Skip to content

. इन्द्रियानीकमिन्द्रियम्

Adhikarana १ (१-२) · Śloka

अथात इन्द्रियानीकमिन्द्रियं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

Show commentary

उद्देशक्रमानुरोधादिन्द्रियगोचरारिष्टाभिधानार्थमिन्द्रियानीकमुच्यते| इन्द्रियाणामनीकं समूहः, तमधिकृत्य कृतमिन्द्रियानीकम्||१-२||

Adhikarana २ (३-४) · Śloka

इन्द्रियाणि यथा जन्तोः परीक्षेत विशेषवित्| ज्ञातुमिच्छन् भिषङ्मानमायुषस्तन्निबोधत ||३|| अनुमानात् परीक्षेत दर्शनादीनि तत्त्वतः| अद्धा हि विदितं ज्ञानमिन्द्रियाणामतीन्द्रियम्||४||

🔊 Audio coming soon

Show commentary

दर्शनं चक्षुः; दर्शनादीनि चक्षुरादीनि पञ्चेन्द्रियाणि| इन्द्रियाणां परीक्षा न प्रत्यक्षेणेत्याह- अद्धा हीत्यादि| अद्धेति अवितथम्| इन्द्रियाणामतीन्द्रियत्वादनुमानेनैव परीक्षणमिति शेषः ||३-४||

Adhikarana ३ (५-६) · Śloka

स्वस्थेभ्यो विकृतं यस्य ज्ञानमिन्द्रियसंश्रयम् | आलक्ष्येतानिमित्तेन लक्षणं मरणस्य तत्||५|| इत्युक्तं लक्षणं सम्यगिन्द्रियेष्वशुभोदयम्| तदेव तु पुनर्भूयो विस्तरेण निबोधत||६||

🔊 Audio coming soon

Show commentary

स्वस्थेभ्य इति प्रकृतिस्थेभ्य इन्द्रियेभ्यः; ‘उत्पन्नम्’ इति शेषः| इन्द्रियसंश्रयमिति बाह्येन्द्रियजन्यम्| अनिमित्तेनेति विकृतिज्ञानजनकबाह्यहेतुव्यतिरेकेण; इन्द्रियगतिकृतज्ञानजनकदोषनिरासस्तु ‘स्वस्थेभ्यः’ इति विशेषणेनैव कृतः| अशुभोदयमिति मरणकारणम्| पुनःशब्दः प्रकाशने, यथा- “दोषाः पुनस्त्रयः” (वि.अ.१) इति| भूयःशब्दः पुनःपुनरर्थे, किंवा भूयःशब्दो महदर्थः; तेन, पुनर्भूयःशब्दयोर्भिन्नार्थत्वम्||५-६||

Adhikarana ४ (७) · Śloka

घनीभूतमिवाकाशमाकाशमिव मेदिनीम्| विगीतमुभयं ह्येतत् पश्यन् मरणमृच्छति||७||

🔊 Audio coming soon

Show commentary

घनीभूतमिति कठिनतां गतं; किंवा भूतशब्दः कृतार्थे, यथा- उपधानीभूतम्| तेन, इवशब्दश्चोपमाने भवति| अन्ये तु घनीभूतं पृथिवीरूपतां यातं वदन्ति| आकाशमिव मेदिनीमिति शून्यरूपां मेदिनीम्| विगीतमिति विपरीतत्वेन ज्ञातम्| उभयमित्यनेन यौगपद्येन पृथिव्याकाशविपरीतोपलम्भो रिष्टं, नैकैकश्येन| अयं चारिष्टमहिमा यदेवंरूपमेव रिष्टं भवति, एवमुक्तारिष्टेषु तथा तथोत्पादः स्वमहिम्नैव ज्ञेयः| एतानि चारिष्टानि सामान्येनैवेन्द्रियारिष्टाभिधायकप्रकरणलब्धान्यपि प्रायोभावित्वेन शृङ्गग्राहिकयाऽभिधीयन्ते||७||

Adhikarana ५ (८) · Śloka

यस्य दर्शनमायाति मारुतोऽम्बरगोचरः| अग्निर्नायाति चादीप्तस्तस्यायुःक्षयमादिशेत्||८||

🔊 Audio coming soon

Show commentary

दर्शनमिति चक्षुर्गोचरताम्| अम्बरगोचर इत्यनेन भूमिष्ठदेवतारूपवातदर्शनं निषेधयति| एतेन ‘एष वायुः, इत्याकारवान्’ इतिति मारुतप्रत्यक्षज्ञानमरिष्टम्| नायाति दर्शनमिति सम्बन्धः||८||

Adhikarana ६ (९) · Śloka

जले सुविमले जालमजालावतते नरः| स्थिते गच्छति वा दृष्ट्वा जीवितात् परिमुच्यते||९||

🔊 Audio coming soon

Show commentary

स्थिते इति स्थिरे| गच्छति वहमाने| येषु चेह रिष्टेषु मरणकालनियमो नोक्तस्तत्र संवत्सरमवधिर्भवति, ततः परेण हि रिष्टे मरणानभिधानात्||९||

Adhikarana ७ (१०) · Śloka १०

जाग्रत् पश्यति यः प्रेतान् रक्षांसि विविधानि च| अन्यद्वाऽप्यद्भुतं किञ्चिन्न स जीवितुमर्हति||१०||

🔊 Audio coming soon

Show commentary

प्रेतानित्यादिबहुवचनान्नैकप्रेतादिदर्शनं रिष्टमिति भावः||१०||

Adhikarana ८ (११) · Śloka ११

योऽग्निं प्रकृतिवर्णस्थं नीलं पश्यति निष्प्रभम्| कृष्णं वा यदि वा शुक्लं निशां व्रजति सप्तमीम्||११||

🔊 Audio coming soon

Show commentary

प्रकृतिवर्णस्थमिति वैवर्ण्यविकृत्यादिकारकसविषान्नवर्णादिविरहेण स्वीय एव लोहितकपिले वर्णे व्यवस्थितम्| सप्तमीं निशां व्रजति, तेनाष्टाहान्मरणम्||११||

Adhikarana ९ (१२) · Śloka १२

मरीचीनसतो मेघान्मेघान् वाऽप्यसतोऽम्बरे| विद्युतो वा विना मेघैः पश्यन् मरणमृच्छति||१२||

🔊 Audio coming soon

Show commentary

मरीचीनसत इत्यत्र प्रकरणान्मरीचिशब्देन मेघज्योतिरुच्यते| मरीचीनां विशेषणम्- असत इति| विद्युतो वा विना मेघादिति अभ्रान्तच्छटा एव सर्वदा मेघसम्बन्धोपलभ्यमाना ग्राह्या, नान्या विद्युदिति; ता हि विना मेघदर्शनमपि सुदूरात् स्वस्थैरप्युपलभ्यन्ते||१२||

Adhikarana १० (१३-१८) · Śloka १८

मृन्मयीमिव यः पात्रीं कृष्णाम्बरसमावृताम्| आदित्यमीक्षते शुद्धं चन्द्रं वा न स जीवति||१३|| अपर्वणि यदा पश्येत् सूर्याचन्द्रमसोर्ग्रहम्| अव्याधितो व्याधितो वा तदन्तं तस्य जीवितम्||१४|| नक्तं सूर्यमहश्चन्द्रमनग्नौ धूममुत्थितम्| अग्निं वा निष्प्रभं रात्रौ दृष्ट्वा मरणमृच्छति||१५|| प्रभावतः प्रभाहीनान्निष्प्रभांश्च प्रभावतः| नरा विलिङ्गान् पश्यन्ति भावान् भावाञ्जिहासवः ||१६|| व्याकृतीनि विवर्णानि विसङ्ख्योपगतानि च| विनिमित्तानि पश्यन्ति रूपाण्यायुःक्षये नराः||१७|| यश्च पश्यत्यदृश्यान् वै दृश्यान् यश्च न पश्यति| तावुभौ पश्यतः क्षिप्रं यमक्षयमसंशयम्||१८||

🔊 Audio coming soon

Show commentary

शुद्धमिति मेघानन्तरितम्| रात्रावित्यनेन दिवा वह्निनिष्प्रभत्वदर्शनमरिष्टं नैवेति दर्शयति| विलिङ्गानिति विगतसहजलिङ्गान्| तेन प्रभाव्यतिरिक्ताञ्जनादि(?)लिङ्गविपर्यये रिष्टं भवति| भावानिति प्राणान्; किंवा भावानिति पञ्चमहाभूतानि शरीररूपाणि| व्याकृतीनीति विविधाकृतीनि| विवर्णानीति विरुद्धवर्णानि| विसङ्ख्योपगतानीति विपरीतसङ्ख्यायुक्तानि| विनिमित्तानीति विगतनिमित्तानि| व्याकृत्यादिकारकहेतुव्यतिरेकेण व्याकृत्यादियुक्तरूपदर्शनमरिष्टमित्यर्थः| रूपाणीति रूपवन्ति द्रव्याणि||१३-१८||

Adhikarana ११ (१९-२०) · Śloka २०

अशब्दस्य च यः श्रोता शब्दान् यश्च न बुध्यते| द्वावप्येतौ यथा प्रेतौ तथा ज्ञेयौ विजानता ||१९|| संवृत्याङ्गुलिभिः कर्णौ ज्वालाशब्दं य आतुरः| न शृणोति गतासुं तं बुद्धिमान् परिवर्जयेत्||२०||

🔊 Audio coming soon

Show commentary

अशब्दस्येत्यादिना श्रोत्रारिष्टमाह| ज्वालायाः शब्द इव शब्दो ज्वालाशब्दः, तम्||१९-२०||

Adhikarana १२ (२१) · Śloka २१

विपर्ययेण यो विद्याद्गन्धानां साध्वसाधुताम्| न वा तान् सर्वशो विद्यात्तं विद्याद्विगतायुषम्||२१||

🔊 Audio coming soon

Show commentary

विपर्ययेणेत्यादिना घ्राणारिष्टमुच्यते| न वा तान् सर्वशो विद्यादिति सर्वथैव गन्धाञ्छुभानशुभान् वा न वेत्ति||२१||

Adhikarana १३ (२२) · Śloka २२

यो रसान्न विजानाति न वा जानाति तत्त्वतः| मुखपाकादृते पक्वं तमाहुः कुशला नरम्||२२||

🔊 Audio coming soon

Show commentary

तत्त्वत इति स्वकीयेन रूपेण| मुखपाकशब्दो रसनादोषोपलक्षणं; तेन, पित्तदुष्टरसनत्वाद्रसान्यथात्वग्राहकस्य व्युदासोऽवरुध्यते| पक्वमिति सम्पूर्णायुःकालम्||२२||

Adhikarana १४ (२३) · Śloka २३

उष्णाञ्छीतान् खराञ्छ्लक्ष्णान्मृदूनपि च दारुणान्| स्पृश्यान् स्पृष्ट्वा ततोऽन्यत्वं मुमूर्षुस्तेषु मन्यते||२३||

🔊 Audio coming soon

Show commentary

ततोऽन्यत्वमिति उष्णे शीतत्वं, श्लक्ष्णे खरत्वमित्यादि मन्यते||२३||

Adhikarana १५ (२४-२५) · Śloka २५

अन्तरेण तपस्तीव्रं योगं वा विधिपूर्वकम्| इन्द्रियैरधिकं पश्यन् पञ्चत्वमधिगच्छति||२४|| इन्द्रियाणामृते दृष्टेरिन्द्रियार्थानदोषजान्| नरः पश्यति यः कश्चिदिन्द्रियैर्न स जीवति||२५||

🔊 Audio coming soon

Show commentary

सम्प्रति सर्वेन्द्रियरिष्टं सामान्येन ब्रूते- अन्तरेणेत्यादि| अन्तरेणेति विना| योगमित्यस्य विशेषणं- विधिपूर्वकमिति; अनेन यथाविधिकृतस्यैव योगस्यातीन्द्रियज्ञाने समर्थत्वमुक्तम्| अधिकमिति अस्मदादीन्द्रियाविषयम्| पञ्चत्वमिति मरणम्| दृष्टिः उपलब्धिः, तया दृष्ट्या दृष्टिशक्तिरुपचारादुच्यते; तेन ऋते दृष्टिमिति उपलब्धिं विना; ततश्चेन्द्रियाणामुपलब्धिशाक्तिं विना य इन्द्रियैरुपलब्धुमशक्यान् पश्येदिन्द्रियैः, न स जीवति| अदोषजानित्यनेन च दोषस्वभावादिन्द्रियाशक्यार्थग्रहणं निराकरोति| यथा- अङ्गुलियन्त्रितं चक्षुर्वातदुष्ट्याऽऽसन्नवस्तुद्वयमिन्द्रियाविषयं पश्यति, तथा पित्तदुष्टरसनं गुडं न मधुरं प्रत्येतीत्यादि बोध्यम्||२४-२५||

Adhikarana १६ (२६) · Śloka २६

स्वस्थाः प्रज्ञाविपर्यासैरिन्द्रियार्थेषु वैकृतम्| पश्यन्ति येऽसद्बहुशस्तेषां मरणमादिशेत्||२६||

🔊 Audio coming soon

Show commentary

स्वस्था इति अविकृतेन्द्रियमनसः| प्रज्ञाविपर्यासैरिति शेषीभूतासुप्रभावकृतः प्रज्ञाविपर्यासः| असदिति अयथाभूतम्| बहुश इत्यनेन सकृद्दर्शनस्य नारिष्टत्वम्||२६||

Adhikarana १७ (२७) · Śloka २७

तत्र श्लोकः- एतदिन्द्रियविज्ञानं यः पश्यति यथातथम्| मरणं जीवितं चैव स भिषक् ज्ञातुमर्हति||२७||

🔊 Audio coming soon

Show commentary

इन्द्रियविज्ञानमिन्द्रियगतरिष्टविज्ञानम्| जीवितज्ञानं चेह रिष्टशून्येन्द्रियज्ञाने सति भवतीति ज्ञेयम्||२७||

Adhikarana पुष्पिका · Śloka

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने इन्द्रियानीकमिन्द्रियं नाम चतुर्थोऽध्यायः||४||

🔊 Audio coming soon

Show commentary

इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायामिन्द्रियस्थाने इन्द्रियानीकमिन्द्रियं नाम चतुर्थोऽध्यायः||४||