Skip to content

. श्यामात्रिवृत्कल्पः

Adhikarana १ (१-२) · Śloka

अथातः श्यामात्रिवृत्कल्पं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

Hide commentary

वमनार्थकल्पनानन्तरं विरेचनकल्पेषु वक्तव्येषु त्रिवृताया विरेचनद्रव्येषु सुखविरेचनतया प्रधानत्वात् त्रिवृत्कल्प एवाभिधीयते| त्रिवृताभेद एव च श्यामा, तेन श्यामायास्त्रिवृतायाश्च कल्पः श्यामात्रिवृत्कल्पः| यद्यपि चारुणमूलैव त्रिवृदत्रोत्कृष्टा वक्तव्या, तथाऽप्यध्यायसञ्ज्ञायां श्यामाया अग्रे पाठेनाशुदोषहन्तृतया श्यामायाः प्रकर्षं दर्शयति| ये चात्र योगा वक्तव्यास्तेऽरुणया वा श्यामया वा उभाभ्यां वा दोषशरीरादिबलाबलमवेक्ष्य कर्तव्याः||१-२||

Adhikarana २ (३) · Śloka

विरेचने त्रिवृन्मूलं श्रेष्ठमाहुर्मनीषिणः | तस्याः सञ्ज्ञा गुणाः कर्म भेदः कल्पश्च वक्ष्यते||३||

🔊 Audio coming soon

Hide commentary

विरेचने इत्यादौ त्रिवृन्मूलशब्देन श्याममूलाया अरुणमूलायाश्च सामान्येन मूलं गृह्यते||३||

Adhikarana ३ (४) · Śloka

त्रिभण्डी त्रिवृता चैव श्यामा कूटरणा तथा| सर्वानुभूतिः सुवहा शब्दैः पर्यायवाचकैः||४||

🔊 Audio coming soon

Hide commentary

पर्यायत्वेन वाचकैः पर्यायवाचकैः||४||

Adhikarana ४ (५-६) · Śloka

कषाया मधुरा रूक्षा विपाके कटुका च सा| कफपित्तप्रशमनी रौक्ष्याच्चानिलकोपनी||५|| सेदानीमौषधैर्युक्ता वातपित्तकफापहैः| कल्पवैशेष्यमासाद्य सर्वरोगहरा भवेत्||६||

🔊 Audio coming soon

Hide commentary

सेदानीमित्यादि| वातापहौषधयोगेन वातहन्तृत्वमविद्यमानं भवति, कफपित्तहन्तृत्वं विद्यमानमधिकं भवतीति ज्ञेयम्| कल्पवैशेष्यमिति कल्पनाविशेषम्| सर्वरोगहरेति व्यस्तसमस्तसर्वदोषारब्धरोगहरा||५-६||

Adhikarana ५ (७-९) · Śloka

मूलं तु द्विविधं तस्याः श्यामं चारुणमेव च| तयोर्मुख्यतरं विद्धि मूलं यदरुणप्रभम्||७|| सुकुमारे शिशौ वृद्धे मृदुकोष्ठे च तच्छुभम् | मोहयेदाशुकारित्वाच्छ्यामा क्षिण्वीत मूर्च्छयेत् ||८|| तैक्ष्ण्यात् कर्षति हृत्कण्ठमाशु दोषं हरत्यपि| शस्यते बहुदोषाणां क्रूरकोष्ठाश्च ये नराः||९||

🔊 Audio coming soon

Hide commentary

त्रिवृतयोर्भेदमाह- मूलं तु द्विविधमित्यादि| मुख्यतरमिति विरेचनक्रियायामेवाव्यापत्तिकरत्वाच्छ्रेष्ठतरम्| सुकुमाराः शिशवश्च यद्यप्यविरेचनीया उक्तास्तथाऽपि तेषां विधीयमानविरेचने हितमिति ज्ञेयम्| मोहयेदित्यादिना श्याममूलाया गुणकर्मणी ब्रूते| क्षिण्वीतेति धातुक्षयं कुर्यात्||७-९||

Adhikarana ६ (१०-११) · Śloka ११

गुणवत्यां तयोर्भूमौ जातं मूलं समुद्धरेत्| उपोष्य प्रयतः शुक्ले शुक्लवासाः समाहितः||१०|| गम्भीरानुगतं श्लक्ष्णमतिर्यग्विसृतं च यत्| तद्विपाट्योद्धरेद्गर्भं त्वचं शुष्कां निधापयेत्||११||

🔊 Audio coming soon

Hide commentary

यद्यपि मदनकल्प एव गुणवद्भूमिजातत्वादि सामान्येन भेषजानामुक्तमेव, तथाऽपि गम्भीरानुगतत्वादिविशेषस्य तत्रानुक्तस्येहाभिधाने सति तत्प्रसङ्गात् तत्किञ्चिदुच्यते- गुणवत्यामित्यादि| शुक्ले इति शुक्लपक्षे| गम्भीरानुगमिति दूरप्रविष्टम्| उद्धरेद्गर्भमिति मूलस्यास्थि उद्धरेत्| निधापयेदिति यथोक्तभैषज्यस्थापनविधानेन स्थापयेत्||१०-११||

Adhikarana ७ (१२) · Śloka १२

स्निग्धस्विन्नो विरेच्यस्तु पेयामात्रोषितः सुखम्|१२|

🔊 Audio coming soon

Hide commentary

पेयामात्रोषित इति पूर्वदिने पेयामात्राहारतया उषितः; यद्यपि चान्यत्र विरेचनपूर्वदिनेषु तथैवाहारो नियमितः- “स्नेहवद्द्रवमुष्णं च त्र्यहं भुक्त्वा रसौदनम्” (सू.अ.१३) इत्यनेन, तथाऽपि त्रिवृद्विरेचनप्रयोगे पूर्वदिने विशेषविधानात् पेयादानं ज्ञेयम्| किञ्चेयमेव तद्वचनात् स्निग्धोष्णमांसरससाधिता च क्रियमाणा न पूर्वोक्तस्नेहवद्द्रवौष्णमांसरसौदनविरुद्धा भवति|१२|

Adhikarana ८ (१२-१३) · Śloka १३

अक्षमात्रं तयोः पिण्डं विनीयाम्लेन ना पिबेत्||१२|| गोऽव्यजामहिषीमूत्रसौवीरकतुषोदकैः| प्रसन्नया त्रिफलया शृतया च पृथक् पिबेत्||१३||

🔊 Audio coming soon

Hide commentary

अक्षमात्रमित्यादिना नवभिरम्लादिभिर्द्रव्यैर्नवयोगानाह| तयोरिति श्यामात्रिवृदरुणत्रिवृतयोः| एतयोश्च मिलितयोः प्रत्येकं च प्रयोगा इति प्रागेव प्रतिपादितम्| अम्लेनेति काञ्जिकेन||१२-१३||

Adhikarana ९ (१४) · Śloka १४

एकैकं सैन्धवादीनां द्वादशानां सनागरम्| त्रिवृद्द्विगुणसंयुक्तं चूर्णमुष्णाम्बुना पिबेत्||१४||

🔊 Audio coming soon

Hide commentary

एकैकमित्यादिना सैन्धवादिभिर्द्वादशयोगानाह| सैन्धवादयश्च द्वादश रोगभिषग्जितीये (वि.अ.८) लवणस्कन्धोक्ता ज्ञेयाः| सनागरमिति नागरसहितं सत् प्रत्येकं सैन्धवादीनां चूर्णं द्विगुणत्रिवृताचूर्णयुक्तं पातव्यम्||१४||

Adhikarana १० (१५-१६) · Śloka १७

पिप्पली पिप्पलीमूलं मरिचं गजपिप्पली| सरलः किलिमं हिङ्गु भार्गी तेजोवती तथा||१५|| मुस्तं हैमवती पथ्या चित्रको रजनी वचा| स्वर्णक्षीर्यजमोदा च शृङ्गवेरं च तैः पृथक्||१६|| एकैकार्धांशसंयुक्तं पिबेद्गोमूत्रसंयुतम्|१७|

🔊 Audio coming soon

Hide commentary

पिप्पलीत्यादिना पिप्पल्यादिद्रव्यभेदेन मूत्रेऽष्टादशयोगानाह||१५-१६||-

Adhikarana ११ (१७) · Śloka १७

मधुकार्धांशसंयुक्तं शर्कराम्बुयुतं पिबेत्||१७||

🔊 Audio coming soon

Hide commentary

मधुकेत्यादिनैकः प्रयोगः| अयं च सङ्ग्रहोक्तयोः ‘यष्ट्यां द्वौ’ इत्यनयोरेकतरः||१७||

Adhikarana १२ (१८-१९) · Śloka २०

जीवकर्षभकौ मेदां श्रावणीं कर्काटाह्वयाम्| मुद्गमाषाख्यपर्ण्यौ च महतीं श्रावणीं तथा||१८|| काकोलीं क्षीरकाकोलीमिन्द्रां छिन्नरुहां तथा| क्षीरशुक्लां पयस्यां च यष्ट्याह्वं विधिना पिबेत्||१९|| वातपित्तहितान्येतान्यन्यानि तु कफानिले|२०|

🔊 Audio coming soon

Hide commentary

जीवकेत्यादिना चतुर्दशयोगान् तथा यष्ट्याह्वमित्येकं चाह| अयं च सङ्ग्रहोक्तयोः ‘यष्ट्यां द्वौ’ इति द्वयोरन्यतरः| क्षीरशुक्ला क्षीरविदारी| इन्द्रा कोकिलाक्षः| पयस्या अर्कपुष्पी||१८-१९||-

Adhikarana १३ (२०) · Śloka २१

क्षीरमांसेक्षुकाश्मर्यद्राक्षापीलुरसैः पृथक्||२०|| सर्पिषा वा तयोश्चूर्णमभयार्धांशिकं पिबेत्|२१|

🔊 Audio coming soon

Hide commentary

क्षीरेत्यादिना क्षीरादौ सप्त योगानाह| पीलु औत्तरपथिकं फलम्||२०||-

Adhikarana १४ (२१-३२) · Śloka ३२

लिह्याद्वा मधुसर्पिर्भ्यां संयुक्तं ससितोपलम्||२१|| अजगन्धा तुगाक्षीरी विदारी शर्करा त्रिवृत्| चूर्णितं क्षौद्रसर्पिर्भ्यां लीढ्वा साधु विरिच्यते||२२|| सन्निपातज्वरस्तम्भदाहतृष्णार्दितो नरः| श्यामात्रिवृत्कषायेण कल्केन च सशर्करम्||२३|| साधयेद्विधिवल्लेहं लिह्यात् पाणितलं ततः| सक्षौद्रां शर्करां पक्त्वा कुर्यान्मृद्भाजने नवे||२४|| क्षिपेच्छीते त्रिवृच्चूर्णं त्वक्पत्रमरिचैः सह| मात्रया लेहयेदेतदीश्वराणां विरेचनम्||२५|| कुडवांशान् रसानिक्षुद्राक्षापीलुपरुषकात्| सितोपलापलं क्षौद्रात् कुडवार्धं च साधयेत्||२६|| तं लेहं योजयेच्छीतं त्रिवृच्चूर्णेन शास्त्रवित्| एतदुत्सन्नपित्तानामीश्वराणां विरेचनम्||२७|| शर्करामोदकान् वर्तीर्गुलिकामांसपूपकान्| अनेन विधिना कुर्यात् पैत्तिकानां विरेचनम्||२८|| पिप्पलीं नागरं क्षारं श्यामां त्रिवृतया सह| लेहयेन्मधुना सार्धं श्लेष्मलानां विरेचनम्||२९|| मातुलुङ्गाभयाधात्रीश्रीपर्णीकोलदाडिमात्| सुभृष्टान् स्वरसांस्तैले साधयेत्तत्र चावपेत्||३०|| सहकारात् कपित्थाच्च मध्यमम्लं च यत् फलम्| पूर्ववद्बहलीभूते त्रिवृच्चूर्णं समावपेत्||३१|| त्वक्पत्रकेशरैलानां चूर्णं मधु च मात्रया| लेहोऽयं कफपूर्णानामीश्वराणां विरेचनम्||३२||

🔊 Audio coming soon

Hide commentary

लिह्याद्वा मध्वित्यादिनाऽष्टौ लेहानाह| लिह्याद्वेत्यादिना प्रथमो लेहः| अजगन्धेत्यादिना द्वितीयः| अजगन्धा अजमोदा| श्यामात्रिवृदित्यादिना तृतीयो लेहः| अत्र शर्करात्रिवृच्चूर्णाभ्यां समाभ्यां क्वाथपादिकाभ्यां लेहः| सक्षौद्रामित्यादिना चतुर्थः| अत्र क्षौद्रपाको योगमहिम्ना| त्रिवृच्चूर्णमात्रापादिकत्वं त्वक्पत्रादीनां, सौगन्धमात्रप्रयोजनत्वात् | ईश्वराणां विरेचनमिति वचनेन सुकुमारत्वादस्निग्धविषयतामस्य दर्शयति, ईश्वरा हि प्रायेण सुकुमाराः स्निग्धाश्च भवन्ति| कुडवांशानित्यादिः पञ्चमः| अत्र त्रिवृच्चूर्णमनिर्दिष्टमानं, तच्च प्रक्षेपन्यायाल्लेहात् पादिकं कर्तव्यम्| उत्सन्नपित्तानाम् उद्भूतपित्तानाम्| शर्करेत्यादिना सितायोगांश्चतुरोऽतिदेशानुगुण्याल्लेहानां मध्य एवाह| अत्र वर्त्यादयोऽपि शर्कराकृता एव ज्ञेयाः| अनेन विधिनेति इक्ष्वादिरससंस्कारेण त्रिवृच्चूर्णयोगेन च| पिप्पलीं नागरमित्यादिना षष्ठो लेहः| मध्यमिति अम्लकपित्थस्य मध्यं भागम्| अम्लं च यत् फलमिति मातुलुङ्गादि| पूर्ववदिति कौडविकत्वं मातुलुङ्गादिरसानां दर्शयति||२१-३२||

Adhikarana १५ (३३) · Śloka ३३

पानकानि रसान् यूषान्मोदकान् रागषाडवान्| अनेन विधिना कुर्याद्विरेकार्थं कफाधिके||३३||

🔊 Audio coming soon

Hide commentary

पानकानीत्यादिनाऽतिदेशानुगुण्यात् पानकादिपञ्चयोगानाह| रागप्रधानः षाडवो रागषाडवः| अनेन विधिनेति पूर्वलेहोक्तविधिना||३३||

Adhikarana १६ (३४-३५) · Śloka ३५

भृङ्गैलाभ्यां समा नीली तैस्त्रिवृत्तैश्च शर्करा| चूर्णं फलरसक्षौद्रशक्तुभिस्तर्पणं पिबेत्||३४|| वातपित्तकफोत्थेषु रोगेष्वल्पानलेषु च| नरेषु सुकुमारेषु निरपायं विरेचनम्||३५||

🔊 Audio coming soon

Hide commentary

भृङ्गैलाभ्यामित्यादिना तर्पणयोगं प्रथममेवाह, द्वितीयस्तु तर्पणयोगो भविष्यतीति| भृङ्गं गुडत्वक्| तैश्च शर्करेति भृङ्गलानीलीत्रिवृद्भिः| फलरसः दाडिमरसः||३४-३५||

Adhikarana १७ (३६) · Śloka ३६

शर्करात्रिफलाश्यामात्रिवृत्पिप्पलिमाक्षिकैः| मोदकः सन्निपातोर्ध्वरक्तपित्तज्वरापहः||३६||

🔊 Audio coming soon

Hide commentary

शर्करेत्यादिना मोदकः प्रथमः| तत्र च “मोदके द्विगुणो गुडः” इति वचनात् गुडशर्करां चूर्णाद्द्विगुणामिच्छन्ति||३६||

Adhikarana १८ (३७-३९) · Śloka ३९

त्रिवृच्छाणा मतास्तिस्रस्तिस्रश्च त्रिफलात्वचः| विडङ्गपिप्पलीक्षारशाणास्तिस्रश्च चूर्णिताः||३७|| लिह्यात् सर्पिर्मधुभ्यां च मोदकं वा गुडेन तु| भक्षयेन्निष्परीहारमेतच्छोधनमुत्तमम् ||३८|| गुल्मं प्लीहोदरं श्वासं हलीमकमरोचकम्| कफवातकृतांश्चान्यान् व्याधीनेतह्यपोहति||३९||

🔊 Audio coming soon

Hide commentary

त्रिवृच्छाणा इत्यादिनेह मोदके च यद्यपि पठ्यते योगः, तथाऽप्यस्य लेहेनैव ग्रहणादयमष्टमो लेहो भवति||३७-३९||

Adhikarana १९ (४०-४५) · Śloka ४६

विडङ्गपिप्पलीमूलत्रिफलाधान्यचित्रकान्| मरिचेन्द्रयवाजाजीपिप्पलीहस्तिपिप्पलीः||४०|| लवणान्यजमोदां च चूर्णितं कार्षिकं पृथक्| तिलतैलत्रिवृच्चूर्णभागौ चाष्टपलोन्मितौ||४१|| धात्रीफलरसप्रस्थांस्त्रीन् गुडार्धतुलां तथा| पक्त्वा मृद्वग्निना खादेद्बदरोदुम्बरोपमान्||४२|| गुडान् कृत्वा न चात्र स्याद्विहाराहारयन्त्रणा| मन्दाग्नित्वं ज्वरं मूर्च्छां मूत्रकृच्छ्रमरोचकम्||४३|| अस्वप्नं गात्रशूलं च कासं श्वासं भ्रमं क्षयम्| कुष्ठार्शःकामलामेहगुल्मोदरभगन्दरान्||४४|| ग्रहणीपाण्डुरोगांश्च हन्युः पुंसवनाश्च ते| कल्याणका इति ख्याताः सर्वेष्वृतुषु यौगिकाः||४५|| इति कल्याणकगुडः|४६|

🔊 Audio coming soon

Hide commentary

विडङ्गेत्यादिना द्वितीयो मोदकः||४०-४५||

Adhikarana २० (४६-४९) · Śloka ५०

व्योषत्वक्पत्रमुस्तैलाविडङ्गामलकाभयाः | समभागा भिषग्दद्याद्द्विगुणं च मुकूलकम्||४६|| त्रिवृतोऽष्टगुणं भागं शर्करायाश्च षड्गुणम्| चूर्णितं गुडिकाः कृत्वा क्षौद्रेण पलसम्मिताः||४७|| भक्षयेत् कल्यमुत्थाय शीतं चानु पिबेज्जलम्| मूत्रकृच्छ्रे ज्वरे वम्यां कासे श्वासे भ्रमे क्षये||४८|| तापे पाण्ड्वामयेऽल्पेऽग्नौ शस्ता निर्यन्त्रणाशिनः| योगः सर्वविषाणां च मतः श्रेष्ठो विरेचने||४९|| मूत्रजानां च रोगाणां विधिज्ञेनावचारितः|५०|

🔊 Audio coming soon

Hide commentary

व्योषेत्यादिना तृतीयो मोदकः| अयं मोदकस्तन्त्रान्तरे ‘अभयाद्य’ इति ख्यातः| मुकूलकं दन्ती| अत्र मुकूलादीनामेकैकद्रव्यापेक्षया द्वैगुण्यादि भवति| मधु च तावन्मात्रं यावता मोदको भवति| केचिदत्र व्योषादिमिलितचूर्णाद्दन्त्यादीनां द्वैगुण्यं वदन्ति||४६-४९||-

Adhikarana २१ (५०) · Śloka ५१

पथ्याधात्र्युरुबूकाणां प्रसृतौ द्वौ त्रिवृत्पलम्||५०|| दश तान्मोदकान् कुर्यादीश्वराणां विरेचनम्|५१|

🔊 Audio coming soon

Hide commentary

पथ्येत्यादिना चतुर्थः||५०||-

Adhikarana २२ (५१-५५) · Śloka ५५

त्रिवृद्धैमवती श्यामा नीलिनी हस्तिपिप्पली||५१|| समूला पिप्पली मुस्तमजमोदा दुरालभा| कार्षिकं नागरपलं गुडस्य पलविंशतिम्||५२|| चूर्णितं मोदकान् कुर्यादुदुम्बरफलोपमान्| हिङ्गुसौवर्चलव्योषयवानीबिडजीरकैः||५३|| वचाजगन्धात्रिफलाचव्यचित्रकधान्यकैः| मोदकान् वेष्टयेच्चूर्णैस्तान् सतुम्बुरुदाडिमैः||५४|| त्रिकवङ्क्षणहृद्बस्तिकोष्ठार्शःप्लीहशूलिनाम्| हिक्काकासारुचिश्वासकफोदावर्तिनां शुभाः ||५५||

🔊 Audio coming soon

Hide commentary

त्रिवृद्धैमवतीत्यादिना पञ्चमो मोदकः पूर्यते| वेष्टयेदिति अवचूर्णयेत्||५१-५५||

Adhikarana २३ (५६-६४) · Śloka ६४

त्रिवृतां कौटजं बीजं पिप्पलीं विश्वभेषजम्| क्षौद्रद्राक्षारसोपेतं वर्षास्वेतद्विरेचनम्||५६|| त्रिवृद्दुरालभामुस्तशर्करोदीच्यचन्दनम्| द्राक्षाम्बुना सयष्ट्याह्वसातलं जलदात्यये||५७|| त्रिवृतां चित्रकं पाठामजाजीं सरलं वचाम्| स्वर्णक्षीरीं च हेमन्ते पिष्ट्वा तूष्णाम्बुना पिबेत्||५८|| शर्करा त्रिवृता तुल्या ग्रीष्मकाले विरेचनम्| त्रिवृत्त्रायन्तिहपुषाः सातलां कटुरोहिणीम् ||५९|| स्वर्णक्षीरीं च सञ्चूर्ण्य गोमूत्रे भावयेत्त्र्यहम्| एष सर्वर्तुको योगः स्निग्धानां मलदोषहृत्||६०|| त्रिवृच्छ्यामा दुरालम्भा वत्सकं हस्तिपिप्पली| नीलिनी त्रिफला मुस्तं कटुका च सुचूर्णितम्||६१|| सर्पिर्मांसरसोष्णाम्बुयुक्तं पाणितलं ततः| पिबेत् सुखतमं ह्येतद्रूक्षाणामपि शस्यते||६२|| त्र्यूषणं त्रिफला हिङ्गु कार्षिकं त्रिवृतापलम्| सौवर्चलार्धकर्षं च पलार्धं चाम्लवेतसात्||६३|| तच्चूर्णं शर्करातुल्यं मद्येनाम्लेन वा पिबेत्| गुल्मपार्श्वार्तिनुत्सिद्धं जीर्णे चाद्याद्रसौदनम्||६४||

🔊 Audio coming soon

Hide commentary

त्रिवृतां कौटजमित्यादिना षडृतुविहितान् योगान् रूक्षाणामपि शस्यते इत्यन्तेनाह| सातला चर्मकशा| जलदात्यये शरदि| हेमन्ते यद्यपि प्रबलशीतवाते विरेचनं निषिद्धं, तथाऽपि व्याधिविषयविहितं विरेचनमेतज्ज्ञेयम्| सर्वर्तुकयोगौ अनुक्ते ऋतौ वसन्तादौ च ज्ञेयौ| त्रिवृच्छ्यामेत्यादिकोऽपि सर्वर्तुको योगः| त्र्यूषणमित्यादिश्चूर्णयोगो द्वितीयः||५६-६४||

Adhikarana २४ (६५) · Śloka ६६

त्रिवृतां त्रिफलां दन्तीं सप्तलां व्योषसैन्धवम्| कृत्वा चूर्णं तु सप्ताहं भाव्यमामलकीरसे||६५|| तद्योज्यं तर्पणे यूषे पिशिते रागयुक्तिषु|६६|

🔊 Audio coming soon

Hide commentary

त्रिवृतां त्रिफलामित्यादिकस्तर्पणयोगः| एवं सर्वर्तुकयोगेन समं द्वौ तर्पणयोगौ भवतः||६५||-

Adhikarana २५ (६६-६८) · Śloka ६८

तुल्याम्लं त्रिवृताकल्कसिद्धं गुल्महरं घृतम्||६६|| श्यामात्रिवृतयोर्मूलं पचेदामलकैः सह| जले तेन कषायेण पक्त्वा सर्पिः पिबेन्नरः||६७|| श्यामात्रिवृत्कषायेण सिद्धं सर्पिः पिबेत्तथा| साधितं वा पयस्ताभ्यां सुखं तेन विरिच्यते||६८||

🔊 Audio coming soon

Hide commentary

तुल्याम्लमित्येकं घृतं, श्यामेत्यादि द्वितीयं, श्यामात्रिवृत्कषायेणेत्यादि तृतीयम्| साधितं चेत्यादिना क्षीरयोगमेकमाह| घृतेन क्षीरेण च घृतेन क्षीरेण वैकेन मिलित्वा चत्वारो घृतक्षीरैर्भवन्ति||६६-६८||

Adhikarana २६ (६९-७१) · Śloka ७१

त्रिवृन्मुष्टींस्तु सनखानष्टौ द्रोणेऽम्भसः पचेत् | पादशेषं कषायं तं पूतं गुडतुलायुतम्||६९|| स्निग्धे स्थाप्यं घटे क्षौद्रपिप्पलीफलचित्रकैः| प्रलिप्ते मधुना मासं जातं तन्मात्रया पिबेत्||७०|| ग्रहणीपाण्डुरोगघ्नं गुल्मश्वयथुनाशनम्| सुरां वा त्रिवृतायोगकिण्वां तत्क्वाथसंयुताम्||७१||

🔊 Audio coming soon

Hide commentary

त्रिवृन्मुष्टीनित्यादिना प्रथमा सुरा, सुरां वेत्यादिना द्वितीया, एवं द्वौ सुरायोगौ भवतः| त्रिवृद्योगयुक्तं किण्वं यस्यां सा तथा||६९-७१||

Adhikarana २७ (७२-७३) · Śloka ७३

यवैः श्यामात्रिवृत्क्वाथस्विन्नैः कुल्माषमम्भसा| आसुतं षडहं पल्ले जातं सौवीरकं पिबेत्||७२|| भृष्टान् वा सतुषाञ्छुद्धान् यवांस्तच्चूर्णसंयुतान्| आसुतानम्भसा तद्वत् पिबेज्जातं तुषोदकम्||७३||

🔊 Audio coming soon

Hide commentary

यवैरित्यादिना सौवीरकतुषोदके प्राह| एतौ द्वौ काञ्जिकयोगौ| कुल्माष उत्स्विन्नयवपिष्टकम्| पल्ले इति धान्यादिराशौ| तच्चूर्णसंयुतानिति त्रिवृच्चूर्णसंयुतान्| तद्वदिति षडहं पल्ले स्थितान||७२-७३||

Adhikarana २८ (७४) · Śloka ७४

तथा मदनकल्पोक्तान् षाडवादीन् पृथग्दश| त्रिवृच्चूर्णेन संयोज्य विरेकार्थं प्रयोजयेत्||७४||

🔊 Audio coming soon

Hide commentary

तथेत्यादिना षाडवादियोगान् दशाह| दश षाडवादयो “बदरषाडवरागलेहमोदकोत्कारिकातर्पणशाकमांसरसयूषमद्यानां” (क.अ.१) इति ग्रन्थेन मदनकल्पोक्ताः||७४||

Adhikarana २९ (७५-७६) · Śloka ७६

भवतश्चात्र- त्वक्केशराम्रातकदाडिमैलासितोपलामाक्षिकमातुलुङ्गैः| मद्यैस्तथाऽम्लैश्च मनोनुकूलैर्युक्तानि देयानि विरेचनानि||७५|| शीताम्बुना पीतवतश्च तस्य सिञ्चेन्मुखं छर्दिविघातहेतोः| हृद्यांश्च मृत्पुष्पफलप्रवालानम्लं च दद्यादुपजिघ्रणार्थम्||७६||

🔊 Audio coming soon

Hide commentary

सम्प्रति दशोत्तरं योगशतमभिधाय वान्तिनिरासार्थं कृत्यत्रयेण समं विरेचनप्रयोगानाह- त्वक्केशरेत्यादि||७५-७६||

Adhikarana ३० (७७-८०) · Śloka ८०

तत्र श्लोकाः- एकोऽम्लादिभिरष्टौ च दश द्वौ सैन्धवादिभिः| मूत्रेऽष्टादश यष्ट्यां द्वौ जीवकादौ चतुर्दश||७७|| क्षीरादौ सप्त लेहेऽष्टौ चत्वारः सितयाऽपि च| पानकादिषु पञ्चैव षडृतौ पञ्च मोदकाः||७८|| चत्वारश्च घृते क्षीरे द्वौ चूर्णे तर्पणे तथा| द्वौ मद्ये काञ्जिके द्वौ च दशान्ये षाडवादिषु||७९|| श्यामायास्त्रिवृतायाश्च कल्पेऽस्मिन् समुदाहृतम्| शतं दशोत्तरं सिद्धं योगानां परमर्षिणा||८०||

🔊 Audio coming soon

Hide commentary

एकोऽम्लादिभिरित्यादिसङ्ग्रहो व्यक्तार्थः| यष्ट्यां द्वाविति ‘यष्ट्याह्वं विधिना’ इति जीवकादावेकः, मधुकेत्यादिना चापरः||७७-८०||

Adhikarana पुष्पिका · Śloka

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते कल्पस्थाने श्यामात्रिवृत्कल्पो नाम सप्तमोऽध्यायः||७||

🔊 Audio coming soon

Hide commentary

इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां कल्पस्थाने श्यामात्रिवृत्कल्पो नाम सप्तमोऽध्यायः||७||