोरपि वाच्यम्| अनेन च न्यायेन हस्तिन्यादिसर्पिरपि बोद्धव्यं, हस्तिन्यादिसर्पिर्व्यवहाराभावात् साक्षान्नोक्तम्||२३१-२३३||-

Adhikarana ४३ (२३४-२३६) · Śloka २३६

पीयूषो मोरटं चैव किलाटा विविधाश्च ये||२३४|| दीप्ताग्नीनामनिद्राणां सर्व एव सुखप्रदाः| गुरवस्तर्पणा वृष्या बृंहणाः पवनापहाः||२३५|| विशदा गुरवो रूक्षा ग्राहिणस्तक्रपिण्डकाः| गोरसानामयं वर्गो नवमः परिकीर्तितः||२३६|| इति गोरसवर्गो नवमः|

🔊 Audio coming soon

Hide commentary

पीयूषः सद्यःप्रसूतायाः क्षीरम्| तदेव यावन्न परतः प्रसन्नतां याति तावत् ‘मोरट’ इत्युच्यते| किलाटो नष्टक्षीरभागः, यं लोकाः क्षीरसामित्याहुः| विशद इत्यादिस्तक्रपिण्डकगुणः, तक्रपिण्डः तक्रकूर्चिकाया एव स्रुतद्रवो घनो भागः| गोरसानामित्यत्र आदिशब्दो लुप्तनिर्दिष्टो द्रष्टव्यः, तेन महिषीक्षीरादीनामपि ग्रहणं; किंवा प्राधान्याद्गोरसनिर्देशः; गोरसभाषया गोरसनिष्पन्नाः सर्व एव क्षीरदधितक्रादयो गृह्यन्ते; लोके हि सर्वेष्वेवैषु गोरससञ्ज्ञा||२३४-२३६||

Adhikarana ४४ (२३७) · Śloka २३८

अथेक्षुवर्गः- वृष्यः शीतः सरः स्निग्धो बृंहणो मधुरो रसः| श्लेष्मलो भक्षितस्येक्षोर्यान्त्रिकस्तु विदह्यते||२३७|| शैत्यात् प्रसादान्माधुर्यात् पौण्ड्रकाद्वंशको वरः|२३८|

🔊 Audio coming soon

Hide commentary

माधुर्यसामान्यादिक्षुविकृतिप्रायो वर्ग उच्यते| भक्षितस्येति दन्तपीडितस्य| यान्त्रिक इति यन्त्रपीडितः| विदाहश्चास्य प्रायशस्त्वग्ग्रन्थियुक्तस्य यन्त्रेण पीडनात्, तथा कालान्तरावस्थानाच्च| वचनं हि- “मूलत्वग्ग्रन्थिसंयोगाद्यान्त्रिकस्तु विदह्यते”; उक्तं च हारीते- “व्यापित्वात् सुकुमारो हि रसो यन्त्रनिपीडितः| सौक्ष्म्यात् स्पृष्टोऽनिलार्काभ्यां भृशं काये विदह्यते” इति| अत्र व्यापित्वादिति त्वगादियुक्तेक्षुकाण्डभवत्वात्| यदुच्यते- विदाहित्वे यान्त्रिकस्य रक्तपित्तहन्तृत्वमुक्तं विरुध्यते, यथा “मधूदकस्येक्षुरसस्य चैव पानाच्छमं गच्छति रक्तपित्तम्” (चि.अ.४) इति; तन्न, यतो दन्तनिष्पीडितस्यैवाविदाहिनो रक्तपित्ते ग्रहणं भविष्यति, किंवा यान्त्रिकेऽपि विदाहकारकत्वगादिसंयोगस्य तथा कालान्तरावस्थानस्य च त्यागं कृत्वोपयोगः कर्तव्यः; ‘यान्त्रिकस्तु विदह्यते’ इति वचनं प्रायोवादमाश्रित्य बोध्यम्| अन्ये त्वेतद्दोषभयाद्विदह्यत इति शीघ्रं पच्यत इति व्याख्यानयन्ति||२३७||-

Adhikarana ४५ (२३८-२४२) · Śloka २४२

प्रभूतक्रिमिमज्जासृङ्मेदोमांसकरो गुडः||२३८|| क्षुद्रो गुडश्चतुर्भागत्रिभागार्धावशेषितः| रसो गुरुर्यथापूर्वं धौतः स्वल्पमलो गुडः||२३९|| ततो मत्स्यण्डिकाखण्डशर्करा विमलाः परम्| यथा यथैषां वैमल्यं भवेच्छैत्यं तथा तथा||२४०|| वृष्या क्षीणक्षतहिता सस्नेहा गुडशर्करा| कषायमधुरा शीता सतिक्ता यासशर्करा||२४१|| रूक्षा वम्यतिसारघ्नी च्छेदनी मधुशर्करा| तृष्णासृक्पित्तदाहेषु प्रशस्ताः सर्वशर्कराः||२४२||

🔊 Audio coming soon

Hide commentary

प्रभूतक्रिम्यादिकारणत्वात् प्रभूतक्रिम्यादिकरो गुड उच्यते| क्षुद्रगुडस्तथा चतुर्भागत्रिभागार्धावशेषितो रस इत्यत्र चकारलोपो द्रष्टव्यः; तेन क्षुद्रगुडश्चतुर्भागावशेषिताद्रसाद्गुरुः, तथा त्रिभागाच्चतुर्भागावशेषितो गुरुरित्यादि ज्ञेयम्| क्षुद्रगुडोऽसितगुड इत्युच्यते| फाणितं च तन्तुलीभावाद्भवति| धौतः स्वल्पमल इति मलावसेकेन धौतोऽल्पमलो भवति, तेनाल्पक्रिम्यादिर्भवतीति भावः| तत इति धौतगुडात्| मत्स्यण्डिका खण्डमध्ये पाकाद्घनीभूता मत्स्याण्डनिभा भवति| विमलाः परमित्युत्तरोत्तरं विमलाः| भवेच्छैत्यं तथा तथेति मत्स्यण्डिकायाश्च खण्डः शीततरः, ततश्च शर्करा शीततमेत्यर्थः| गुडशर्करेति यासमधुशर्करयोर्व्यवच्छेदार्थम्| यासशर्करा दुरालभाक्वाथकृता शर्करा| मधुशर्करा तु मधुभाण्डेषु शर्कराकारा भवति||२३८-२४२||

Adhikarana ४६ (२४३-२४६) · Śloka २४६

माक्षिकं भ्रामरं क्षौद्रं पौत्तिकं मधुजातयः| माक्षिकं प्रवरं तेषां विशेषाद्भ्रामरं गुरु||२४३|| माक्षिकं तैलवर्णं स्याद्घृतवर्णं तु पौत्तिकम्| क्षौद्रं कपिलवर्णं स्याच्छ्वेतं भ्रामरमुच्यते||२४४|| वातलं गुरु शीतं च रक्तपित्तकफापहम्| सन्धातृ च्छेदनं रूक्षं कषायं मधुरं मधु ||२४५|| हन्यान्मधूष्णमुष्णार्तमथवा सविषान्वयात्| गुरुरूक्षकषायत्वाच्छैत्याच्चाल्पं हितं मधु||२४६||

🔊 Audio coming soon

Hide commentary

मधुशर्कराप्रसङ्गेन मध्वभिधानम्| मक्षिकाः पिङ्गलाः, तद्भवं माक्षिकम्| भ्रमरः प्रसिद्धः| क्षुद्रमक्षिकाभवं क्षौद्रम्| पिङ्गला मक्षिका महत्यः पुत्तिकाः, तद्भवं पौत्तिकम्| छत्रादयश्चापरे चत्वारो मधुभेदाः सुश्रुतोक्ताः सामान्यमधुगुणा एव ज्ञेयाः; किंवा अप्रशस्तत्वादिह नोक्ताः| केचित् ‘माक्षिकं तैलवर्णं स्यात्’ इत्यादिश्लोकं पठन्ति| उष्णार्तमथवेति भाषया, यथा उष्णं मधु हन्यान्न तथा उष्णार्तमिति सूचयति| तत्रैव हेतुमाह- सविषान्वयादिति|- सविषाणि नानापुष्पाणि, किंवा सविषा एव मक्षिकादयः, अन्वया उत्पत्तिस्थानानि यस्य तत् सविषान्वयं मधु; तेन विषानुगतस्योष्णविरोधित्वस्यैव मधुनोऽनुगमो भवति, न तु सविषत्वस्य; तथा सत्युष्णमपि मारकं स्यात्; किंवा अथवेति सविषान्वयादित्यनेन सम्बध्यते, तेन सविषान्वयादन्यतश्च शैत्यात् सौकुमार्याच्चोष्णेन मधु विरुध्यत इत्यर्थो भवति| उक्तं हि हारीते- “नानापुष्पप्रकाराणां रससारात्मकं मधु| तच्छैत्यात् सौकुमार्याच्च सर्वैरुष्णैर्विरुध्यते” इति; सुश्रुतेऽप्युक्तं- “तत् सौकुमार्याच्च तथैव शैत्यात्” (सु. सू. ४५) इत्यादि| अल्पस्य मधुनो हितत्वे हेतुमाह- गुर्वित्यादि| गुरुत्वान्मध्वामकारकं भवति, रूक्षं कषायशीतं तु महात्ययवातकरमिति भावः||२४३-२४६||

Adhikarana ४७ (२४७-२४८) · Śloka २४८

नातः कष्टतमं किञ्चिन्मध्वामात्तद्धि मानवम्| उपक्रमविरोधित्वात् सद्यो हन्याद्यथा विषम्||२४७|| आमे सोष्णा क्रिया कार्या सा मध्वामे विरुध्यते| मध्वामं दारुणं तस्मात् सद्यो हन्याद्यथा विषम्||२४८||

🔊 Audio coming soon

Hide commentary

मध्वामस्य महात्ययतामाह- नात इत्यादि| उपक्रमविरोधित्वं मध्वामे यथा- आमे तूष्णं पथ्यं, तन्मधुनि विरुद्धं; यत्तु मधुहितं शीतं, तदामे विरुद्धम्||२४७-२४८||

Adhikarana ४८ (२४९) · Śloka २४९

नानाद्रव्यात्मकत्वाच्च योगवाहि परं मधु| इतीक्षुविकृतिप्रायो वर्गोऽयं दशमो मतः||२४९|| इतीक्षुवर्गो दशमः|

🔊 Audio coming soon

Hide commentary

मधुनो योगवाहित्वमाह- नानेत्यादि| यस्मान्नानारसवीर्यादिभ्यः पुष्पेभ्य उत्पन्नं तन्मधु, तेनानभिव्यक्तनानाशक्तिकमेव| ततश्च येन द्रव्येण वामनीयेन वाऽऽस्थापनीयेन वा वृष्येण कार्यान्तरकारकेण वा युज्यते तस्यैव कर्म करोति, समानानुकारिद्रव्यप्रबोधितशक्तित्वादिति भावः| चकारोऽत्र हेत्वन्तरसमुच्चये, तेन प्रभावाच्चेति बोद्धव्यम्| तेन सत्यपि नानौषधिसम्भवत्वे प्रभावान्न क्षीरमद्यादयो योगवाहिनः; तथा, अनानात्मका अपि शिलाजतुतैलादयो योगवाहिनो भवन्ति| योगवाहित्वेऽपि मधु स्नेहने न प्रयुज्यते वाते, रूक्षादिगुणयुक्तत्वात्| नानाद्रव्यात्मकत्वेऽपि मधु रूक्षकषायत्वाभ्यामेवाविर्भूतं भवति, प्रायेण रूक्षकषायगुणाधिके एव पुष्पे मधुमक्षिकाणां चरणादिति बोद्धव्यम्| अनेन च न्यायेन नानाद्रव्यात्मकत्वेन सर्वगुणताप्रसङ्गो मधुनो निरस्तो भवति| सुश्रुतेऽप्येवमेव योगवाहित्वं “तच्च नाना” (सु.सू.अ.४५) इत्यादिना ग्रन्थेन मधुन उक्तम्| इक्षुविकृतिप्राय इति इक्षुविकृतिप्रधानः, तेन यासशर्करादिकथनमप्यत्राविरुद्धमिति भावः||२४९||

Adhikarana ४९ (२५०-२५६) · Śloka २५७

अथ कृतान्नवर्गः- क्षुत्तृष्णाग्लानिदौर्बल्यकुक्षिरोगज्वरापहा| स्वेदाग्निजननी पेया वातवर्चोनुलोमनी||२५०|| तर्पणी ग्राहिणी लघ्वी हृद्या चापि विलेपिका| मण्डस्तु दीपयत्यग्निं वातं चाप्यनुलोमयेत्||२५१|| मृदूकरोति स्रोतांसि स्वेदं सञ्जनयत्यपि| लङ्घितानां विरिक्तानां जीर्णे स्नेहे च तृष्यताम्||२५२|| दीपनत्वाल्लघुत्वाच्च मण्डः स्यात् प्राणधारणः| लाजपेया श्रमघ्नी तु क्षामकण्ठस्य देहिनः||२५३|| तृष्णातीसारशमनो धातुसाम्यकरः शिवः| लाजमण्डोऽग्निजननो दाहमूर्च्छानिवारणः ||२५४|| मन्दाग्निविषमाग्नीनां बालस्थविरयोषिताम्| देयश्च सुकुमाराणां लाजमण्डः सुसंस्कृतः||२५५|| क्षुत्पिपासापहः पथ्यः शुद्धानां च मलापहः| शृतः पिप्पलिशुण्ठीभ्यां युक्तो लाजाम्लदाडिमैः||२५६|| कषायमधुराः शीता लघवो लाजसक्तवः|२५७|

🔊 Audio coming soon

Hide commentary

सम्प्रति शूकधान्यादिवर्गौर्यथासम्भवं सम्पादितस्य कृतान्नस्य पेयादेर्गुणान् वक्तुं कृतान्नवर्ग उच्यते | ते च पेयादीनां गुणाः केचित् संस्कारसंयोगादिजाः, केचित् प्राकृता अपि ज्ञेयाः| न च वाच्यं- पेयादीनामेव गुणेन बाधितत्वाच्छूकधान्यादीनां पृथग्गुणो न वाच्य इति; यतः पेयादयो हि प्रकृतिगुणानुविधायिनः सन्तः स्वगुणमावहन्ति, तेन कृतान्नस्य यो गुण उच्यते स यदि रक्तशाल्यादिप्रकृतावपि भवति तदा बलवान् भवति, अथ प्रकृतौ विपरीतो गुणो भवति तदा कृतान्नगुणस्याल्पत्वं भवतीति मन्तव्यम्| अत्र स्वस्थातुरहितत्वेनादौ पेयोच्यते; पेया बहुद्रवा यवागूः, विलेपी विरलद्रवा यवागूः| पेयादिक्रमेणान्ने वक्तव्ये अन्नात् प्रथमोत्पद्यमानत्वेन मण्डगुणकथनम्| दीपनलघुत्वाभ्यामग्निं यस्मात् करोति, तस्माल्लङ्घितादीनां प्राणधारण इति ज्ञेयम्| सुसंस्कृत इति धान्यकपिप्पल्यादिसुसंस्कृतः| शुद्धानां मलापह इति सम्यक्शुद्धानामपि कोष्ठोपलेपकदोषापहरत्वेन; यदुच्यते- शुद्धानामिति ईषच्छुद्धानां; तेन, ईषच्छुद्ध्या शेषदोषसम्बन्धान्मलापह इत्युपपन्नं, सुश्रुतेऽपि (सु.सू.अ.४६) “लाजमण्डोऽविशुद्धानां” इत्यकारप्रश्लेषादीषद्विशुद्धानामिति बोध्यम्| तन्न सत्, ईषद्विशुद्धे पेया निषिद्धैव, वचनं हि- “कफपित्ते विशुद्धेऽल्पे मद्यपे वातपैत्तिके| तर्पणादिक्रमः कार्यः पेयाऽभिष्यन्दयेद्धि तान्” (सि.अ.६) इति||२५०-२५६||-

Adhikarana ५० (२५७-२५९) · Śloka २६०

सुधौतः प्रस्रुतः स्विन्नः सन्तप्तश्चौदनो लघुः||२५७|| भृष्टतण्डुलमिच्छन्ति गरश्लेष्मामयेष्वपि| अधौतोऽप्रस्रुतोऽस्विन्नः शीतश्चाप्योदनो गुरुः||२५८|| मांसशाकवसातैलघृतमज्जफलौदनाः| बल्याः सन्तर्पणा हृद्या गुरवो बृंहयन्ति च||२५९|| तद्वन्माषतिलक्षीरमुद्गसंयोगसाधिताः|२६०|

🔊 Audio coming soon

Hide commentary

स्विन्न इत्युत्स्विन्नधान्यतण्डुलकृतः, किंवा सम्यक्स्विन्नत्वेन मृदुभूतः| सन्तप्त इति सहजेनोष्मणा, न तु पुनस्तापनेन; वचनं हि- “विवर्जयेत् स्थिरं शीतमन्नमुष्णीकृतं पुनः” इति| भृष्टतण्डुलकृत ओदनो भृष्टतण्डुलः| अधातः अधौततण्डुलकृतः| अत्र सुधौतत्वादिगुणविशिष्टस्यादनस्य लघुत्वंवचनेन तद्विपरीतानामधौतादीनां गुरुत्वमर्थतः सिद्धमपि यत् पुनरुच्यते तत् स्पष्टार्थम्| सन्तर्पणा इति तदात्वेऽपि बलकराः| मांसादिसंयोगसाधिताश्चौदना एव बोद्धव्याः| अत्र रूक्षाभ्यां शाकमुद्गाभ्यामपि संयुक्तस्यौदनस्य बल्यत्वादि संयोगमहिम्ना तथा घृतादिसंस्काराच्च लोकव्यवहारक्रियमाणत्वाद्बोद्धव्यम् ||२५७-२५९||-

Adhikarana ५१ (२६०-२६१) · Śloka २६१

कुल्माषा गुरवो रूक्षा वातला भिन्नवर्चसः||२६०|| स्विन्नभक्ष्यास्तु ये किचित् सौप्यगौधूमयाविकाः| भिषक् तेषां यथाद्रव्यमादिशेद्गुरुलाघवम्||२६१||

🔊 Audio coming soon

Hide commentary

यवपिष्टमुष्णोदकसिक्तमीषत्स्विन्नमपूपीकृतं कुल्माषमाहुः| स्विन्नभक्ष्या इत्युत्स्वेदनमात्रकृता हण्डरिकादयः| यथाद्रव्यमिति वदता नात्र प्रकृतिगुणोपमर्देन लाजादाविव गुणान्तरोदय इति दर्शयति||२६०-२६१||

Adhikarana ५२ (२६२) · Śloka २६२

अकृतं कृतयूषं च तनुं सांस्कारिकं रसम्| सूपमम्लमनम्लं च गुरुं विद्याद्यथोत्तरम्||२६२||

🔊 Audio coming soon

Hide commentary

अकृतकृतयूषलक्षणम्- “अस्नेहलवणं सर्वमकृतं कटुकैर्विना| विज्ञेयं लवणस्नेहकटुकैः संस्कृतं कृतम्” (सु. सू. ४६) इति| तनुमिति स्वल्पमांसत्वेनाघनं, सांस्कारिकमिति बहुमांसस्नेहादिसंस्कृतत्वाद्घनम्||२६२||

Adhikarana ५३ (२६३-२६४) · Śloka २६४

सक्तवो वातला रूक्षा बहुवर्चोनुलोमिनः| तर्पयन्ति नरं सद्यः पीताः सद्योबलाश्च ते||२६३|| मधुरा लघवः शीताः सक्तवः शालिसम्भवाः| ग्राहिणो रक्तपित्तघ्नास्तृष्णाच्छर्दिज्वरापहाः||२६४||

🔊 Audio coming soon

Hide commentary

सक्तूनां रूक्षत्वेऽपि वातलत्वाभिधानं तक्रस्य रूक्षस्यापि वातहारित्वदर्शनात्| पीता इत्यनेन सक्तूनां पिण्डोपयोगे निषेधं दर्शयति| तर्पयन्ति तृप्तिं जनयन्ति| सद्योबलाः तदात्वेनैव वाजीकरणवद्बलकराः; एतेन परिणामे बलापहत्वमप्युक्तं भवति||२६३-२६४||

Adhikarana ५४ (२६५-२६७) · Śloka २६७

हन्याद्व्याधीन् यवापूपो यावको वाट्य एव च| उदावर्तप्रतिश्यायकासमेहगलग्रहान्||२६५|| धानासञ्ज्ञास्तु ये भक्ष्याः प्रायस्ते लेखनात्मकाः| शुष्कत्वात्तर्पणाश्चैव विष्टम्भित्वाच्च दुर्जराः||२६६|| विरूढधाना शष्कुल्यो मधुक्रोडाः सपिण्डकाः| पूपाः पूपलिकाद्याश्च गुरवः पैष्टिकाः परम्||२६७||

🔊 Audio coming soon

Hide commentary

यवकृतो वाट्यो यावको वाट्यः, वाट्यश्च भृष्टयवौदनः| धाना भृष्टयवाः| अङ्कुरितस्य यवस्य धाना विरूढधानाः| शष्कुल्यः शालिपिष्टैः सतिलैस्तैलपक्वाः क्रियन्ते| मधुक्रोडाः पाकघनीभूतमधुगर्भाः| सपिण्डका इति मधुक्रोडा एव सपिष्टकपिण्डाः; नलस्त्वाह- “विमर्द्य समिताचूर्णं मृदुपाकं गुडान्वितम्| घृतावगाहे गुडिकां वृत्तां पक्वां सकेशराम्|| सौगन्धिकाधिवासां च कुर्यात् पूपलिकां बुधः| स एव खण्डसंयावः सिताम्रातकपूरितः|| मातुलुङ्गत्वचा चैव वेष्टितो मधुशीर्षकः” इति| मधुशीर्षक एव मधुक्रोडः| पूपाः पिष्टिकाः| पूपलिका चापडिकेति ख्याता||२६५-२६७||

Adhikarana ५५ (२६८-२७०) · Śloka २७०

फलमांसवसाशाकपललक्षौद्रसंस्कृताः| भक्ष्या वृष्याश्च बल्याश्च गुरवो बृंहणात्मकाः||२६८|| वेशवारो गुरुः स्निग्धो बलोपचयवर्धनः| गुरवस्तर्पणा वृष्याः क्षीरेक्षुरसपूपकाः ||२६९|| सगुडाः सतिलाश्चैव सक्षीरक्षौद्रशर्कराः| भक्ष्या वृष्याश्च बल्याश्च परं तु गुरवः स्मृताः||२७०||

🔊 Audio coming soon

Hide commentary

पललं तिलचूर्णम्| वेशवारः सूदशास्त्रे- “मांसं निरस्थि सुस्विन्नं पुनर्दृषदि पेषितम्| पिप्पलीशुण्ठिमरिचगुडसर्पिःसमन्वितम्|| ऐकध्यं विपचेत् सम्यग्वेशवार इति स्मृतः”| क्षीरप्रधानाः पूपाः क्षीरपूपाः| सगुडा इत्यादौ ‘सक्षीराः’ इति क्षीरयोगमात्रं, न क्षीरप्रधानतेति न पौनरुक्त्यम्||२६८-२७०||

Adhikarana ५६ (२७१-२७२) · Śloka २७२

सस्नेहाः स्नेहसिद्धाश्च भक्ष्या विविधलक्षणाः| गुरवस्तर्पणा वृष्या हृद्या गौधूमिका मताः||२७१|| संस्काराल्लघवः सन्ति भक्ष्या गौधूमपैष्टिकाः| धानापर्पटपूपाद्यास्तान् बुद्ध्वा निर्दिशेत्तथा||२७२||

🔊 Audio coming soon

Hide commentary

सस्नेहा इति पिष्टावस्थायामेव स्नेहयोगात्| गुरुत्वेनोक्तानामपि भूर्यग्निसंयोगादिना संस्काराल्लाघवं भवतीत्याह- संस्काराल्लघव इत्यादि| बुद्ध्वा निर्दिशेदिति संस्कारगुणं तथा प्रकृतिगुणं च बुद्ध्वा यथोचितं गुणं निर्दिशेत्||२७१-२७२||

Adhikarana ५७ (२७३) · Śloka २७३

पृथुका गुरवो भृष्टान् भक्षयेदल्पशस्तु तान्| यावा विष्टभ्य जीर्यन्ति सरसा भिन्नवर्चसः||२७३||

🔊 Audio coming soon

Hide commentary

पृथुकाः चिपिटाः| यावा इति यवचिपिटाः, अन्ये तु गान्धारदेशप्रसिद्धान् सम्पिष्टसञ्ज्ञानाहुः | सरसा अभृष्टाः||२७३||

Adhikarana ५८ (२७४) · Śloka २७४

सूप्यान्नविकृता भक्ष्या वातला रूक्षशीतलाः| सकटुस्नेहलवणानल्पशो भक्षयेत्तु तान्||२७४||

🔊 Audio coming soon

Hide commentary

सूप्यविकृता इति मुद्रमाषादिविकाराः||२७४||

Adhikarana ५९ (२७५) · Śloka २७५

मृदुपाकाश्च ये भक्ष्याः स्थूलाश्च कठिनाश्च ये| गुरवस्ते व्यतिक्रान्तपाकाः पुष्टिबलप्रदाः||२७५||

🔊 Audio coming soon

Hide commentary

मृदुपाकाः स्तोकाग्निसंयोगसाध्याः| व्यतिक्रान्तपाका इति चिरेण जरां गच्छन्ति||२७५||

Adhikarana ६० (२७६) · Śloka २७६

द्रव्यसंयोगसंस्कारं द्रव्यमानं पृथक् तथा| भक्ष्याणामादिशेद्बुद्ध्वा यथास्वं गुरुलाघवम्||२७६||

🔊 Audio coming soon

Hide commentary

अनुक्तभक्ष्यगुणातिदेशार्थमाह- द्रव्यसंयोगेत्यादि | द्रव्यमानं पृथगिति भक्ष्यकरणे संयुक्तानां द्रव्याणां मध्ये कस्य कियन्मानमिति बुद्ध्वा| यथास्वमिति यस्य द्रव्यस्य गौरवं लाघवं वा बलवद्भवति तं निर्दिशेत्||२७६||

Adhikarana ६१ (२७७-२७८) · Śloka २७८

(नानाद्रव्यैः समायुक्तः पक्वामक्लिन्नभर्जितैः| विमर्दको गुरुर्हृद्यो वृष्यो बलवतां हितः)||२७७|| रसाला बृंहणी वृष्या स्निग्धा बल्या रुचिप्रदा| स्नेहनं तर्पणं हृद्यं वातघ्नं सगुडं दधि||२७८||

🔊 Audio coming soon

Hide commentary

रसालालक्षणं- “सचतुर्जातकाजाजि ससितार्द्रकनागरम्| रसाला स्याच्छिखरिणी सङ्घृष्टं ससरं दधि” इति| रसालाप्रसङ्गेन सगुडदधिगुणमाह- स्नेहनमित्यादि||२७७-२७८||

Adhikarana ६२ (२७९-२८३) · Śloka २८३

द्राक्षाखर्जूरकोलानां गुरु विष्टम्भि पानकम्| परूषकाणां क्षौद्रस्य यच्चेक्षुविकृतिं प्रति||२७९|| तेषां कट्वम्लसंयोगान् पानकानां पृथक् पृथक्| द्रव्यं मानं च विज्ञाय गुणकर्माणि चादिशेत्||२८०|| कट्वम्लस्वादुलवणा लघवो रागषाडवाः| मुखप्रियाश्च हृद्याश्च दीपना भक्तरोचनाः||२८१|| आम्रामलकलेहाश्च बृंहणा बलवर्धनाः| रोचनास्तर्पणाश्चोक्ताः स्नेहमाधुर्यगौरवात्||२८२|| बुद्ध्वा संयोगसंस्कारं द्रव्यमानं च तच्छ्रितम्| गुणकर्माणि लेहानां तेषां तेषां तथा वदेत्||२८३||

🔊 Audio coming soon

Hide commentary

पानकानामपि कृतान्नभेदत्वात्तद्गुणमाह- द्राक्षेत्यादि| यच्चेक्षुविकृतिं प्रति पानकमिति सम्बन्धः| रागषाडवं केचिदेवं वदन्ति- “क्वथितं तु गुडोपेतं सहकारफलं नवम्| तैलनागरसंयुक्तं विज्ञेयो रागषाडवः” इति; किंवा , “सितारुचकसिन्धूत्थैः सवृक्षाम्लपरूषकैः| जम्बूफलरसैर्युक्तो रागो राजिकयाऽन्वितः” इति| षाडवस्तु मधुराम्लद्रव्यकृतः| आम्रामलकलेहास्तु तयोः पृथक्क्वाथेन सशर्करेण घनाः क्रियन्ते| अनुक्तपानकगुणातिदेशार्थमाह- बुद्ध्वेत्यादि| अस्य द्रव्यसंयोगेत्यादिवद्व्याख्यानम्||२७९-२८३||

Adhikarana ६३ (२८४-२८५) · Śloka २८५

रक्तपित्तकफोत्क्लेदि शुक्तं वातानुलोमनम्| कन्दमूलफलाद्यं च तद्वद्विद्यात्तदासुतम्||२८४|| शिण्डाकी चासुतं चान्यत् कालाम्लं रोचनं लघु| विद्याद्वर्गं कृतान्नानामेकादशतमं भिषक्||२८५|| इति कृतान्नवर्ग एकादशः|

🔊 Audio coming soon

Hide commentary

शुक्तलक्षणं- “यन्मस्त्वादि शुचौ भाण्डे सगुडक्षौद्रकाञ्जिकम्| धान्यराशौ त्रिरात्रस्थं शुक्रं चुक्रं तदुच्यते” इति| तदासुतमिति शुक्तमध्यस्थितं मूलककूष्माण्डादि| शिण्डाकी स्वनामप्रसिद्धा तीरभुक्तौ| आसुतं चान्यदिति सन्धानान्तरम्| कालाम्लमिति चिरकालावस्थानादम्लं, नत्वम्लद्रव्यसंयोगात्| कृतान्नानामिति करणनिष्पादितमण्डपेयादीनाम्||२८४-२८५||

Adhikarana ६४ (२८६-२९४) · Śloka २९४

कषायानुरसं स्वादु सूक्ष्ममुष्णं व्यवायि च| पित्तलं बद्धविण्मूत्रं न च श्लेष्माभिवर्धनम्||२८६|| वातघ्नेषूत्तमं बल्यं त्वच्यं मेधाग्निवर्धनम्| तैलं संयोगसंस्कारात् सर्वरोगापहं मतम्||२८७|| तैलप्रयोगादजरा निर्विकारा जितश्रमाः| आसन्नतिबलाः सङ्ख्ये दैत्याधिपतयः पुरा||२८८|| ऐरण्डतैलं मधुरं गुरु श्लेष्माभिवर्धनम्| वातासृग्गुल्महृद्रोगजीर्णज्वरहरं परम्||२८९|| कटूष्णं सार्षपं तैलं रक्तपित्तप्रदूषणम्| कफशुक्रानिलहरं कण्डूकोठविनाशनम् ||२९०|| प्रियालतैलं मधुरं गुरु श्लेष्माभिवर्धनम्| हितमिच्छन्ति नात्यौष्ण्यात्संयोगे वातपित्तयोः||२९१|| आतस्यं मधुराम्लं तु विपाके कटुकं तथा| उष्णवीर्यं हितं वाते रक्तपित्तप्रकोपणम्||२९२|| कुसुम्भतैलमुष्णं च विपाके कटुकं गुरु| विदाहि च विशेषेण सर्वदोषप्रकोपणम्||२९३|| फलानां यानि चान्यानि तैलान्याहारसंविधौ | युज्यन्ते गुणकर्मभ्यां तानि ब्रूयाद्यथाफलम्||२९४||

🔊 Audio coming soon

Hide commentary

आहारमभिधाय तद्योगिद्रव्यं ब्रूते| तत्र सर्पिष उक्तत्वात्तैलमेवान्नसंस्कारकप्रधानत्वादाह- कषायेत्यादि| संयोगाच्च संस्काराच्चेति संयोगसंस्कारात्; संस्कारस्तैलस्य भेषजैः पाकः, संयोगस्त्ववचारणायां ज्ञेयः| सङ्ख्ये युद्धे| आतस्यम् उमातैलम्| अनुक्ततैलगुणनिर्देशार्थमाह- फलानामित्यादि| फलानामित्युपलक्षणं; तेन सारस्नेहा अपि सुश्रुतोक्ता बोद्धव्याः| यथाफलमिति यादृशगुणं फलं तादृश एव तत्स्नेहोऽपीत्यर्थः||२८६-२९४||

Adhikarana ६५ (२९५) · Śloka २९५

मधुरो बृंहणो वृष्यो बल्यो मज्जा तथा वसा| यथासत्त्वं तु शैत्योष्णे वसामज्ज्ञोर्विनिर्दिशेत्||२९५||

🔊 Audio coming soon

Hide commentary

यथासत्त्वमिति यः प्राणी आनूपादिरुष्णस्तस्योष्णः, यस्तु प्राणी जाङ्गलादिः शीतस्तस्य शीत इत्यर्थः| सामान्यतस्तु वसामज्ज्ञोरनुष्णाशीतत्वं यथा भवति तथा स्नेहाध्याये एव प्रोक्तम्||२९५||

Adhikarana ६६ (२९६-३०४) · Śloka ३०४

सस्नेहं दीपनं वृष्यमुष्णं वातकफापहम्| विपाके मधुरं हृद्यं रोचनं विश्वभेषजम्||२९६|| श्लेष्मला मधुरा चार्द्रा गुर्वी स्निग्धा च पिप्पली| सा शुष्का कफवातघ्नी कटूष्णा वृष्यसम्मता ||२९७|| नात्यर्थमुष्णं मरिचमवृष्यं लघु रोचनम्| छेदित्वाच्छोषणत्वाच्च दीपनं कफवातजित् ||२९८|| वातश्लेष्मविबन्धघ्नं कटूष्णं दीपनं लघु| हिङ्गु शूलप्रशमनं विद्यात् पाचनरोचनम्||२९९|| रोचनं दीपनं वृष्यं चक्षुष्यमविदाहि च| त्रिदोषघ्नं समधुरं सैन्धवं लवणोत्तमम्||३००|| सौक्ष्म्यादौष्ण्याल्लघुत्वाच्च सौगन्ध्याच्च रुचिप्रदम्| सौवर्चलं विबन्धघ्नं हृद्यमुद्गारशोधि च||३०१|| तैक्ष्ण्यादौष्ण्याद्व्यवायित्वाद्दीपनं शूलनाशनम्| ऊर्ध्वं चाधश्च वातानामानुलोम्यकरं बिडम्||३०२|| सतिक्तकटु सक्षारं तीक्ष्णमुत्क्लेदि चौद्भिदम्| न काललवणे गन्धः सौवर्चलगुणाश्च ते||३०३|| सामुद्रकं समधुरं, सतिक्तं कटु पांशुजम्| रोचनं लवणं सर्वं पाकि स्रंस्यनिलापहम्||३०४||

🔊 Audio coming soon

Hide commentary

सौक्ष्म्यादित्यादिना सौवर्चलगुणः| तैक्ष्ण्यादित्यादिना बिडगुणः| औद्भिदम् उत्कारिकालवणम् | काललवणं सौवर्चलमेवागन्धम्| दक्षिणसमुद्रसमीपे भवतीति सामुद्रं करकचम्| पांशुजं पूर्वसमुद्रजम्||२९६-३०४||

Adhikarana ६७ (३०५-३०६) · Śloka ३०६

हृत्पाण्डुग्रहणीरोगप्लीहानाहगलग्रहान्| कासं कफजमर्शांसि यावशूको व्यपोहति||३०५|| तीक्ष्णोष्णो लघुरूक्षश्च क्लेदी पक्ता विदारणः| दाहनो दीपनश्छेत्ता सर्वः क्षारोऽग्निसन्निभः ||३०६||

🔊 Audio coming soon

Hide commentary

क्षाराणामपि लवणसत्त्वात् क्षारगुणमाह- हृदित्यादि| यवक्षारगुणः| सर्वः क्षार इति स्वर्जिकाक्षारटङ्कनक्षारादिः||३०५-३०६||

Adhikarana ६८ (३०७) · Śloka ३०७

कारवी कुञ्चिकाऽजाजी यवानी धान्यतुम्बुरु| रोचनं दीपनं वातकफदौर्गन्ध्यनाशनम्||३०७||

🔊 Audio coming soon

Hide commentary

कारवी कृष्णजीरकम्| कुञ्चिका स्थूलजीरकम्| अजाजी जीरकम्||३०७||

Adhikarana ६९ (३०८) · Śloka ३०८

आहारयोगिनां भक्तिनिश्चयो न तु विद्यते| समाप्तो द्वादशश्चायं वर्ग आहारयोगिनाम्||३०८|| इत्याहारयोगिवर्गो द्वादशः|

🔊 Audio coming soon

Hide commentary

उक्तात्तैलादेरन्यदप्याहारसंस्कारकत्वेनाहारयोगि भवतीत्याह- आहारेत्यादि| भक्तिः विभाग इयत्तेति यावत्; किंवा भक्तिः इच्छा; तेन पुरुषेच्छानामनियमादुक्तमपि किञ्चित् प्राय आहारयोगि न भवति, तथा अनुक्तमपि रसोनाम्रपेषिकाद्याहारसंयोगि भवतीत्युक्तं भवति||३०८||

Adhikarana ७० (३०९-३१०) · Śloka ३१०

शूकधान्यं शमीधान्यं समातीतं प्रशस्यते| पुराणं प्रायशो रूक्षं प्रायेणाभिनवं गुरु ||३०९|| यद्यदागच्छति क्षिप्रं तत्तल्लघुतरं स्मृतम्| निस्तुषं युक्तिभृष्टं च सूप्यं लघु विपच्यते||३१०||

🔊 Audio coming soon

Hide commentary

सम्प्रत्युक्तानां शूकधान्यादीनां यदनुक्तगुणं तद्वक्तुमाह- शूकधान्यमित्यादि| समातीतमिति एकवर्षातीतम्| प्रशस्यत इति लाघवात्; हेमन्ते नवधान्यविधानं त्वपवादः| आगच्छति क्षिप्रमिति उप्तं सच्छीघ्रं भवति; तेन षष्टिकाः सर्वधान्येषु लघवः, ते हि षष्टिरात्रेण भवन्ति| अस्मिंश्च व्याख्याने, व्रीहेः शारदस्य च हैमन्तं शालिं प्रत्यल्पकालत्वेन लघुत्वं प्राप्नोति, तस्मात् सजातीय एव शीघ्रगमनं लाघवहेतुरिति वाच्यम्| किंवा, आगच्छति क्षिप्रमिति भुक्तं सत् क्षिप्रं पच्यते| युक्तिभृष्टम् ईषद्भृष्टमिति यावत्| सूप्यं सूपाय योग्यं मुद्गमाषादि||३०९-३१०||

Adhikarana ७१ (३११) · Śloka ३१२

मृतं कृशं चातिमेद्यं वृद्धं बालं विषैर्हतम्| अगोचरभृतं व्यालसूदितं मांसमुत्सृजेत्||३११|| अतोऽन्यथा हितं मांसं बृंहणं बलवर्धनम्|३१२|

🔊 Audio coming soon

Hide commentary

मृतमिति स्वयं मृतम्| मेद्यं मेदुरम्| कृशग्रहणेन शुष्कमपि ग्राह्यम्| अगोचरभृतं यथा- आनूपं धन्वदेशे पुष्टम्| व्याला व्याघ्रादयः; किंवा व्यालः सर्पः| विषहतं तु विषदिग्धशस्त्रविद्धम्||३११||-

Adhikarana ७२ (३१२-३१५) · Śloka ३१५

प्रीणनः सर्वभूतानां हृद्यो मांसरसः परम्||३१२|| शुष्यतां व्याधिमुक्तानां कृशानां क्षीणरेतसाम्| बलवर्णार्थिनां चैव रसं विद्याद्यथामृतम्||३१३|| सर्वरोगप्रशमनं यथास्वं विहितं रसम्| विद्यात् स्वर्यं बलकरं वयोबुद्धीन्द्रियायुषाम्||३१४|| व्यायामनित्याः स्त्रीनित्या मद्यनित्याश्च ये नराः| नित्यं मांसरसाहारा नातुराः स्युर्न दुर्बलाः||३१५||

🔊 Audio coming soon

Hide commentary

मांसरसगुणाः- प्रीणन इत्यादि| सर्वरोगप्रशमनमिति सर्वशब्दो भूरिवचनः; एतेन उन्मादादौ मांसनिषेधो न विरोधवान् भवति; उक्तं हि उन्मादे- “निवृत्तामिषमद्यो यः” (चि. ९) इत्यादि| यथास्वमिति यस्य व्याधेर्यो विहितः, तादृशं रसम्||३१२-३१५||

Adhikarana ७३ (३१६-३१८) · Śloka ३१८

क्रिमिवातातपहतं शुष्कं जीर्णमनार्तवम्| शाकं निःस्नेहसिद्धं च वर्ज्यं यच्चापरिस्रुतम्||३१६|| पुराणमामं सङ्क्लिष्टं क्रिमिव्यालहिमातपैः| अदेशकालजं क्लिन्नं यत्स्यात्फलमसाधु तत्||३१७|| हरितानां यथाशाकं निर्देशः साधनादृते| मद्याम्बुगोरसादीनां स्वे स्वे वर्गे विनिश्चयः||३१८||

🔊 Audio coming soon

Hide commentary

स्नेहेन विना सिद्धं निःस्नेहसिद्धम्| आममिति अपक्वम्; एतच्च बिल्वादीन् विहाय बोद्धव्यम्| अदेशजमिति अनुचितदेशभवम्| अकालजम् अनार्तवम्| साधनादृत इति हरितानामार्द्रकपलाण्डुप्रभृतीनां निःस्नेहसिद्धानामपि तथा अपरिस्रुतानामपि निर्दोषत्वमित्यर्थः| विनिश्चयः ‘कृत’ इति शेषः; तथाच मद्यानां ‘प्रायशोऽभिनवम्’ इत्यादिना गुणदोषकथनं कृतमेव, एवं जलेऽपि ‘पिच्छिलं क्रिमिलम्’ इत्यादिना, गोरसकृतान्नाहारयोगिवर्गेषु तु यथोक्तकर्तृगुणवद्विपरीते विपरीतगुणमनुमेयमिति भावः||३१६-३१८||

Adhikarana ७४ (३१९-३२४) · Śloka ३२४

यदाहारगुणैः पानं विपरीतं तदिष्यते| अन्नानुपानं धातूनां दृष्टं यन्न विरोधि च||३१९|| आसवानां समुद्दिष्टामशीतिं चतुरुत्तराम्| जलं पेयमपेयं च परीक्ष्यानुपिबेद्धितम्||३२०|| स्निग्धोष्णं मारुते शस्तं पित्ते मधुरशीतलम्| कफेऽनुपानं रूक्षोष्णं क्षये मांसरसः परम्||३२१|| उपवासाध्वभाष्यस्त्रीमारुतातपकर्मभिः| क्लान्तानामनुपानार्थं पयः पथ्यं यथाऽमृतम्||३२२|| सुरा कृशानां पुष्ट्यर्थमनुपानं विधीयते| कार्श्यार्थं स्थूलदेहानामनु शस्तं मधूदकम्||३२३|| अल्पाग्नीनामनिद्राणां तन्द्राशोकभयक्लमैः| मद्यमांसोचितानां च मद्यमेवानुशस्यते||३२४||

🔊 Audio coming soon

Hide commentary

सम्प्रति येषां यदनुपानं कर्तव्यं तदेवाह- यदित्यादि| आहारगुणैरिति शीतस्नेहमधुरादिभिः; विपरीतमिति विपरीतगुणमनुपेयम्| एवं च दध्नोऽम्लस्य मधुरं क्षीरं तथा पायसस्य काञ्जिकानुपानं स्यादित्याह- धातूनां यन्न विरोधि चेति| एवं चाम्ले पयोऽनुपीयमानं विरुद्धत्वाद्धातुविरोधेन प्रत्युक्तं भवति, एवमन्यदपि विरुद्धं बोद्धव्यम्| समुद्दिष्टमिति यज्जःपुरुषीये (सू. २५)| पेयमपेयं चेति सहजगुणदोषवत्त्वात् तथोपयुक्तभोजनापेक्षया| स्निग्धोष्णमित्यादिना दोषभेदेनाप्यनुपानमाह| अनुशस्तमिति अनुपानं शस्तम्||३१९-३२४||

Adhikarana ७५ (३२५-३२६) · Śloka ३२६

अथानुपानकर्मगुणान् प्रवक्ष्यामः- अनुपानं तर्पयति, प्रीणयति, ऊर्जयति, बृंहयति, पर्याप्तिमभिनिर्वर्तयति, भुक्तमवसादयति, अन्नसङ्घातं भिनत्ति, मार्दवमापादयति, क्लेदयति, जरयति, सुखपरिणामितामाशुव्यवायितां चाहारस्योपजनयतीति||३२५|| भवति चात्र- अनुपानं हितं युक्तं तर्पयत्याशु मानवम्| सुखं पचति चाहारमायुषे च बलाय च||३२६||

🔊 Audio coming soon

Hide commentary

अनुपानगुणानाह- अथेत्यादि| पर्याप्तिः तृप्तिः| ||३२५-३२६||

Adhikarana ७६ (३२७-३२८) · Śloka ३२८

नोर्ध्वाङ्गमारुताविष्टा न हिक्काश्वासकासिनः| न गीतभाष्याध्ययनप्रसक्ता नोरसि क्षताः||३२७|| पिबेयुरुदकं भुक्त्वा तद्धि कण्ठोरसि स्थितम्| स्नेहमाहारजं हत्वा भूयो दोषाय कल्पते||३२८||

🔊 Audio coming soon

Hide commentary

यैरनुपानं न कर्तव्यं तानाह- नोर्ध्वाङ्गेत्यादि| कण्ठोरसि स्थितमिति अनेनोर्ध्वाङ्गमारुतादीनामनुपानं कण्ठोरसि स्थितमेव भवति, नाधो यातीति दर्शयति| स्नेहमाहारजं हत्वेति आहारजातं स्नेहमभिभूय भूयो दोषाय कल्पते, वातलक्षणं दोषं करोतीत्यर्थः| आहारस्नेहेन यो वातप्रशमः कर्तव्यस्तं शैत्यप्रकर्षात् पानीयमभिभवतीत्यर्थः| एतेन यदुच्यते- अपां स्निग्धत्वेन स्नेहनमुपपन्नमिति, तन्न भवति| ये तु ब्रुवते- ‘हन’ हिंसागत्योरिति वचनात् स्नेहं हत्वेति स्नेहं गत्वेत्यर्थः; तदपि न भवति, यतः स्नेहयुक्तत्वेनोर्ध्वाङ्गमारुतादिहननमेव युक्तं, न तु करणम्| किंवा स्नेहमिति सारं, यथा- “देहः स्नेहपरिक्षयात्” (चि. ८) इति देहसारपरिक्षयादित्यर्थः, सारहननं च जलेनाहारस्नेहं गृहीत्वा कण्ठोरस्यवस्थानादपाकात् क्रियते ||३२७-३२८||

Adhikarana ७७ (३२९-३३०) · Śloka ३३०

अन्नपानैकदेशोऽयमुक्तः प्रायोपयोगिकः| द्रव्याणि न हि निर्देष्टुं शक्यं कार्त्स्न्येन नामभिः||३२९|| यथा नानौषधं किञ्चिद्देशजानां वचो यथा| द्रव्यं तत्तत्तथा वाच्यमनुक्तमिह यद्भवेत्||३३०||

🔊 Audio coming soon

Hide commentary

अन्नपानद्रव्यैकदेशकथनं सहेतुकमाह- अन्नेत्यादि| अन्नपानैकदेशः प्रायोपयोगिक इति बाहुल्येन यदुपयुज्यते; एतेन यद्बाहुल्येनोपयुज्यते तस्य शृङ्गग्राहिकया कथनं, प्रायोऽनुपयुज्यमानानां शृङ्गग्राहिकयाऽकथनमल्पदोषमिति दर्शयति; तथा अल्पदोषस्यापि परिहारार्थं तदपि किमिति नोच्यत इत्याह- द्रव्याणीत्यादि| द्रव्याणि कार्त्स्न्येनेति साकल्येन निर्देष्टुं; नामभिरिति नामभिरपि न शक्यं, ‘केनचित्’ इति शेषः; हिशब्दो यस्मादर्थे, एतेन यस्मात् सर्वाणि द्रव्याणि नाममात्रेणापि वक्तुं कश्चिन्न पारयत्यतिबहुत्वात्, तत् का कथा अशेषान्नपानद्रव्यस्य शृङ्गग्राहिकया गुणकथनं प्रतीति भावः| किंवा, नामभिर्निर्दिष्टानि कार्त्स्न्येन निर्देष्टुमिति गुणतः कथयितुं न शक्यं केनचिदिति योजना| अथ कथं ह्यत्राकीर्तितान्नपानस्य तर्हि गुणा निर्देष्टव्या इत्याह- यथेत्यादि| यथा येन प्रकारेण “नानौषधं किञ्चित्” (सू. २६) इति पूर्वाध्याये प्रोक्तं तथा तेन प्रकारेणानुक्तं द्रव्यं वाच्यं; ‘गुणतः’ इति शेषः| पूर्वाध्याये हि “तत्र द्रव्याणि गुरुखर” (सू. २६) इत्यादिना ग्रन्थेन पार्थिवादिभेदेन विशिष्टेन च कर्मणा प्रोक्तानि द्रव्याणि, ततश्चानुक्तं द्रव्यं तेनैव गुरुखरादिना गुणेन पार्थिवत्वादि प्रतिपाद्य यथोक्तोपचयादिकर्मकर्तृकतया व्यपदेष्टव्यमित्यर्थः| तदेवानिर्दिष्टद्रव्यस्य गुरुखरत्वादि कथं ज्ञेयमित्याह- देशजानां वचो यथेति; देशजा देशान्तरीयाः, तद्देशीयवचनात्ते ते गुरुखरत्वादयो ज्ञेया इत्यर्थः; किंवा, देशजा यथा तत्तद्द्रव्यं व्यवहरन्ति ‘इदं मधुरम्, इदमम्लम्’ इत्यादि, तत् प्रतिपाद्य मधुरत्वाम्लत्वादिप्रतिपन्नपृथिव्याद्यस्य कारणमिति पृथिव्यादीनां गुर्वादिगुणगणेन कर्मणा च रसोक्तेन तद्वक्तव्यमित्यर्थः||३२९-३३०||

Adhikarana ७८ (३३१) · Śloka ३३१

चरः शरीरावयवाः स्वभावो धातवः क्रिया| लिङ्गं प्रमाणं संस्कारो मात्रा चास्मिन् परीक्ष्यते||३३१||

🔊 Audio coming soon

Hide commentary

अपरमप्यनुक्तान्नपानगुणज्ञानकारणमाह- चर इत्यादि| चर्यत इति चरो देशः भक्ष्यश्च सामान्येन गृह्यते| क्रिया व्यापारः| प्रमाणं मानम्| अत्रेति अन्नपानगुणाधिकरणे||३३१||

Adhikarana ७९ (३३२-३३३) · Śloka ३३३

चरोऽनूपजलाकाशधन्वाद्यो भक्ष्यसंविधिः| जलजानूपजाश्चैव जलानूपचराश्च ये||३३२|| गुरुभक्ष्याश्च ये सत्त्वाः सर्वे ते गुरवः स्मृताः| लघुभक्ष्यास्तु लघवो धन्वजा धन्वचारिणः||३३३||

🔊 Audio coming soon

Hide commentary

चरं विवृणोति- चरोऽनूपेत्यादि| भक्ष्यस्य संविधिः भक्ष्यभक्षणम्| तत्रानूपजलाकाशधन्वाद्य इत्यनेन गतिरूपश्चर उच्यते, भक्ष्यसंविधिवचनेन च भक्ष्यरूपश्चर उच्यते| अत्रैवोदाहरणमाह- जलजेत्यादि| अत्र जलजत्वेनानूपजत्वेन च जले वाऽनूपे वा गतिरेव दृश्यते, न हि जलादौ ये जातास्ते प्रायोऽन्यत्रावतिष्ठन्ते; ये त्वन्यत्र जाता अप्यन्यत्र तिष्ठन्ते प्रायः काकमद्गुप्रभृतयस्तद्ग्रहणार्थमाह- जलानूपचराश्च ये इति| एतेन सामान्येन जले प्रायोऽवस्थानादिह जलचरत्वम्; एवमनूपचरत्वाद्यपि ज्ञेयम्| भक्ष्यरूपचरकृतं गुणमाह- गुरुभक्ष्या इत्यादि| धन्वजा धन्वचारिण इत्यत्र चकारो लुप्तनिर्दिष्टो द्रष्टव्यः; तेन, आकाशचारिणामपि श्येनादीनामनुक्तमपि लाघवं स्वजातिप्रसहान्तरापेक्षया बोद्धव्यम्, आकाशस्य लघुत्वात्| ये तु ब्रुवते- आकाशचारिणां गौरवलाघवानियमादकथनमिति; तन्न, तथा सत्याकाशस्याप्रयोजकत्वेन ‘चरोऽनूपजलाकाशधन्वाद्यः’ इत्यत्राकाशकथनं निष्प्रयोजनं स्यात्||३३२-३३३||

Adhikarana ८० (३३४-३३५) · Śloka ३३५

शरीरावयवाः सक्थिशिरःस्कन्धादयस्तथा| सक्थिमांसाद्गुरुः स्कन्धस्ततः क्रोडस्ततः शिरः||३३४|| वृषणौ चर्म मेढ्रं च श्रोणी वृक्कौ यकृद्गुदम्| मांसाद्गुरुतरं विद्याद्यथास्वं मध्यमस्थि च||३३५||

🔊 Audio coming soon

Hide commentary

मांसाद्गुरुतरं विद्यादिति गुरुत्वेन प्रतिपादितसक्थ्यादिमांसाद्वृषणादि गुरुतरं विद्यादिति| यथास्वमिति एकशरीरसक्थ्यादीनामेवैतद्गौरवादि, नत्वन्यशरीरापेक्षया| मध्यमिति अन्तराधिः| अस्थि इति अस्थिस्थितं मांसम्| अन्ये तु मध्यमिति अस्थिमध्यगतं मज्जानं ब्रुवते; तन्नातिसुन्दरं, तस्योत्तरोत्तरधातुगौरवकथनेनैव लब्धत्वात्||३३४-३३५||

Adhikarana ८१ (३३६-३३७) · Śloka ३३७

स्वभावाल्लघवो मुद्गास्तथा लावकपिञ्जलाः| स्वभावाद्गुरवो माषा वराहमहिषास्तथा||३३६|| धातूनां शोणितादीनां गुरुं विद्याद्यथोत्तरम्| अलसेभ्यो विशिष्यन्ते प्राणिनो ये बहुक्रियाः||३३७||

🔊 Audio coming soon

Hide commentary

स्वभावादिति प्रकृत्या| क्रियोदाहरणम्- अलसेभ्य इत्यादि; अलसेभ्य इति अल्पक्रियेभ्यः| विशिष्यन्त इति विशिष्टा भवन्ति, लघवो भवन्तीत्यर्थः||३३६-३३७||

Adhikarana ८२ (३३८) · Śloka ३३८

गौरवं लिङ्गसामान्ये पुंसां स्त्रीणां तु लाघवम्| महाप्रमाणा गुरवः स्वजातौ लघवोऽन्यथा||३३८||

🔊 Audio coming soon

Hide commentary

लिङ्ग्यन्ते ज्ञायन्ते गवादयोऽनेनेति लिङ्गं जातिः, तेन लिङ्गसामान्ये जातिसामान्ये; एतच्च चतुष्पादाभिप्रायेण बोद्धव्यं, पक्षिषु विपर्ययः; यदाह हारीतः- “चतुष्पादेषु लघ्वी स्त्री विहगेषु लघुः पुमान्” इति, अत्राप्युक्तं- “स्त्रियश्चतुष्पात्सु पुमान् विहगेषु लघुः” इति| पुंसां च गौरवे अत्यर्थगुरोः शुक्रस्यारम्भकस्य भूयस्त्वं हेतुं ब्रुवते; किन्तु स्वभावस्तत्र हेतुरपवाद इति पश्यामः, विहङ्गेषु विपर्ययदर्शनादिति||३३८||

Adhikarana ८३ (३३९) · Śloka ३३९

गुरूणां लाघवं विद्यात् संस्कारात् सविपर्ययम्| व्रीहेर्लाजा यथा च स्युः सक्तूनां सिद्धपिण्डिकाः||३३९||

🔊 Audio coming soon

Hide commentary

सविपर्ययमिति संस्काराल्लघूनामपि गौरवं विद्यादित्यर्थः| तदेव संस्कारजन्यं लाघवं गौरवं चाह- व्रीहेरित्यादि| गुरोरपि व्रीहेः संस्काराल्लाजा लघव इत्यर्थः| सक्तूनां च लघूनां सिद्धपिण्डिका गुर्व्यः, सिद्धपिण्डिका अग्निपाचिताः पिण्डाः||३३९||

Adhikarana ८४ (३४०-३४१) · Śloka ३४१

अल्पादाने गुरूणां च लघूनां चातिसेवने| मात्रा कारणमुद्दिष्टं द्रव्याणां गुरुलाघवे||३४०|| गुरूणामल्पमादेयं लघूनां तृप्तिरिष्यते| मात्रां द्रव्याण्यपेक्षन्ते मात्रा चाग्निमपेक्षते||३४१||

🔊 Audio coming soon

Hide commentary

अल्पादान इत्यादि| गुरूणां द्रव्याणामल्पस्य स्तोकमात्रस्यादाने यल्लाघवं, तस्मिन् लाघवे मात्रा कारणं; न द्रव्यं, तस्य गुरुत्वात्| एवं लघूनामतिसेवने गौरवं मात्राकृतम्| उद्दिष्टमिति मात्राशितीये (सू. ५), अस्माभिरपि च तत्रैवैतत् सप्रपञ्चं व्याख्यातम्; प्रकरणागतत्वेन अभ्यर्हितत्वाच्च पुनरुक्तम् | द्रव्याणि मात्रामपेक्षन्ते इति यथोचितमात्रावन्ति सुखं पच्यन्त इत्यर्थः| मात्रा चाग्निमपेक्षत इति प्रतिपुरुषं प्रतिदिनं चाग्निभेदमपेक्ष्य मात्रा महती स्वल्पा वा भवति, न प्रतिनियता मात्रा विद्यत इति भावः||३४०-३४१||

Adhikarana ८५ (३४२) · Śloka ३४२

बलमारोग्यमायुश्च प्राणाश्चाग्नौ प्रतिष्ठिताः| अन्नपानेन्धनैश्चाग्निर्ज्वलति व्येति चान्यथा ||३४२||

🔊 Audio coming soon

Hide commentary

कुतः पुनरग्न्यपेक्षा मात्रा क्रियत इत्याह- बलमित्यादि| अग्निमपेक्ष्य मात्रया प्रयुक्तयाऽग्न्यनाशाद्वलादयो भवन्तीति भावः| अग्नौ प्रतिष्ठिता इति अग्न्यधीनाः; यथा- राजाश्रिताः प्रजा इति| प्राणा इति वायवः; किंवा, प्राणाश्रयाः शङ्खादयो दश प्राणाः| इन्धनं काष्ठम्, इन्धनमिवेन्धनं, तैः; किंवा अग्निदाह्यमिन्धनमुच्यते| अन्यथेति अनिन्धनम्||३४२||

Adhikarana ८६ (३४३) · Śloka ३४३

गुरुलाघवचिन्तेयं प्रायेणाल्पबलान् प्रति| मन्दक्रियाननारोग्यान् सुकुमारान्सुखोचितान्||३४३||

🔊 Audio coming soon

Hide commentary

इयं चरादिकृता गुरुलाघवचिन्ताऽल्पाग्निं प्रति प्राय इति दर्शयन्नाह- गुर्वित्यादि| अत्राप्यबलत्वेन मन्दकाद्यैरपि वह्निमान्द्यमेव लक्षणीयम्||३४३||

Adhikarana ८७ (३४४) · Śloka ३४४

दीप्ताग्नयः खराहाराः कर्मनित्या महोदराः| ये नराः प्रति तांश्चिन्त्यं नावश्यं गुरुलाघवम्||३४४||

🔊 Audio coming soon

Hide commentary

खराहारा इति कठिनाहारसात्म्याः| महोदरत्वेनापि मेदोवरोधान्महाग्नित्वं दर्शयति| नावश्यं चिन्त्यमिति अनेन दीप्ताग्नीनामपि प्रति स्तोकप्रयोजना गुरुलाघवचिन्ता विद्यत एवेति दर्शयति| यतो दीप्ताग्न्यादीनामपि गुरुद्रव्यमग्नेः प्रतिपक्षमावहत्येव, स्वभावतोऽग्निविरुद्धत्वात्||३४४||

Adhikarana ८८ (३४५-३४७) · Śloka ३४७

हिताभिर्जुहुयान्नित्यमन्तरग्निं समाहितः| अन्नपानसमिद्भिर्ना मात्राकालौ विचारयन्||३४५|| आहिताग्निः सदा पथ्यान्यन्तरग्नौ जुहोति यः| दिवसे दिवसे ब्रह्म जपत्यथ ददाति च||३४६|| नरं निःश्रेयसे युक्तं सात्म्यज्ञं पानभोजने| भजन्ते नामयाः केचिद्भाविनोऽप्यन्तरादृते||३४७||

🔊 Audio coming soon

Hide commentary

अन्नं समिध इव समिधः| आहिताग्निरिति सात्म्येन व्यवस्थापिताग्निः; किंवा आहिताग्निरिवाहिताग्निः; तेन आहिताग्निर्यथा प्रातः सायं जुहोति, तथाऽयमपि प्रातः सायं च पथ्यान्यन्तरग्नौ जुहोति| ब्रह्म जपतीति प्रणवादिमन्त्रमावर्तयति| ददाति चेति यथाशक्ति दानमाचरति| तं नरं निःश्रेयसे कल्याणे युक्तमामया न भजन्ते| भाविनोऽपीति जन्मान्तरेऽपि; इह जन्मनि पथ्याशित्वान्न भवन्ति गदाः, जन्मान्तरेऽपि ब्रह्मजपदानाभ्यामर्जितधर्मप्रभावादेव न भवन्ति| अत एवाह- अन्तरादृत इति; अन्तरादिति कारणात्, ऋते विना; अपथ्यस्य तथा अधर्मस्य रोगकरणस्याभावाद्गदा न भवन्तीति भावः||३४५-३४७||

Adhikarana ८९ (३४८) · Śloka ३४८

षड्त्रिंशतं सहस्राणि रात्रीणां हितभोजनः| जीवत्यनातुरो जन्तुर्जितात्मा सम्मतः सताम्||३४८||

🔊 Audio coming soon

Hide commentary

वर्षशतायुष्ट्वमपि हिताद्भोजनाद्भवतीत्याह- षट्त्रिंशतमित्यादि| एतावतीभी रात्रिभिर्वर्षशतमेव भवति| जितात्मा जितेन्द्रियः| सम्मतः पूजितः||३४८||

Adhikarana ९० (३४९-३५०) · Śloka ३५१

प्राणाः प्राणभृतामन्नमन्नं लोकोऽभिधावति| वर्णः प्रसादः सौस्वर्यं जीवितं प्रतिभा सुखम्||३४९|| तुष्टिः पुष्टिर्बलं मेधा सर्वमन्ने प्रतिष्ठितम्| लौकिकं कर्म यद्वृत्तौ स्वर्गतौ यच्च वैदिकम्||३५०|| कर्मापवर्गे यच्चोक्तं तच्चाप्यन्ने प्रतिष्ठितम्|३५१|

🔊 Audio coming soon

Hide commentary

किमर्थमन्नपानविधावेतत् परीक्ष्यमित्याह- प्राणा इत्यादि| अभिधावतीति प्रार्थयति| प्रतिभा प्रज्ञा| मेधा धारणावती धीः| लौकिकमिति अपरीक्षकलोके भवम्; अपरीक्षका एव हि वर्तमानमात्रे प्रवर्तन्ते, परीक्षकास्तु जन्मान्तरोपकारिण्येव| कर्म यद्वृत्ताविति वर्तमाने साध्ये यत् कर्म कृष्यादि| स्वर्गताविति स्वर्गगमने| वैदिकमिति यज्ञादि| अपवर्ग इति मोक्षे| एताश्च निमित्तसप्तम्यः| यच्चोक्तमिति मोक्षशास्त्रे सत्यब्रह्मचर्यादि| अन्ने प्रतिष्ठितमिति निरन्नस्य देहस्थित्यभावेन सर्वारम्भाभावात्| यस्मादन्नं सर्वत्र कारणं, ततस्तत्रावधातव्यमिति||३४९-३५०||-

Adhikarana ९१ (३५१-३५२) · Śloka ३५२

तत्र श्लोकः- अन्नपानगुणाः साग्र्या वर्गा द्वादश निश्चिताः||३५१|| सगुणान्यनुपानानि गुरुलाघवसङ्ग्रहः| अन्नपानविधावुक्तं तत् परीक्ष्यं विशेषतः||३५२||

🔊 Audio coming soon

Hide commentary

सङ्ग्रहेऽन्नपानगुणा इति ‘इष्टवर्ण’ इत्यादिनोक्ताः| साग्र्या इति उदकं क्लेदयति इत्यादिना; उदकादयो हि क्लेदनादिषु अग्र्याः श्रेष्ठा इत्यर्थः||३५१-३५२||

Adhikarana पुष्पिका · Śloka २७

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थानेऽन्नपानविधिर्नाम सप्तविंशोऽध्यायः||२७||

🔊 Audio coming soon

Hide commentary

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यव्याख्यायामायुर्वेददीपिकायामन्नपानचतुष्केऽन्नपानविधिर्नाम सप्तविंशोऽध्यायः||२७||