Adhikarana १ (१-२) · Śloka २
अथातो वत्सककल्पं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
Hide commentary
यथोक्तसम्बन्धाद्वत्सककल्पाभिधानम्||१-२||
Adhikarana १ (१-२) · Śloka २
अथातो वत्सककल्पं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
यथोक्तसम्बन्धाद्वत्सककल्पाभिधानम्||१-२||
Adhikarana २ (३-६) · Śloka ६
अथ वत्सकनामानि भेदं स्त्रीपुंसयोस्तथा| कल्पं चास्य प्रवक्ष्यामि विस्तरेण यथातथम्||३|| वत्सकः कुटजः शक्रो वृक्षको गिरिमल्लिका| बीजानीन्द्रयवास्तस्य तथोच्यन्ते कलिङ्गकाः||४|| बृहत्फलः श्वेतपुष्पः स्निग्धपत्रः पुमान् भवेत्| श्यामा चारुणपुष्पा स्त्री फलवृन्तैस्तथाऽणुभिः ||५|| रक्तपित्तकफघ्नस्तु सुकुमारेष्वनत्ययः| हृद्रोगज्वरवातासृग्वीसर्पादिषु शस्यते||६||
🔊 Audio coming soon
वत्सकनामानि व्यवहारार्थं स्त्रीपुरुषभेदं चाह- अथेत्यादि| अत्र वत्सकस्त्रीपुरुषभेदेन यद्यपि गुणभेदः प्रयोगभेदो वा न प्रतिपादितः, तथाऽपि स्त्रीरूपवत्सकेऽपुष्पफलत्वादिविशिष्टलक्षणयुक्तेऽप्यविशेषेणोभाभ्यामेवामयनिवृत्तिः स्यादित्येतदर्थमुभयोरपि समानगुणता ज्ञातव्या||३-६||
Adhikarana ३ (७-८) · Śloka ९
काले फलानि सङ्गृह्या तयोः शुष्काणि निक्षिपेत् | तेषामन्तर्नखं मुष्टिं जर्जरीकृत्य भावयेत् ||७|| मधुकस्य कषायेण कोविदारादिभिस्तथा| निशि स्थितं विमृद्यैतल्लवणक्षौद्रसंयुतम्||८|| पिबेत्तद्वमनं श्रेष्ठं पित्तश्लेष्मनिबर्हणम्|९|
🔊 Audio coming soon
काले इति उचिते काले| शुष्काणीति पक्वशुष्काणि| तेषामन्तर्नखमित्यादिना कषायैर्नवयोगानाह| क्षौद्रसैन्धवयोगो यद्यपि सर्ववमनेष्वेव सामान्येन विहितः, तथाऽपीह ‘लवणक्षौद्रसंयुतम्’ इति वचनादुत्कर्षो लवणसैन्धवयोरभिधीयते||७-८||-
Adhikarana ४ (९-१०) · Śloka ११
अष्टाहं पयसाऽऽर्केण तेषां चूर्णानि भावयेत्||९|| जीवकस्य कषायेण ततः पाणितलं पिबेत्| फलजीमूतकेक्ष्वाकुजीवन्तीनां पृथक् तथा||१०|| सर्षपाणां मधूकानां लवणस्याथवाऽम्बुना|११|
🔊 Audio coming soon
अष्टाहमित्यादिना पञ्च चूर्णयोगानाह||९-१०||-
Adhikarana ५ (११) · Śloka ११
कृशरेणाथवा युक्तं विदध्याद्वमनं भिषक्||११||
🔊 Audio coming soon
कृशरेणेत्यादिना कृशरयोग उच्यते| अत्र च इन्द्रयवचूर्णमधिकृतत्वादेवोच्यते||११||
Adhikarana ६ (१२) · Śloka १२
तत्र श्लोकः- कषायैर्नव चूर्णैश्च पञ्चोक्ताः सलिलैस्त्रयः| एकश्च कृशरायां स्याद्योगास्तेऽष्टादश स्मृताः ||१२||
🔊 Audio coming soon
कषायैरित्यादिसङ्ग्रहश्लोको व्याख्यातार्थ एव||१२||
Adhikarana पुष्पिका · Śloka ५
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते कल्पस्थाने वत्सककल्पो नाम पञ्चमोऽध्यायः||५||
🔊 Audio coming soon
इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां कल्पस्थाने वत्सककल्पो नाम पञ्चमोऽध्यायः||५||