Adhikarana १ (१-२) · Śloka २
अथातो जातिसूत्रीयं शारीरं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
Hide commentary
सम्प्रति पारिशेष्याज्जातिसूत्रीय उच्यते| जातिशब्देन जन्मकारणमुच्यते, तस्य सूत्रं जन्मोपायकथनं, तदधिकृत्य कृतोऽध्यायो जातिसूत्रीयः||१-२||
Adhikarana २ (३) · Śloka ३
स्त्रीपुंसयोरव्यापन्नशुक्रशोणितगर्भाशययोः श्रेयसीं प्रजामिच्छतोस्तदर्थाभिनिर्वृत्तिकरं कर्मोपदेक्ष्यामः||३||
Hide commentary
स्त्रीपुंसयोरिति क्रमनिर्देशं कृत्वा ‘अव्यापन्नशोणितगर्भाशयशुक्रयोः’ इति निर्देशो यथाक्रमानुरोधाद्यद्यपि युज्यते, तथाऽप्यल्पाक्षरं पूर्वं निपततीति न्यायमाश्रित्य क्रमभेदेन निर्देशः कृतः| श्रेयसीं प्रजामिच्छतोरित्यत्र श्रेयसी प्रजा गुणवान् पुत्रो गुणवती च कन्याऽभिप्रेता, यतोऽत्र कन्योत्पादविधानमपि लेशतः करिष्यति; तेन निर्गुणयोः कन्यापुत्रयोस्तथा नपुंसकस्य चाश्रेयस्त्वेन व्युदासः; अन्ये तु पुत्रमेव श्रेयसीं प्रजामाहुः; यतोऽत्र सर्वं पुत्रमेवोद्दिश्य विधानं प्रायः करिष्यति| तदर्थाभिनिर्वृत्तिकरमिति श्रेयःप्रजारूपप्रयोजननिष्पादकम्||३||
Adhikarana ३ (४) · Śloka ४
अथाप्येतौ स्त्रीपुंसौ स्नेहस्वेदाभ्यामुपपाद्य, वमनविरेचनाभ्यां संशोध्य, क्रमेण प्रकृतिमापादयेत्|
संशुद्धौ चास्थापनानुवासनाभ्यामुपाचरेत्; उपाचरेच्च मधुरौषधसंस्कृताभ्यां घृतक्षीराभ्यां पुरुषं, स्त्रियं तु तैलमाषाभ्याम्||४||
Hide commentary
अथापीत्यादौ अथशब्दोऽधिकारे, अपिशब्दो विशेषार्थः| तेनाव्यापन्नशुक्रशोणितगर्भाशययोरपि स्त्रीपुंसयोः श्रेयःप्रजाजनकगुणाधानार्थं स्नेहादिकर्मकरणमिति दर्शयति| यद्यप्येताविति पदेनैवाधिकृतौ स्त्रीपुंसौ लब्धौ, तथाऽपि पुनर्यतः स्त्रीपुंसाविति करोति तेन युगपदेव स्त्रीपुंसौ स्नेहनादिवक्ष्यमाणकर्मणा योज्याविति दर्शयति| क्रमेणेति पेयादिक्रमेण| स च क्रमो वमने विरेचने च पृथक् पृथक् प्रदेशान्तरोक्तक्रमन्यायेन बोद्धव्यः| पुनः ‘संशुद्धौ च’ इति वचनात् सम्यक्शुद्धयोरेवास्थापनानुवासने कर्तव्ये, नासम्यक्शुद्धयोरिति दर्शयति| मधुरौषधशब्देन सर्वमधुरौषधग्रहणं, मधुरस्य विशेषेण शुक्रवृद्धिकरत्वात्; अन्ये तु मधुरौषधशब्देन जीवनीयगणमिच्छन्ति||४||
Adhikarana ४ (५-८) · Śloka ८
ततः पुष्पात् प्रभृति त्रिरात्रमासीत ब्रह्मचारिण्यधःशायिनी, पाणिभ्यामन्नमजर्जरपात्राद्भुञ्जाना , न च काञ्चिन्मृजामापद्येत|
ततश्चतुर्थेऽहन्येनामुत्साद्य सशिरस्कं स्नापयित्वा शुक्लानि वासांस्याच्छादयेत् पुरुषं च|
ततः शुक्लवाससौ स्रग्विणौ सुमनसावन्योन्यमभिकामौ संवसेयातां स्नानात् प्रभृति युग्मेष्वहःसु पुत्रकामौ, अयुग्मेषु दुहितृकामौ||५||
न च न्युब्जां पार्श्वगतां वा संसेवेत|
न्युब्जाया वातो बलवान् स योनिं पीडयति, पार्श्वगताया दक्षिणे पार्श्वे श्लेष्मा स च्युतः पिदधाति गर्भाशयं, वामे पार्श्वे पित्तं तदस्याः पीडितं विदहति रक्तं शुक्रं च, तस्मादुत्ताना बीजं गृह्णीयात्; तथाहि यथास्थानमवतिष्ठन्ते दोषाः|
पर्याप्ते चैनां शीतोदकेन परिषिञ्चेत्|
तत्रात्यशिता क्षुधिता पिपासिता भीता विमनाः शोकार्ता क्रुद्धाऽन्यं च पुमांसमिच्छन्ती मैथुने चातिकामा वा न गर्भं धत्ते, विगुणां वा प्रजां जनयति|
अतिबालामतिवृद्धां दीर्घरोगिणीमन्येन वा विकारेणोपसृष्टां वर्जयेत्|
पुरुषेऽप्येत एव दोषाः|
अतः सर्वदोषवर्जितौ स्त्रीपुरुषौ संसृज्येयाताम्||६||
सञ्जातहर्षौ मैथुने चानुकूलाविष्टगन्धं स्वास्तीर्णं सुखं शयनमुपकल्प्य मनोज्ञं हितमशनमशित्वा नात्यशितौ दक्षिणपादेन पुमानारोहेत् वामपादेन स्त्री||७||
तत्र मन्त्रं प्रयुञ्जीत- “अहिरसि आयुरसि सर्वतः प्रतिष्ठाऽसि धाता त्वा ददतु विधाता त्वा दधातु ब्रह्मवर्चसा भव” इति|
“ब्रह्मा बृहस्पतिर्विष्णुःसोमःसूर्यस्तथाऽश्विनौ|
भगोऽथ मित्रावरुणौ वीरं ददतु मे सुतम्” इत्युक्त्वा संवसेयाताम्||८||
Hide commentary
पुष्पादिति आर्तवदर्शनात्| ब्रह्मचारिणीति अधःशायिनीति च त्रिरात्रमित्यनेन सम्बध्यते| अधःशायिनीति नोच्चशय्याशायिनी| पाणिभ्यामन्नमजर्जरपात्राद्भुञ्जानेति पाण्योरुपर्यस्फुटितं पात्रं दत्त्वा तत्रस्थमन्नं भुञ्जाना| न च काञ्चिन्मृजामिति शरीरावयवेषु कृत्स्नशरीरे वा मार्जनम्| पुरुषं च चतुर्थेऽहनि उत्साद्येत्यादिग्रन्थोक्तक्रियया योजयेदिति योजना| स्नानात् प्रभृतीति संवसेयातामित्यनेन सम्बध्यते| तेन स्नानात् प्रभृति मैथुनं विधीयते न तु स्नानदिनात् प्रभृति, पुत्रकामयोर्युग्मदिनविधानात्| युग्मदिनं तु प्रथमर्तुदिनात् प्रभृत्येव गणनीयम्| यदुक्तं हारीते- “चतुर्थीषष्ठ्यष्टमीद्वादशीषु गुणवन्तमायुष्मन्तं पुत्रं जनयति, पञ्चमीनवम्येकादशीषु कन्यां गुणवतीं, सप्तम्यां दुर्भगां कन्याम्” इति| न्युब्जामिति अधोमुखीम्| पर्याप्ते इति समाप्ते मैथुने| मैथुने चातिकामेति निवृत्तेच्छेऽपि पुरुषे मैथुनमिच्छन्ती| अन्येन वा विकारेणेति कुष्ठादिना जुगुप्सितेन रोगेण| आरोहेत् शयनमिति सम्बन्धः| ‘अहिरसि’ इत्यादि ‘ददतु मे सुतम्’ इत्यन्तो मन्त्रः||५-८||
Adhikarana ५ (९) · Śloka ९
सा चेदेवमाशासीत- बृहन्तमवदातं हर्यक्षमोजस्विनं शुचिं सत्त्वसम्पन्नं पुत्रमिच्छेयमिति, शुद्धस्नानात् प्रभृत्यस्यै मन्थमवदातयवानां मधुसर्पिर्भ्यां संसृज्य श्वेताया गोः सरूपवत्सायाः पयसाऽऽलोड्य राजते कांस्ये वा पात्रे काले काले सप्ताहं सततं प्रयच्छेत् पानाय|
प्रातश्च शालियवान्नविकारान् दधिमधुसर्पिर्भिः पयोभिर्वा संसृज्य भुञ्जीत, तथा सायमवदातशरणशयनासनपानवसनभूषणा च स्यात्|
सायं प्रातश्च शश्वच्छ्वेतं महान्तं वृषभमाजानेयं वा हरिचन्दनाङ्गदं पश्येत्|
सौम्याभिश्चैनां कथाभिर्मनोनुकूलाभिरुपासीत|
सौम्याकृतिवचनोपचारचेष्टांश्च स्त्रीपुरुषानितरानपि चेन्द्रियार्थानवदातान् पश्येत्|
सहचर्यश्चैनां प्रियहिताभ्यां सततमुपचरेयुस्तथा भर्ता|
न च मिश्रीभावमापद्येयातामिति|
अनेन विधिना सप्तरात्रं स्थित्वाऽष्टमेऽहन्याप्लुत्याद्भिः सशिरस्कं सह भर्त्रा अहतानि वस्त्राण्याच्छादयेदवदातानि, अवदाताश्च स्रजो भूषणानि च बिभृयात्||९||
Hide commentary
हर्यक्षं सिंहविक्रमं; हर्यक्षता सामुद्रकैः स्तुता, तेनोपादेया| इच्छेयमित्यनेकार्थत्वाद्धातूनां लभेयमित्यर्थः; तेन ‘आशासीत’ इत्यस्य ‘इच्छेयं’ इत्यनेन न पौनरुक्त्यमिति व्याख्यानयन्ति| काले काले इति सायम्प्रातः| अत्र च मन्थपानस्य तथा शालियवान्नभोजनस्य च विहितत्वादुभावपि काले काले मात्रया करणीयौ| शरणं गृहम्| आजानेयम् उत्तमकुलजातमश्वम्| हरिचन्दनशब्देन श्वेतचन्दनं विवक्षितं, हरिशब्दस्यानेकार्थत्वात्; हरिशब्देन श्वेतस्यैव ग्रहणं, प्रशस्तत्वात्; अङ्गदः अङ्गरागः; किंवा अङ्गदः बाहुभूषणम्| पश्येदिति उपलभेत; तेन श्रोत्रमनोभ्यामपि अवदातत्वग्रहणं लभ्यते||९||
Adhikarana ६ (१०-१४) · Śloka १४
तत ऋत्विक् प्रागुत्तरस्यां दिश्यगारस्य प्राग्प्रवणमुदक्प्रवणं वा प्रदेशमभिसमीक्ष्य, गोमयोदकाभ्यां स्थण्डिलमुपलिप्य, प्रोक्ष्य चोदकेन, वेदीमस्मिन् स्थापयेत्|
तां पश्चिमेनाहतवस्त्रसञ्चये श्वेतार्षभे वाऽप्यजिन उपविशेद् ब्राह्मणप्रयुक्तः, राजन्यप्रयुक्तस्तु वैयाघ्रे चर्मण्यानडुहे वा, वैश्यप्रयुक्तस्तु रौरवे बास्ते वा|
तत्रोपविष्टः पालाशीभिरैङ्गुदीभिरौदुम्बरीभिर्माधूकीभिर्वा समिद्भिरग्निमुपसमाधाय, कुशैः परिस्तीर्य, परिधिभिश्च परिधाय, लाजैः शुक्लाभिश्च गन्धवतीभिः सुमनोभिरुपकिरेत्|
तत्र प्रणीयोदपात्रं पवित्रपूतमुपसंस्कृत्य सर्पिराज्यार्थं यथोक्तवर्णानाजानेयादीन् समन्ततः स्थापयेत्||१०||
ततः पुत्रकामा पश्चिमतोऽग्निं दक्षिणतो ब्राह्मणमुपविश्यान्वालभेत सह भर्त्रा यथेष्टं पुत्रमाशासाना|
ततस्तस्या आशासानाया ऋत्विक् प्रजापतिमभिनिर्दिश्य योनौ तस्याः कामपरिपूरणार्थं काम्यामिष्टिं निर्वर्तयेद् ‘विष्णुर्योनिं कल्पयतु’ इत्यनयर्चा|
ततश्चैवाज्येन स्थालीपाकमभिघार्य त्रिर्जुहुयाद्यथाम्नायम्|
मन्त्रोपमन्त्रितमुदपात्रं तस्यै दद्यात् सर्वोदकार्थान् कुरुष्वेति|
ततः समाप्ते कर्मणि पूर्वं दक्षिणपादमभिहरन्ती प्रदक्षिणमग्निमनुपरिक्रामेत् सह भर्त्रा|
ततो ब्राह्मणान् स्वस्ति वाचयित्वाऽऽज्यशेषं प्राश्नीयात् पूर्वं पुमान्, पश्चात् स्त्री; न चोच्छिष्टमवशेषयेत्|
ततस्तौ सह संवसेयातामष्टरात्रं, तथाविधपरिच्छदावेव च स्यातां , तथेष्टपुत्रं जनयेताम्||११||
या तु स्त्री श्यामं लोहिताक्षं व्यूढोरस्कं महाबाहुं च पुत्रमाशासीत, या वा कृष्णं कृष्णमृदुदीर्घकेशं शुक्लाक्षं शुक्लदन्तं तेजस्विनमात्मवन्तम्; एष एवानयोरपि होमविधिः|
किन्तु परिबर्हो वर्णवर्जं स्यात्|
पुत्रवर्णानुरूपस्तु यथाशीरेव तयोः परिबर्होऽन्यः कार्यः स्यात्||१२||
शूद्रा तु नमस्कारमेव कुर्यात् (देवाग्निद्विजगुरुतपस्विसिद्धेभ्यः )||१३||
या या च यथाविधं पुत्रमाशासीत तस्यास्तस्यास्तां तां पुत्राशिषमनुनिशम्य तांस्ताञ्जनपदान्मनसाऽनुपरिक्रामयेत्|
ततो या या येषां येषां जनपदानां मनुष्याणामनुरूपं पुत्रमाशासीत सा सा तेषां तेषां जनपदानां मनुष्याणामाहारविहारोपचारपरिच्छदाननुविधत्स्वेति वाच्या स्यात्|
इत्येतत् सर्वं पुत्राशिषां समृद्धिकरं कर्म व्याख्यातं भवति||१४||
Hide commentary
स्थण्डिलं पूजनस्थानम् | वेदीं पिण्डिकाम्| तां पश्चिमेनेति वेदिकायाः पश्चिमे| श्वेतार्षभे वाऽप्यजिने इति श्वेतवृषभचर्मणि वेत्यर्थः| ब्राह्मणप्रयुक्त इति यदि ब्राह्मणेन पुत्रेष्ट्यर्थं प्रयुक्तः स्यात् तदा स ऋत्विक् श्वेतवस्त्रसञ्चये श्वेतवृषभचर्मणि वा उपविशेत्| राजन्यप्रयुक्तस्तु वैयाघ्रादिचर्मणि ‘उपविशेत्’ इति शेषः| रुरुः हरिणविशेषः| परिधिभिरिति चतुर्भिः पलाशबृहद्दण्डैः| परिधायेति वेष्टयित्वा| पवित्रमेव पूतं मन्त्रेण पवित्रपूतं, तच्चोदपात्रविशेषणम्| उपसंस्कृत्येति तदुदपात्रमेव संस्कारमन्त्रैरुपसंस्कृत्य| सर्पिराज्यार्थमिति नवनीतं घृतार्थं; किंवा सर्पिर्घृतमेव, आज्यार्थमिति मन्त्रपूतघृतकरणार्थम्; आज्यशब्देन मन्त्राभिमन्त्रितं घृतमुच्यते| पश्चिमतोऽग्निं दक्षिणतो ब्राह्मणमिति यथा पूर्वेणाग्निर्वामे च ब्राह्मणो भवति तथेत्यर्थः| अनुलभेतेति ऋत्विक्प्रयुक्ता ऋत्विग्विधानमनुकुर्यादित्यर्थः| प्रजापतिमभिनिर्दिश्येति ब्रह्माणमभिमन्त्रय| योनौ कामपूरणार्थमग्नाविष्टिं निर्वपेत् इष्टिं कुर्यात्| विष्णुर्योनिमित्यादिका इष्टिसाधिका ऋक्| पाकमिति चरुम्| अभिघार्येति मिश्रीकृत्य| यथाम्नायमिति यथावेदम्| किन्तु परिबर्हो वर्णवर्जमिति परिबर्हः शयनासनपुष्पादिपरिच्छदः; तेन यथाविधा पुत्रेच्छा तथावर्णः परिबर्हः कर्तव्य इति वाक्यार्थः| शूद्राविधानमाह- शूद्रा त्वित्यादि| नमस्कारमेव कुर्यादिति शूद्राया मन्त्रे होमे चानधिकारात् नमस्कारमात्रकरणम्||१०-१४||
Adhikarana ७ (१५) · Śloka १५
न खलु केवलमेतदेव कर्म वर्णवैशेष्यकरं भवति|
अपि तु तेजोधातुरप्युदकान्तरिक्षधातुप्रायोऽवदातवर्णकरो भवति, पृथिवीवायुधातुप्रायः कृष्णवर्णकरः, समसर्वधातुप्रायः श्यामवर्णकरः||१५||
Hide commentary
वर्णविशेषकरं हेत्वन्तरमाह- न तु खल्वित्यादि| तेजोधातुः कृष्णवर्णे श्यामवर्णे च वर्तते||१५||
Adhikarana ८ (१६) · Śloka १६
सत्त्ववैशेष्यकराणि पुनस्तेषां तेषां प्राणिनां मातापितृसत्त्वान्यन्तर्वत्न्याः श्रुतयश्चाभीक्ष्णं स्वोचितं च कर्म सत्त्वविशेषाभ्यासश्चेति||१६||
Hide commentary
वर्णविशेषहेतुमभिधाय सत्त्वभेदहेतुमाह- सत्त्वेत्यादि| मातापितृसत्त्वानीति मातापित्रनुकारेण सत्त्वानि प्रायः प्रभावादेव भवन्ति| अन्तर्वत्नी गर्भिणी| श्रुतयश्चाभीक्ष्णमिति यथा गर्भिणी गीतादि शृणोति, तथासत्त्वमपत्यं जनयति| स्वोचितं च कर्मेति गर्भेणोपार्जितं कर्म स्वफलानुरूपं सत्त्वं जनयति| सत्त्वविशेषाभ्यासश्चेति यथाविधं सत्त्वं पुरुषोऽभ्यस्यति जन्मान्तरे तथासत्त्व एव जायते| वचनं हि- “जन्म जन्म यदभ्यस्तं दानमध्ययनं तपः| तेनैवाभ्यासयोगेन तच्चैवाभ्यसते नरः” इति||१६||
Adhikarana ९ (१७) · Śloka १७
यथोक्तेन विधिनोपसंस्कृतशरीरयोः स्त्रीपुरुषयोर्मिश्रीभावमापन्नयोः शुक्रं शोणितेन सह संयोगं समेत्याव्यापन्नमव्यापन्नेन योनावनुपहतायामप्रदुष्टे गर्भाशये गर्भमभिनिर्वर्तयत्येकान्तेन|
यथा- निर्मले वाससि सुपरिकल्पिते रञ्जनं समुदितगुणमुपनिपातादेव रागमभिनिर्वर्तयति, तद्वत्; यथा वा क्षीरं दध्नाऽभिषुतमभिषवणाद्विहाय स्वभावमापद्यते दधिभावं, शुक्रं तद्वत्||१७||
Hide commentary
सम्प्रति गर्भोत्पत्तिक्रममाह- यथोक्तेनेत्यादि| यथोक्तेन विधिनेति पञ्चकर्मोक्तेन| रञ्जनं रागद्रव्यम्| दध्यभिषुतमिति दध्ना स्तोकमात्रेण मिश्रितम्| आपद्यते दधिभावमिति दधित्वमापद्यते| तद्वदिति यथा क्षीरं दधि भवति, रञ्जनं रागो वा भवति, तथा शुक्रं गर्भमभिनिर्वर्तयति| शुक्रं यथोक्तं शोणितयुक्तमित्यर्थः||१७||
Adhikarana १० (१८) · Śloka १८
एवमभिनिर्वर्तमानस्य गर्भस्य स्त्रीपुरुषत्वे हेतुः पूर्वमुक्तः|
यथा हि बीजमनुपतप्तमुप्तं स्वां स्वां प्रकृतिमनुविधीयते व्रीहिर्वा व्रीहित्वं यवो वा यवत्वं तथा स्त्रीपुरुषावपि यथोक्तं हेतुविभागमनुविधीयेते||१८||
Hide commentary
यथोक्तं हेतुविभागमनुविधीयेते इति “रक्तेन कन्यामधिकेन पुत्रं शुक्रेण” (शा.अ.२) इत्यादिग्रन्थोक्तविभागं स्त्रीपुरुषजनकमनुविधीयेते||१८||
Adhikarana ११ (१९) · Śloka १९
तयोः कर्मणा वेदोक्तेन विवर्तनमुपदिश्यते प्राग्व्यक्तीभावात् प्रयुक्तेन सम्यक्|
कर्मणां हि देशकालसम्पदुपेतानां नियतमिष्टफलत्वं, तथेतरेषामितरत्वम्|
तस्मादापन्नगर्भां स्त्रियमभिसमीक्ष्य प्राग्व्यक्तीभावाद्गर्भस्य पुंसवनमस्यै दद्यात्|
गोष्ठे जातस्य न्यग्रोधस्य प्रागुत्तराभ्यां शाखाभ्यां शुङ्गे अनुपहते आदाय द्वाभ्यां धान्यमाषाभ्यां सम्पदुपेताभ्यां गौरसर्षपाभ्यां वा सह दध्नि प्रक्षिप्य पुष्येण पिबेत्, तथैवापराञ्जीवकर्षभकापामार्गसहचरकल्कांश्च युगपदेकैकशो यथेष्टं वाऽप्युपसंस्कृत्य पयसा, कुड्यकीटकं मत्स्यकं वोदकाञ्जलौ प्रक्षिप्य पुष्येण पिबेत्, तथा कनकमयान् राजतानायसांश्च पुरुषकानग्निवर्णानणुप्रमाणान् दध्नि पयस्युदकाञ्जलौ वा प्रक्षिप्य पिबेदनवशेषतः पुष्येण, पुष्येणैव च शालिपिष्टस्य पच्यमानस्योष्माणमुपाघ्राय तस्यैव च पिष्टस्योदकसंसृष्टस्य रसं देहल्यामुपनिधाय दक्षिणे नासापुटे स्वयमासिञ्चेत् पिचुना|
यच्चान्यदपि ब्राह्मणा ब्रूयुराप्ता वा स्त्रियः पुंसवनमिष्टं तच्चानुष्ठेयम्|
इति पुंसवनानि||१९||
Hide commentary
सम्प्रति स्त्रीत्वे पुरुषत्वे च रक्ताधिकत्वं तथा शुक्राधिकत्वं च पूर्वोक्तं हेतुमनूद्य वैदिकं पुत्रजनकं विधानान्तरमाह- तयोरित्यादि| वेदोक्तेनेति आयुर्वेदोक्तेन| प्राग्व्यक्तीभावादिति यावन्न स्त्रीत्वं पुंस्त्वं वा गर्भस्य व्यक्तं भवति तावदेव तद्वक्ष्यमाणं कर्म लिङ्गपरिवृत्तिकरं भवति| व्यक्तिस्तु द्वितीये मासे भवति; यदुक्तं- “द्वितीये मासे घनः सम्पद्यते” (शा. ४) इत्यादि; किंवा तृतीये मासे अङ्गप्रत्यङ्गाभिव्यक्तेर्व्यक्तीभावो ज्ञेयः, द्वितीये तु मासे ग्रन्थ्यादिरूपे गर्भे प्रत्यङ्गव्यक्तीभावो न व्यक्तः; तेन वक्ष्यमाणं कर्म मासद्वयं यावत् कर्तव्यम्| प्रयुक्तेनेति पूर्वेण सम्बध्यते| नियतं निश्चितम्| तथेतरेषामितरत्वमिति कर्मणां देशकालविगुणानामनिष्टफलं निश्चितमित्यर्थः| पुंसवनमिति पुंस्त्वकारकं कर्म| गोष्ठः गवां विश्रामस्थानम्| अत्र च स्थानादिविशेषपरिग्रह एव फलदो भवतीति वचनादुन्नीयते, नात्रास्मादृशां युक्तयः प्रभवन्ति| धान्यमाषशब्देन व्रीहिमाषं ग्राहयन्ति, सुवर्णमाषं च व्यावर्तयन्ति| गौरसर्षपः श्वेतसर्षपः| पुष्येणेति पुष्यनक्षत्रेण| यथेष्टमित्यनेन द्विशस्त्रिशो वा पिबेदित्यपि दर्शयति| कुड्यकीटः ‘कवडिगणा ’ इति ख्यातः; किंवा ज्येष्ठी कुड्यकीटः| जतूकर्णेऽप्यत्र प्रयोगे ‘भित्तिमत्स्यः’ इति पठ्यते, भित्तिमत्स्यशब्देन च पाश्चात्ये ‘ज्येष्ठी’ उच्यते| मत्स्यकः ह्रस्वमत्स्यः| देहली गृहद्वाराधःकाष्ठं, तत्रोपनिधाय ‘शिर’ इति शेषः; किंवा आत्मानमेव देहल्यामुपनिधायेति मन्तव्यम्| यदुक्तं जतूकर्णे- “देहल्यामासीना” इति||१९||
Adhikarana १२ (२०) · Śloka २०
अत ऊर्ध्वं गर्भस्थापनानि व्याख्यास्यामः- ऐन्द्री ब्राह्मी शतवीर्या सहस्रवीर्याऽमोघाऽव्यथा शिवाऽरिष्टा वाट्यपुष्पी विष्वक्सेनकान्ता चेत्यासामोषधीनां शिरसा दक्षिणेन वा पाणिना धारणं, एताभिश्चैव सिद्धस्य पयसः सर्पिषो वा पानम्, एताभिश्चैव पुष्ये पुष्ये स्नानं, सदा च ताः समालभेत|
तथा सर्वासां जीवनीयोक्तानामोषधीनां सदोपयोगस्तैस्तैरुपयोगविधिभिः|
इति गर्भस्थापनानि व्याख्यातानि भवन्ति||२०||
Hide commentary
सम्प्रति स्थितस्य गर्भस्य गर्भोपघातकभावप्रभावखण्डकत्वेन यत् पुनः स्थितिकारकं तद्गर्भस्थापनमुच्यते- अत ऊर्ध्वमित्यादिना| ऐन्द्री गोरक्षकर्कटी| शतवीर्यासहस्रवीर्ये दूर्वाद्वयम्| अमोघा पाटला| अव्यथा गुडूची| अरिष्टा कटुरोहिणी| वाट्यपुष्पी पीतबला| विष्वक्सेनकान्ता प्रियङ्गुः||२०||
Adhikarana १३ (२१) · Śloka २१
गर्भोपघातकरास्त्विमे भावा भवन्ति; तद्यथा- उत्कटविषमकठिनासनसेविन्या वातमूत्रपुरीषवेगानुपरुन्धत्या दारुणानुचितव्यायामसेविन्यास्तीक्ष्णोष्णातिमात्रसेविन्याः प्रमिताशनसेविन्या गर्भो म्रियतेऽन्तः कुक्षेः, अकाले वा स्रंसते, शोषी वा भवति; तथाऽभिघातप्रपीडनैः श्वभ्रकूपप्रपातदेशावलोकनैर्वाऽभीक्ष्णं मातुः प्रपतत्यकालेगर्भः, तथाऽतिमात्रसङ्क्षोभिभिर्यानैर्यानेन, अप्रियातिमात्रश्रवणैर्वा|
प्रततोत्तानशायिन्याः पुनर्गर्भस्य नाभ्याश्रया नाडी कण्ठमनुवेष्टयति, विवृतशायिनी नक्तञ्चारिणी चोन्मत्तं जनयति, अपस्मारिणं पुनः कलिकलहशीला, व्यवायशीला दुर्वपुषमह्रीकं स्त्रैणं वा, शोकनित्या भीतमपचितमल्पायुषं वा, अभिध्यात्री परोपतापिनमीर्ष्युं स्त्रैणं वा, स्तेना त्वायासबहुलमतिद्रोहिणमकर्मशीलं वा, अमर्षिणी चण्डमौपधिकमसूयकं वा स्वप्ननित्या तन्द्रालुमबुधमल्पाग्निं वा, मद्यनित्या पिपासालुमल्पस्मृतिमनवस्थितचित्तं वा, गोधामांसप्राया शार्करिणमश्मरिणं शनैर्मेहिणं वा, वराहमांसप्राया रक्ताक्षं क्रथनमतिपरुषरोमाणं वा, मत्स्यमांसनित्या चिरनिमेषं स्तब्धाक्षं वा, मधुरनित्या प्रमेहिणं मूकमतिस्थूलं वा, अम्लनित्या रक्तपित्तिनं त्वगक्षिरोगिणं वा, लवणनित्या शीघ्रवलीपलितं खालित्यरोगिणं वा, कटुकनित्या दुर्बलमल्पशुक्रमनपत्यं वा, तिक्तनित्या शोषिणमबलमनुपचितं वा, कषायनित्या श्यावमानाहिनमुदावर्तिनं वा, यद्यच्च यस्य यस्य व्याधेर्निदानमुक्तं तत्तदासेवमानाऽन्तर्वत्नी तन्निमित्तविकारबहुलमपत्यं जनयति|
पितृजास्तु शुक्रदोषा मातृजैरपचारैर्व्याख्याताः|
इति गर्भोपघातकरा भावा भवन्त्युक्ताः |
तस्मादहितानाहारविहारान् प्रजासम्पदमिच्छन्ती स्त्री विशेषेण वर्जयेत्|
साध्वाचारा चात्मानमुपचरेद्धिताभ्यामाहारविहाराभ्यामिति||२१||
Hide commentary
बालस्याचिरजातस्यापि गर्भव्यपदेशो भवति, तेन कुक्षेर्बहिरपि मरणसद्भावे अन्तःकुक्षेरिति विशेषणमुपपन्नम्| प्रततोत्तानशायिनी उत्तानशयनशीला| विवृते अनावृते देशे शयनशीला विवृतशायिनी| विवृतशायिनी तथा नक्तञ्चारिणी च रक्षःप्रभृतिभूताभिगमनीया भवति; ततश्च भूतैरभिभूतो गर्भ उन्मत्तो भवतीति युक्तम्| कलिः वाचिकः, कलहस्तु शारीरकः | स्त्रैणं स्त्रीवशम्| अभिध्यात्री मनसा द्रोहणशीला| औपधिकं शाठ्यप्रचारिणम्| क्रथनम् अकस्मादुच्छ्वासावरोधः, तद्वानपि ‘क्रथन’ इत्युच्यते| मधुरनित्येह गर्भिणीविहितं क्षीरं विहायान्यमधुरानुसेविनी बोद्धव्या; क्षीरस्य तु विहितत्वेन प्राशस्त्यम्| तत्र षण्णामपि रसानामत्यर्थोपयोगे दोषमभिधाय यत् पुनर्मद्यादीनामत्यर्थसेवने पृथग्दोषं ब्रूते, तद्द्रव्यप्रभावस्य दोषविशेषाभिधानार्थमिति ज्ञेयम्| यद्वस्तुसेवया ये विकारा इह गर्भस्योचितनिदाना दृश्यन्ते ते तावदुचितोत्पादा एव| यथा- निद्रातिसेवया तन्द्रालुः, मधुरसेवया मेही, अम्लेन रक्तपित्तादियुक्त इत्यादि| ये तु हेत्वसदृशा विकारा गर्भस्य दृश्यन्ते, यथा- गोधामांसेन शर्कराश्मरीत्यादि, तेऽपि द्रव्यप्रभावादेव ज्ञेयाः| यद्यपि गर्भग्रहणात् प्रागपि स्त्रिया अपथ्यसेवाऽऽर्तवदुष्टिद्वारा गर्भे विकारं जनयति, तथा पुरुषस्यापथ्यसेवा शुक्रदुष्टिद्वारा गर्भे दुष्टिं जनयतीति इहैव ‘पितृजास्तु’ इत्यादिना ग्रन्थेन वक्तव्यं, तथाऽपि गृहीतगर्भायाः स्त्रिया अपचारविशेषेणाव्यवधानाद्गर्भदुष्टिकरा भवन्तीति कृत्वा ‘तत्तदासेवमानाऽन्तर्वत्नी’ इत्युक्तम्| मातृजैरपचारैर्व्याख्याता इति यथा मातुरपचारानुरूपा गर्भव्याधयो भवन्ति; एवं पितुरपि व्यवायात् प्रागपचारेण शुक्रदुष्ट्याऽपचारानुरूपा व्याधयो भवन्तीत्यर्थः| स्त्री विशेषेणेत्यनेन पुरुषोऽपि वर्जयेदिति दर्शयति| साध्वाचारेति मङ्गलाचारशीला||२१||
Adhikarana १४ (२२-२४) · Śloka २४
व्याधींश्चास्या मृदुमधुरशिशिरसुखसुकुमारप्रायैरौषधाहारोपचारैरुपचरेत्, न चास्या वमनविरेचनशिरोविरेचनानि प्रयोजयेत्, न रक्तमवसेचयेत्, सर्वकालं च नास्थापनमनुवासनं वा कुर्यादन्यत्रात्ययिकाद्व्याधेः|
अष्टमं मासमुपादाय वमनादिसाध्येषु पुनर्विकारेष्वात्ययिकेषु मृदुभिर्वमनादिभिस्तदर्थकारिभिर्वोपचारः स्यात्|
पूर्णमिव तैलपात्रमसङ्क्षोभयताऽन्तर्वत्नी भवत्युपचर्या||२२||
सा चेदपचाराद् द्वयोस्त्रिषु वा मासेषु पुष्पं पश्येन्नास्या गर्भः स्थास्यतीति विद्यात्; अजातसारो हि तस्मिन् काले भवति गर्भः||२३||
सा चेच्चतुष्प्रभृतिषु मासेषु क्रोधशोकासूयेर्ष्याभयत्रासव्यवायव्यायामसङ्क्षोभसन्धारणविषमाशनशयनस्थानक्षुत्पिपासातियोगात् कदाहाराद्वा पुष्पं पश्येत्, तस्या गर्भस्थापनविधिमुपदेक्ष्यामः|
पुष्पदर्शनादेवैनां ब्रूयात्- शयनं तावन्मृदुसुखशिशिरास्तरणसंस्तीर्णमीषदवनतशिरस्कं प्रतिपद्यस्वेति|
ततो यष्टीमधुकसर्पिर्भ्यां परमशिशिरवारिणी संस्थिताभ्यां पिचुमाप्लाव्योपस्थसमीपे स्थापयेत्तस्याः, तथा शतधौतसहस्रधौताभ्यां सर्पिर्भ्यामधोनाभेः सर्वतः प्रदिह्यात्, सर्वतश्च गव्येन चैनां पयसा सुशीतेन मधुकाम्बुना वा न्यग्रोधादिकषायेण वा परिषेचयेदधो नाभेः, उदकं वा सुशीतमवगाहयेत्, क्षीरिणां कषायद्रुमाणां च स्वरसपरिपीतानि चेलानि ग्राहयेत्, न्यग्रोधादिशुङ्गासिद्धयोर्वाक्षीरसर्पिषोः पिचुं ग्राहयेत्, अतश्चैवाक्षमात्रं प्राशयेत्, प्राशयेद्वा केवलं क्षीरसर्पिः, पद्मोत्पलकुमुदकिञ्जल्कांश्चास्यै समधुशर्करान् लेहार्थं दद्यात्, शृङ्गाटकपुष्करबीजकशेरुकान् भक्ष्णार्थं, गन्धप्रियङ्ग्वसितोत्पलशालूकोदुम्बरशलाटुन्यग्रोधशुङ्गानि वा पाययेदेनामाजेन पयसा, पयसा चैनां बलातिबलाशालिषष्टिकेक्षुमूलकाकोलीशृतेन समधुशर्करं रक्तशालीनामोदनं मृदुसुरभिशीतलं भोजयेत्, लावकपिञ्जलकुरङ्गशम्बरशशहरिणैणकालपुच्छकरसेन वा घृतसुसंस्कृतेन सुखशिशिरोपवातदेशस्थां भोजयेत्, क्रोधशोकायासव्यवायव्यायामेभ्यश्चाभिरक्षेत्, सौम्याभिश्चैनां कथाभिर्मनोनुकूलाभिरुपासीत; तथाऽस्या गर्भस्तिष्ठति||२४||
Hide commentary
मृदुभिर्वमनादिभिरिति मृदुद्रव्यकृतैरल्पमात्रैश्च वमनादिभिरित्यर्थः| तदर्थकारिभिर्वेति यथा वमनार्थकारि निष्ठीवनं, विरेचनार्थकारिणी फलवर्तिः, इत्यादिभिरुपचारः कर्तव्यः| सन्धारणं वेगसन्धारणम्| कदाहारः कुत्सिताहारः| शिशिरं शीतम्| यष्टीमधुकसिद्धं सर्पिः यष्टीमधुकसर्पिः| चेलानि ग्राहयेदित्यत्र ‘योनिं’ इति शेषः| अतश्चैवेति न्यग्रोधादिशुङ्गात्| किंवा ‘क्षीरसर्पिषः’ इत्यस्मिन् पाठे क्षीरोत्थितं सर्पिः क्षीरसर्पिः||२२-२४||
Adhikarana १५ (२५-२६) · Śloka २६
यस्याः पुनरामान्वयात् पुष्पदर्शनं स्यात्, प्रायस्तस्यास्तद्गर्भोपघातकरं भवति, विरुद्धोपक्रमत्वात्तयोः||२५||
यस्याः पुनरुष्णतीक्ष्णोपयोगाद्गर्भिण्या महति सञ्जातसारे गर्भे पुष्पदर्शनं स्यादन्यो वा योनिस्रावस्तस्या गर्भो वृद्धिं न प्राप्नोति निःस्रुतत्वात्; स कालमवतिष्ठतेऽतिमात्रं, तमुपविष्टकमित्याचक्षते केचित्|
उपवासव्रतकर्मपरायाः पुनः कदाहारायाः स्नेहद्वेषिण्या वातप्रकोपणोक्तान्यासेवमानाया गर्भो वृद्धिं न प्राप्नोति परिशुष्कत्वात्; स चापि कालमवतिष्ठतेऽतिमात्रम् , अस्पन्दनश्च भवति, तं तु नागोदरमित्याचक्षते||२६||
Hide commentary
आमान्वयादिति आमजनकहेतोः सकाशादित्यर्थः| विरुद्धोपक्रमत्वादिति गर्भस्रावे हि स्तम्भनं कर्तव्यं, तच्च शीतं मृदु मधुरं च; तच्चामविरुद्धम्, आमजनकत्वात्; इति विरुद्धोपक्रमता| अन्यो वेति आर्तवलक्षणव्यतिरिक्तः| यद्यपि केचिदित्युक्तं, तथाऽप्यप्रतिषेधादाचार्यस्याप्येतत् सम्मतम्||२५-२६||
Adhikarana १६ (२७-२९) · Śloka २९
नार्योस्तयोरुभयोरपि चिकित्सितविशेषमुपदेक्ष्यामः- भौतिकजीवनीयबृंहणीयमधुरवातहरसिद्धानां सर्पिषां पयसामामगर्भाणां चोपयोगो गर्भवृद्धिकरः; तथा सम्भोजनमेतैरेव सिद्धैश्च घृतादिभिः सुभिक्षायाः , अभीक्ष्णं यानवाहनापमार्जनावजृम्भणैरुपपादनमिति||२७||
यस्याः पुनर्गर्भः प्रसुप्तो न स्पन्दते तां श्येनमत्स्यगवयशिखिताम्रचूडतित्तिरीणामन्यतमस्य सर्पिष्मता रसेन माषयूषेण वा प्रभूतसर्पिषा मूलकयूषेण वा रक्तशालीनामोदनं मृदुमधुरशीतलं भोजयेत्|
तैलाभ्यङ्गेन चास्या अभीक्ष्णमुदरबस्तिवङ्क्षणोरुकटीपार्श्वपृष्ठप्रदेशानीषदुष्णेनोपचरेत्||२८||
यस्याः पुनरुदावर्तविबन्धः स्यादष्टमे मासे न चानुवासनसाध्यं मन्येत ततस्तस्यास्तद्विकारप्रशमनमुपकल्पयेन्निरूहम्|
उदावर्तो ह्युपेक्षितः सहसा सगर्भां गर्भिणीं गर्भमथवाऽतिपातयेत्|
तत्र वीरणशालिषष्टिककुशकाशेक्षुवालिकावेतसपरिव्याधमूलानां भूतीकानन्ताकाश्मर्यपरूषकमधुकमृद्वीकानां च पयसाऽर्धोदकेनोद्गमय्य रसं प्रियालबिभीतकमज्जतिलकल्कसम्प्रयुक्तमीषल्लवणमनत्युष्णं च निरूहं दद्यात्|
व्यपगतविबन्धां चैनां सुखसलिलपरिषिक्ताङ्गीं स्थैर्यकरमविदाहिनमाहारं भुक्तवतीं सायं मधुरकसिद्धेन तैलेनानुवासयेत्|
न्युब्जां त्वेनामास्थापनानुवासनाभ्यामुपचरेत्||२९||
Hide commentary
चिकित्सितविशेषमित्यत्र विशेषशब्देन गर्भव्याध्यन्तरापेक्षया चिकित्सितविशेषो ज्ञेयः; उपविष्टकनागोदरयोस्तु विशिष्टैवेह चिकित्सा वक्तव्या; किंवा ‘यस्याः पुनर्गर्भः प्रसुप्तो न स्पन्दते’ इत्यादिना योऽवस्थायां विशेषो वक्तव्यस्तमपेक्ष्योक्तं- चिकित्सितविशेषमिति| भौतिकं भूतोपघातहितं वचागुग्गुल्वादि; किंवा महापैशाचिकं घृतं वक्ष्यमाणं द्रष्टव्यम्| सुभिक्षाया इति सुबुभुक्षायाः| न चानुवासनसाध्यं मन्येतेति सामत्वादुदावर्तस्य नानुवासनसाध्यता भवतीति ज्ञेयम्| तद्विकारप्रशमनमिति उदावर्तप्रशमनमित्यर्थः| तदुदावर्तप्रशमनं निरूहमाह- तत्रेत्यादि| परिव्याधो वेतसभेदः| उद्गमय्य रसमिति क्वाथं निष्पाद्य| क्वाथादिपरिमाणं च निरूहपरिमाणपरिभाषयैव कर्तव्यम्| न्युब्जामिति अधोमुखीम्||२७-२९||
Adhikarana १७ (३०) · Śloka ३०
यस्याः पुनरतिमात्रदोषोपचयाद्वा तीक्ष्णोष्णातिमात्रसेवनाद्वा वातमूत्रपुरीषवेगविधारणैर्वा विषमाश(स)नशयनस्थानसम्पीडनाभिघातैर्वा क्रोधशोकेर्ष्याभयत्रासादिभिर्वा साहसैर्वाऽपरैः कर्मभिरन्तःकुक्षेर्गर्भो म्रियते, तस्याः स्तिमितं स्तब्धमुदरमाततं शीतमश्मान्तर्गतमिव भवत्यस्पन्दनो गर्भः, शूलमधिकमुपजायते, न चाव्यः प्रादुर्भवन्ति, योनिर्न प्रस्रवति, अक्षिणी चास्याः स्रस्ते भवतः, ताम्यति, व्यथते, भ्रमते, श्वसिति, अरतिबहुला च भवति, न चास्या वेगप्रादुर्भावो यथावदुपलभ्यते; इत्येवंलक्षणां स्त्रियं मृतगर्भेयमिति विद्यात्||३०||
Hide commentary
अश्मान्तर्गतमिवेति अन्तर्गतप्रस्तरमिवेत्यर्थः| आवी प्रसवकालशूलम्||३०||
Adhikarana १८ (३१) · Śloka ३१
तस्य गर्भशल्यस्य जरायुप्रपातनं कर्म संशमनमित्याहुरेके, मन्त्रादिकमथर्ववेदविहितमित्येके, परिदृष्टकर्मणा शल्यहर्त्रा हरणमित्येके|
व्यपगतगर्भशल्यां तु स्त्रियमामगर्भां सुरासीध्वरिष्टमधुमदिरासवानामन्यतममग्रे सामर्थ्यतः पाययेद्गर्भकोष्ठशुद्ध्यर्थमर्तिविस्मरणार्थं प्रहर्षणार्थं च, अतः परं सम्प्रीणनैर्बलानुरक्षिभिरस्नेहसम्प्रयुक्तैर्यवाग्वादिभिर्वा तत्कालयोगिभिराहारैरुपचरेद्दोषधातुक्लेदविशोषणमात्रं कालम्|
अतः परं स्नेहपानैर्बस्तिभिराहारविधिभिश्च दीपनीयजीवनीयबृंहणीयमधुरवातहरसमाख्यातैरुपचरेत्|
परिपक्वगर्भशल्यायाः पुनर्विमुक्तगर्भशल्यायास्तदहरेव स्नेहोपचारः स्यात्||३१||
Hide commentary
‘एके’ इति वचनेन अप्रतिषेधेन च जरायुपातनकर्मादीनां त्रयाणामपि मृतगर्भापहरणं प्रति सम्यक्साधनता नास्तीति दर्शयति| दोषधातुक्लेदविशोषणमात्रं कालमित्यनेन दोषधातुक्लेदविशोषणावधितां यथोक्तक्रमस्य दर्शयति||३१||
Adhikarana १९ (३२) · Śloka ३२
परमतो निर्विकारमाप्याय्यमानस्य गर्भस्य मासे मासे कर्मोपदेक्ष्यामः|
प्रथमे मासे शङ्किता चेद्गर्भमापन्ना क्षीरमनुपस्कृतं मात्रावच्छीतं काले काले पिबेत्, सात्म्यमेव च भोजनं सायं प्रातश्च भुञ्जीत; द्वितीये मासे क्षीरमेव च मधुरौषधसिद्धं; तृतीये मासे क्षीरं मधुसर्पिर्भ्यामुपसंसृज्य; चतुर्थे मासे क्षीरनवनीतमक्षमात्रमश्नीयात्; पञ्चमे मासे क्षीरसर्पिः; षष्ठे मासे क्षीरसर्पिर्मधुरौषधसिद्धं; तदेव सप्तमे मासे|
तत्र गर्भस्य केशा जायमाना मातुर्विदाहं जनयन्तीति स्त्रियो भाषन्ते; तन्नेति भगवानात्रेयः, किन्तु गर्भोत्पीडनाद्वातपित्तश्लेष्माण उरः प्राप्य विदाहं जनयन्ति, ततः कण्डूरुपजायते, कण्डूमूला च किक्किसावाप्तिर्भवति|
तत्र कोलोदकेन नवनीतस्य मधुरौषधसिद्धस्य पाणितलमात्रं काले कालेऽस्यै पानार्थं दद्यात्, चन्दनमृणालकल्कैश्चास्याः स्तनोदरं विमृद्गीयात्, शिरीषधातकीसर्षपमधुकचूर्णैर्वा, कुटजार्जकबीजमुस्तहरिद्राकल्कैर्वा, निम्बकोलसुरसमञ्जिष्ठाकल्कैर्वा, पृषतहरिणशशरुधिरयुतया त्रिफलया वा; करवीरपत्रसिद्धेन तैलेनाभ्यङ्गः; परिषेकः पुनर्मालतीमधुकसिद्धेनाम्भसा; जातकण्डूश्च कण्डूयनं वर्जयेत्त्वग्भेदवैरूप्यपरिहारार्थम्, असह्यायां तु कण्ड्वामुन्मर्दनोद्धर्षणाभ्यां परिहारः स्यात्; मधुरमाहारजातं वातहरमल्पमस्नेहलवणमल्पोदकानुपानं च भुञ्जीत|
अष्टमे तु मासे क्षीरयवागूं सर्पिष्मतीं काले काले पिबेत्; तन्नेति भद्रकाप्यः, पैङ्गल्याबाधो ह्यस्या गर्भमागच्छेदिति; अस्त्वत्र पैङ्गल्याबाध इत्याह भगवान् पुनर्वसुरात्रेयः, न त्वेवैतन्न कार्यम्; एवं कुर्वती ह्यरोगाऽऽरोग्यबलवर्णस्वरसंहननसम्पदुपेतं ज्ञातीनामपि श्रेष्ठमपत्यं जनयति|
नवमे तु खल्वेनां मासे मधुरौषधसिद्धेन तैलेनानुवासयेत्|
अतश्चैवास्यास्तैलात् पिचुं योनौ प्रणयेद्गर्भस्थानमार्गस्नेहनार्थम्|
यदिदं कर्म प्रथमं मासं समुपादायोपदिष्टमानवमान्मासात्तेन गर्भिण्या गर्भसमये गर्भधारिणीकुक्षिकटीपार्श्वपृष्ठं मृदूभवति, वातश्चानुलोमः सम्पद्यते, मूत्रपुरीषे च प्रकृतिभूते सुखेन मार्गमनुपद्येते, चर्मनखानि च मार्दवमुपयान्ति, बलवर्णौ चोपचीयेते; पुत्रं चेष्टं सम्पदुपेतं सुखिनं सुखेनैषा काले प्रजायत इति||३२||
Hide commentary
गर्भस्य प्रतिमासिकं कर्माह- परमत इत्यादि| तन्नेति भगवानात्रेय इति युगपदेव तृतीये मासेऽङ्गप्रत्यङ्गनिष्पत्तेः केशा अपि तदैव जाताः क्रमेण वर्धन्ते न सप्तमे मासे इति भावः अथ कथं तर्हि सप्तमे मासि विशेषेण कण्डूर्भवतीत्याह- गर्भोत्पीडनादित्यादि| किक्किसः चर्मविदरणम्| स्तनावुदरं च स्तनोदरम्| कोलं बदरी| परिहारः ‘कण्ड्वाः’ इति शेषः| पैङ्गल्यं पिङ्गलनेत्रता| सा च यद्यपि पित्तकृता, यदुक्तं शालाक्ये- “पित्तेऽत्यर्थप्रदुष्टे तु नेत्रयोः पिङ्गलाक्षिता” इति; तथाऽपीहाष्टममासीयगर्भे क्षीरयवाग्वाहारसम्बन्धप्रभावादेव पैङ्गल्यं भवतीति ज्ञेयम्| न त्वेवैतन्न कार्यमिति पैङ्गल्यस्याल्पदोषत्वादुत्तरकालं सुकरप्रतिक्रियत्वाच्च क्षीरयवाग्ववचारणे बहुगुणलाभात् कर्तव्यमेव क्षीरयवागूसेवनमिति भावः| अतश्चैवेति मधुरौषधसिद्धतैलात्| गर्भधारिणी अपरा| अत्र पुत्रमिति प्रशस्तत्वे नोक्तं, तेन कन्यां चेति बोद्धव्यम्; अतो न प्रतिमासीयेन कर्मणा पुत्रजन्मैव परं भवतीति व्याकृतम्||३२||
Adhikarana २० (३३) · Śloka ३३
प्राक् चैवास्या नवमान्मासात् सूतिकागारं कारयेदपहृतास्थिशर्कराकपाले देशे प्रशस्तरूपरसगन्धायां भूमौ प्राग्द्वारमुदग्द्वारं वा बैल्वानां काष्ठानां तैन्दुकैङ्गुदकानां भाल्लातकानां वार(रु)णानां खादिराणां वा; यानि चान्यान्यपि ब्राह्मणाः शंसेयुरथर्ववेदविदस्तेषां; वसनालेपनाच्छादनापिधानसम्पदुपेतं वास्तुविद्याहृदययोगाग्निसलिलोदूखलवर्चःस्थानस्नानभूमिमहानसमृतुसुखं च||३३||
Hide commentary
यत्र गर्भिणी प्रसूता यत्र च तिष्ठति तत् सूतिकागारमुच्यते| बिल्वादीनां काष्ठानामगारं कारयेदिति सम्बन्धः| वारणः पुन्नागः, वरुणो वा| वसनं वस्त्रम्, आच्छादनम् आस्तरणम्, अपिधानं कपाटम्| वास्तुविद्याहृदयं वास्तुविद्यातत्त्वं, तद्योगादग्न्यादीनां स्थानं यत्र गृहे तत्तथा; वास्तुविन्मतेन विभक्ताग्न्यादिस्थानं तद्गृहं कर्तव्यमित्यर्थः| वर्तमानर्तुमपेक्ष्य सुखमृतुसुखम्||३३||
Adhikarana २१ (३४) · Śloka ३४
तत्र सर्पिस्तैलमधुसैन्धवसौवर्चलकालविड्लवणविडङ्गकुष्ठकिलिमनागर- पिप्पलीपिप्पलीमूलहस्तिपिप्पलीमण्डूकपर्ण्येलालाङ्गलीवचाचव्यचित्रकचिरबिल्व- हिङ्गुसर्षपलशुनकतककणकणिकानीपातसीबल्वजभूर्जकुलत्थमैरेयसुरासवाः सन्निहिताः स्युः; तथाऽश्मानौ द्वौ, द्वे कु(च)ण्डमुसले, द्वे उदूखले, खरवृषभश्च , द्वौ च तीक्ष्णौ सूचीपिप्पलकौ सौवर्णराजतौ, शस्त्राणि च तीक्ष्णायसानि, द्वौ च बिल्वमयौ पर्यङ्कौ, तैन्दुकैङ्गुदानि च काष्ठान्यग्निसन्धुक्षणानि, स्त्रियश्च बह्व्यो बहुशः प्रजाताः सौहार्दयुक्ताः सततमनुरक्ताः प्रदक्षिणाचाराः प्रतिपत्तिकुशलाः प्रकृतिवत्सलास्त्यक्तविषादाः क्लेशसहिन्योऽभिमताः, ब्राह्मणाश्चाथर्ववेदविदः; यच्चान्यदपि तत्र समर्थं मन्येत, यच्चान्यच्च ब्राह्मणा ब्रूयुः स्त्रियश्च वृद्धास्तत् कार्यम्||३४||
Hide commentary
सर्पिस्तैलादीनां चात्र गृहे स्थापनीयानां वक्तव्य एव तावदुपयोगः; बहुत्वेन येषां तु न वक्तव्यस्तेषामप्ययमुपयोग उन्नेयः| किलिमं देवदारु| कणः ‘कुण्डक’ इति ख्यातः; कणिका तु कुण्डकात् स्थूलास्तण्डुलावयवा उच्यन्ते| तण्डुला येन कुड्यन्ते तन्मुसलम्| कुण्डमुसले इति ह्रस्वमुसले, किंवा ‘चण्डमुसले’ इति पाठः; तदा गुरुतरमुसले इत्यर्थः| यद्यपि मुसलग्रहणं निषिद्धं, तथाऽप्युत्तरकालं द्वारे मुसलस्थापनं वक्तव्यमिति साधु मुसलोपादानम्| सूच्याकारे शस्त्रे सूचीपिप्पलकौ; किंवा सूची यत्र स्थाप्यते स सूचीपिप्पलकः| पर्यङ्कः खट्वा| समर्थं मन्येतेति उपयुक्तं मन्येत||३४||
Adhikarana २२ (३५) · Śloka ३५
ततः प्रवृत्ते नवमे मासे पुण्येऽहनि प्रशस्तनक्षत्रयोगमुपगते प्रशस्ते भगवति शशिनि कल्याणे कल्याणे च करणे मैत्रे मुहूर्ते शान्तिं हुत्वा गोब्राह्मणमग्निमुदकं चादौ प्रवेश्य गोभ्यस्तृणोदकं मधुलाजांश्च प्रदाय ब्राह्मणेभ्योऽक्षतान् सुमनसो नान्दीमुखानि च फलानीष्टानि दत्त्वोदकपूर्वमासनस्थेभ्योऽभिवाद्य पुनराचम्य स्वस्ति वाचयेत्|
ततः पुण्याहशब्देन गोब्राह्मणं समनुवर्तमाना प्रदक्षिणं प्रविशेत् सूतिकागारम्|
तत्रस्था च प्रसवकालं प्रतीक्षेत||३५||
Hide commentary
शान्तिं कृत्वेति शान्तिहोमं कृत्वा| नान्दीमुखानि च फलानि नान्दीमुखश्राद्धाय हितानि फलानि; किंवा नान्दी मुरजः, तन्मुखाकृतीनि फलानि खर्जूरादीनि| पुण्याहशब्दो मङ्गलशब्दः| प्रदक्षिणं यथा भवति तथा गोब्राह्मणं समनुवर्तमाना ||३५||
Adhikarana २३ (३६-४०) · Śloka ४०
तस्यास्तु खल्विमानि लिङ्गानि प्रजननकालमभितो भवन्ति; तद्यथा- क्लमो गात्राणां, ग्लानिराननस्य, अक्ष्णोः शैथिल्यं, विमुक्तबन्धनत्वमिव वक्षसः, कुक्षेरवस्रंसनम्, अधोगुरुत्वं, वङ्क्षणबस्तिकटीकुक्षिपार्श्वपृष्ठनिस्तोदः, योनेः प्रस्रवणम्, अनन्नाभिलाषश्चेति; ततोऽनन्तरमावीनां प्रादुर्भावः, प्रसेकश्च गर्भोदकस्य||३६||
आवीप्रादुर्भावे तु भूमौ शयनं विदध्यान्मृद्वास्तरणोपपन्नम्|
तदध्यासीत सा|
तां ततः समन्ततः परिवार्य यथोक्तगुणाः स्त्रियः पर्युपासीरन्नाश्वासयन्त्यो वाग्भिर्ग्राहिणीयाभिः सान्त्वनीयाभिश्च||३७||
सा चेदावीभिः सङ्क्लिश्यमाना न प्रजायेताथैनां ब्रूयात्- उत्तिष्ठ, मुसलमन्यतरं गृहीष्व, अनेनैतदुलूखलं धान्यपूर्णं मुहुर्मुहुरभिजहि मुहुर्मुहुरवजृम्भस्व चङ्क्रमस्व चान्तराऽन्तरेति; एवमुपदिशन्त्येके|
तन्नेत्याह भगवानात्रेयः|
दारुणव्यायामवर्जनं हि गर्भिण्याः सततमुपदिश्यते, विशेषतश्च प्रजननकाले प्रचलितसर्वधातुदोषायाः सुकुमार्या नार्या मुसलव्यायामसमीरितो वायुरन्तरं लब्ध्वा प्राणान् हिंस्यात्, दुष्प्रतीकारतमा हि तस्मिन् काले विशेषेण भवति गर्भिणी; तस्मान्मुसलग्रहणं परिहार्यमृषयो मन्यन्ते, जृम्भणं चङ्क्रमणं च पुनरनुष्ठेयमिति|
अथास्यै दद्यात् कुष्ठैलालाङ्गलिकीवचाचित्रकचिरबिल्वचव्यचूर्णमुपघ्रातुं, सा तन्मुहुर्मुहुरुपजिघ्रेत्, तथा भूर्जपत्रधूमं शिंशपासारधूमं वा|
तस्याश्चान्तराऽन्तरा कटीपार्श्वपृष्ठसक्थिदेशानीषदुष्णेन तैलेनाभ्यज्यानुसुखमवमृद्नीयात् |
अनेन कर्मणा गर्भोऽवाक् प्रतिपद्यते||३८||
स यदा जानीयाद्विमुच्य हृदयमुदरमस्यास्त्वाविशति, बस्तिशिरोऽवगृह्णाति, त्वरयन्त्येनामाव्यः, परिवर्ततेऽधो गर्भ इति; अस्यामवस्थायां पर्यङ्कमेनामारोप्य प्रवाहयितुमुपक्रमेत|
कर्णे चास्या मन्त्रमिममनुकूला स्त्री जपेत्- ‘क्षितिर्जलं वियत्तेजो वायुर्विष्णुः प्रजापतिः|
सगर्भां त्वां सदा पान्तु वैशल्यं च दिशन्तु ते|
प्रसूष्व त्वमविक्लिष्टमविक्लिष्टा शुभानने!|
कार्तिकेयद्युतिं पुत्रं कार्तिकेयाभिरक्षितम्’ इति||३९||
ताश्चैनां यथोक्तगुणाः स्त्रियोऽनुशिष्युः- अनागतावीर्मा प्रवाहिष्ठाः; या ह्यनागतावीः प्रवाहते व्यर्थमेवास्यास्तत् कर्म भवति, प्रजा चास्या विकृता विकृतिमापन्ना च, श्वासकासशोषप्लीहप्रसक्ता वा भवति|
यथा हि क्षवथूद्गारवातमूत्रपुरीषवेगान् प्रयतमानोऽप्यप्राप्तकालान्न लभते कृच्छ्रेण वाऽप्यवाप्नोति , तथाऽनागतकालं गर्भमपि प्रवाहमाणा; यथा चैषामेव क्षवथ्वादीनां सन्धारणमुपघातायोपपद्यते, तथा प्राप्तकालस्य गर्भस्याप्रवाहणमिति|
सा यथानिर्देशं कुरुष्वेति वक्तव्या स्यात्|
तथा च कुर्वती शनैः पूर्वं प्रवाहेत, ततोऽनन्तरं बलवत्तरम्|
तस्यां च प्रवाहमाणायां स्त्रियः शब्दं कुर्युः- ‘प्रजाता प्रजाता धन्यं धन्यं पुत्रम्’ इति|
तथाऽस्या हर्षेणाप्याय्यन्ते प्राणाः||४०||
Hide commentary
उपदेष्टव्यार्थाभिधायिनी वाक् ग्राहणीया| अवजृम्भस्वेति गात्राणि प्रसारयस्व| अन्तरं लब्ध्वेति हेतुमासाद्य||३६-४०||
Adhikarana २४ (४१) · Śloka ४१
यदा च प्रजाता स्यात्तदैवैनामवेक्षेत- काचिदस्या अपरा प्रपन्ना न वेति|
तस्याश्चेदपरा न प्रपन्ना स्यादथैनामन्यतमा स्त्री दक्षिणेन पाणिना नाभेरुपरिष्टाद्बलवन्निपीड्य सव्येन पाणिना पृष्ठत उपसङ्गृह्य तां सुनिर्धूतं निर्धुनुयात्|
अथास्याः पार्ष्ण्या श्रोणीमाकोटयेत्|
अस्याः स्फिचावुपसङ्गृह्य सुपीडितं पीडयेत्|
अथास्या बालवेण्या कण्ठतालु परिमृशेत्|
भूर्जपत्रकाचमणिसर्पनिर्मोकैश्चास्या योनिं धूपयेत्|
कुष्ठतालीसकल्कं बल्वजयूषे मैरेयसुरामण्डे तीक्ष्णे कौलत्थे व यूषे मण्डूकपर्णीपिप्पलीसम्पाके वा सम्प्लाव्य पाययेदेनाम्|
तथा सूक्ष्मैलाकिलिमकुष्ठनागर विडङ्गपिप्पलीकालागुरुचव्यचित्रकोपकुञ्चिकाकल्कं खरवृषभस्य वा जीवतो दक्षिणं कर्णमुत्कृत्य दृषदि जर्जरीकृत्य बल्वजक्वाथादीनामाप्लावनानामन्यतमे प्रक्षिप्याप्लाव्य मुहूर्तस्थितमुद्धृत्य तदाप्लावनं पाययेदेनाम्|
शतपुष्पाकुष्ठमदनहिङ्गुसिद्धस्य चैनां तैलस्य पिचुं ग्राहयेत्|
अतश्चैवानुवासयेत्|
एतैरेव चाप्लावनैः फलजीमूतेक्ष्वाकुधामार्गवकुटजकृतवेधनहस्तिपिप्पल्युपहितैरास्थापयेत्|
तदास्थापनमस्याः सह वातमूत्रपुरीषैर्निर्हरत्यपरामासक्तां वायोरेवाप्रतिलोमगत्वात् |
अपरां हि वातमूत्रपुरीषाण्यन्यानि चान्तर्बहिर्मार्गाणि सज्जन्ति||४१||
Hide commentary
सुनिर्धूतमिति क्रियाविशेषणम्| आकोटयेदिति पीडयेत्| बालकृता वेणी बालवेणी| बल्वजयूषः बल्वजक्वाथः| मण्डूकपिप्पली मण्डूकपर्णी; किंवा मण्डूका मण्डूकपर्णी, पिप्पली पिप्पल्येव, तयोः सम्पाकः क्वाथ इत्यर्थः| तथेत्यनेन बल्वजयूषादौ सूक्ष्मैलादीनां पानं विधीयते| खरवृषभश्चण्डबलीबर्दः| एतैरेव चेति बल्वजयुषादिभिः| अन्तर्बहिर्मार्गाणि सज्जन्तीति बहिर्गमनशीलानि पुरीषादीनि, अन्तः अभ्यन्तरदेशे संसक्तानि भवन्ति||४१||
Adhikarana २५ (४२-४३) · Śloka ४३
तस्यास्तु खल्वपरायाः प्रपतनार्थे कर्मणि क्रियमाणे जातमात्रस्यैव कुमारस्य कार्याण्येतानि कर्माणि भवन्ति; तद्यथा- अश्मनोः सङ्घट्टनं कर्णयोर्मूले, शीतोदकेनोष्णोदकेन वा मुखपरिषेकः , तथा स क्लेशविहतान् प्राणान् पुनर्लभेत|
कृष्णकपालिकाशूर्पेण चैनमभिनिष्पुणीयुर्यद्यचेष्टः स्याद् यावत् प्राणानां प्रत्यागमनम् (तत्तत् सर्वमेव कार्यम्)|
ततः प्रत्यागतप्राणं प्रकृतिभूतमभिसमीक्ष्य स्नानोदकग्रहणाभ्यामुपपादयेत्||४२||
अथास्य ताल्वोष्ठकण्ठजिह्वाप्रमार्जनमारभेताङ्गुल्या सुपरिलिखितनखया सुप्रक्षालितोपधानकार्पाससपिचुमत्या|
प्रथमं प्रमार्जितास्यस्य चास्य शिरस्तालु कार्पासपिचुना स्नेहगर्भेण प्रतिसञ्छादयेत्|
ततोऽस्यानन्तरं सैन्धवोपहितेन सर्पिषा कार्यं प्रच्छर्दनम्||४३||
Hide commentary
शीतोदकेनोष्णोदकेन वेति विकल्पो ऋतुभेदेन ज्ञेयः; ग्रीष्मकाले शीतोदकेन, शीतकाले तूष्णोदकेनेत्यर्थः| क्लेशविहतानिति योनियन्त्रपीडनादिक्लेशपराहतान्| कृष्णकपालिका ईषिका नलमुञ्जवंशादिभवा, तत्कृतः शूर्पः कृष्णकपालिकाशूर्पः; तेन निष्पुणीयुः वीजयेयुरित्यर्थः| अथ कियन्तं कालं तद्वीजनमित्याह- यावत् प्राणानां प्रत्यागमनमिति | उदकग्रहणं मलमार्गशौचार्थम्| उपधानम् आवरणं, तच्चेहाङ्गुल्या कार्पासपिचुनैव||४२-४३||
Adhikarana २६ (४४) · Śloka ४४
ततः कल्पनं नाड्याः|
अतस्तस्याः कल्पनविधिमुपदेक्ष्यामः- नाभिबन्धनात् प्रभृत्यष्टाङ्गुलमभिज्ञानं कृत्वा छेदनावकाशस्य द्वयोरन्तरयोः शनैर्गृहीत्वा तीक्ष्णेन रौक्मराजतायसानां छेदनानामन्यतमेनार्धधारेण छेदयेत्|
तामग्रे सूत्रेणोपनिबध्य कण्ठेऽस्य शिथिलमवसृजेत्|
तस्य चेन्नाभिः पच्येत, तां लोध्रमधुकप्रियङ्गुसुरदारुहरिद्राकल्कसिद्धेन तैलेनाभ्यज्यात्, एषामेव तैलौषधानां चूर्णेनावचूर्णयेत्|
इति नाडीकल्पनविधिरुक्तः सम्यक्||४४||
Hide commentary
अष्टाङ्गुलमभिज्ञानं कृत्वेति अष्टाङ्गुले चिह्नं कृत्वा| अर्धधारः तिर्यग्धारः शस्त्रविशेषः| तामिति च्छिन्नावशिष्टाङ्गुलां नाडीम्| कण्ठेऽवसृजेदिति नाड्यग्रबद्धं सूत्रं कुमारस्य कण्ठे निबध्नीयात्||४४||
Adhikarana २७ (४५) · Śloka ४५
असम्यक्कल्पने हि नाड्या आयामव्यायामोत्तुण्डिता-पिण्डलिका-विनामिका-विजृम्भिकाबाधेभ्यो भयम्|
तत्राविदाहिभिर्वातपित्तप्रशमनैरभ्यङ्गोत्सादनपरिषेकैः सर्पिर्भिश्चोपक्रमेत गुरुलाघवमभिसमीक्ष्य||४५||
Hide commentary
नाड्या अविधिकल्पने दोषमाह- असम्यगित्यादि| आयामो दैर्घ्यं, व्यायामो विस्तारः, ताभ्यामुत्तुण्डिता आयामव्यायामोत्तुण्डिता, दीर्घपीनत्वयुतेत्यर्थः; पिण्डलिका परिमण्डलयुता; विनामिका अन्तोच्छूना मध्यनिम्ना; विजृम्भिका तु मुहुर्मुहुर्वृद्धिमती| गुरुलाघवमभिसमीक्ष्येति नाडीपाककारकपित्ते तथा वाते चायामव्यायामोत्तुण्डितादिविकारचतुष्टयकारके यो दोषो गुरुः स उपचरितव्यस्त्वरयेत्यर्थः||४५||
Adhikarana २८ (४६) · Śloka ४६
अतोऽनन्तरं जातकर्म कुमारस्य कार्यम्|
तद्यथा- मधुसर्पिषी मन्त्रोपमन्त्रिते यथाम्नायं प्रथमं प्राशितुं दद्यात्|
स्तनमत ऊर्ध्वमेतेनैव विधिना दक्षिणं पातुं पुरस्तात् प्रयच्छेत्|
अथातः शीर्षतः स्थापयेदुदकुम्भं मन्त्रोपमन्त्रितम्||४६||
Hide commentary
जातमात्रस्य वेदोक्तं कर्म जातकर्म| यथाम्नायमिति यथागमं मन्त्रोपमन्त्रिते| एतेनैव विधिनेति स्तन(न्य)मप्यभिमन्त्रितं पाययेदित्यर्थः||४६||
Adhikarana २९ (४७) · Śloka ४७
अथास्य रक्षां विदध्यात्- आदानीखदिरकर्कन्धुपीलुपरूषकशाखाभिरस्या गृहं समन्ततः परिवारयेत्|
सर्वतश्च सूतिकागारस्य सर्षपातसीतण्डुलकणकणिकाः प्रकिरेयुः|
तथा तण्डुलबलिहोमः सततमुभयकालं क्रियेतानामकर्मणः |
द्वारे च मुसलं देहलीमनु तिरश्चीनं न्यसेत्|
वचाकुष्ठक्षौमकहिङ्गुसर्षपातसीलशुनकणकणिकानां रक्षोघ्नसमाख्यातानां चौषधीनां पोट्टलिकां बद्ध्वा सूतिकागारस्योत्तरदेहल्यामवसृजेत्, तथा सूतिकायाः कण्ठे सपुत्रायाः, स्थाल्युदककुम्भपर्यङ्केष्वपि, तथैव च द्वयोर्द्वारपक्षयोः|
कणककण्टकेन्धनवानग्निस्तिन्दुककाष्ठेन्धनश्चाग्निः सूतिकागारस्याभ्यन्तरतो नित्यं स्यात्|
स्त्रियश्चैनां यथोक्तगुणाः सुहृदश्चानुश्चानुजागृयुर्दशाहं द्वादशाहं वा|
अनुपरतप्रदानमङ्गलाशीःस्तुतिगीतवादित्रमन्नपानविशदमनुरक्तप्रहृष्टजनसम्पूर्णं च तद्वेश्म कार्यम्|
ब्राह्मणश्चाथर्ववेदवित् सततमुभयकालं शान्तिं जुहुयात् स्वस्त्ययनार्थं कुमारस्य तथा सूतिकायाः|
इत्येतद्रक्षाविधानमुक्तम्||४७||
Hide commentary
आदानी घोषकभेदः| तण्डुलबलिहोमः कियत्कालं कर्तव्य इत्याह- आनामकर्मण इति|- दशाहं यावदित्यर्थः; दशाहे तु नामकर्म भविष्यति| जतूकर्णेऽप्युक्तं- “तण्डुलबलिहोमो द्विकालमादशाहम्” इति| रक्षोघ्नसमाख्यातानामित्यनेन गुग्गुल्वादीन् ग्राहयति| उत्तरदेहल्यामिति द्वारोपरि; अन्ये तु देहलीं द्वाराधःकाष्ठमाहुः||४७||
Adhikarana ३० (४८) · Śloka ४८
सूतिकां तु खलु बुभुक्षितां विदित्वा स्नेहं पाययेत परमया शक्त्या सर्पिस्तैलं वसां मज्जानं वा सात्म्यीभावमभिसमीक्ष्य पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरचूर्णसहितम्|
स्नेहं पीतवत्याश्च सर्पिस्तैलाभ्यामभ्यज्य वेष्टयेदुदरं महताऽच्छेन वाससा; तथा तस्या न वायुरुदरे विकृतिमुत्पादयत्यनवकाशत्वात्|
जीर्णे तु स्नेहे पिप्पल्यादिभिरेव सिद्धां यवागूं सुस्निग्धां द्रवां मात्रशः पाययेत्|
उभयतःकालं चोष्णोदकेन च परिषेचयेत् प्राक् स्नेहयवागूपानाभ्याम्|
एवं पञ्चरात्रं सप्तरात्रं वाऽनुपाल्य क्रमेणाप्याययेत्|
स्वस्थवृत्तमेतावत् सूतिकायाः||४८||
Hide commentary
कुमारस्य जातकर्माभिधाय सूतिकायाः कर्तव्यमाह- सूतिकां त्वित्यादि| बुभुक्षितामित्यनेन यावता कालेन बुभुक्षिता भवति तदा स्नेहपानं कर्तव्यम्| परमया शक्त्येति उत्तमया शक्त्या लक्षिता स्नेहं पिबेत्; ‘यावता स्नेहेन बलविरोधो न भवति तावन्मात्रं स्नेहं पिबेत्’ इत्यध्याहर्तव्यम्| सात्म्यीभावमभिसमीक्ष्येति सर्पिरादिषु यद्यस्याः सात्म्यं तत् तस्यै देयम्| अच्छेनेति निर्मलेन| उभयतःकालमिति पदमुष्णोदकेन परिषेचयेदित्यनेन योज्यम्| तदेव कालद्वयमाह- प्रागित्यादि| पौर्वाह्णिकः स्नेहपानपरिषेकः कारयितव्यः, तथा जीर्णे स्नेहे परिषेचितां यवागूः पाययितव्येत्यर्थः| अयं तु व्यवहारो नानूपदेशे प्रबलकफत्वात् प्राणिनां, किन्तु जाङ्गलदेशव्यवहार इति ज्ञेयम्||४८||
Adhikarana ३१ (४९) · Śloka ४९
तस्यास्तु खलु यो व्याधिरुत्पद्यते स कृच्छ्रसाध्यो भवत्यसाध्यो वा, गर्भवृद्धिक्षयितशिथिलसर्वधातुत्वात्, प्रवाहणवेदनाक्लेदनरक्तनिःस्रुतिविशेषशून्यशरीरत्वाच्च; तस्मात्तां यथोक्तेन विधिनोपचरेत्; भौतिकजीवनीयबृंहणीयमधुरवातहरसिद्धैरभ्यङ्गोत्सादनपरिषेकावगाहनान्नपानविधिभिर्विशेषतश्चोपचरेत्; विशेषतो हि शून्यशरीराः स्त्रियः प्रजाता भवन्ति||४९||
Hide commentary
सूतिकाया मिथ्योपचारेण व्याधिर्भवन् कृच्छ्रसाध्योऽसाध्यो वा यथा भवति तथा दर्शयन् यथोक्तक्रमस्यावधानेन कर्तव्यतां दर्शयितुमाह- तस्यास्त्वित्यादि| गर्भवृद्ध्या धात्वन्तरापोषणेन क्षयिताश्च शिथिलीकृताश्च सर्वे धातवो यस्याः सा तथा| गर्भव्यपगम एतावच्छरीरशून्यत्वे हेतुः तथा प्रवाहणवेदनाक्लेदरक्तनिःस्रुतिश्च विशेषेण हेतुरित्याह- प्रवाहणेत्यादि| यथोक्तेनेति स्नेहपानादिना| एतेन यथोक्तविधिकरणमेव दुश्चिकित्स्यस्य सूतिकाव्याधेर्निदानवर्जनरूपमुत्तमं भेषजमिति दर्शयति| यत्तूत्पन्ने व्याधौ विहितं भेषजं तत् प्रायो न सिध्यतीति कृत्वा नेहोक्तम्| भौतिकं भूतहरम्||४९||
Adhikarana ३२ (५०) · Śloka ५०
दशमे त्वहनि सपुत्रा स्त्री सर्वगन्धौषधैर्गौरसर्षपलोध्रैश्च स्नाता लघ्वहतशुचिवस्त्रं परिधाय पवित्रेष्टलघुविचित्रभूषणवती च संस्पृश्य मङ्गलान्युचितामर्चयित्वा च देवतां शिखिनः शुक्लवाससोऽव्यङ्गांश्च ब्राह्मणान् स्वस्ति वाचयित्वा कुमारमहतानां च वाससां सञ्चये प्राक्शिरसमुदक्शिरसं वा संवेश्य देवतापूर्वं द्विजातिभ्यः प्रणमतीत्युक्त्वा कुमारस्य पिता द्वे नामनी कारयेन्नाक्षत्रिकं नामाभिप्रायिकं च|
तत्राभिप्रायिकं घोषवदाद्यन्तस्थान्तमूष्मान्तं वाऽवृद्धं त्रिपुरुषानूकमनवप्रतिष्ठितं, नाक्षात्रिकं तु नक्षत्रदेवतासमानाख्यं द्व्यक्षरं चतुरक्षरं वा||५०||
Hide commentary
उचितामिति या यस्य देवता सदा पूज्यत्वेनोचिता तामर्चयित्वा| शिखिन इति पावकान्; किंवा शिखा चूडा तद्वतो ब्राह्मणानमुण्डान्| नक्षत्रदेवतासंयुक्तमिति यस्मिन् नक्षत्रे कुमारो जातस्तस्य नक्षत्रस्य या देवता ज्योतिःशास्त्रे, तस्या नाम कर्तव्यमित्यर्थः| किंवा ‘द्वे नामनी कारयेत्तन्नाक्षत्रिकमाभिप्रायिकं च’ इत्यादिपाठः| तत्रापि नाक्षत्रिकं व्याख्यातमेव; आभिप्रायिकेषु घोषवदित्यादि विशेषणम्| घोषा वर्गचतुर्था ‘घझढधभाः’, अन्तस्था ‘यरलवाः’, ‘शषसहा’ ऊष्माणः||५०||
Adhikarana ३३ (५१) · Śloka ५१
वृत्ते च नामकर्मणि कुमारं परीक्षितुमुपक्रमेतायुषः प्रमाणज्ञानहेतोः|
तत्रेमान्यायुष्मतां कुमाराणां लक्षणानि भवन्ति|
तद्यथा- एकैकजा मृदवोऽल्पाः स्निग्धाः सुबद्धमूलाः कृष्णाः केशाः प्रशस्यन्ते, स्थिरा बहला त्वक्, प्रकृत्याऽतिसम्पन्नमीषत्प्रमाणातिवृत्तमनुरूपमातपत्रोपमं शिरः, व्यूढं दृढं समं सुश्लिष्टशङ्खसन्ध्यूर्ध्वव्यञ्जनसम्पन्नमुपचितं वलिभमर्धचन्द्राकृति ललाटं, बहलौ विपुलसमपीठौ समौ नीचैर्वृद्धौ पृष्ठतोऽवनतौ सुश्लिष्टकर्णपुत्रकौ महाच्छिद्रौ कर्णौ, ईषत्प्रलम्बिन्यावसङ्गते समे संहते महत्यौ भ्रुवौ, समे समाहितदर्शने व्यक्तभागविभागे बलवती तेजसोपपन्ने स्वङ्गापाङ्गे चक्षुषी, ऋज्वी महोच्छ्वासा वंशसम्पन्नेषदवनताग्रा नासिका, महदृजुसुनिविष्टदन्तमास्यम्, आयामविस्तारोपपन्ना श्लक्ष्णा तन्वी प्रकृतिवर्णयुक्ता जिह्वा, श्लक्ष्णं युक्तोपचयमूष्मोपपन्नं रक्तं तालु, महानदीनः स्निग्धोऽनुनादी गम्भीरसमुत्थो धीरः स्वरः, नातिस्थूलौ नातिकृशौ विस्तारोपपन्नावास्यप्रच्छादनौ रक्तावोष्ठौ, महत्यौ हनू, वृत्ता नातिमहती ग्रीवा, व्यूढमुपचितमुरः, गूढं जत्रु पृष्ठवंशश्च, विप्रकृष्टान्तरौ स्तनौ, असम्पातिनी स्थिरे पार्श्वे, वृत्तपरिपूर्णायतौ बाहू सक्थिनी अङ्गुलयश्च, महदुपचितं पाणिपादं, स्थिरा वृत्ताः स्निग्धास्ताम्रास्तुङ्गाः कूर्माकाराः करजाः, प्रदक्षिणावर्ता सोत्सङ्गा च नाभिः, उरस्त्रिभागहीना समा समुपचितमांसा कटी, वृत्तौ स्थिरोपचितमांसौ नात्युन्नतौ नात्यवनतौ स्फिचौ, अनुपूर्वं वृत्तावुपचययुक्तावूरू, नात्युपचिते नात्यपचिते एणीपदे प्रगूढसिरास्थिसन्धी जङ्घे, नात्युपचितौ नात्यपचितौ गुल्फौ, पूर्वोपदिष्टगुणौ पादौ कूर्माकारौ, प्रकृतियुक्तानि वातमूत्रपुरीषगुह्यानि तथा स्वप्रजागरणायासस्मितरुदितस्तनग्रहणानि, यच्च किञ्चिदन्यदप्यनुक्तमस्ति तदपि सर्वं प्रकृतिसम्पन्नमिष्टं, विपरीतं पुनरनिष्टम्|
इति दीर्घायुर्लक्षणानि||५१||
Hide commentary
नामकर्मणीति नामकरणसमयक्रियमाणहोमादिकर्मणि, नामैव वा कर्म नामकर्म| स्थिरेति अश्लथा| ईषत्प्रमाणातिवृत्तं शिर इति उत्सर्गापवादन्यायेन बोद्धव्यम्| तेन यदुक्तं पूर्वं- “षडङ्गुलोत्सेधं द्वात्रिंशदङ्गुलपरिणाहं शिरः” एतच्चाभिधायोक्तं- “तत्रायुर्बलं” इत्यादि यावत् “प्रमाणवति शरीरे; विपर्ययस्तु हीनेऽधिके वा” (वि.अ.८) इति; तत्र शिरसि किञ्चित्प्रमाणाधिकता एतद्वचनादपवादभूताऽप्यतीव प्रशस्ता भवतीति ज्ञेयम्| एवं ‘महदुपचितं पाणिपादम्’ इत्यत्रापि व्याख्येयम्| अनुरूपमित्यनेन शरीरानुरूपतां शिरसो दर्शयन्नुक्तलक्षणादनतिवृद्धिं शिरसो दर्शयति; अतिवृद्धं हि शरीराननुरूपं भवति, तच्चाप्रशस्तमेव| ऊर्ध्वव्यञ्जनमिति ऊर्ध्वरेखात्रयरूपलक्षणयुक्तं; जतूकर्णे हि त्रिरेखं ललाटमुक्तम्| नीचैर्वृद्धाविति अनुद्गतौ सन्तावनुक्रमववृद्धौ| असङ्गते दूरान्तरे| व्यक्तभागविभागे इति प्रव्यक्तकृष्णशुक्लादिविभागे| शोभनानि वर्त्मादीनि अङ्गानि अपाङ्गे च ययोस्ते स्वङ्गापाङ्गे| अत्र अङ्गग्रहणेनैव अपाङ्गस्य लब्धस्यापि पुनः करणं विशेषेणापाङ्गशोभोपदर्शनार्थम् | आस्यप्रच्छादनौ आस्यं प्रच्छादयितुं क्षमौ मुखावरकौ| पृष्ठवंशश्च गूढ इति योजनीयम्| असम्पातिनी सुनिर्गते, किंवा अलक्ष्ये| प्रकृतियुक्तेति देहानुरूपा| एणीपदे इति एणीजङ्घासदृशे| प्रकृतियुक्तानीति नातिबहूनि नात्यल्पानि च||५१||
Adhikarana ३४ (५२) · Śloka ५२
अतो धात्रीपरीक्षामुपदेक्ष्यामः|
अथ ब्रूयात्- धात्रीमानय समानवर्णां यौवनस्थां निभृतामनातुरामव्यङ्गामव्यसनामविरूपामजुगुप्सितां देशजातीयामक्षुद्रामक्षुद्रकर्मिणीं कुले जातां वत्सलामरोगां जीवद्वत्सां पुंवत्सां दोग्ध्रीमप्रमत्तामनुच्चारशायिनीमनन्त्यावसायिनीं कुशलोपचारां शुचिमशुचिद्वेषिणीं स्तनस्तन्यसम्पदुपेतामिति||५२||
Hide commentary
समानवर्णामिति तुल्यजातीयाम्| यौवनस्थामित्यनेन बालावृद्धयोरसम्पूर्णक्षीणधातुत्वेन तयोर्निरासं करोति| निभृतामिति विनीताम् | अविरूपामिति अविकृतावयवाम्| अव्यङ्गामिति अहीनाङ्गीम्| देशजातीयां समानदेशजाम्| अनन्त्यावसायिनीमिति शूद्राभिप्रायेण, शूद्रस्य हि सवर्णत्वेन चाण्डालादिस्त्री प्रसक्ता, सा च निषिध्यते; ब्राह्मणादीनां त्वसवर्णत्वेनैव सा निरस्ता; किंवा ब्राह्मणादीनामपि पतितब्राह्मण्याद्या अनन्त्यावसायिनीमितिशब्देन क्षिप्यते||५२||
Adhikarana ३५ (५३) · Śloka ५३
तत्रेयं स्तनसम्पत्- नात्यूर्ध्वौ नातिलम्बावनतिकृशावनतिपीनौ युक्तपिप्पलकौ सुखप्रपानौ चेति (स्तनसम्पत्)||५३||
Hide commentary
युक्तपिप्पलकाविति उच्चैःस्तनवृन्तौ||५३||
Adhikarana ३६ (५४-५५) · Śloka ५५
स्तन्यसम्पत्तु प्रकृतिवर्णगन्धरसस्पर्शम्, उदपात्रे च दुह्यमानमुदकं व्येति प्रकृतिभूतत्वात्; तत् पुष्टिकरमारोग्यकरं चेति (स्तन्यसम्पत्)||५४||
अतोऽन्यथा व्यापन्नं ज्ञेयम्|
तस्य विशेषाः- श्यावारुणवर्णं कषायानुरसं विशदमनालक्ष्यगन्धं रूक्षं द्रवं फेनिलं लघ्वतृप्तिकरं कर्शनं वातविकाराणां कर्तृ वातोपसृष्टं क्षीरमभिज्ञेयं ; कृष्णनीलपीतताम्रावभासं तिक्ताम्लकटुकानुरसं कुणपरुधिरगन्धि भृशोष्णं पित्तविकाराणां कर्तृ च पित्तोपसृष्टं क्षीरमभिज्ञेयम्, अत्यर्थशुक्लमतिमाधुर्योपपन्नं लवणानुरसं घृततैलवसामज्जगन्धि पिच्छिलं तन्तुमदुकपात्रेऽवसीदछ्लेष्मविकाराणां कर्तृ श्लेष्मोपसृष्टं क्षीरमभिज्ञेयम्||५५||
Hide commentary
उदकं व्येतीति उदकं विशेषेण एति व्याप्नोतीत्यर्थः| जतूकर्णेऽप्युक्तम्- “उदके विसर्पत् क्षीरं प्रशस्तम्” इति| वातादिदुष्टक्षीरलक्षणान्याह- श्यावेत्यादि| लवणानुरसमिति श्लेष्मदुष्टे क्षीरे दोषदूष्यसम्मूर्च्छनप्रभावाज्ज्ञेयं, येन श्लेष्मदुष्टे लवणरसता भवति; एतत्पृथग्लक्षणयोगाच्च द्वन्द्वसन्निपातदुष्टिरप्युन्नेया||५४-५५||
Adhikarana ३७ (५६) · Śloka ५६
तेषां तु त्रयाणामपि क्षीरदोषाणां प्रतिविशेषमभिसमीक्ष्य यथास्वं यथादोषं च वमनविरेचनास्थापनानुवासनानि विभज्य कृतानि प्रशमनाय भवन्ति|
पानाशनविधिस्तु दुष्टक्षीराया यवगोधूमशालिषष्टिकमुद्गहरेणुककुलत्थसुरासौवीरकमैरेयमेदकलशुनकरञ्जप्रायः स्यात्|
क्षीरदोषविशेषांश्चावेक्ष्यावेक्ष्य तत्तद्विधानं कार्यं स्यात्|
पाठामहौषधसुरदारुमुस्तमूर्वागुडूचीवत्सकफलकिराततिक्तककटुकरोहिणीसारिवाकषायाणां च पानं प्रशस्यते, तथाऽन्येषां तिक्तकषायकटुकमधुराणां द्रव्याणां प्रयोगः क्षीरविकारविशेषानभिसमीक्ष्य मात्रां कालं च|
इति क्षीरविशोधनानि||५६||
Hide commentary
चिकित्सामाह- तेषामित्यादि| प्रतिविशेषमभिसमीक्ष्येति प्रति प्रति वातादीनां कोष्ठाश्रयित्वोदीर्णत्वादिशोधनानुगुणं विशेषमभिवीक्ष्य| यथास्वमित्यनेन श्लेष्मणि वमनं, पित्ते विरेचनं, वायावास्थापनानुवासने, इत्यात्मीयमात्मीयं संशोधनं दर्शयति| यथादोषमित्यनेन प्रवृद्धे दोषेऽतिमात्रं संशोधनं, स्तोके स्तोकमात्रं दर्शयति| विभज्येति यथास्वमित्यनेन योज्यम्| ‘प्रकृतिविशेषम्’ इति यदा पाठस्तदा प्रकृतिविशेषमपि धात्र्या अवेक्ष्य वमनादीनां बहुत्वाल्पत्वविशेषः कर्तव्य इत्यर्थः| तत्तद्विधानं कार्यं स्यादिति तत्तद्वृद्धदोषप्रतिकूलमाहारविधानं कार्यं स्यात्| कषायाणामिति बहुवचनाद् व्यस्तसमस्तानां पाठादीनां कषाया गृह्यन्ते||५६||
Adhikarana ३८ (५७) · Śloka ५७
क्षीरजननानि तु मद्यानि सीधुवर्ज्यानि, ग्राम्यानूपौदकानि च शाकधान्यमांसानि, द्रवमधुराम्ललवणभूयिष्ठाश्चाहाराः, क्षीरिण्यश्चौषधयः, क्षीरपानमनायासश्च, वीरणषष्टिकशालीक्षुवालिकादर्भकुशकाशगुन्द्रेत्कटमूलकषायाणां च पानमिति (क्षीरजननानि)||५७||
Hide commentary
क्षीरिण्यश्च दुग्धिकाकलम्बिकादयो दृश्यमानक्षीराः||५७||
Adhikarana ३९ (५८) · Śloka ५८
धात्री तु यदा स्वादुबहुलशुद्धदुग्धा स्यात्तदास्नातानुलिप्ता शुक्लवस्त्रं परिधायैन्द्रीं ब्राह्मीं शतवीर्यां सहस्रवीर्याममोघामव्यथां शिवामरिष्टां वाट्यपुष्पीं विष्वक्सेनकान्तां वा बिभ्रत्योषधिं कुमारं प्राङ्मुखं प्रथमं दक्षिणं स्तनं पाययेत्|
इति धात्रीकर्म||५८||
Hide commentary
अमोघादयोऽनन्तरं व्याकृता एव| अव्यथा गुडूची||५८||
Adhikarana ४० (५९-६०) · Śloka ६०
अतोऽनन्तरं कुमारागारविधिमनुव्याख्यास्यामः- वास्तुविद्याकुशलः प्रशस्तं रम्यमतमस्कं निवातं प्रवातैकदेशं दृढमपगतश्वापदपशुदंष्ट्रिमूषिकपतङ्गं सुविभक्तसलिलोलूखलमूत्रवर्चःस्थानस्नानभूमिमहानसमृतुसुखं यथर्तुशयनासनास्तरणसम्पन्नं कुर्यात्; तथा सुविहितरक्षाविधानबलिमङ्गलहोमप्रायश्चित्तं शुचिवृद्धवैद्यानुरक्तजनसम्पूर्णम्|
इति कुमारागारविधिः||५९||
शयनासनास्तरणप्रावरणानि कुमारस्य मृदुलघुशुचिसुगन्धीनि स्युः; स्वेदमलजन्तुमन्ति मूत्रपुरीषोपसृष्टानि च वर्ज्यानि स्युः; असति सम्भवेऽन्येषां तान्येव च सुप्रक्षालितोपधानानि सुधूपितानि शुद्धशुष्काण्युपयोगं गच्छेयुः||६०||
Hide commentary
सुप्रक्षालितोपधानानीति सुधौतोत्तरप्रच्छादनानि| शुद्धशुष्काणीति धौतान्यपि यदा मलादिरागेणापि रहितानि भवन्ति शुष्काणि च तदैवोपयोज्यानि; सुधौतं ह्यार्द्रमपि स्यात्, तथा गाढराग(गि)मलादिभावितं धौतमप्यशुद्धं स्यात्, तस्मादुक्तं- शुद्धशुष्काणीति||५९-६०||
Adhikarana ४१ (६१) · Śloka ६१
धूपनानि पुनर्वाससां शयनास्तरणप्रावरणानां च यवसर्षपातसीहिङ्गुगुग्गुलुवचाचोरकवयःस्थागोलोमीजटिलापलङ्कषाशोकरोहिणीसर्पनिर्मोकाणि घृतयुक्तानि स्युः||६१||
Hide commentary
वयःस्था ब्राह्मी, गोलोमी श्वेतदूर्वा, जटिला मांसी||६१||
Adhikarana ४२ (६२) · Śloka ६२
मणयश्च धारणीयाः कुमारस्य खड्गरुरुगवयवृषभाणां जीवतामेव दक्षिणेभ्यो विषाणेभ्योऽग्राणि गृहीतानि स्युः; ऐन्द्र्याद्याश्चौषधयो जीवकर्षभकौ च, यानि चान्यान्यपि ब्राह्मणाः प्रशंसेयुरथर्ववेदविदः||६२||
Hide commentary
मणय इति मुक्तादिमणयः, अथर्ववेदोक्ताश्च| खड्गादीनां शृङ्गाग्राणि धारणीयानि स्युरिति योजना| उक्तं हि जतूकर्णे- “रुरुखड्गादीनां जीवतां दक्षिणशृङ्गाग्राणि निकृत्तानि धारयेत्” इति| जीवकर्षभकौ प्रजास्थापनोक्तौ| ओषधय ऐन्द्र्याद्या दश तत्रैवोक्ताः||६२||
Adhikarana ४३ (६३-६६) · Śloka ६६
क्रीडनकानि खलु कुमारस्य विचित्राणि घोषवन्त्यभिरामाणि चागुरूणि चातीक्ष्णाग्राणि चानास्य प्रवेशीनि चाप्राणहराणि चावित्रासनानि स्युः||६३||
न ह्यस्य वित्रासनं साधु|
तस्मात्तस्मिन् रुदत्यभुञ्जाने वाऽन्यत्र विधेयतामगच्छति राक्षसपिशाचपूतनाद्यानां नामान्याह्वयता कुमारस्य वित्रासनार्थं नामग्रहणं न कार्यं स्यात्||६४||
यदि त्वातुर्यं किञ्चित् कुमारमागच्छेत् तत् प्रकृतिनिमित्तपूर्वरूपलिङ्गोपशयविशेषैस्तत्त्वतोऽनुबुध्य सर्वविशेषानातुरौषधदेशकालाश्रयानवेक्षमाणश्चिकित्सितुमारभेतैनं मधुरमृदुलघुसुरभिशीतशङ्करं कर्म प्रवर्तयन्|
एवंसात्म्या हि कुमारा भवन्ति|
तथा ते शर्म लभन्ते चिराय|
अरोगे त्वरोगवृत्तमातिष्ठेद्देशकालात्मगुणविपर्ययेण वर्तमानः, क्रमेणासात्म्यानि परिवर्त्योपयुञ्जानः सर्वाण्यहितानि वर्जयेत्|
तथा बलवर्णशरीरायुषां सम्पदमवाप्नोतीति||६५||
एवमेनं कुमारमायौवनप्राप्तेर्धर्मार्थकौशलागमनाच्चानुपालयेत्||६६||
Hide commentary
प्रकृतीत्यादौ प्रकृतिः वातादयः, निमित्तं बाह्यं रूक्षादि वातादिकारणम् | सर्वविशेषानित्यादौ आतुरशब्देनातुर्यहेतुर्व्याधिर्गृह्यते, आश्रयशब्देन तु शरीरम्| शं कल्याणं करोतीति शङ्करम्| देशकालेत्यादौ आत्मशब्देन शरीरमुच्यते, तेन देशस्य तथा कालस्य तथा शरीरस्य च यो गुणः शीतादिस्तद्विपरीताहाराचारादिसेवायां वर्तमानः स्वस्थवृत्तं कुर्यात्| अन्यत्रापि स्वस्थवृत्ते प्रोक्तं- “देशकालादिगुणविपरीतानामाहारविहाराणां क्रियोपयोगः सम्यक्” (शा.अ.६) इति| स्वस्थवृत्तान्तरमाह- क्रमेणेत्यादि| क्षीरतः क्षीरान्ने, ततोऽन्नमेव| तत्राप्यन्ने मधुरादि यद्बालानां सात्म्यं भवति तेन क्रमेण नवेगान्धारणीयोक्तेन “उचितादहिताद्धीमान् क्रमशो विरमेन्नरः” (सू.अ.७) इत्यादिस्वस्थवृत्तोक्तेन क्रमेणोपयुञ्जान इत्यर्थः| तथा, वस्त्वन्तरसात्म्यसेवायामपि| बालस्यैवमेव व्याख्यानम्| स्वस्थवृत्ताचरणफलमाह- तथेत्यादि||६३-६६||
Adhikarana ४४ (६७-६९) · Śloka ६९
इति पुत्राशिषां समृद्धिकरं कर्म व्याख्यातम्|
तदाचरन् यथोक्तैर्विधिभिः पूजां यथेष्टं लभतेऽनसूयक इति||६७||
तत्र श्लोकौ- पुत्राशिषां कर्म समृद्धिकारकं यदुक्तमेतन्महदर्थसंहितम्|
तदाचरन् ज्ञो विधिभिर्यथातथं पूजां यथेष्टं लभतेऽनसूयकः||६८||
शरीरं चिन्त्यते सर्वं दैवमानुषसम्पदा|
सर्वभावैर्यतस्तस्माच्छारीरं स्थानमुच्यते||६९||
Hide commentary
पुत्राशिषां समृद्धिकरमिति पुत्रप्रार्थनानुरूपफलकरमित्यर्थः| पुत्राशिषामित्यध्यायार्थसङ्ग्रहश्लोकः| ज्ञ इति पुरुषविशेषणं प्राधान्यात् कृतम्| तेन पुरुषपुत्रलाभेन नार्या अपि पुत्रलाभोऽर्थादेव लभ्यते| अनुरूपपुत्रलाभे कथं मे पुत्रः स्यादित्यसूयां न वहतीत्यनसूयकः| केचिच्छारीरस्थानशब्दव्युत्पत्तिदर्शकं श्लोकं पठन्ति- शरीरमित्यादि| स च व्यक्तार्थ एव||६७-६९||
Adhikarana पुष्पिका · Śloka ८
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने जातिसूत्रीयं शारीरं नामाष्टमोऽध्यायः||८||
इति चरकसंहितायां चथुर्थं शारीरस्थानं सम्पूर्णम्|
Hide commentary
इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां शारीरस्थाने जातिसूत्रीयं शारीरं नामाष्टमोऽध्यायः||८||