Skip to content

. ज्वरचिकित्सितम्

Adhikarana १ (१-२) · Śloka

अथातो ज्वरचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

Hide commentary

स्वस्थोर्जस्करमभिधाय व्याधिनिर्घातकरचिकित्सितं वक्तव्यम्| सर्वरोगप्रधानत्वेन ज्वरस्यैवादौ चिकित्सितं तत्रोच्यते| ज्वरस्य च यथा प्राधान्यं तथाऽत्रैव वक्ष्यति| ज्वरचिकित्सिताभिधायकोऽध्यायो ज्वरचिकित्सितमुच्यते, अभिधानाभिधेययोरभेदोपचारात्| एवमुत्तराध्यायेष्वपि व्याख्येयम्||१-२||

Adhikarana २ (३) · Śloka

विज्वरं ज्वरसन्देहं पर्यपृच्छत् पुनर्वसुम्| विविक्ते शान्तमासीनमग्निवेशः कृताञ्जलिः||३||

🔊 Audio coming soon

Hide commentary

विज्वरमिति विज्वरशब्दो नीरोगोपदर्शकः ; यतो ज्वरशब्देन चात्र सामान्येन रोगोऽभिमतः, यथा- “ज्वरो विकारो रोगश्च” इत्यादि| नीरोगत्वेनेह रोगप्रशमनपृच्छाश्रयतां गुरोर्ब्रवीति| ज्वरसन्देहमिति ज्वरनिदानोक्तातिरिक्तज्वरधर्मविषयं सन्देहम्| विविक्त इत्यादिना एवं गुरवः प्रष्टव्या इति दर्शयति||३||

Adhikarana ३ (४-१०) · Śloka १०

देहेन्द्रियमनस्तापी सर्वरोगाग्रजो बली| ज्वरः प्रधानो रोगाणामुक्तो भगवता पुरा||४|| तस्य प्राणिसपत्नस्य ध्रुवस्य प्रलयोदये| प्रकृतिं च प्रवृत्तिं च प्रभावं कारणानि च||५|| पूर्वरूपमधिष्ठानं बलकालात्मलक्षणम्| व्यासतो विधिभेदाच्च पृथग्भिन्नस्य चाकृतिम्||६|| लिङ्गमामस्य जीर्णस्य सौषधं च क्रियाक्रमम्| विमुञ्चतः प्रशान्तस्य चिह्नं यच्च पृथक् पृथक्||७|| ज्वरावसृष्टो रक्ष्यश्च यावत्कालं यतो यतः| प्रशान्तः कारणैर्यैश्च पुनरावर्तते ज्वरः||८|| याश्चापि पुनरावृत्तं क्रियाः प्रशमयन्ति तम्| जगद्धितार्थं तत् सर्वं भगवन्! वक्तुमर्हसि||९|| तदग्निवेशस्य वचो निशम्य गुरुरब्रवीत्| ज्वराधिकारे यद्वाच्यं तत् सौम्य! निखिलं शृणु||१०||

🔊 Audio coming soon

Hide commentary

देहेन्द्रियमनस्तापीत्यादि हेतुगर्भं ज्वरप्रधानत्वे विशेषणम्| केचिद्देहमात्रतापिनोऽर्बुदादयः, केचिन्मनस्तापिन एवातत्त्वाभिनिवेशादयः, केचिदिन्द्रियतापिन एव तिमिरादयः; अयं तु त्रितयतापी| वक्ष्यति हि- “ज्वरेणाविशता भूतं न हि किञ्चिन्न तप्यते” इति| तत्र शरीरतापित्वं सन्तापादिना, मन-इन्द्रियतापित्वं च “वैचित्त्यं” इत्यादिना वक्ष्यति| सर्वरोगाग्रज इति शारीरसर्वरोगाग्रजः; मानसास्तु रोगा ज्वरादेः प्रागवस्थिता एव सत्ययुगादावपि| बलित्वं चास्य भूरिविकारकर्तृत्वात्| प्रधानत्वं च देहमनस्तापित्वादिधर्मयोगात्| प्राणिसपत्नस्येति मारकत्वेन प्राणिशत्रोः| ध्रुवस्येति अवश्यम्भाविनः| प्रलयोदये मरणे जन्मनि च| अत्र च तमोरूपो ज्वरो ज्ञेयः| वक्ष्यति हि- “ज्वरप्रभावो जन्मादौ निधने च महत्तमः” इति| प्रकृत्यादयः समस्ताध्यायव्याकरणीया यथावसरं व्याख्येयाः| बलं च कालश्चात्मलक्षणं चेति बलकालात्मलक्षणमिति द्वन्द्वः| व्यासतो विधिभेदाच्चेति प्रपञ्चेन विधिभेदात्| यत इति येभ्यो व्यवायादिभ्यो रक्ष्यः| द्वितीयो यतःशब्दो येन हेतुना रक्षणीय इत्यर्थः| जगद्धितार्थमित्यनेन यच्च श्रुत्वा जगद्धितं चिकित्साप्रवर्तनं करिष्यामीत्यग्निवेशः कारुणिकतां शिष्यगुणेषूपादेयामात्मनो दर्शयति| ज्वराधिकारे इत्यादिर्निर्देशग्रन्थः||४-१०||

Adhikarana ४ (११) · Śloka ११

ज्वरो विकारो रोगश्च व्याधिरातङ्क एव च| एकोऽर्थो नामपर्यायैर्विविधैरभिधीयते||११||

🔊 Audio coming soon

Hide commentary

ज्वरो विकार इत्यादि| प्रश्नग्रन्थासूचितस्यापि पर्यायकथनं वृत्तमेव, तथाऽपि पुनःप्रकरणवशादभिधानमिति न पुनरुक्तदोष इति ब्रुवते; किंवा ज्वरस्यैवाधिकृतस्यैतत्पर्यायकथनम्| विकारादयश्च यद्यपि सामान्येन रोगाभिधायिनः, तथाऽपि प्रकरणादिह ज्वर एव विशिष्टे व्याधौ वर्तन्ते| यथा- ब्राह्मणं भोजयेदित्यत्र भोजनप्रकरणात् सामान्योऽपि ब्राह्मणशब्द आमन्त्रितब्राह्मणे वर्तते| तस्मिंश्च व्याख्याने ज्वरादिपर्यायाभिधेयरूपा विवृतिः ‘ज्वरो विकारः’ इत्यादिना उच्यत इति नापि पुनरुक्तिशङ्का| नामशब्दः प्रकाशने, तेन एकोऽर्थो नाम ज्वरलक्षणो रोगलक्षणो वा पर्यायैरुच्यत इत्यर्थः| पर्याया एकार्थाभिधायिनो भिन्नजातीयाः शब्दाः; किंवा, नामपर्यायैरिति नामरूपैः पर्यायैः; व्यवह्रियमाणैः पर्यायैरित्यर्थः| यतः पर्यायोऽव्यवह्रियमाणोऽपि भवति, यथा- आयुषि नित्यगानुबन्धशब्दरूपौ पर्यायावुक्तौ||११||

Adhikarana ५ (१२) · Śloka १२

तस्य प्रकृतिरुद्दिष्टा दोषाः शारीरमानसाः| देहिनं न हि निर्दोषं ज्वरः समुपसेवते||१२||

🔊 Audio coming soon

Hide commentary

प्रकृतिशब्देनेह स्वभावः, तथा यत्कारणमयं कार्यं भवति तदुच्यते; तत्र प्रत्यासन्नकारणरूपां प्रकृतिमाह- तस्येत्यादि| उद्दिष्टेति सङ्क्षेपादभिहिता| दोषाणां ज्वरप्रकृतित्वे हेतुमाह- देहिनमित्यादि| सर्वदोषाव्यभिचाराज्ज्वरस्य दोषप्रकृतित्वं सिद्धमिति भावः| देहिशब्देन शरीरवान् पुरुषोऽभिप्रेतो न केवल आत्मा, तस्य निर्विकारत्वात्| ‘समुपसेवते’ इति भाषया भूतविशेषरूपस्य ज्वरस्यावेशं दर्शयति; विग्रहश्च ज्वरस्य स्वतन्त्रे वक्तव्य एव- ‘ज्वरस्त्रिपादस्त्रिशिराः’ इत्यादिनोक्तः||१२||

Adhikarana ६ (१३) · Śloka १४

क्षयस्तमो ज्वरः पाप्मा मृत्युश्चोक्ता यमात्मकाः| पञ्चत्वप्रत्ययान्नॄणां क्लिश्यतां स्वेन कर्मणा||१३|| इत्यस्य प्रकृतिः प्रोक्ता, ...|१४|

🔊 Audio coming soon

Hide commentary

स्वभावरूपां ज्वरप्रकृतिमाह- क्षय इत्यादि| देहक्षयहेतुत्वात् क्षयः, मोहकर्तृत्वात्तमः, पापनिर्वर्त्यत्वात् पाप्मा, मृत्युकारणत्वान्मृत्युर्ज्वर एवोच्यते| अत्र च ‘उक्ताः’ इति तथा ‘यमात्मकाः’ इति बहुवचनमेकस्मिन्नर्थे ज्वरे क्षयकर्तृत्वादिधर्मभेदविवक्षया ज्ञेयम्| यमात्मका इति यमस्वरूपाः; यमो हि यथा मारकः, तथाऽमी मारका इत्यतो यमात्मका इत्यर्थः| किंवा ‘यमात्मजाः’ इति पाठः; अत्रापि यमपुत्रत्वेन पितृसमानक्रियाकर्तृत्वमुच्यते| किञ्च क्षयादयः स्वनामप्रसिद्धा यमस्वरूपा भिन्ना एव ज्वरात्, इह तु ज्वरस्य यमात्मकत्वाभिधानप्रसङ्गात्तेऽप्युच्यन्ते| अस्मिन् व्याख्याने मृत्युशब्देन मृत्युसूचकं रिष्टमुच्यते, यतो न मृत्युरेव मृत्युकरो भवति| यमात्मकत्वे हेतुमाह- पञ्चत्वप्रत्ययान्नॄणां क्लिश्यतां स्वेन कर्मणेति| एतेन, यथा यमः स्वकर्मक्लिश्यमानानां प्राणिनां पञ्चत्वे हेतुर्भवति, तथा क्षयादयोऽपि प्राक्तनकर्मणा क्लिश्यमानान् मारयन्तीत्यर्थः| ‘पञ्चत्वप्रत्यया’ इति वा पाठः, तथाऽपि स एवार्थो ज्ञेयः ||१३||-

Adhikarana ७ (१४) · Śloka १४

... प्रवृत्तिस्तु परिग्रहात्| निदाने पूर्वमुद्दिष्टा रुद्रकोपाच्च दारुणात्||१४||

🔊 Audio coming soon

Hide commentary

क्रमागतां प्रवृत्तिमाह- प्रवृत्तिस्त्वित्यादि| प्रवृत्तिः प्रथमाविर्भावः| परिग्रहादिति जनपदोद्ध्वंसनीये “भ्रश्यति तु कृतयुगे” (वि.अ.३) इत्यादिना परिग्रहाज्ज्वरादिप्रवृत्तिमुक्तां स्मारयति| तथा रुद्रकोपाद्दारुणाद्या प्रवृत्तिर्ज्वरस्य, सा निदाने पूर्वमुद्दिष्टा; “ज्वरस्तु खलु महेश्वरकोपप्रभवः” (नि.अ.१) इति ग्रन्थेन निदाने सङ्क्षेपेणोक्तेत्यर्थः| पूर्वमिति पदेन रुद्रकोपप्रभवा प्रथमा, परिग्रहप्रभवा तु द्वितीया प्रवृत्तिरिति दर्शयति||१४||

Adhikarana ८ (१५-२५) · Śloka २५

द्वितीये हि युगे शर्वमक्रोधव्रतमास्थितम्| दिव्यं सहस्रं वर्षाणामसुरा अभिदुद्रुवुः||१५|| तपोविघ्नाशनाः कर्तुं तपोविघ्नं महात्मनः| पश्यन् समर्थश्चोपेक्षां चक्रे दक्षः प्रजापतिः||१६|| पुनर्माहेश्वरं भागं ध्रुवं दक्षः प्रजापतिः| यज्ञे न कल्पयामास प्रोच्यमानः सुरैरपि||१७|| ऋचः पशुपतेर्याश्च शैव्य आहतयश्च याः| यज्ञसिद्धिप्रदास्ताभिर्हीनं चैव स इष्टवान्||१८|| अथोत्तीर्णव्रतो देवो बुद्ध्वा दक्षव्यतिक्रमम्| रुद्रो रौद्रं पुरस्कृत्य भावमात्मविदात्मनः||१९|| सृष्ट्वा ललाटे चक्षुर्वै दग्ध्वा तानसुरान् प्रभुः| बालं क्रोधाग्निसन्तप्तमसृजत् सत्रनाशनम्||२०|| ततो यज्ञः स विध्वस्तो व्यथिताश्च दिवौकसः| दाहव्यथापरीताश्च भ्रान्ता भूतगणा दिशः||२१|| अथेश्वरं देवगणः सह सप्तर्षिभिर्विभुम्| तमृग्भिरस्तुवन् यावच्छैवे भावे शिवः स्थितः||२२|| शिवं शिवाय भूतानां स्थितं ज्ञात्वा कृताञ्जलिः| भिया भस्मप्रहरणस्त्रिशिरा नवलोचनः||२३|| ज्वालामालाकुलो रौद्रो ह्रस्वजङ्घोदरः क्रमात्| क्रोधाग्निरुक्तवान् देवमहं किं करवाणि ते||२४|| तमुवाचेश्वरः क्रोधं ज्वरो लोके भविष्यसि| जन्मादौ निधने च त्वमपचारान्तरेषु च||२५||

🔊 Audio coming soon

Hide commentary

यतश्च परिग्रहभवत्वं विस्तरोक्तं रुद्रकोपभवत्वं च सङ्क्षेपोक्तम्, अतो रुद्रकोपोद्भवत्वमेव विवृणोति- द्वितीये हीत्यादि| विना क्रोधं चर्यते यत् तदक्रोधव्रतम्| तपोविघ्नाशनाः तपोविघ्नोपजीविनः| ध्रुवमिति अवश्यदेयम्| सत्रनाशनमिति यज्ञनाशनम्| शैवे इति कल्याणकरे| अपचारान्तरेष्विति ज्वरनिदानसेवासु| अत्र च सत्ययुगेऽपि जन्ममरणयोर्मोहरूपज्वरस्य विद्यमानत्वाद् द्वितीययुगेऽपि जन्मरणयोर्भवनं न ज्वरस्यानुपपन्नम्| तेन, यो जन्मादौ निधने च व्यवस्थितः स इदानीमपचारान्तरेषु भविष्यसीति योजनीयम्| किंवा, सत्ययुगे च जन्ममरणयोर्मोहरूपज्वरो निष्कल्मषाणां पुरुषाणां नासीदेवेति मन्तव्यम्| कल्याणकरस्वरूपस्यापि शिवस्य प्राणिपीडाकरज्वरविसर्गः प्राणिनामेवाधर्मप्रभावादवश्योपभोग्यां पीडां दृष्ट्वेति मन्तव्यम्||१५-२५||

Adhikarana ९ (२६) · Śloka २७

सन्तापः सारुचिस्तृष्णा साङ्गमर्दो हृदि व्यथा| ज्वरप्रभावो, जन्मादौ निधने च महत्तमः||२६|| प्रकृतिश्च प्रवृत्तिश्च प्रभावश्च प्रदर्शितः|२७|

🔊 Audio coming soon

Hide commentary

सन्ताप इत्यादिना प्रभावमाह| प्रभावश्चानौपाधिका शक्तिरुच्यते, तेन सन्तापादीनां प्रभावव्यपदेशः| यतश्चायं रोगप्रभावः, ततो वातश्लेष्मकृतेऽपि ज्वरेऽनुष्णरूपस्तापो भवति, तथा जन्मादौ निधने च महत्तमोरूपत्वं ज्वरप्रभाव इत्यर्थः| प्रकृतिश्चेत्यादिना प्रकरणसङ्ग्रहं करोति, ‘इत्यस्य प्रकृतिः प्रोक्ता’ इत्यनेन तु प्रस्तावसङ्ग्रहः कृतः, अध्यायान्ते त्वध्यायार्थसङ्ग्रहं करिष्यति| एतच्च पुनः पुनः सङ्ग्रहकरणं तन्त्रर्मत्वाच्छिष्यबुद्धिसमाधानार्थं कृतं ज्ञेयम्||२६||-

Adhikarana १० (२७) · Śloka २७

निदाने कारणान्यष्टौ पूर्वोक्तानि विभागशः||२७||

🔊 Audio coming soon

Hide commentary

निदान इत्यादिना कारणमाह| अष्टौ कारणानीति रूक्षादयस्त्रयो ज्वरारम्भकवातादिकर्तृत्वेनोक्ताः, तथा “यथोक्तानां हेतूनां मिश्रीभावात्” (नि.अ.१) इत्यादिना तु द्वन्द्वानां सन्निपातस्य च कारणमुक्तं, तथा आगन्तोः कारणं तत्र कण्ठरवेणैवोक्तम्| अन्ये तु वातादीनेव ज्वरारम्भकसम्प्राप्तिप्राप्तान् “इह खल्वष्टाभ्यः कारणेभ्यो ज्वरः सञ्जायते” (नि.अ.१) इत्यादिग्रन्थेन निदानोक्तान् कारणानीति पदेन ग्राहयन्ति; प्रकृतिशब्देन तु बीजभूता अव्यवहितसम्बद्धा दोषा गृह्यन्ते, रूक्षादयस्तु दोषप्रकोपकारणभूता न ज्वरकारणानीति वदन्ति| तस्मिन् पक्षे रूक्षादीनां ज्वरहेतुभूतानामिहाग्रहणं स्यात्; रूक्षादीनां तु ज्वरे हेतुत्वं दोषप्रकोपावान्तरव्यापारत्वेन भवत्येव, यथा- यागस्य स्वर्गकर्तृत्वम्| द्विविधं च कारणं रोगाणां- व्यवहितं रूक्षादि, प्रत्यासन्नं च दोषा इति शास्त्रसिद्धान्त एव| ‘निदाने’ इति पदेनैव पूर्वत्वे लब्धे, पूर्वोक्तानीति पदमिह वक्तव्यज्वरनिदानव्युदासार्थम्||२७||

Adhikarana ११ (२८-२९) · Śloka २९

आलस्यं नयने सास्रे जृम्भणं गौरवं क्रमः| ज्वलनातपवाय्वम्बुभक्तिद्वेषावनिश्चितौ||२८|| अविपाकास्यवैरस्ये हानिश्च बलवर्णयोः| शीलवैकृतमल्पं च ज्वरलक्षणमग्रजम्||२९||

🔊 Audio coming soon

Hide commentary

यद्यपि निदानेऽपि पूर्वरूपाण्युक्तानि, तथाऽपीह प्रकरणवशाद्यनि प्रायः प्रादुर्भवन्ति, तानि पठ्यन्ते- आलस्यमित्यादि||२८-२९||

Adhikarana १२ (३०) · Śloka ३०

केवलं समनस्कं च ज्वराधिष्ठानमुच्यते| शरीरं, बलकालस्तु निदाने सम्प्रदर्शितः||३०||

🔊 Audio coming soon

Hide commentary

केवलमिति कृत्स्नं, तेन बाह्येन्द्रियाणामप्यवरोधः| अनेन देहमनसी अप्यवश्यं ज्वरेण तप्येते इत्युक्तम्| बलस्याभिवृद्धिलक्षणस्य ज्वराभ्यागमनलक्षणस्य वा कालो बलकालः, स च निदाने “दिवसान्ते घर्मान्ते जरणान्ते वा ज्वरागमनमभिवृद्धिर्वा” (नि.अ.१) इत्येवम्प्रकारग्रन्थेनोक्तः||३०||

Adhikarana १३ (३१) · Śloka ३१

ज्वरप्रत्यात्मिकं लिङ्गं सन्तापो देहमानसः| ज्वरेणाविशता भूतं न हि किञ्चिन्न तप्यते||३१||

🔊 Audio coming soon

Hide commentary

ज्वरप्रत्यात्मिकं लिङ्गमित्यादिनाऽऽत्मलक्षणमाह| आत्मलिङ्गमिति अव्यभिचारिलक्षणम्| इह सन्तापशब्देन सामान्येन पीडा वक्तव्या, सा च देहविशेषणाभिधानात्तापलक्षणैव भवति, मनसि तु तथा चेन्द्रियेषु देहगुणगृहीतेषु वैचित्त्यादिरूपा “वैचित्त्यं” इत्यादिग्रन्थवक्तव्या ज्ञेया| ज्वरप्रभावे सन्तापोऽचिन्त्यकार्यतयोक्तः, इह तु ज्वराव्यभिचारित्वेनेति विशेषः| अन्ये तु, अरुच्यादियुक्तः सन्तापः प्रभावो भवति, अरुच्यादिरहितस्त्वात्मलक्षणं भवति| सन्तापस्य प्रत्यात्मलक्षणत्वे हेतुमाह- ज्वरेणेत्यादि| भूतशब्देन सर्वप्राणिन उच्यन्ते| ततश्च ज्वरेण भूतमाविशता न किञ्चिन्मनुष्यादि न तप्यते, किन्तु तप्यत एव, ततो ज्वराव्यभिचारितया ज्वरात्मलक्षणमेव तदुपपन्नमिति भावः| अत्र पक्षे गजादिष्वपि कूटपाकलादिशब्दाभिधेयेषु ज्वरेष्वन्तर्दाहरूपा वेदना भवतीति ज्ञेयम्| किंवा, अत्र देहसन्तापौ मिलितौ वा पर्यायेण वा ज्वरात्मलिङ्गं भवेतां; न तावत् पर्यायेण, तथा हि सति क्वचिज्ज्वरे देहसन्ताप एव क्वचिज्ज्वरे मनःसन्ताप एव भवतीति वाच्यं, ततश्चानयोर्व्यभिचारान्नाव्यभिचारिलिङ्गत्वं; तस्मान्मिलितावेव देहमनःसन्तापावात्मलक्षणं ज्वरस्येति वाच्यम्; एवं व्यवस्थिते कस्मात् सर्वज्वरेषु देहमनस्तापौ भवत इत्याह- ज्वरेणेत्यादि| ज्वरेण भूतमाविशता नहि किञ्चिच्छरीरं मनो वा न तप्यते, किन्तु तप्यत एव; अतो देहमनस्तापः सर्वज्वरेषूपपन्न इत्यर्थः| अस्मिंश्च पक्षे शारीरमानसज्वरभेदोपदर्शने “शारीरो जायते पूर्वं देहे” इत्यादिना शारीरस्य यद्देहमात्राश्रयत्वं मानसस्य यन्मनोमात्राश्रयत्वं वक्तव्यं तत् सूक्ष्मकालाभिप्रयेण; तस्मिंश्च सूक्ष्मकाले ज्वर उभयातापकोऽप्यनन्तरोत्पद्यमानोभयतापित्वधर्मापेक्षया भवत्येव देहमनस्तापी, यथा प्रथमक्षणोत्पन्नं द्रव्यं निर्गुणम्, अनन्तरोत्पद्यमानं सगुणं द्रव्यमुक्तं द्रव्यलक्षणे||३१||

Adhikarana १४ (३२-३५) · Śloka ३५

द्विविधो विधिभेदेन ज्वरः शारीरमानसः| पुनश्च द्विविधो दृष्टः सौम्यश्चाग्नेय एव वा||३२|| अन्तर्वेगो बहिर्वेगो द्विविधः पुनरुच्यते| प्राकृतो वैकृतश्चैव साध्यश्चासाध्य एव च||३३|| पुनः पञ्चविधो दृष्टो दोषकालबलाबलात्| सन्ततः सततोऽन्येद्युस्तृतीयकचतुर्थकौ||३४|| पुनराश्रयभेदेन धातूनां सप्तधा मतः| भिन्नः कारणभेदेन पुनरष्टविधो ज्वरः||३५||

🔊 Audio coming soon

Hide commentary

द्विविध इत्यादिना विधिभेदमाह| एते च भेदा विवरणे व्यक्ता भविष्यन्ति| सौम्य इति शीतकारणारब्धत्वेन सोमदेवताकः, आग्नेयोऽप्युष्णकारणारब्धत्वेनाग्निदेवताकः| पुनः पञ्चविधो दृष्ट इत्यत्र न पञ्चविधेन भेदेन सर्वज्वरव्याप्तिः, यतः “प्रायशः सन्निपातेन दृष्टः पञ्चविधो ज्वरः” इति वक्ष्यति| ततश्च केवलवातादिज्वराणां न सन्ततादिभेदेन ग्रहणं; तथा सन्ततादीनां कालनियमो वक्तव्यः, ततश्च ये कालानियतास्ते सन्ततादिभिन्ना एव; तस्माद्दोषकालबलाबलाद्ये ज्वरा भवन्ति, ते पञ्चद्विधा एवेति वाक्यार्थः| दोषकालबलाबलादिति दोषकृतात् कालबलाबलात्; कालबलाबले ज्वरकालप्रकर्षाप्रकर्षौ| तत्र सन्तते ज्वरे बलवता दोषेण सप्ताहादिः प्रकृष्टत्वाद्बलवान् कालो नियम्यते, सततके तु सन्ततकालापेक्षया हीनबलेन दोषेणाबलो ज्वरकालः, स ह्यहोरात्रे द्विकालेनात्र व्यापको भवति, तथाऽयमेव सततकज्वरकालो हीनबलकालान्येद्युष्कापेक्षया बलवान् भवति; एवमन्येद्युष्कादिज्वरकालोऽपि व्याख्येयः | किंवा, दोषकालो दुष्टिकालो ज्वरकाल इत्यर्थः, तस्य बलाबलात् प्रकर्षाप्रकर्षादित्यर्थः| कालप्रकर्षाप्रकर्षनियमाश्च व्याख्याता एव| अन्ये तु, दोषश्च कालश्च दोषकालौ, तयोर्बलाबलादिति वदन्ति| तत्र दोषबलात् कालबलाच्च सन्ततो भवति; यदुक्तं- “कालदूष्यप्रकृतिभिर्दोषस्तुल्यो हि सन्ततम्” इत्यादिना| दोषकालबलत्वमबलत्वं च विवरणग्रन्थेनोक्तं; तथा दोषस्याबलत्वं सप्रत्यनीकतया सततकादिषु भवति, तथा ज्वरवेगविगमे च सततकादौ कालस्याबलत्वं भवति| अत्र पक्षे दोषकालबलाबलाभ्यां सर्वज्वरा व्याप्यन्ते, ततश्च सन्ततादिपञ्चज्वरनियमो दुर्घटः स्यात्| अन्ये तु व्युत्क्रमाभिधानेन ‘दोषबलाबलकालात्’ इति कृत्वा व्याख्यानयन्ति| एतच्चाशब्दं व्याख्यानम्| तृतीयकचतुर्थकाविति समासनिर्देशेन तृतीयचतुर्थकयोरागन्त्वनुबन्धत्वादिसाधारणधर्मयोगितां दर्शयति||३२-३५||

Adhikarana १५ (३६) · Śloka ३७

शारीरो जायते पूर्वं देहे, मनसि मानसः| वैचित्त्यमरतिर्ग्लानिर्मनसस्तापलक्षणम्||३६|| इन्द्रियाणां च वैकृत्यं ज्ञेयं सन्तापलक्षणम्|३७|

🔊 Audio coming soon

Hide commentary

‘पृथग्भिन्नस्य चाकृतिम्’ इति प्रश्नस्य क्रमागतमुत्तरं- शारीर इत्यादि| पूर्वमिति वचनादुत्तरकालं शारीरो ज्वरो मनस्यपि भवति, एवं मानसो मनस्युत्पादानन्तरं देहेऽपि भवतीति ज्ञेयम्| एवं च यद्यपि सर्वज्वराणां देहमनोधिष्ठानत्वं, तथाऽपि यो देहाश्रयी प्रथमं शरीरदोषेण बलवता प्रारब्धः स्यात् स तद्दोषचिकित्सयैव चिकित्स्यः; एवं मानसोऽपि मानसदोषचिकित्सयैव चिकित्स्य इति दर्शयितुं शारीरमानसभेदोपदर्शनं साधु| ननु शारीरस्य ज्वरस्य सन्तापलक्षणं व्यक्तं, मानसस्य तु ज्वरस्य कथं सन्तापः, यत्तस्य लक्षणं भवतीत्याह- वैचित्त्यमित्यादि| वैचित्त्यादयो मानससन्तापशब्देनोच्यन्ते, तापशब्दस्य पीडावचनत्वादित्यर्थः| मनस्तापप्रस्तावेन ‘देहेन्द्रियमनस्तापी’ इत्यत्र य इन्द्रियतापो ज्वरस्योक्तस्तं च व्याचक्षते- इन्द्रियाणां चेत्यादि| वैकृत्यमिति स्वभावान्यथात्वं, तच्चार्थाग्रहणाद्यनुमेयम्||३६||-

Adhikarana १६ (३७) · Śloka ३८

वातपित्तात्मकः शीतमुष्णं वातकफात्मकः||३७|| इच्छत्युभयमेतत्तु ज्वरो व्यामिश्रलक्षणः|३८|

🔊 Audio coming soon

Hide commentary

सौम्याग्नेयभेदयोः प्रतिलोमव्याख्याक्रमेण विवरणं- वातपित्तात्मक इत्यादि| वातापित्तात्मक इति वातपित्तकारणकः| अत्र च केवलवातारब्धः, तथा केवलकफारब्धश्च शीतस्वभावकारणतया सौम्यत्वेनोष्णमिच्छति, तथा वातकफात्मकोऽप्युपलभ्यते, तथा केवलपित्तात्मकोऽप्याग्नेयत्वादनुष्णाभिप्राय इति व्यक्तं, तेनेदानीं वातपित्तात्मकः शीतेन वातेन पित्तेन चोष्णेन कृतस्तस्य दुरुपपन्नायामाग्नेयतायां ब्रुवते- वातपित्तात्मकः शीतमिति| एवं व्यवस्थिते वातपित्तज्वरे चेद्वायुः संयोगमहिम्ना विपरीतानुकारी दृष्टः, तत् किं कफसंयुक्तोऽपि वायुर्विपरीतमर्थं करोतीत्याशङ्क्याह- उष्णं वातकफात्मक इति; वातकफात्मको विशेषेणोष्णमिच्छतीत्यर्थः| व्यामिश्रलक्षण इति उक्तव्यामिश्रदोषलक्षणज्वरव्यतिरिक्तः कफपैत्तिकः सान्निपातिकश्च, स चोष्णशीताभिप्रायतया सौम्याग्नेयराशिद्वयातिरिक्त एव ज्वरः; यथा- अङ्गुलीद्वयव्यतिरिक्तं त्र्यङ्गुलम्| एवं शारीरमानसमिश्रीभावेऽपि चिन्तनीयम्| ज्वर इच्छतीति वचनं ज्वरयुक्तपुरुषेच्छाया ज्वरे उपचाराज्ज्ञेयम्||३७||-

Adhikarana १७ (३८) · Śloka ३९

योगवाहः परं वायुः संयोगादुभयार्थकृत्||३८|| दाहकृत्तेजसा युक्तः, शीतकृत् सोमसंश्रयात्|३९|

🔊 Audio coming soon

Hide commentary

वातपित्तज्वरे शीताभिप्रायतामुपपादयितुं वायोर्योगवाहितामाह- योगवाह इत्यादि| योगाद्योगिनो गुणं वहतीति योगवाहः| परमिति अत्यर्थम्| संयोगादिति उष्णेन शीतेन च संयोगात्| उभयार्थकृदिति यथासङ्ख्यमिह उष्णशीतार्थकारी| एतदेव विभजते- दाहकृदित्यादि| ‘पित्तेन’ इति वक्तव्ये यत् ‘तेजसा’ इति करोति, तेन बाह्येनाप्यातपादिना युक्तो वायुर्दाहं करोतीति लोकप्रसिद्धमर्थं दृष्टान्तार्थं सूचयति| शीतकारित्वं तु वायोः शीतत्वेनैव यत् सिद्धं तत् सोमरूपकफपानीयादियोगाद्विशेषेण भवतीति ज्ञेयम्||३८||-

Adhikarana १८ (३९-४१) · Śloka ४१

अन्तर्दाहोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः||३९|| सन्ध्यस्थिशूलमस्वेदो दोषवर्चोविनिग्रहः| अन्तर्वेगस्य लिङ्गानि ज्वरस्यैतानि लक्षयेत्||४०|| सन्तापोऽभ्यधिको बाह्यस्तृष्णादीनां च मार्दवम्| बहिर्वेगस्य लिङ्गानि सुखसाध्यत्वमेव च||४१||

🔊 Audio coming soon

Hide commentary

अन्तर्दाह इत्यादिना अन्तर्वेगबहिर्वेगविवरणम्||३९-४१||

Adhikarana १९ (४२-४६) · Śloka ४७

प्राकृतः सुखसाध्यस्तु वसन्तशरदुद्भवः| उष्णमुष्णेन संवृद्धं पित्तं शरदि कुप्यति||४२|| चितः शीते कफश्चैवं वसन्ते समुदीर्यते| वर्षास्वम्लविपाकाभिरद्भिरोषधिभिस्तथा||४३|| सञ्चितं पित्तमुद्रिक्तं शरद्यादित्यतेजसा| ज्वरं सञ्जनयत्याशु तस्य चानुबलः कफः||४४|| प्रकृत्यैव विसर्गस्य तत्र नानशनाद्भयम्| अद्भिरोषधिभिश्चैव मधुराभिश्चितः कफः||४५|| हेमन्ते, सूर्यसन्तप्तः स वसन्ते प्रकुप्यति| वसन्ते श्लेष्मणा तस्माज्ज्वरः समुपजायते||४६|| आदानमध्ये तस्यापि वातपित्तं भवेदनु|४७|

🔊 Audio coming soon

Hide commentary

प्राकृत इत्यादिना प्रकरणेन प्राकृतवैकृतविवरणम्| तत्रेह कालस्वभावप्रकुपितो दोषः प्रकृतिरुच्यते , तज्जातीयाच्च दोषादुद्भूतो ज्वरः प्राकृत उच्यते| यद्वक्ष्यति- “कालप्रकृतिमुद्दिश्य निर्दिष्टः प्राकृतो ज्वरः” इति| एवमपि वर्षाकालप्रकृतिभूतेन वातेन कृतो ज्वरः प्राकृतः स्यात्, तन्निषेधायाह- सुखसाध्यस्तु वसन्तशरदुद्भव इति| तुशब्दोऽवधारणे| तेन, य एव सुखसाध्यो वसन्तशरदुद्भवः प्राकृतः स एवेह प्राकृतशब्देनोच्यत इत्यर्थः; वर्षाकालभववातिकस्तु न सुखसाध्य इति, तेन नासौ प्राकृत उच्यते| प्राकृतवैकृतसञ्ज्ञाव्यवहारो हि यथाक्रमं सुखसाध्य-कृच्छ्रसाध्यबोधप्रयोजनकः ; तद्यदि कृच्छ्रेऽपि वातजे प्राकृतत्वं स्यात्तदा किं प्राकृतव्यवहारेण| यतश्च वसन्तशरदुद्भवावेव प्राकृतौ, तेन तयोरेव ‘उष्णं’ इत्यादिन ग्रन्थेन विवरणं प्रपञ्चेन करिष्यति न वातिकस्येति| अत्रार्थे जतूकर्णे- “सौम्याग्नेयावुष्णशीतकामौ, जीर्णस्त्रयोदशे| दिने, वसन्तशरदोः प्राकृतोऽन्यत्र वैकृतः” इति| यद्यपि वसन्तजः पूर्वमुक्तस्तथाऽपि प्रतिलोमव्याख्यया ‘उष्णं’ इत्यादिना शरदुद्भवं निर्दिशति| उष्णं पित्तं चितं वर्षासु शरद्युदीर्णेनातपेन कुप्यतीति विज्ञेयम्| शीते इति हेमन्ते| उष्णमित्यादिना निर्दिष्टस्य वर्षास्वित्यादि भाष्यम्| ननु यदि वर्षास्वम्लविपाकित्वं सर्वासामोषधीनां, तदा प्रतिद्रव्याभिहितविपाकस्याव्यवस्था स्यात्, तस्य कालवशेनाम्लत्वदर्शनात् | मैवं, यथा निष्ठापाकेन यन्मधुरं द्रव्यं, तद्यथाऽऽवस्थिकेन पाकेनाम्लं भवति, यदुक्तं- “परं तु पच्यमानस्य विदग्धस्याम्लभावतः” (चि.अ.१५) इत्यादिना, तथेहापि कालमहिम्नाऽम्लविपाकित्वमपि भविष्यति; एवं हेमन्ते यन्मधुरपाकित्वमोषधीनां तत्रापि व्याख्येयम्| अन्ये तु, वर्षासु वह्निमान्द्याद्विदाहनिमित्तमोषधीनामम्लविपाकित्वमिति ब्रुवते| यदुक्तं- “वर्षासु विदहत्यन्नं........| तदा हि सर्वमेवान्नं प्रायो ह्यस्य विदह्यते” इति| एवमपि तैर्हेमन्ते मधुरपाकित्वं नोक्तमेव; तस्मात् कालमहिम्नैव पाकान्तरमोषधीनां साधु| आश्विति पित्तस्याशुकारित्वाच्छीघ्रं जनयति| अनुबल इति अनुबन्धरूपः कफो भवति| एवं ज्वरस्य लङ्घनीयतामाह- प्रकृत्यैवेत्यादि| विसर्गस्य प्रकृत्येति विसर्गरूपकालजया प्रकृत्या सौम्यादिरूपयाऽनशनाद्भयं न भवति| विसर्गो हि सौम्यः स्निग्धः , तत्र बलवन्तश्च पुरुषाः तेन तत्रोत्पन्नो ज्वर आमाशयसमुत्पन्नत्वेन लङ्घनार्हो लङ्घनीय एव| किंवा, ‘प्रकृत्यैव विसर्गाच्च’ इति पाठः| तदा प्रकृत्येति ज्वरकारणेन कफपित्तरूपेण लङ्घनहेतुना, तथा विसर्गाच्च कालाल्लङ्घने भयं नास्ति| उक्तं हि- “कफपित्ते द्रवे धातू सहेते लङ्घनं महत्” इति| हेमन्ते चितः कफो वसन्ते कुप्यतीति युक्तमेव, यतो दोषचयादिक्रमे शिशिरो नास्त्येव| आदानमध्ये तस्यापि वातपित्तं भवेदन्विति तस्यापि वसन्तजकफज्वरस्य वातपित्तम् अन्विति अनुबन्धरूपं भवति| तत्र वसन्तादौ दुर्बलं वातपित्तं, मध्ये तु मध्यं, अन्ते तु प्रबलं भवति; एवं शरद्यपि कफो भवति||४२-४६||-

Adhikarana २० (४७) · Śloka ४८

आदावन्ते च मध्ये च बुद्ध्वा दोषबलाबलम्||४७|| शरद्वसन्तयोर्विद्वाञ्ज्वरस्य प्रतिकारयेत्|४८|

🔊 Audio coming soon

Hide commentary

तदेतान् विशेषान् बुद्ध्वा चिकित्सा कर्तव्येति दर्शयन्नाह- आदावित्यादि| शरद्वसन्तयोरादौ मध्ये चान्ते च ज्वरस्य दोषबलाबलं बुद्ध्वेति योजना||४७||-

Adhikarana २१ (४८-४९) · Śloka ४९

कालप्रकृतिमुद्दिश्य निर्दिष्टः प्राकृतो ज्वरः||४८|| प्रायेणानिलजो दुःखः कालेष्वन्येषु वैकृतः| हेतवो विविधास्तस्य निदाने सम्प्रदर्शिताः||४९||

🔊 Audio coming soon

Hide commentary

कालप्रकृतिमुद्दिश्य निर्दिष्टः प्राकृतो ज्वर इति प्राकृत ज्वरबोधिका परिभाषा| कालप्रकृतिमिति कालस्वभावसम्बद्धं दोषम्; उद्दिश्येति कारणत्वेन लक्ष्यीकृत्य| नन्वेवमपि वर्षाकालप्रकृतिना वातेन कृतो ज्वरः प्राकृतः स्यादित्याह- प्रायेणानिलजो दुःख इति; अनिलजो ज्वरः कालप्रकृतिसमानोऽपि दुःखो भवति, विरुद्धोपक्रमत्वात्| यतो ज्वरस्यामाशयोत्थत्वेन लङ्घनादि पथ्यं, तच्च वायोरपथ्यमिति विरुद्धोपक्रमत्वाद्दुःखत्वेन न प्राकृतत्वं वातिकस्य; यतः प्राकृतत्वेऽपि यः सुखसाध्यः स एव प्राकृत उच्यत इति भावः| एवं तावत् सर्वो वातजो वैकृतः, तथा वसन्तशरद्व्यतिरिक्तकालभवः | कफजस्तथा पैत्तिकोऽपि वैकृत एवेति दर्शयन्नाह- कालेष्वन्येषु वैकृत इति; ‘कफजः पित्तजो वा ’ इति शेषः| अथ वैकृतस्य ज्वरस्य को हेतुरित्याह- हेतव इत्यादि| अन्ये तु ब्रुवते- वर्षाकाले वातजोऽपि प्राकृतः, किन्त्वयं कृच्छ्रः, वसन्तशरदुद्भवस्तु प्राकृतः सुखसाध्यो भवतीति विशेषः; तथा च वाग्भटेन- “प्राकृतश्चानिलोद्भवः” (वा. नि.अ.२) इति कृतमिति||४८-४९||

Adhikarana २२ (५०) · Śloka ५०

बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्रवः|५०|

🔊 Audio coming soon

Hide commentary

बलवत्स्वित्यादिना सुखसाध्यज्वरविवरणम्| ज्वरोपद्रवा यद्यपि साक्षान्न पठिताः, तथाऽपि सामान्योपद्रवलक्षणयुक्ता रोगा इह ज्ञेयाः; यदुक्तम्- “उपद्रवस्तु खलु रोगोत्तरकालजो रोगाश्रयो रोग एव स्थूलोऽणुर्वा, रोगात् पश्चाज्जायत इत्युपद्रवसञ्ज्ञः” (चि.अ.२१) इति; तन्त्रान्तरे च- “हिक्काश्वासकासतृष्णाच्छर्द्यतीसारमूर्च्छाङ्गभेदारोचकाः कृच्छ्रविट्कता चेति दशोपद्रवा ज्वरमुपद्रवन्ति” इत्युक्ताः|५०|

Adhikarana २३ (५०) · Śloka ५१

हेतुभिर्बहुभिर्जातो बलिभिर्बहुलक्षणः||५०|| ज्वरः प्राणान्तकृद्यश्च शीघ्रमिन्द्रियनाशनः|५१|

🔊 Audio coming soon

Hide commentary

ननु बलिभिर्बहुभिश्च हेतुभिर्जातो बहुलक्षण एव भविष्यति, तत् किं ‘बहुलक्षणः’ इति पदेन? उच्यते- पुरुषस्याग्निबलादिविशेषेण दोषहेतवो यथोक्तदोषगुणा अपि न बहुलक्षणं रोगं कुर्वन्ति, तथा सम्प्राप्तिविशेषाभावाच्च न बहुलक्षणत्वं भवति| यदुक्तम्- “एकं द्वौ त्रीन् बहून् वाऽपि देहे धात्वादियोगतः| दर्शयन्ति विकारांस्तु कुपिताः पवनादयः” इति| शीघ्रमिति उत्पन्नमात्र एव||५०||-

Adhikarana २४ (५१) · Śloka ५२

सप्ताहाद्वा दशाहाद्वा द्वादशाहात्तथैव च||५१|| सप्रलापभ्रमश्वासस्तीक्ष्णो हन्याज्ज्वरो नरम्|५२|

🔊 Audio coming soon

Hide commentary

सप्ताहाद्वेत्यादि| सप्ताहाद्वातोत्तरः सप्रलापभ्रमश्वासस्तीक्ष्णो हन्ति, एवङ्गुण एव पैत्तिको दशाहात्, तथैवङ्गुण एव कफजो द्वादशाहाद्धन्ति, शीघ्रतम-शीघ्रतर-शीघ्रविकारकारित्वाद्वातपित्तकफानामिति वर्णयन्ति| वाशब्दश्च विकल्पार्थः; तेन सप्ताहादिष्वप्यर्वागपि परेण वा हननं लक्ष्यते| अन्ये तु सप्ताहात् सप्रलापः, दशाहात् सभ्रमः, द्वादशाहात् सश्वासो हन्तीति व्याख्यानयन्ति||५१||-

Adhikarana २५ (५२) · Śloka ५३

ज्वरः क्षीणस्य शूनस्य गम्भीरो दैर्घरात्रिकः||५२|| असाध्यो बलवान् यश्च केशसीमन्तकृज्ज्वरः|५३|

🔊 Audio coming soon

Hide commentary

गम्भीरः अन्तर्वेगः; किंवा, गम्भीरधातुस्थः | दैर्घरात्रिकः दीर्घकालानुबन्धी; किंवा दीर्घां रात्रिं मरणरूपां करोतीति दैर्घरात्रिकः||५२||-

Adhikarana २६ (५३-६०) · Śloka ६१

स्रोतोभिर्विसृता दोषा गुरवो रसवाहिभिः||५३|| सर्वदेहानुगाः स्तब्धा ज्वरं कुर्वन्ति सन्ततम्| दशाहं द्वादशाहं वा सप्ताहं वा सुदुःसहः||५४|| स शीघ्रं शीघ्रकारित्वात् प्रशमं याति हन्ति वा| कालदूष्यप्रकृतिभिर्दोषस्तुल्यो हि सन्ततम्||५५|| निष्प्रत्यनीकः कुरुते तस्माज्ज्ञेयः सुदुःसहः| यथा धातूंस्तथा मूत्रं पुरीषं चानिलादयः||५६|| युगपच्चानुपद्यन्ते नियमात् सन्तते ज्वरे| स शुद्ध्या वाऽप्यशुद्ध्या वा रसादीनामशेषतः||५७|| सप्ताहादिषु कालेषु प्रशमं याति हन्ति वा| यदा तु नातिशुध्यन्ति न वा शुध्यन्ति सर्वशः||५८|| द्वादशैते समुद्दिष्टाः सन्ततस्याश्रयास्तदा| विसर्गं द्वादशे कृत्वा दिवसेऽव्यक्तलक्षणम्||५९|| दुर्लभोपशमः कालं दीर्घमप्यनुवर्तते| इति बुद्ध्वा ज्वरं वैद्य उपक्रामेत्तु सन्ततम् ||६०|| क्रियाक्रमविधौ युक्तः प्रायः प्रागपतर्पणैः|६१|

🔊 Audio coming soon

Hide commentary

स्रोतोभिरित्यादिना सन्ततादिभेदमाह| गुरव इति वृद्धाः| दशाहमित्यादि दशाहादीन् व्याप्य| सुदुःसहः ‘भवति’ इति शेषः| शीघ्रमिति दशाहादय एव प्रभूततरकालान्तरापेक्षया शीघ्रशब्दवाच्याः| दशाहादिविकल्पश्च यथाक्रमं पित्तकफानिलोत्तरसन्निपातारब्धत्वात् सन्ततज्वरस्य ज्ञेयः| यदुक्तमन्यत्रापि- “पित्तकफानिलवृद्ध्या दशदिवस-द्वादशाह- सप्ताहात्| हन्ति विमुञ्चति वाऽऽशु त्रिदोषजो धातुमलपाकात्” इति| तथा “दश-द्वादश-सप्ताहैः पित्तश्लेष्मानिलाधिकः| दग्ध्वोष्मणा धातुमलान् हन्ति मुञ्चति वा ज्वरः” इति| हननमोचनविकल्पस्तु रसादीनामप्यशुद्ध्या शुद्ध्या च वक्तव्यः| कस्मादेवमयं दुःसहः शीघ्रकारी च सन्ततो भवतीत्याह- कालेत्यादि| कालः वर्षादिः, दूष्यः रसादिः, प्रकृतिः देहप्रकृतिः श्लेष्मप्रकृत्यादिका| ननु कालादितुल्यता दोषस्य कदाचिदेव सम्भवति, यथा- वसन्ते, श्लेष्मप्रकृतौ, मेदसि दूष्ये, कफो दोषः; एवं शरदि पित्तमपि ज्ञेयम्; इतरेषां तु त्रिदोषादीनां कालादितुल्यत्वं दुष्प्रापम्; अतस्तत्कृतसन्ततः कथं भवतु, सन्ततश्च द्वादशाश्रयत्वेन त्रिदोषज एव वक्तव्यः| उच्यते- तुल्य इत्यभिधायापि यत् ‘निष्प्रत्यनीकः’ इति करोति, तेन कालाद्यनुगुणतामेव कालादितुल्यतां स्फोटयति | कालादीनां चासमानानामपि बलवता दोषेण परिगृहीतानां प्रतीपार्थकरणासामर्थ्येनानुगुणतैव भवति; यथा- बलवतो राज्ञो हृदयेन प्रतिकूला अपि क्षुद्रराजानोऽनुगुणा एव भवन्ति| किञ्च, त्रिदोषारब्ध एवास्मन्मते सन्ततः, तस्य चान्यतरं दोषं प्रति कालादीनां तुल्यत्वं सम्भवत्येव| अत्रैके ‘तस्माज्ज्ञेयः सुदुःसहः’ इत्यतोऽनन्तरं ‘यथा धातून्’ इत्यादि पठन्ति, इतश्च ‘प्रायः प्रागपतर्पणैः’ इत्यन्तं पठित्वा ‘रक्तधात्वाश्रयः’ इत्यादिना सततकादिलक्षणं पठन्ति| अन्ये तु- ‘सुदुःसहः’ इति पठित्वा सततान्येद्युष्कलक्षणे पठन्ति, तदनु ‘यथा धातून्’ इत्यादिग्रन्थं, ततः पुनराचार्यान्तरमतेनान्येद्युष्कादिज्वरत्रयलक्षणं पठन्ति| तत्र प्रथमपाठक्रमे ‘यथा धातून्’ इत्यादिना सन्ततस्योत्पादादिक्रमं ब्रुवते| धातूनिति रसादिधातुसप्तकम्| रसदुष्ट्यभिधानेन विशेषेण रसदुष्टिर्ज्ञेया| यथेति येन प्रकारेण गुरुत्वस्तब्धत्वादिना| युगपदिति एककालम्| नियमादिति सर्वानेव धात्वादीन् सर्व एव दोषाश्चानुपद्यन्ते| स शुद्ध्या वेत्यादि| स सन्ततः; यदा सर्वे रसादयः सर्वथा विशुद्धा भवन्ति तदा प्रशाम्यति सप्ताहादिषु, यदा रसादयः सर्वे सर्वथा वाऽविशुद्धा भवन्ति तदा हन्तीत्यर्थः| अथ यदा स्तोका शुद्धिस्तदा का विधेत्याह- यदा त्वित्यादि| नातिशुध्यन्तीति सर्व एव नातिविशुद्धा भवन्ति सावशेषदोषा भवन्तीत्यर्थः| न वा शुध्यन्ति सर्वश इति रसादिषु मध्ये कतिचिच्छुध्यन्ति, कतिचिच्चाविशुद्धा वर्तन्त इत्यर्थः| द्वादशेति सप्त धातवस्त्रयो दोषा मूत्रं पुरीषं च| दोषाणां चेह शुद्धिः प्रकृतिगमनेन ज्ञेया| द्वादशाश्रयत्वेन सन्ततस्यैकदोषारब्धत्वं यदुच्यते, तन्निरस्तमेव ज्ञेयम्| विसर्गमिति परित्यागम्| विसर्गस्वरूपमाह- अव्यक्तलक्षणमिति; अव्यक्तं लक्षणं यस्य तमव्यक्तलक्षणं विसर्गम्; एतेन, तदाऽपि ज्वरो लीनोऽस्त्येव, परं लक्षणानि तस्य व्यक्तानि न भवन्तीति दर्शयति; तदनु त्रयोदशदिनादारभ्य दीर्घकालमनुवर्तते, ततो दुर्लभोपशमो भवतीति युक्तमुक्तम्| एभिश्च धात्वादिद्वादशाश्रयित्व-दशाहादिव्यापकत्वादिभिर्धर्मैः सन्ततो भिन्न एव वातादिज्वरेभ्यः कालानियमेन द्वित्र्यादिदिनेषु व्यवच्छेदेनानुसक्तेभ्यः| यस्तु तन्त्रान्तरे “तथा सन्तत एवान्यः स्वल्पदुर्बलकारणः| एकदोषो द्विदोषो वा स्वल्पोपद्रवलक्षणः|| अतुल्यदूष्यप्रकृतिः” इत्यादिना ग्रन्थेनोच्यते, सोऽस्मादन्य एवेति तन्त्रान्तरेऽप्यन्यशब्दप्रयोगात् प्रतिपादितमिति न विरोधः||५३-६०||-

Adhikarana २७ (६१-६२) · Śloka ६२

रक्तधात्वाश्रयः प्रायो दोषः सततकं ज्वरम्||६१|| सप्रत्यनीकः कुरुते कालवृद्धिक्षयात्मकम्| अहोरात्रे सततको द्वौ कालावनुवर्तते||६२||

🔊 Audio coming soon

Hide commentary

सततकं विवृणोति- रक्तधात्वाश्रय इत्यादि| प्रयोग्रहणात् सततको रक्तव्यतिरिक्तं मांसादिधातुमप्याश्रयत इति दर्शयति| सप्रत्यनीक इति कालादिषु मध्येऽन्यतमः प्रत्यनीकः| कालवृद्धिक्षयात्मकमिति काले वृद्धिक्षयोचिते काले वृद्धिः क्षयश्च यस्य स कालवृद्धिक्षयात्मा| तेन , दोषानुगुणे काले ज्वरो भवति, दोषानुगुणकालव्यतिरिक्ते च काले क्षयो भवति| ज्वरस्य कालप्रकृतिदूष्याणां मध्येऽन्यतमाद्बलप्राप्तौ सत्यामपि दोषसम्प्राप्ति महिम्ना हि कालभावित्वनियमो ज्ञेयः||६१-६२||

Adhikarana २८ (६३-६७) · Śloka ६७

कालप्रकृतिदूष्याणां प्राप्यैवान्यतमाद्बलम्| अन्येद्युष्कं ज्वरं दोषो रुद्ध्वा मेदोवहाः सिराः||६३|| सप्रत्यनीको जनयत्येककालमहर्निशि| दोषोऽस्थिमज्जगः कुर्यात्तृतीयकचतुर्थकौ||६४|| गतिर्द्व्येकान्तराऽन्येद्युर्दोषस्योक्ताऽन्यथा परैः| अन्येद्युष्कं ज्वरं कुर्यादपि संश्रित्य शोणितम्||६५|| मांसस्रोतांस्यनुगतो जनयेत्तु तृतीयकम्| संश्रितो मेदसो मार्गं दोषश्चापि चतुर्थकम् ||६६|| अन्येद्युष्कः प्रतिदिनं दिनं हित्वा तृतीयकः| दिनद्वयं यो विश्रम्य प्रत्येति स चतुर्थकः||६७||

🔊 Audio coming soon

Hide commentary

मेदोवहा इत्यत्र मेदोवहनाडीरोधादेव मेदोदुष्टिर्ज्ञेया| उक्तं हि- “तेषां स्रोतसां रोधात् स्थानस्थाश्चैव मार्गगाश्च शरीरधातवः प्रकोपमापद्यन्ते” (वि.अ.५) इति| ‘मांसस्रोतांस्यनुसृतः’ इत्यादि तृतीयकचतुर्थकलक्षणं केचित् पठन्ति| अत्रापि स्रोतोदुष्ट्या धातुदुष्टिरवगन्तव्या| ये तु तृतीयकचतुर्थकयोर्दूष्यप्रतिपादकं ग्रन्थं न पठन्ति, तेषां तन्त्रान्तरप्रत्ययाद्दूष्यावरोधः| तृतीयकचतुर्थकसञ्ज्ञयैव तृतीयदिनचतुर्थदिनभावित्वं ज्ञेयम्||६३-६७||

Adhikarana २९ (६८-६९) · Śloka ६९

अधिशेते यथा भूमिं बीजं काले च रोहति| अधिशेते तथा धातुं दोषः काले च कुप्यति||६८|| स वृद्धिं बलकालं च प्राप्य दोषस्तृतीयकम्| चतुर्थकं च कुरुते प्रत्यनीकबलक्षयात्||६९||

🔊 Audio coming soon

Hide commentary

ज्वराणां विच्छेदाभ्यागमे दृष्टान्तमाह- अधिशेते इत्यादि| अधिशेते इति अधिष्ठाय तिष्ठति| धातुमिति सततकादिदूष्यत्वेन पठितं रक्तादिधातुम्| काले इति स्वकाले| यदि स्वकाले ज्वरं करोति दोषः, तदा तृतीयकचतुर्थकयोः किमिति विश्रामदिनेऽपि दोषानुगुणे पूर्वाह्णादिकाले न करोतीत्याह- स वृद्धिं चेत्यादि| न केवलं कालमात्रमपेक्षते, किन्तु वृद्धिमप्यपेक्षते तृतीयकादिकरणे दोषः; सा च वृद्धिस्तृतीयके त्र्यहेण, चतुर्थके चतुरहेणैव भवतीति भावः| प्रत्यनीकस्य कालप्रकृत्यादेर्दोषविरुद्धस्य बलक्षयः; तेन दोषवृद्ध्या यदा प्रत्यनीकस्य क्षयो भवति तदा ज्वरयतीत्यर्थः||६८-६९||

Adhikarana ३० (७०) · Śloka ७०

कृत्वा वेगं गतबलाः स्वे स्वे स्थाने व्यवस्थिताः| पुनर्विवृद्धाः स्वे काले ज्वरयन्ति नरं मलाः||७०||

🔊 Audio coming soon

Hide commentary

अथ सततकादौ यथा वृद्धो दोषो ज्वरवेगं जनयति, तस्य यथोपशमो भवति, तदाह- कृत्वेत्यादि| सततकादौ दोषा वेगं कृत्वा गतबला भवन्ति, गतबलाश्च पुनः स्वे स्वे रक्तादौ स्थाने स्थिता भवन्ति, पुनस्त एव वृद्धाः स्वे काले ज्वरयन्ति||७०||

Adhikarana ३१ (७१-७२) · Śloka ७२

कफपित्तात्त्रिकग्राही पृष्ठाद्वातकफात्मकः| वातपित्ताच्छिरोग्राही त्रिविधः स्यात्तृतीयकः||७१|| चतुर्थको दर्शयति प्रभावं द्विविधं ज्वरः| जङ्घाभ्यां श्लैष्मिकः पूर्वं शिरस्तोऽनिलसम्भवः||७२||

🔊 Audio coming soon

Hide commentary

दोषोद्रेकविशेषेण तृतीयकचतुर्थकयोः प्रभावमाह- कफपित्तादित्यादि| पृष्ठमभीति पृष्ठात्, पृष्ठग्राहीत्यर्थः; किंवा, पृष्ठादिति ल्यब्लोपे पञ्चमी, तेन पृष्ठमधिष्ठायेत्यर्थः| जङ्घाभ्यां पूर्वमिति जङ्घयोः प्रथमं पीडां करोति| अत्र च न स्वप्रधानः पैत्तिकश्चतुर्थकः पित्तगृध्रसीवद्भवत्येवानभिधानादिति मन्तव्यं; हारीते तु पित्तजन्यत्वं यदुक्तं तदनुबन्धरूपपित्तजन्यत्वं, पृथक्प्रभावाकर्तृत्वात्; न हि प्रभावश्चतुर्थकाभ्युपगमविरोधी ||७१-७२||

Adhikarana ३२ (७३) · Śloka ७३

विषमज्वर एवान्यश्चतुर्थकविपर्ययः| त्रिविधो धातुरेकैको द्विधातुस्थः करोति यम्||७३||

🔊 Audio coming soon

Hide commentary

सम्प्रति मध्ये अहनी ज्वरयत्यादावन्ते च यो मुञ्चति स चतुर्थकविपर्ययत्वेन चतुर्थकग्रहणगृहीत एवेति दर्शयन्नाह- विषमेत्यादि| त्रिविधो धातुरिति वातादिः| द्विधातुस्थ इति अस्थिमज्जगतः| अयं च विषमज्वर इवेति सामान्येनोक्तं, तथाऽपि चतुर्थकस्य प्रकाररूपविषमज्वर एवेति मन्तव्यम्| अत्र तन्त्रान्तरम्- “अस्थिमज्जोभयगते चतुर्थकविपर्ययः| त्र्यहाद्द्व्यहं ज्वरयति ह्यादावन्ते च मुञ्चति” इति||७३||

Adhikarana ३३ (७४) · Śloka ७४

प्रायशः सन्निपातेन दृष्टः पञ्चविधो ज्वरः| सन्निपाते तु यो भूयान् स दोषः परिकीर्तितः||७४||

🔊 Audio coming soon

Hide commentary

चतुर्थकविपर्ययेण संयुक्तपञ्चविधज्वराणां समानं धर्ममाह- प्रायश इत्यादि| प्रायशोग्रहणात् सततकादीनां द्वन्द्वादिजन्यत्वमपि सूचयति| ननु, यदि सन्निपातारब्धत्वमेषां तर्हि यदुच्यते चतुर्थके श्लैष्मिकत्वादि, तत् कथमित्याह - सन्निपाते तु यो भूयानित्यादि; यत ‘आगन्तुरनुबन्धो हि प्रायशो विषमज्वर’ इति ग्रन्थेन भूतानुबन्धो वक्तव्यः; जतूकर्णेऽपि तृतीयकचतुर्थकविपर्ययावुक्त्वाऽभिहितं- “विषमज्वरास्त्रिदोषजत्वेऽप्यधिकदोषलब्धाख्याः” इति| एते पञ्चापि ज्वराः केषाञ्चिद्विषमज्वरत्वेन सम्मताः| तथाहि- विषमत्वं विषम(वेग)कालत्वेन भवति; यदुक्तमन्यत्र- “विषमो विषमारम्भक्रियाकालोऽनुषङ्गवान्” (वा. नि.अ.२) इति| सन्तते तु द्वादशाहविसर्गेण त्रयोदशाहे पुनरनुबन्धात् कालेवैषम्यमस्ति, तेन सोऽपि विषम इति| अन्ये तु, सन्ततं परित्यज्य सततकादींश्चतुरो विषमज्वरानिच्छन्ति; यतः सन्तते कालवैषम्यं तादृशं नास्ति; उक्तं च खरनादेन- “ज्वराः पञ्च मयोक्ता ये पूर्वं सन्ततकादयः| चत्वारः सन्ततं हित्वा ज्ञेयास्ते विषमज्वराः” इति| अन्ये तु- तृतीयकचतुर्थकावेव विषमौ, विषमाणां चिरेणोत्पादात्; यदाह दारुवाहः- “सूक्ष्मसूक्ष्मतरास्येषु दूरदूरतरेषु च| दोषो रक्तादिमार्गेषु शनैरल्पं चिरेण यत्|| याति देहं न वा(ऽ)शेषं भूयिष्ठं प्रतिपद्यते| क्रमोऽयं तेन विच्छिन्नसन्तापो लक्ष्यते ज्वरे” इत्याहुः||७४||

Adhikarana ३४ (७५-८३) · Śloka ८३

ऋत्वहोरात्रदोषाणां मनसश्च बलाबलात्| कालमर्थवशाच्चैव ज्वरस्तं तं प्रपद्यते||७५|| गुरुत्वं दैन्यमुद्वेगः सदनं छर्द्यरोचकौ| रसस्थिते बहिस्तापः साङ्गमर्दो विजृम्भणम्||७६|| रक्तोष्णाः पिडकास्तृष्णा सरक्तं ष्ठीवनं मुहुः| दाहरागभ्रममदप्रलापा रक्तसंस्थिते||७७|| अन्तर्दाहः सतृण्मोहः सग्लानिः सृष्टविट्कता| दौर्गन्ध्यं गात्रविक्षेपो ज्वरे मांसस्थिते भवेत्||७८|| स्वेदस्तीव्रा पिपासा च प्रलापो वम्यभीक्ष्णशः| स्वगन्धस्यासहत्वं च मेदःस्थे ग्लान्यरोचकौ||७९|| विरेकवमने चोभे सास्थिभेदं प्रकूजनम्| विक्षेपणं च गात्राणां श्वासश्चास्थिगते ज्वरे||८०|| हिक्का श्वासस्तथा कासस्तमसश्चातिदर्शनम्| मर्मच्छेदो बहिः शैत्यं दाहोऽन्तश्चैव मज्जगे||८१|| शुक्रस्थानगतः शुक्रमोक्षं कृत्वा विनाश्य च| प्राणं वाय्वग्निसोमैश्च सार्धं गच्छत्यसौ विभुः||८२|| रसरक्ताश्रितः साध्यो मेदोमांसगतश्च यः| अस्थिमज्जगतः कृच्छ्रः शुक्रस्थो नैव सिद्ध्यति||८३||

🔊 Audio coming soon

Hide commentary

सम्प्रति सन्ततज्वर एव यथा सततकादिरूपो भवति, तथा सततकादयः सन्ततादिरूपा भवन्ति, तदाह- ऋत्वहोरात्रेत्यादि| बलाबलादिति मनोऽन्तेन सम्बध्यते, बलं चाबलं च बलाबलम्| अर्थवशादिति कर्मवशात्| ऋत्वादीनां बलात्तथा ऋत्वाद्यबलाज्ज्वरस्तं तं सततादिज्वरोक्तं कालं प्रपद्यते| तत्र ऋतुबलाद्वातोत्तरः सततको वर्षाकालजः प्रत्यनीकां शरदं प्राप्य अन्येद्युष्कादिरूपो भवति| अहोरात्रबलाबलाबलात् कालविशेषप्राप्तिर्यथा- वसन्तस्य मध्येष्वहोरात्रेषु वातिकश्चातुर्थिको जातो यः स वसन्तस्य पश्चिमान्यहोरात्राणि रूक्षाणि प्राप्य बलवान् तृतीयकादिरूपो भवति, तथोक्तदिनेष्वेव श्लैष्मिकः सततको जातः शेषदिनेषु श्लेष्मप्रत्यनीकेषु अन्येद्युष्कादिरूपो भवति| दोषबलाबलाद्दुष्टहेतुसेवाभूताज्ज्वरपरावृत्तिर्युक्तैव| मनोबलात् सततज्वरी मनोनिवृत्त्यादिना अन्येद्युष्कादिज्वरवान् भवति; मनोदौर्बल्याद्भयादिना चतुर्थकादिज्वरी तृतियकादिज्वरवान् भवति| कर्मवशाज्ज्वरपरावृत्तौ शुभकर्मणा दुःखज्वरपरावृत्त्या यो यः सुखः स भवति; पापकर्मणा तु दुःखज्वरो भवतीति ज्ञेयम्||७५-८३||

Adhikarana ३५ (८४-८८) · Śloka ८९

हेतुभिर्लक्षणैश्चोक्तः पूर्वमष्टविधो ज्वरः| समासेनोपदिष्टस्य व्यासतः शृणु लक्षणम्||८४|| शिरोरुक् पर्वणां भेदो दाहो रोम्णां प्रहर्षणम्| कण्ठास्यशोषो वमथुस्तृष्णा मूर्च्छा भ्रमोऽरुचिः||८५|| स्वप्ननाशोऽतिवाग्जृम्भा वातपित्तज्वराकृतिः| शीतको गौरवं तन्द्रा स्तैमित्यं पर्वणां च रुक्||८६|| शिरोग्रहः प्रतिश्यायः कासः स्वेदाप्रवर्तनम्| सन्तापो मध्यवेगश्च वातश्लेष्मज्वराकृतिः||८७|| मुहुर्दाहो मुहुः शीतं स्वेदस्तम्भो मुहुर्मुहुः| मोहः कासोऽरुचिस्तृष्णा श्लेष्मपित्तप्रवर्तनम्||८८|| लिप्ततिक्तास्यता तन्द्रा श्लेष्मपित्तज्वराकृतिः| इत्येते द्वन्द्वजाः प्रोक्ताः ...|८९|

🔊 Audio coming soon

Hide commentary

सम्प्रत्यष्टविधज्वराकृतौ वक्तव्यानाह- हेतुभिरित्यादि| हेतवोऽपि ज्वरविशेषगमकत्वेनाकृतिरूपा भवन्त्येवेति कृत्वा हेतुकथनमपि यत् कृतं तदप्युचितम्| पूर्वमिति निदाने| समासेनोपदिष्टस्येति ये निदाने द्वान्द्विकसान्निपातिकागन्तवः समासेनोक्ताः, तेषामिह विस्तरेण लक्षणं शृण्विति; ये पुनरेकदोषजन्या वातज्वरादयस्ते तत्रैव प्रपञ्चेनोक्ता इति नेह पुनर्वक्तव्याः| भ्रमः येन चक्रस्थितमिवात्मानं मन्यते, किंवा भ्रमः भ्रान्तिः| शीतकः शीतता| स्तैमित्यमिति वस्त्रावगुण्ठितत्वमिव| सन्तापो मध्यवेग इति नातितीव्रः सन्तापः| स्वेदस्तम्भ इति स्वेदाप्रवर्तनम्||८४-८८||-

Adhikarana ३६ (८९-१०८) · Śloka १०९

... सन्निपातज उच्यते||८९|| सन्निपातज्वरस्योर्ध्वं त्रयोदशविधस्य हि| प्राक्सूत्रितस्य वक्ष्यामि लक्षणं वै पृथक् पृथक्||९०|| भ्रमः पिपासा दाहश्च गौरवं शिरसोऽतिरुक्| वातपित्तोल्बणे विद्याल्लिङ्गं मन्दकफे ज्वरे||९१|| शैत्यं कासोऽरुचिस्तन्द्रापिपासादाहरुग्व्यथाः| वातश्लेष्मोल्बणे व्याधौ लिङ्गं पित्तावरे विदुः||९२|| छर्दिः शैत्यं मुहुर्दाहस्तृष्णा मोहोऽस्थिवेदना| मन्दवाते व्यवस्यन्ति लिङ्गं पित्तकफोल्बणे||९३|| सन्ध्यस्थिशिरसः शूलं प्रलापो गौरवं भ्रमः| वातोल्बणे स्याद् द्व्यनुगे तृष्णा कण्ठास्यशुष्कता||९४|| रक्तविण्मूत्रता दाहः स्वेदस्तृड् बलसङ्क्षयः| मूर्च्छा चेति त्रिदोषे स्याल्लिङ्गं पित्ते गरीयसि||९५|| आलस्यारुचिहृल्लासदाहवम्यरतिभ्रमैः| कफोल्बणं सन्निपातं तन्द्राकासेन चादिशेत्||९६|| प्रतिश्या छर्दिरालस्यं तन्द्राऽरुच्यग्निमार्दवम्| हीनवाते पित्तमध्ये लिङ्गं श्लेष्माधिके मतम्||९७|| हारिद्रमूत्रनेत्रत्वं दाहस्तृष्णा भ्रमोऽरुचिः| हीनवाते मध्यकफे लिङ्गं पित्ताधिके मतम्||९८|| शिरोरुग्वेपथुः श्वासः प्रलापश्छर्द्यरोचकौ| हीनपित्ते मध्यकफे लिङ्गं स्यान्मारुताधिके||९९|| शीतको गौरवं तन्द्रा प्रलापोऽस्थिशिरोऽतिरुक्| हीनपित्ते वातमध्ये लिङ्गं श्लेष्माधिके विदुः||१००|| श्वासः कासः प्रतिश्यायो मुखशोषोऽतिपार्श्वरुक्| कफहीने पित्तमध्ये लिङ्गं वाताधिके मतम्||१०१|| वर्चोभेदोऽग्निदौर्बल्यं तृष्णा दाहोऽरुचिर्भ्रमः| कफहीने वातमध्ये लिङ्गं पित्ताधिके विदुः||१०२|| सन्निपातज्वरस्योर्ध्वमतो वक्ष्यामि लक्षणम्| क्षणे दाहः क्षणे शीतमस्थिसन्धिशिरोरुजा||१०३|| सास्रावे कलुषे रक्ते निर्भुग्ने चापि दर्शने | सस्वनौ सरुजौ कर्णौ कण्ठः शूकैरिवावृतः||१०४|| तन्द्रा मोहः प्रलापश्च कासः श्वासोऽरुचिर्भ्रमः| परिदग्धा खरस्पर्शा जिह्वा स्रस्ताङ्गता परम्||१०५|| ष्ठीवनं रक्तपित्तस्य कफेनोन्मिश्रितस्य च| शिरसो लोठनं तृष्णा निद्रानाशो हृदि व्यथा||१०६|| स्वेदमूत्रपुरीषाणां चिराद्दर्शनमल्पशः| कृशत्वं नातिगात्राणां प्रततं कण्ठकूजनम्||१०७|| कोठानां श्यावरक्तानां मण्डलानां च दर्शनम्| मूकत्वं स्रोतसां पाको गुरुत्वमुदरस्य च||१०८|| चिरात् पाकश्च दोषाणां सन्निपातज्वराकृतिः|१०९|

🔊 Audio coming soon

Hide commentary

सन्निपातज्वरस्योर्ध्वमिति अत्रोर्ध्वशब्देनाधिकवाचिना प्रकृतिसमसमवायारब्धसन्निपातज्वराद्यान्यधिकानि विकृतिविषमसमवायारब्धज्वरस्य लक्षणानि, तानि वक्ष्यामीत्यर्थ इति केचिद्व्याख्यानयन्ति; यदिह सास्रावकलुषनिर्भुग्नलोचनत्वादि वक्तव्यं न तत् पृथग्वातादिज्वरोक्तलक्षणमेलके भवति, किन्तु विकृतिविषमसमवायारब्धे ज्वरे संयोगमहिम्ना भवतीति| वयं तु ब्रूमः- यद्यूर्ध्वशब्देन विकृतिविषमसमवायारब्धज्वरलक्षणाभिधानमिह प्रतिज्ञायते, तदा यत् प्रत्येकदोषलक्षणमेलकेनोपपन्नं लक्षणं ‘क्षणे दाहः क्षणे शीतं’ इत्यादि, तदिहानभिहितं स्यात्; सामान्येन यान्यत्र प्रायः प्रादुर्भवन्ति तानि विकृतिविषमसमवायारब्धानि तथा प्रकृतिसमसमवायारब्धानि च लक्षणान्युच्यन्ते; अत ऊर्ध्वमिति पदस्य चातः परेणेत्यर्थः| निर्भुग्ने इति अतिकुटिले| परिदग्धा दग्धवत् कृष्णवर्णा| खरस्पर्शा गोजिह्वावत्| स्रस्ताङ्गता निःसहावयवता| ष्ठीवनं रक्तस्य पित्तस्य वा मुखेन स्वल्पोद्गिरणम्| शिरसो लोठनमिति इतस्ततो नयनम्| कृशत्वं नातिगात्राणां दोषपूर्णत्वेन| प्रततं निरन्तरम्| कोठो भालुकीये- “वरटीदष्टसङ्काशः कण्डूमांल्लोहितोऽस्रकफपित्तात्| क्षणिकोत्पादविनाशः ‘कोठ’ इति निगद्यते तज्ज्ञैः” इति| मूकत्वं मन्दवचनत्वम्, अवचनता वा||८९-१०८||-

Adhikarana ३७ (१०९) · Śloka ११०

दोषे विबद्धे नष्टेऽग्नौ सर्वसम्पूर्णलक्षणः||१०९|| सन्निपातज्वरोऽसाध्यः कृच्छ्रसाध्यस्त्वतोऽन्यथा|११०|

🔊 Audio coming soon

Hide commentary

सन्निपातस्यासाध्यताकृच्छ्रसाध्यतालक्षणमाह- दोष इत्यादि| अत्र दोषशब्दो विबद्धोपपदान्मले वर्तते| नष्टेऽग्नाविति इतरज्वरापेक्षयाऽधिकतया नष्टेऽग्नावित्यर्थः| सर्वाणि च सम्पूर्णानि बलीयांसि लक्षणानि यस्य स सर्वसम्पूर्णलक्षणः| असाध्यकृच्छ्रसाध्याभिधानेन सुखसाध्यो न भवतीति दर्शितम्| यदुक्तं- “सन्निपातो दुःश्चिकित्स्यानां” (सू.अ.२५) इति, तथा च भालुकिना- “मृत्युना सह योद्धव्यं सन्निपातं चिकित्सता” इति||१०९||-

Adhikarana ३८ (११०) · Śloka १११

निदाने त्रिविधा प्रोक्ता या पृथग्जज्वराकृतिः||११०|| संसर्गसन्निपातानां तया चोक्तं स्वलक्षणम्|१११|

🔊 Audio coming soon

Hide commentary

निदान इत्यादि| निदाने ज्वरनिदाने, प्रोक्ता “तत्र यथोक्तानां लिङ्गानां” (नि.अ.१) इत्यादिना ग्रन्थेन प्रागुक्तेत्यर्थः; पुनः प्रकरणागतत्वादुच्यत इति न पौनरुक्त्यम्| तया चोक्तं स्वलक्षणमिति तया द्वन्द्वरूपया द्वन्द्वलक्षणं, तथा सन्निपातरूपया सन्निपातलक्षणमुक्तमित्यर्थः||११०||-

Adhikarana ३९ (१११-११३) · Śloka ११४

आगन्तुरष्टमो यस्तु स निर्दिष्टश्चतुर्विधः||१११|| अभिघाताभिषङ्गाभ्यामभिचाराभिशापतः| शस्त्रलोष्टकशाकाष्ठमुष्ट्यरत्नितलद्विजैः||११२|| तद्विधैश्च हते गात्रे ज्वरः स्यादभिघातजः| तत्राभिघातजे वायुः प्रायो रक्तं प्रदूषयन्||११३|| सव्यथाशोफवैवर्ण्यं करोति सरुजं ज्वरम्|११४|

🔊 Audio coming soon

Hide commentary

आगन्तुं चतुर्विधं विभजन्नाह- आगन्तुरित्यादि| कशा ‘सार’ इति ख्याता, मुष्टिः ‘कील’ इति ख्यातः| हते अभिहते| प्रायो रक्तमिति अत्यर्थं रक्तं दूषयन् मांसादि चाल्पं दूषयतीत्यर्थः| यद्यपि निदानेऽपि “तत्राभिघातजेन वायुना दुष्टशोणिताधिष्ठानेन” (नि.अ.१) इत्युक्तं, तथाऽपीह रक्तस्य साक्षाद्दुष्टिः, तथा मांसादीनां मनाग्दुष्टिः सूच्यत इति विशेषः||१११-११३||-

Adhikarana ४० (११४-१२७) · Śloka १२८

कामशोकभयक्रोधैरभिषक्तस्य यो ज्वरः||११४|| सोऽभिषङ्गाज्वरो ज्ञेयो यश्च भूताभिषङ्गजः| कामशोकभयाद्वायुः, क्रोधात् पित्तं, त्रयो मलाः||११५|| भूताभिषङ्गात् कुप्यन्ति भूतसामान्यलक्षणाः| भूताधिकारे व्याख्यातं तदष्टविधलक्षणम्||११६|| विषवृक्षानिलस्पर्शात्तथाऽन्यैर्विषसम्भवैः| अभिषक्तस्य चाप्याहुर्ज्वरमेकेऽभिषङ्गजम्||११७|| चिकित्सया विषघ्न्यैव स शमं लभते नरः| अभिचाराभिशापाभ्यां सिद्धानां यः प्रवर्तते||११८|| सन्निपातज्वरो घोरः स विज्ञेयः सुदुःसहः| सन्निपातज्वरस्योक्तं लिङ्गं यत्तस्य तत् स्मृतम्||११९|| चित्तोन्द्रियशरीराणामर्तयोऽन्याश्च नैकशः| प्रयोगं त्वभिचारस्य दृष्ट्वा शापस्य चैव हि||१२०|| स्वयं श्रुत्वाऽनुमानेन लक्ष्यते प्रशमेन वा| वैविध्यादभिचारस्य शापस्य च तदात्मके||१२१|| यथाकर्मप्रयोगेण लक्षणं स्यात् पृथग्विधम्| ध्याननिःश्वासबहुलं लिङ्गं कामज्वरे स्मृतम्||१२२|| शोकजे बाष्पबहुलं त्रासप्रायं भयज्वरे| क्रोधजे बहुसंरम्भं भूतावेशे त्वमानुषम्||१२३|| मूर्च्छामोहमदग्लानिभूयिष्ठं विषसम्भवे| केषाञ्चिदेषां लिङ्गानां सन्तापो जायते पुरः||१२४|| पश्चात्तुल्यं तु केषाञ्चिदेषु कामज्वरादिषु| कामादिजानामुद्दिष्टं ज्वराणां यद्विशेषणम्||१२५|| कामादिजानां रोगाणामन्येषामपि तत् स्मृतम्| मनस्यभिहते पूर्वं कामाद्यैर्न तथा बलम्||१२६|| ज्वरः प्राप्नोति वाताद्यैर्देहो यावन्न दूष्यति| देहे चाभिह(द्रु)ते पूर्वं वाताद्यैर्न तथा बलम्||१२७|| ज्वरः प्राप्नोति कामाद्यैर्मनो यावन्न दूष्यति|१२८|

🔊 Audio coming soon

Hide commentary

अभिषङ्गज्वरेषु दोषानुबन्धविशेषानाह- कामेत्यादि| ननु निदाने- “अभिषङ्गजः पुनर्वातपित्ताभ्यामनुबध्यते” (नि.अ.१) इत्युक्तं, तत् किमिह भूताभिषङ्गजस्य त्रिदोषानुबन्ध उच्यते- न, तत्र कामाद्यभिषङ्गजो यः प्रायो भवति, तदभिप्रायेणोक्तं “वातपित्ताभ्यामनुबध्यते” (नि.अ.१) इति; कामादिकेषु हि क्वचिद्वातः क्वचित् पित्तमिति वातपित्तानुबन्धो ज्ञेयः| भूतसामान्यलक्षणा इति देवादयोऽष्टौ उन्मादे भूता उक्ताः, तेषां मध्ये आवेशकर्तृभूतस्य यल्लक्षणं तेन समान्यत्र दोषलक्षणानि भूतज्वरे भवन्ति| अत्र काश्मीराः “विषवृक्षानिलस्पर्शात्” इत्यादिग्रन्थं विषज्वराभिधायकं पठन्ति, विषजोऽप्यभिषङ्गज एव प्रविशति| ये तु न पठन्ति, तन्मतेऽप्यभिषङ्गजे एव विषौषधिगन्धजस्याप्यवरोधः| अन्ये तु विषजं विषजनितपित्तकृतत्वेन दोषज एव क्षिपन्ति| अभिचारः हिंसार्थोऽथर्वमन्त्रहोमादिः| अभिशापः अभिशपनमेव| सिद्धा मन्त्रौषधतपःशमादिसिद्धाः| ‘सन्निपातज्वरस्योक्तं’ इत्यादिग्रन्थमत्र काश्मीराः पठन्ति, स च नातिप्रसिद्धः||११४-१२७||-

Adhikarana ४१ (१२८) · Śloka १२९

ते पूर्वं केवलाः पश्चान्निजैर्व्यामिश्रलक्षणाः||१२८|| हेत्वौषधविशिष्टाश्च भवन्त्यागन्तवो ज्वराः|१२९|

🔊 Audio coming soon

Hide commentary

आगन्तोर्निजाद्भेदकं धर्ममाह- ते पूर्वमित्यादि| केवला इति निजदोषरहिताः| निजैरिति निजदोषलक्षणैः| हेत्वौषधविशिष्टाश्चेति निजज्ज्वराद्विशिष्टहेतवो विशिष्टौषधाश्च भवन्ति; तत्र विशिष्टो हेतुरभिघातादिः, भेषजं च परिषेकमन्त्रादि||१२८||-

Adhikarana ४२ (१२९-१३१) · Śloka १३२

संसृष्टाः सन्निपतिताः पृथग्वा कुपिता मलाः||१२९|| रसाख्यं धातुमन्वेत्य पक्तिं स्थानान्निरस्य च| स्वेन तेनोष्मण चैव कृत्वा देहोष्मणो बलम्||१३०|| स्रोतांसि रुद्ध्वा सम्प्राप्ताः केवलं देहमुल्बणाः| सन्तापमधिकं देहे जनयन्ति नरस्तदा||१३१|| भवत्यत्युष्णसर्वाङ्गो ज्वरितस्तेन चोच्यते|१३२|

🔊 Audio coming soon

Hide commentary

संसृष्टा इत्यादिना सर्वज्वरसाधारणां सम्प्राप्तिमन्ते ब्रूते| सम्प्राप्तिरपि हि सर्वज्वराणामाकृतिरेव, तेन नोत्सूत्रमस्याभिधानम् | किंवा, क्रमप्राप्ते सामज्वरलक्षणे वक्तव्येऽरुच्यादीनां सामज्वरलक्षणानामुत्पादे उपपत्तिं दर्शयितुं सम्प्राप्तिरुच्यते| संसृष्टा इति युग्मभूताः| सन्निपतिता इति त्रयोऽपि मिलिताः| पक्तिमिति पक्तिहेतुतया जाठराग्निं ब्रूते| स्थानादिति ग्रहण्याः, ग्रहणी हि जाठराग्निस्थानम्| स्वेनेति दोषोष्मणा; तेनेति जाठराग्न्यूष्मणा| देहोष्मण इति सकलदेहचारिणः प्राकृतोष्मणः| वातश्लेष्मणोस्तु यद्यपि पित्तवदुष्मा नास्ति, तथाऽपि तयोर्भूतत्वेन ऊष्मा योऽस्ति, स इह ग्राह्यः; वक्तव्यं हि ग्रहण्यध्याये- “भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः” (चि.अ.१५) इति| किंवा, तेनेत्यनेन दिव्यरूपज्वराधिष्ठानप्रभावकृतं दोषाणामूष्माणं ग्राहयति; किंवा, ज्वरसामान्यसम्प्राप्तिप्राप्तपित्तोष्माणं निदर्शयति , सर्वत्र हि ज्वरे पित्तमवश्यं भवति; यदुक्तं- “ऊष्मा पित्तादृते नास्ति ज्वरो नास्त्यूष्मणा विना” (वा.चि.अ.१) इति| केवलमिति समस्तम्||१२९-१३१||-

Adhikarana ४३ (१३२) · Śloka १३३

स्रोतसां सन्निरुद्धत्वात् स्वेदं ना नाधिगच्छति||१३२|| स्वस्थानात् प्रच्युते चाग्नौ प्रायशस्तरुणेज्वरे|१३३|

🔊 Audio coming soon

Hide commentary

स्वेदं ना नाधिगच्छतीत्यत्र प्राय इति योज्यं, क्वचिज्ज्वरे स्वेदस्याप्यभिहितत्वात्| ना इति पुरुषः||१३२||-

Adhikarana ४४ (१३३-१३६) · Śloka १३७

अरुचिश्चाविपाकश्च गुरुत्वमुदरस्य च||१३३|| हृदयस्याविशुद्धिश्च तन्द्रा चालस्यमेव च| ज्वरोऽविसर्गी बलवान् दोषाणामप्रवर्तनम्||१३४|| लालाप्रसेको हृल्लासः क्षुन्नाशो विरसं मुखम्| स्तब्धसुप्तगुरुवं च गात्राणां बहुमूत्रता||१३५|| न विड् जीर्णा न च ग्लानिर्ज्वरस्यामस्य लक्षणम्| ज्वरवेगोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः||१३६|| मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम्|१३७|

🔊 Audio coming soon

Hide commentary

अविसर्गीति नित्यानुषक्तः| दोषाणामिति मलसम्बद्धानां दोषाणाम्| अप्रवर्तनम् अविसर्गः| क्षुन्नाश इति बुभुक्षाभावः| न विड् जीर्णेति न पुरीषं पक्वम्| न च ग्लानिरिति न क्षीणमांसता||१३३-१३६||-

Adhikarana ४५ (१३७) · Śloka १३८

क्षुत् क्षामता लघुत्वं च गात्राणां ज्वरमार्दवम्||१३७|| दोषप्रवृत्तिरष्टाहो निरामज्वरलक्षणम्|१३८|

🔊 Audio coming soon

Hide commentary

क्षुत् क्षामतेत्यादिना निरामज्वरलक्षणमाह| अत्र च क्षुदादयो दोषपाकाद्भवन्तो विनाऽप्यष्टाहं निरामदोषारब्धज्वरलक्षणं भवन्ति| अष्टाहस्तु क्षुदादीन् विना दोषपाकेऽसत्यपि भेषजदानयोग्यां ज्वरस्य व्याधेर्निरामतां ब्रूते, अत एव “पाचनं शमनीयं वा कषायं पाययेत्तु तम्” इति विकल्पद्वयेन यदाऽष्टाहे क्षुदादिदोषपाकलक्षणानुदयस्तदा दोषपाकार्थं पाचनीयं देयम्, अथ क्षुधादिसमुदयोऽपि जातस्तदा शमनीयं देयं सर्वथा निरामत्वाज्ज्वरस्य| एतामेव सर्वथानिरामतामुपदिशता खरनादेनोक्तं यत्- “न च निःसप्ततैवैका निरामज्वरलक्षणम्| चिरादपि हि पच्यन्ते सन्निपातज्वरे मलाः|| सप्तरात्रातिवृत्तिं च क्षामतादि च लक्षणम्| तस्मादेतद्द्वयं दृष्ट्वा निरामं ज्वरमादिशेत्” इति| अष्टाहादर्वाग्दोषपाकजनितक्षुदादिदर्शनान्निरामता सुश्रुतेनाष्टाहादर्वाग्भेषजदान दर्शयता प्रतिपादिता| यदुक्तम्- “अर्वागपि च देयं स्याद्भेषजं दोषपाकतः” (सु.उ.अ.३९) इति| तस्मात् क्षुदादयोऽष्टाहश्च व्यस्तं समस्तं च लक्षणं यथोक्तन्यायाज्ज्ञेयम्||१३७||-

Adhikarana ४६ (१३८) · Śloka १३९

नवज्वरे दिवास्वप्नस्नानाभ्यङ्गान्नमैथुनम्||१३८|| क्रोधप्रवातव्यायामान् कषायांश्च विवर्जयेत्|१३९|

🔊 Audio coming soon

Hide commentary

सौषधं च क्रियाक्रममित्यनेन यद्यप्यौषधमादावुक्तं, तथाऽपि तस्य क्रियाक्रमविशेषणतया अप्राधान्यमिति कृत्वा औषधमतिक्रम्य ‘नवज्वरे’ इत्यादिना क्रियाक्रमं ब्रूते| क्रियायाश्चिकित्सायाः क्रमः परिपाटी| तत्राप्यहितस्यैव प्रथमं निषेधः| अन्नशब्देन गुर्वन्नमभिधत्ते| हारीतेन हि- “नवज्वरे व्यवायादि प्रत्येकं दोषकोपनम्| गुर्वन्नभोजनाच्चापि विष्टम्भो दोषकोपनम् ” इत्युक्तम्| कषायांश्चेति जातौ बहुवचनं; तेन कषायं वर्जयेदित्यर्थः| उक्तं ह्यत्र जतूकर्णेन- “कषायरसगुरूष्णस्निग्धान्नस्नानाभ्यङ्गान् नवज्वरे वर्जयेत्” इति||१३८||-

Adhikarana ४७ (१३९) · Śloka १४०

ज्वरे लङ्घनमेवादावुपदिष्टमृते ज्वरात्||१३९|| क्षयानिलभयक्रोधकामशोकश्रमोद्भवात् |१४०|

🔊 Audio coming soon

Hide commentary

ज्वरे इत्यादि| लङ्घनशब्देनेहानशनं विवक्षितं, यद्यपि “चतुष्प्रकारा संशुद्धिः” (सू.अ.२२) इत्यादिना लङ्घनबृंहणीये दशविधमेव लङ्घनमुक्तं, तथाऽपि तेषामिहावस्थाविशेषेण विनियोगाल्लङ्घनमेवेति नियमोऽपवादविषयं त्यक्त्वा समुच्चीयमानावधारणे ज्ञेयः, यथा- “नरं च नारायणमेव चोभौ स्वतः सुतौ सञ्जनयाम्बभूव” इत्यत्र| तेनावस्थायां वमनमपि भवति वक्ष्यमाणम्| यत्तु लङ्घनबृंहणीये कफपित्तज्वरच्छर्द्यादिषु मध्ये ज्वरं पठित्वोक्तं- “पाचनैस्तान् भिषक् प्राज्ञः प्रायेणादावुपाचरेत्” (सू.अ.२२) इति, तत्र भेषजप्रयोगस्यादौ पाचनं कर्तव्यमिति ब्रूते, न ज्वरादौ; तेनेहादौ लङ्घनाभिधानं न विरुध्यते| हारीते तु “पित्तश्लेष्मविशुद्ध्यर्थं कुर्याद्वमनमादितः” इति यदुक्तं, तत् ‘कफप्रधानान्’ इत्यादिवक्ष्यमाणावस्थायां ज्ञेयम्| क्षयशब्देन धातुक्षयकृतं ज्वरं किंवा राजयक्ष्मज्वरं गृह्णाति, अनिलशब्देन निरामानिलग्रहणं; किंवा क्षयनिलशब्देन धातुक्षयकुपितानिलग्रहणम्| यदुक्तं- “वायोर्धातुक्षयात् कोपो मार्गस्यावरणेन च” (चि.अ.२८) इति| यस्तु मार्गावरणेन वायुः कुप्यति, स आवरकधर्मितया प्रायेण सामो भवति, तत्र च लङ्घनं मात्रया कर्तव्यमेव| यदुक्तं- “सामे वातेऽपि लङ्घनम्| कुर्यादेवामपक्त्यर्थं युक्त्या, न तु यथा कफे” इति| अनिलज्वरमुक्त्वाऽपि कामादिज्वराभिधानं तेषु कालान्तरेण वातसम्बन्धो भवति, तेन प्रथममपि वातासम्बन्धे कामादिज्वराणामलङ्घनीयत्वोपदर्शनार्थम्||१३९||-

Adhikarana ४८ (१४०-१४१) · Śloka १४२

लङ्घनेन क्षयं नीते दोषे सन्धुक्षितेऽनले||१४०|| विज्वरत्वं लघुत्वं च क्षुच्चैवास्योपजायते | प्राणाविरोधिना चैनं लङ्घनेनोपपादयेत्||१४१|| बलाधिष्ठानमारोग्यं यदर्थोऽयं क्रियाक्रमः|१४२|

🔊 Audio coming soon

Hide commentary

लङ्घनफलमाह- लङ्घनेनेत्यादि| प्राणाविरोधिनेति बलाविरोधिना, विरोधश्चातिक्षयकरत्वेनेहोच्यते| आरोग्यं बलवत एव भवतीति बलाधिष्ठानमारोग्यमुक्तम्| यदित्यनेनारोग्यं प्रत्यवमृशति||१४०-१४१||-

Adhikarana ४९ (१४२) · Śloka १४३

लङ्घनं स्वेदनं कालो यवाग्वस्तिक्तको रसः||१४२|| पाचनान्यविपक्वानां दोषाणां तरुणे ज्वरे|१४३|

🔊 Audio coming soon

Hide commentary

प्रकृतस्य लङ्घनस्य पाचनतां दर्शयन्नपराण्यपि स्वेदादीनि पाचनान्याह- लङ्घनमित्यादि| काल इति अष्टाहः| तिक्तको रसोऽत्र यवागूपानीयादिसंस्कारकत्वेन ज्ञेयः, स्वतन्त्रभेषजप्रयोगस्तरुणे निषिद्ध एव| उक्तं हि- “भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम्” इति| ‘अविपक्वानां दोषाणाम्’ इति कृत्वाऽपि ‘तरुणे ज्वरे’ इति यत् करोति, तेनाष्टाहादूर्ध्वमतरुणे ज्वरेऽपक्वेषु दोषेषु प्राधान्येन कषायपानं पाचनमधिकृतं, न लङ्घनादय इति दर्शयति||१४२||-

Adhikarana ५० (१४३-१४४) · Śloka १४५

तृष्यते सलिलं चोष्णं दद्याद्वातकफज्वरे ||१४३|| मद्योत्थे पैत्तिके चाथ शीतलं तिक्तकैः शृतम्| दीपनं पाचनं चैव ज्वरघ्नमुभयं हि तत्||१४४|| स्रोतसां शोधनं बल्यं रुचिस्वेदकरं शिवम्|१४५|

🔊 Audio coming soon

Hide commentary

लङ्घनादिकाले एव अवस्थाविशेषे देयं जलमाह- तृष्यत इत्यादि| वातकफज्वरे इति वातज्वरे, कफज्वरे, वातकफज्वरे च| मद्योत्थे कफादिज्वरेऽपि शीतलं जलं ज्ञेयम्| तिक्तकैः शृतमिति वक्ष्यमाणमुस्तादिभिः शृतम्| उभयमिति उष्णं तथा तिक्तकशृतशीतं च| त्रिदोषकफपित्तज्वरयोस्तु यद्यपीह पानीयं नोक्तं; तथाऽपि सामान्येन विमानस्थाने यदुक्तं- “किन्नु खलु ज्वरितेभ्यः पानीयमुष्णं प्रयच्छन्ति” (वि.अ.३) इत्यादिना, तत्प्रामाण्यादुष्णमेव जलं देयं; वातपैत्तिके तु ज्वरेऽत्यर्थदाहादिकारके शीतलमेव देयमित्यपि विमान एव “अत्यर्थोत्सन्नपित्ते” (वि.अ.३) इत्यादिना ग्रन्थेन सूचितम्||१४३-१४४|-

Adhikarana ५१ (१४५) · Śloka १४६

मुस्तपर्पटकोशीरचन्दनोदीच्यनागरैः||१४५|| शृतशीतं जलं दद्यात् पिपासाज्वरशान्तये|१४६|

🔊 Audio coming soon

Hide commentary

मुस्तेत्यादिः पानीयसाधकः षडङ्गप्रयोगः| अत्र शुण्ठी अतिक्ताऽप्यामाशयदुष्टिकारकज्वरहितत्वाद्विहिता; अत्र शृतशीतं जलं दद्यादिति जलसंस्कारश्रुत्या न क्वाथपरिभाषया क्वाथकरणं, किन्तु जलसंस्कारपरिभाषया| परिभाषा च स्वतन्त्रानुक्ताऽपि वृद्धव्यवहारसिद्धा प्रमाणीभूतैव| सा च “यदप्सु शृतशीतासु षडङ्गादि प्रयुज्यते| कर्षमात्रं ततो द्रव्यं साधयेत् प्रास्थिकेऽम्भसि|| अर्धशृतं प्रयोक्तव्यं पाने पेयादिसंविधौ” इति; परिभाषार्थश्च व्यक्त एव||१४५||-

Adhikarana ५२ (१४६) · Śloka १४७

कफप्रधानानुत्क्लिष्टान् दोषानामाशयस्थितान्||१४६|| बुद्ध्वा ज्वरकरान् काले वम्यानां वमनैर्हरेत्|१४७|

🔊 Audio coming soon

Hide commentary

अविशेषेण तरुणातरुणज्वरेऽवस्थाविधेयं वमनमाह- कफप्रधानानित्यादि| कफः प्रधानो येषां ते कफप्रधानाः| उत्क्लिष्टानिति हृल्लासादिना बहिर्गमनोन्मुखान्| आमाशयस्थितानित्यनेन सर्वशरीरं परित्यज्यामाशयगमनं दर्शयति| ज्वरकरानित्यनेन ज्वरकरान् हि दोषानेवंविधानेव नवज्वरे वमनैर्हरेत्, नान्यथेति दर्शयति| काले इति यथोक्तायामवस्थायाम्| वमनैरिति बहुवचनेन प्रकृत्याद्यपेक्षया बहूनां वमनद्रव्ययोगानां प्रयोगं दर्शयति| वम्यानामित्यनेन अवम्यगर्भिण्यादिषु वमनं निषेधयति| अत्र च स्वयमेवोत्क्लिष्टत्वाद्दोषस्य दोषोत्क्लेशप्रयोजनकौ स्नेहस्वेदौ न क्रियेते, अल्पौ वा क्रियेते||१४६||-

Adhikarana ५३ (१४७-१४८) · Śloka १४९

अनुपस्थितदोषाणां वमनं तरुणेज्वरे||१४७|| हृद्रोगं श्वासमानाहं मोहं च जनयेद्भृशम्| सर्वदेहानुगाः सामा धातुस्था असुनिर्हराः ||१४८|| दोषाः फलानामामानां स्वरसा इव सात्ययाः|१४९|

🔊 Audio coming soon

Hide commentary

उक्तावस्थाव्यतिरेकेण वमने दोषमाह- अनुपस्थितेत्यादि| सर्वदेहानुगा इति सूक्ष्मसिरात्वगाद्यनुगताः | सामा इति सामत्वेन स्त्याना अप्रचलाश्च| धातुस्था इति धातुषु अत्यन्तानुप्रवेशव्यवस्थिताः| न सुखेन निह्रियन्ते इति असुनिर्हराः; किंवा, असून् प्राणान् निर्हरन्तीति असुनिर्हराः| अत्रार्था फलानामित्यादिना दृष्टान्तमाह| आमानां फलानां यथा स्वरसा निर्हरणे सात्यया भवन्ति, तथा यथोक्ता अपि दोषा इत्यर्थः; सात्यया इति सव्यापदः ||१४७-१४८||-

Adhikarana ५४ (१४९-१५४) · Śloka १५५

वमितं लङ्घितं काले यवागूभिरुपाचरेत्||१४९|| यथास्वौषधसिद्धाभिर्मण्डपूर्वाभिरादितः| यावज्ज्वरमृदूभावात् षडहं वा विचक्षणः||१५०|| तस्याग्निर्दीप्यते ताभिः समिद्भिरिव पावकः| ताश्च भेषजसंयोगाल्लघुत्वाच्चाग्निदीपनाः||१५१|| वातमूत्रपुरीषाणां दोषाणां चानुलोमनाः| स्वेदनाय द्रवोष्णत्वाद्द्रवत्वात्तृट्प्रशान्तये||१५२|| आहारभावात् प्राणाय सरत्वाल्लाघवाय च| ज्वरघ्न्यो ज्वरसात्म्यत्वात्तस्मात् पेयाभिरादितः||१५३|| ज्वरानुपचरेद्धीमानृते मद्यसमुत्थितात्| मदात्यये मद्यनित्ये ग्रीष्मे पित्तकफाधिके||१५४|| ऊर्ध्वगे रक्तपित्ते च यवागूर्न हिता ज्वरे|१५५|

🔊 Audio coming soon

Hide commentary

वमनलङ्घनयोरनन्तरं यद्विधेयं तदाह- वमितमित्यादि| वमितं लङ्घितमिति अवस्थावशात् कदाचिद्वमितं, कदाचिल्लङ्घितं, कदाचिच्च वमितलङ्घितम्| वमनानन्तरं हि यदा सम्यग्विशुद्धिर्न भूता तदा तदहर्लङ्घनमपि क्रियते| काले इति अन्नदानयोग्ये काले| यथास्वौषधसिद्धाभिरिति यथाविषयं यस्यां यवाग्वां यद्भेषजं पिप्पलीनागरादि वक्तव्यं, तत्सिद्धाभिः; किंवा, यस्मिञ्ज्वरे यद्भेषजं पाचनं वक्तव्यं, तत्सिद्धाभिः| उक्तं हि सुश्रुते- “अन्नकाले हिता पेया यथास्वं पाचनैः कृता” (सु.उ.अ.३९) इति| मण्डपूर्वाभिरिति मण्डप्रधानाभिः| तत्र प्रथमं मण्डं पीत्वा तदनु तनुपेयाभागो योज्यः| यावज्ज्वरमृदूभावादिति यावज्ज्वरस्य दोषपाकात्तीक्ष्णता निवर्तते; असति ज्वरमृदुभावेऽपि षडहं यावत्| अयं च षडहः किं पेयादिनात् प्रभृति आहोस्विज्ज्वरोत्पाददिनादिति पक्षद्वयमुत्तरत्र ‘ज्वरितं षडहेऽतीते’ इत्यत्र निर्लोचयिष्यामः| स्वेदनायेत्यादौ ‘भवन्ति’ इति शेषः| ज्वरसात्म्यत्वमभिधाय यवगूनामविषयं ज्वरितमाह- ऋत इत्यादि| ऋते मद्यसमुत्थितादिति मद्यकारणे ज्वरे निषेधः| तथा मदात्ययेऽपि व्याधावन्यहेतुजोऽपि यो ज्वरः, तथा ग्रीष्मे, तथा पित्तकफाधिके यो ज्वरः, तथोर्ध्वरक्तपित्तिनो यो ज्वरः, तेषु सर्वेषु पेया न देया| इह मदात्ययादीनां पेयार्हेषु जातोऽपि ज्वरः पेयानर्हः| ‘पित्तकफाधिके’ इत्यनेन पित्तकफयो रतिमात्रोद्गमे सति पेयाया अदानं बोधयति| तेन, कफजे ज्वरे पित्तजे ज्वरेऽनुद्भूतदोषे च पेया दातव्या| तथा हि तन्त्रान्तरे- “कफजेऽपि यदा क्षीणो लङ्घनादिक्रमात् कफः| शस्ता एव यवाग्वस्तु तथा पित्तेऽप्ययं क्रमः” इति| तथाऽत्रेव- “पैत्तिको वाऽथ शीतां मधुयुतां पिबेत्| लाजपेयां” इत्यनेन पित्तेऽपि यवागूं वक्ष्यति| यत्तु- “पांशुधाने यथा वृष्टिः क्लेदयत्यति कर्दमम्| तथा श्लेष्मणि संवृद्धे यवागूः श्लेष्मवर्धनी” इति हारीतेनोक्तं, तदतिवृद्धकफविषयं ज्ञेयम्| अन्ये तु मिलितपित्तकफाधिकेषु पुरुषेषु यवागूप्रतिषेधमिच्छन्ति| यदि तु ‘ऊर्ध्वगे कफपित्ते च’ इति पाठस्तदा वातज्वरिणोऽपि यदा ऊर्ध्वगं कफपित्तं वमनेनायाति स्वयं तदाऽपि पेया न देयेत्यर्थः | सुश्रुते तु “कफपित्तपरीतस्य ऊर्ध्वासृक्पित्तिनस्तथा| मद्यनित्यस्य न हिता यवागूः” (सु.उ.तं.अ.३९) इत्युक्तं, तेन ‘ऊर्ध्वगे रक्तपित्ते’ इति पाठो युक्तः||१४९-१५४||-

Adhikarana ५५ (१५५) · Śloka १५६

तत्र तर्पणमेवाग्रे प्रयोज्यं लाजसक्तुभिः||१५५|| ज्वरापहैः फलरसैर्युक्तं समधुशर्करम्|१५६|

🔊 Audio coming soon

Hide commentary

‘ऊर्ध्वगे तर्पणं पूर्वं’ (चि.अ.४) इति वचसा यवागूं बाधित्वा ऊर्ध्वगे रक्तपित्ते तर्पणं यद्यपि विहितमेव, तथाऽप्यूर्ध्वगरक्तपित्तिनो यो ज्वरस्तत्रापि तर्पणादिक्रमविधानमेतत्| तर्पणं तोयपरिप्लुताः सक्तवः| ज्वरापहानि फलानि द्राक्षादाडिमादीनि| वचनं हि- “द्राक्षादडिमखर्जूरप्रियालैः सपरूषकैः| तर्पणार्हेषु कर्तव्यं तर्पणं ज्वरनाशनम्” इति||१५५||-

Adhikarana ५६ (१५६-१५९) · Śloka १६०

ततः सात्म्यबलापेक्षी भोजयेज्जीर्णतर्पणम्||१५६|| तनुना मुद्गयूषेण जाङ्गलानां रसेन वा| अन्नकालेषु चाप्यस्मै विधेयं दन्तधावनम्||१५७|| योऽस्य वक्त्ररसस्तस्माद्विपरीतं प्रियं च यत्| तदस्य मुखवैशद्यं प्रकाङ्क्षां चान्नपानयोः||१५८|| धत्ते रसविशेषाणामभिज्ञत्वं करोति यत्| विशोध्य द्रुमशाखाग्रैरास्यं प्रक्षाल्य चासकृत्||१५९|| मस्त्विक्षुरसमद्याद्यैर्यथाहारमवाप्नुयात्|१६०|

🔊 Audio coming soon

Hide commentary

जीर्णं तर्पणं यस्य तं जीर्णतर्पणम्| मुद्गयूषस्य जाङ्गलरसस्य च विकल्पः सात्म्यापेक्षो बलापेक्षश्च ज्ञेयः| दुर्बलो हि दुर्बलाग्निः प्रायो भवति, तस्य च मुद्गयुषो लघुत्वेन देयः, इतरस्य तु जाङ्गलो रसः||१५६-१५९||-

Adhikarana ५७ (१६०) · Śloka १६१

पाचनं शमनीयं वा कषायं पाययेद्भिषक्||१६०|| ज्वरितं षडहेऽतीते लघ्वन्नप्रतिभोजितम्|१६१|

🔊 Audio coming soon

Hide commentary

सम्प्रति कषायपानविषयमाह- पाचनमित्यादि| पाचनमिति आमदोषपचनम्| शमनीयमिति पक्वदोषोपशमनम्| एतच्च विकल्पद्वयं योग्यतया यथाक्रममामदोषविषयं तथा पक्वदोषविषयं ज्ञेयम्| षडहेऽतीते इति ज्वराहादारभ्य षडहेऽतिक्रान्ते; अतः सप्तमेऽहनि लघ्वन्नं मात्रया स्वरूपेण च यत्, तत्प्रतिभोजितं ज्वरितमष्टमेऽहनि कषायं पाययेदिति वाक्यार्थः| एवं च पूर्वोक्ताष्टाहकृतनिरामताव्यवस्थायाः पाचनस्य शमनीयस्य वा उपयोग उपपन्नो भवति| ननु पेयाप्रयोगे “यावज्ज्वरमृदुभावात् षडहं वा विचक्षणः” इत्युक्तं, ततश्च पेययैव तावत् षडहो व्याप्यते, पूर्वं च ज्वरादौ लङ्घनमुक्तं, तच्चानिर्दिष्टकालमपि ‘लङ्घनेन क्षयं नीते’ इत्यादिग्रन्थोक्तलङ्घितफलं यावता कालेन भवति तावत्कालं कर्तव्यं; हारीतेन तु कालोऽपि दर्शितः, यथा- “लङ्घनं लङ्घनीयानां कुर्याद्दोषानुरूपतः| त्रिरात्रमेकरात्रं वा षड्रात्रमथवा ज्वरे” इति; तेन ज्वरलङ्घनदिनैस्तथा षडहेन च समं ज्वराहादारभ्याष्टाहातिक्रमोऽपि भवति, ततश्च ज्वराहादारभ्याष्टाहे पाचनशमनीयकषायो भवतु, तस्मात् पेयाप्रयोगषडहेऽतीते “पाचनं शमनीयं वा कषायं पाययेत्” इत्यभिप्रायः , तथा ‘ज्वरे पेयाः कषायाश्च क्षीरं सर्पिर्विरेचनम्| षडहे षडहे देयं वीक्ष्य दोषबलाबले” (चि.अ.३०) इत्यनेन ग्रन्थेनापि पेयाप्रयोगषडहादूर्ध्वं कषायषडह उक्तः, न तु ज्वरोत्पादादिषडहादूर्ध्वम्| अत्र ब्रूमः- “यावज्ज्वरमृदूभावात् षडहं वा विचक्षणः” इत्यनेनापि ज्वरोत्पाददिनादारभ्य षडहपर्यन्तं पेयाप्रयोग उच्यते, पेया हि ज्वरे प्राधान्येन दोषपाचनार्थं प्रयुज्यते| यदुक्तं- “लङ्घनं स्वेदनं कालो यवाग्वस्तिक्तको रसः| पाचनान्यविपक्वानां दोषाणां तरुणे ज्वरे” इति| लङ्घनादिपाचनीयत्वं दोषाणामष्टाहदर्वागेव, अष्टाहादूर्ध्वं तु कषायेणैव पाचनमुक्तम् | तत्रालङ्घनीये वातज्वरे आदिदिनात् प्रभृति पेया षडहमपि व्याप्नोति , एकद्वित्रदिनलङ्घिते ज्वरे पेया पञ्चचतुस्त्रिदिनप्रयोगेण ज्वरदिनादारभ्य षडहपर्यन्तं कर्तव्या| यत्र तु दोषाणामपि सामतया सन्निपातज्वरे वा लङ्घनमेव षड्रात्रं षड्रात्रादिक्रमेण वा क्रियते, तत्र प्रादेशिके विधौ नायं पेयाषड्रात्रनियम औत्सर्गिकः प्रवर्तते| किञ्चातिमात्रलङ्घनप्रयोगे पेया न दोषपाचनार्थं क्रियते, किन्तु भूरिलङ्घनक्षयिताग्नेः सन्धुक्षणार्थं, तत्राग्निसन्धुक्षणे जाते पुनरौषधपानमेव भवति| “ज्वरे पेयाः कषायश्च” (चि.अ.३०) इत्यादौ पेया समानकार्याणां लङ्घनादीनामुपलक्षणभूता; ततश्च पेया यत्र प्रतिषिद्धा मद्योत्थज्वरादौ तत्र तर्पणादिक्रमेणापि षडहो ग्राह्यः| तेन, प्रथमषडहे उत्सर्गतो लङ्घनादिपाचनं कर्तव्यमिति पेया षडहे देयेति; वचनमप्यत्रोच्यते, तथाहि सुश्रुते- “लङ्घनाम्बुयवागूभिर्यदा दोषो न पच्यते| तदा तं मुखवैरस्यतृष्णारोचकनाशनैः|| कषायैः पाचनैर्हृद्यैर्ज्वरघ्नैः समुपाचरेत्” (सु.उ.तं.अ.३९) इत्युक्त्वा, कषायपानकालनियमे प्रोक्तं- “सप्तरात्रात् परं केचिन्मन्यन्ते देयमौषधम्” (सु.उ.तं.अ.३९) इत्यादि| ततश्च लङ्घनादिषडहेऽतिक्रान्ते सप्तरात्राद्भेषजदानं सुश्रुतेनास्थाप्याप्रतिषेधादनुमतमेव| तथा चरके “लङ्घनं स्वेदनं” इत्यादिना तरुणज्वरे लङ्घनादि विहितं, तरुणता च ज्वरस्य सप्ताहमात्रं भवति| यदुक्तं पुष्कलावते- “आसप्तरात्रं तरुणं ज्वरमाहुर्मनीषिणः| मध्यं द्वादशरात्रं तु, पुराणमत उत्तरम्” इति| सप्ताहादूर्ध्वमतरुणे ज्वरे उत्सर्गतस्तावल्लङ्घनपेयादि न विहितमेव चरकेणापि, तथा हारीतेनापि लङ्घनोष्णोदकमुस्तादिशृतजलपानपेयाभिधानानन्तरमुक्तम्- “एतां क्रियां प्रयुञ्जीत षड्रात्रं सप्तमेऽहनि| पिबेत् कषायसंयोगान् ज्वरघ्नान् साधुसाधितान् ” इति| तथा खरनादेनापि- “लङ्घितालङ्घितं तस्माद्वमितं वा ज्वरार्दितम्| तत्सात्म्यत्वादतस्तस्मिन्नादौ ज्वरमुपाचरेत्|| यवागूभिर्यथादोषं” इत्यादिना तर्पणादिक्रमं चाभिधायोक्तम्- “इति षड्रात्रिकः प्रोक्तो नवज्वरहरो विधिः| ततः परं पाचनीयं शमनं वा ज्वरे हितम्” इति| तन्त्रान्तरे च यदेतत् सप्तमेऽहनि कषायपानविधानं, तदष्टाहे विहितकषायपानेन सममदूरान्तरत्वान्न विरोधीति मन्तव्यं, तस्माज्ज्वराहादारभ्य षडहेऽतीते लघ्वन्नप्रतिभोजिते कषायपानं, तथा षडहं यावत् यवागूपचार इति, तथा “ज्वरे पेयाः कषायाश्च” (चि.अ.३०) इत्यादय उत्सर्गविधयः, तेनैषां क्वचिद्बाधनमपि भवतीति युक्तमेव||१६०||-

Adhikarana ५८ (१६१-१६२) · Śloka १६३

स्तभ्यन्ते न विपच्यन्ते कुर्वन्ति विषमज्वरम्||१६१|| दोषा बद्धाः कषायेण स्तम्भित्वात्तरुणे ज्वरे| न तु कल्पनमुद्दिश्य कषायः प्रतिषिध्यते||१६२|| यः कषायकषायः स्यात् स वर्ज्यस्तरुणज्वरे|१६३|

🔊 Audio coming soon

Hide commentary

सम्प्रति कषायशब्दसामान्येन नवज्वरनिषिद्धकषायस्य महात्ययकारकस्य नवज्वरे प्रयोगे दोषमाह- स्तभ्यन्त इत्यादि| स्तभ्यन्त इति अविचलधर्माणो भवन्ति| न विपच्यन्त इति चिरेणापि न सुखं पच्यन्ते| स्तम्भित्वादिति स्तम्भनस्वभावत्वात्| उक्तं हि- “कषायः स्तम्भनः शीतः” (सू.अ.२६) इति| अयमर्थो हारीतेऽप्युक्तः- “न कषायं प्रशंसन्ति नराणां तरुणे ज्वरे| कषायेणाकुलीभूता दोषा जेतुं सुदुस्तराः” इति| पूर्वं षड्विरेचनशताश्रितीये पञ्चरसकृतेष्वपि स्वरसादिषु कषायशब्द उक्तः, तदिह यदि कषायशब्देन सामान्येन मधुरादिकृतानां स्वरसादीनां प्रतिषेधः स्यात्, तदा षडङ्गपानीयस्य पञ्चविधकल्पनायामवश्यनिवेशनीयस्य तथा यवागूसाधनार्थस्य च पाठेन तत्तद्द्रवस्य निषेधः स्यात्; येन, षडङ्गस्य तथा यवागूसाधनद्रवस्य च प्रयोगोऽत्र पञ्चविधकल्पनायामन्तर्भावनीयः, भेषजप्रयोगस्य पञ्चविधकल्पनार्थेऽन्तर्भावात्; अतः सर्वकल्पनाकषायप्रतिषेधो मा स्यादित्याह- न त्वित्यादि| नतु कल्पमुद्दिश्येति स्वरसकल्कशृतशीतफाण्टरूपकल्पनं लक्ष्यीकृत्य; यः कषायकषाय इति यः कषायैरामलकादिभिः कृतः स्वरसादिरूपः कषायः स निषिध्यत इत्यर्थः| न चानेन कषायरसकृतस्वरसादिनिषेधेन मधुरादिकृतस्वरसादीनां तरुणज्वरे प्रयोगो भवति, स्वरसादिभेषजस्यातिगुरोस्तरुणज्वरेऽविधानात्| तेन, कषायकषायप्रतिषेधेन तिक्तद्रव्यकृतषडङ्गादिकल्पनाकषायस्य विहितस्याविरोधः साध्यते, न त्वविहितस्वरसादिविधानं क्रियते| स्वरसादिगुरुभेषजस्य तरुणज्वरे निषेधवचनं- “भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम्” (सु.उ.तं.अ.३९) इति| अन्ये तु ब्रुवते- यत्- षडरात्रात् परतः सप्तमे दिवसे कषायपानं विहितं “पाचनं शमनीयं च” इत्यादिना स्वतन्त्रेण; तत्र सप्तमे दिवसे तरुण एव ज्वरो भवति, तरुणे च ज्वरे कषायपानं निषिद्धमिति विरोधं पश्यन् मधुरादिद्रव्यकृतकषायस्य सप्तमेऽहन्यप्रतिषेधः, कषायकषायस्य तु सप्तमेऽह्नि प्रतिषेध इत्युपदर्शनार्थं ‘न तु कल्पनमुद्दिश्य’ इत्यादि कृतं; ततश्च ज्वरादिषडहे सर्वकषायप्रतिषेध एव, सप्तमदिवसप्राप्ते तु तरुणे कषायद्रव्यकृतकषायमात्रप्रतिषेध इति वाक्यार्थो भवति||१६१-१६२||-

Adhikarana ५९ (१६३) · Śloka १६४

यूषैरम्लैरनम्लैर्वा जाङ्गलैर्वा रसैर्हितैः||१६३|| दशाहं यावदश्नीयाल्लघ्वन्नं ज्वरशान्तये|१६४|

🔊 Audio coming soon

Hide commentary

यवागूत्तरकालं भोजनसाधनमाह- यूषैरित्यादि| यदि कफप्रबलता बलवदग्निश्च तदा यूषैः, वातप्राबल्ये तु दुर्बलत्वे च रसैरिति व्यवस्था| अम्लविकल्पोऽपि सात्म्यापेक्षयाऽग्न्यपेक्षया च ज्ञेयः| वक्ष्यति हि- “मन्दाग्नयेऽम्लसात्म्याय तत्साम्लमपि कल्पयेत्” इति| अम्लं चात्र ज्वरघ्नं दाडिमाद्येव कार्यम्| लघ्विति मात्रालघु प्रकृतिलघु च रक्तशाल्यादिकम्||१६३||-

Adhikarana ६० (१६४) · Śloka १६५

अत ऊर्ध्वं कफे मन्दे वातपित्तोत्तरे ज्वरे||१६४|| परिपक्वेषु दोषेषु सर्पिष्पानं यथाऽमृतम्|१६५|

🔊 Audio coming soon

Hide commentary

दशाहात् परतः प्रायः कर्तव्यमाह- अत इत्यादि| कफे मन्दे इति मन्देऽपि कफे; यदि कफो नास्त्येव दोषरूपस्तदा सर्पिर्वातपित्तोत्तरे ज्वरे देयमित्यर्थः| परिपक्वेष्विति सर्वथा पक्वेषु| सर्पिरिति वक्तव्ये अधिकपानग्रहणेनानुवासनाभ्यङ्गादिना सर्पिष उपयोगमस्मिन् काले निषेधयति| अनुवासनाभ्यङ्गौ हि पश्चात्कालवक्तव्यौ| इयं च मन्दकफवातपित्तोत्तरत्वरूपाऽवस्था प्रायेण दशाहादूर्ध्वं कालमहिम्नैव सर्वज्वरे व्यक्ता भवति; यथा- वृद्धे पुरुषे प्रबलवातत्वं, तरुणज्वरे सामदोषता, तथाऽऽमाशयसमुत्थतया कफप्रबलत्वं भवति; दशाहादुत्तरं तु लङ्घनादिना कफः क्षीणो भवति, ज्वरसन्तापेन च रूक्षेण धातुशोषणाच्च वातपित्ते वर्धेते| यत्तु पेयाकषायसर्पिःक्षीरविरेचनानां षडहे षडहे देयत्वं तत् प्रायिकम्| तेन दशाहादूर्ध्वं द्वितीयषडह एवावस्थाविशेषप्राप्तौ सर्पिर्दानं न विरोधि||१६४||-

Adhikarana ६१ (१६५-१६६) · Śloka १६७

निर्दशाहमपि ज्ञात्वा कफोत्तरमलङ्घितम्||१६५|| न सर्पिः पाययेद्वैद्यः कषायैस्तमुपाचरेत् | यावल्लघुत्वादशनं दद्यान्मांसरसेन च||१६६|| बलं ह्यलं निग्रहाय दोषाणां, बलकृच्च तत् |१६७|

🔊 Audio coming soon

Hide commentary

उक्तसर्पिष्पानापवादविषयमाह- निर्दशाहमित्यादि| निर्गतो दशाहो यस्य स निर्दशाहः| अलङ्घितमिति असञ्जातलङ्घितलक्षणम्, इयं चावस्था प्रबलसामदोषारब्धत्वाज्ज्वरस्य तथाऽसम्यगुपचाराच्च भवतीति ज्ञेयम्| कषायैस्तं कफोत्तरमलङ्घितं चोपाचरेत्| यावल्लघुत्वादिति च्छेदः| लघुत्वे तु जाते कफोत्तरताऽलङ्घितता च नापयाति न तदा सर्पिष्पानमेवानुवृत्तं कर्तव्यमित्यर्थः| कफोत्तरेऽलङ्घितेऽपि निर्दशाहज्वरे मांसरसेन किमर्थमेवमशनं कफविरुद्धं देयमित्याह- बलं हीत्यादि| बलकृच्च तदिति मांसरसेनाशनं बलकारकमित्यर्थः||१६५-१६६||-

Adhikarana ६२ (१६७) · Śloka १६८

दाहतृष्णापरीतस्य वातपित्तोत्तरं ज्वरम्||१६७|| बद्धप्रच्युतदोषं वा निरामं पयसा जयेत्|१६८|

🔊 Audio coming soon

Hide commentary

दाहेत्यादिन क्षीरावस्थामाह| बद्धप्रच्युतदोषं वेत्यत्र बद्धदोषत्वम् अप्रवर्तमानदोषत्वं, प्रच्युतदोषत्वं तु स्तोकेन प्रवर्तमानदोषत्वम्| तत्र क्षीरं तावद् यथा बद्धे प्रवर्तकं भवति, तथा प्रच्युतेऽपि सविबन्धदोषप्रवर्तकतयोपकारकं भवति, अत एव क्षीरगुणेषु-“पुरीषे ग्रथिते पथ्यं”, तथा “अतीसारे च पथ्यं” (सू.अ.१) इत्युक्तम्| किंवा, बद्धदोषे गव्यं क्षीरं सरत्वाद्देयं, प्रच्युते तु सङ्ग्राहित्वाच्छागं देयम्||१६७||-

Adhikarana ६३ (१६८) · Śloka १६९

क्रियाभिराभिः प्रशमं न प्रयाति यदा ज्वरः||१६८|| अक्षीणबलमांसाग्नेः शमयेत्तं विरेचनैः|१६९|

🔊 Audio coming soon

Hide commentary

‘आभिः क्रियाभिर्यदा न प्रशमं याति ज्वरस्तदा विरेचनैः शमयेत्’ इति भाषया विरेचनस्य बहुव्यापत्कतया इतरकर्मासिद्धावेव कर्तव्यतां दर्शयति| विरेचनैरिति बहुवचनेन वमनविरेचने अपि गृह्येते; यदुक्तं- “उभयमपि दोषमलविरेचनाद्विरेचनशब्दं लभते” (क.अ.१) इति, तथा विरेचनयोगविवरणे वमनविरेचनयोगानेवाभिधास्यति||१६८||-

Adhikarana ६४ (१६९-१७०) · Śloka १७१

ज्वरक्षीणस्य न हितं वमनं न विरेचनम्||१६९|| कामं तु पयसा तस्य निरूहैर्वा हरेन्मलान्| निरूहो बलमग्निं च विज्वरत्वं मुदं रुचिम्||१७०|| परिपक्वेषु दोषेषु प्रयुक्तः शीघ्रमावहेत्|१७१|

🔊 Audio coming soon

Hide commentary

ज्वरेणाक्षीणस्य शोधनमुक्त्वा ज्वरक्षीणस्य शोधनमाह- ज्वरक्षीणस्येत्यादि| पयसेति पयःपानेन| पयस्त्वनुलोमकतया दोषहरं भवति| अनुलोमकत्वं च विरेचनत्वेन व्यवह्रियत इति विरेचनादेयत्वे क्षीरमुक्तम्| अत्र क्षीरस्य पूर्वोक्तविषयेणैव गुणानां लब्धत्वादवशिष्टं निरूहगुणमाह- निरूह इत्यादि||१६९-१७०||-

Adhikarana ६५ (१७१) · Śloka १७२

पित्तं वा कफपित्तं वा पित्ताशयगतं हरेत्||१७१|| स्रंसनं त्रीन्मलान् बस्तिर्हरेत् पक्वाशयस्थितान्|१७२|

🔊 Audio coming soon

Hide commentary

विरेचनास्थापनयोर्दोषभेदेन स्थानभेदेन च विषयमाह- पित्तमित्यादि| वमनस्य तु दोषभेदेन स्थानभेदेन च विषयः ‘कफप्रधानान्’ इत्यादिनैवोक्त इति नेह पुनरुच्यते; परं पूर्वमवस्थाविहितं वमनं स्वयमुत्क्लिष्टदोषे ज्ञेयम्, एतच्च जीर्णज्वरविहितं वमनं स्नेहस्वेदाभ्यां दोषमुत्क्लेश्य कर्तव्यमिति विशेषः| पित्ताशय आमाशयाधोभाग एव| स्रंसनमिति च्छेदः||१७१||-

Adhikarana ६६ (१७२) · Śloka १७३

ज्वरे पुराणे सङ्क्षीणे कफपित्ते दृढाग्नये||१७२|| रूक्षबद्धपुरीषाय प्रदद्यादनुवासनम्|१७३|

🔊 Audio coming soon

Hide commentary

अनुवासनविषयमाह- ज्वर इत्यादि| प्रकरणागतायामपि पुराणतायां ‘पुराणे’ इति पदमत्यर्थपुराणतामाह||१७२||-

Adhikarana ६७ (१७३) · Śloka १७४

गौरवे शिरसः शूले विबद्धेष्विन्द्रियेषु च||१७३|| जीर्णज्वरे रुचिकरं कुर्यान्मूर्धविरेचनम्|१७४|

🔊 Audio coming soon

Hide commentary

गौरव इत्यादिना शिरोविरेचनविषयमाह| शिरस इति पूर्वेणोत्तरेण च योज्यम्| इन्द्रियाणां विबन्धः स्वविषयप्रवृत्तौ जाड्यम्||१७३||-

Adhikarana ६८ (१७४-१७५) · Śloka १७६

अभ्यङ्गांश्च प्रदेहांश्च परिषेकावगाहने||१७४|| विभज्य शीतोष्णकृतं कुर्याज्जीर्णे ज्वरे भिषक्| तैराशु प्रशमं याति बहिर्मार्गगतो ज्वरः||१७५|| लभन्ते सुखमङ्गानि बलं वर्णश्च वर्धते|१७६|

🔊 Audio coming soon

Hide commentary

अन्तःपरिमार्जनमभिधाय बहिःपरिमार्जनमाह- अभ्यङ्गांश्चेत्यादि| प्रादेहः सामान्येन बहलोऽबहलश्च लेप इह गृह्यते| ये तु सुश्रुतमतेन बहलं विशोषिणं प्रदेहं ग्राहयन्ति, तन्मतेन दाहप्रशमने लेपो बहलः कर्तव्यः स्यात्, स च तनुरेव कर्तव्यः, उक्तं हि- “श्लक्ष्णपिष्टघनो लेपश्चन्दनस्यापि दाहकृत्” (चि.अ.३०) इत्यादि| विभज्य शीतोष्णकृतमिति उष्णाभिप्रायं शीताभिप्रायं च विभज्य यथासङ्ख्यं शीतकृतान् तथोष्णकृतान्; वक्ष्यति हि- “अभ्यङ्गांश्च प्रदेहंश्च परिषेकांश्च कारयेत्| यथाभिलाषं शीतोष्णं विभज्य द्विविधं ज्वरम्” इति| शीतोष्णता च द्रव्यमहिम्ना संस्कारेण च ज्ञेया||१७४-१७५||-

Adhikarana ६९ (१७६) · Śloka १७७

धूपनाञ्जनयोगैश्च यान्ति जीर्णज्वराः शमम्||१७६|| त्वङ्मात्रशेषा येषां च भवत्यागन्तुरन्वयः|१७७|

🔊 Audio coming soon

Hide commentary

त्वङ्मात्रशेषा इति धात्वन्तरत्यागेन त्वङ्मात्रावस्थितदोषजन्याः, येषां चागन्तुर्भूतरूपोऽन्वयः कारणं भवति ज्वराणां, ते धूपादिना शमं यान्ति||१७६||-

Adhikarana ७० (१७७-१७८) · Śloka १७९

इति क्रियाक्रमः सिद्धो ज्वरघ्नः सम्प्रकाशितः||१७७|| येषां त्वेष क्रमस्तानि द्रव्याण्यूर्ध्वमतः शृणु| रक्तशाल्यादयः शस्ताः पुराणाः षष्टिकैः सह||१७८|| यवाग्वोदनलाजार्थे ज्वरितानां ज्वरापहाः|१७९|

🔊 Audio coming soon

Hide commentary

क्रमप्राप्तौषधप्रश्नस्योत्तरार्धमाह- येषामित्यादि| ‘रक्तशाल्यादयः शस्ताः शालयः षष्टिकैः सह’ इति केचित् पठन्ति, अत्र ‘शालयः’ इति पदेन यवकादीनां निरासः क्रियते| केचित्तु ‘रक्तशाल्यादयः शस्ताः पुराणाः’ इति पठन्ति, तत्र यद्यपि ‘शूकधान्यं शमीधान्यं समातीतं प्रशस्यते’ (सू.अ.२७) इत्युक्तमेव, तथाऽपि प्रमादादपुराणग्रहणनिषेधार्थं ‘पुराणाः’ इति पदम् ||१७७-१७८||-

Adhikarana ७१ (१७९-१८७) · Śloka १८८

लाजपेयां सुखजरां पिप्पलीनागरैः शृताम्||१७९|| पिबेज्ज्वरी ज्वरहरां क्षुद्वानल्पाग्निरादितः| अम्लाभिलाषी तामेव दाडिमाम्लां सनागराम्||१८०|| सृष्टविट् पैत्तिको वाऽथ शीतां मधुयुतां पिबेत्| पेयां वा रक्तशालीनां पार्श्वबस्तिशिरोरुजि||१८१|| श्वदंष्ट्राकण्टकारिभ्यां सिद्धां ज्वरहरां पिबेत्| ज्वरातिसारी पेयां वा पिबेत् साम्लां शृतां नरः||१८२|| पृश्निपर्णीबलाबिल्वनागरोत्पलधान्यकैः| शृतां विदारीगन्धाद्यैर्दीपनीं स्वेदनीं नरः||१८३|| कासी श्वासी च हिक्की च यवागूं ज्वरितः पिबेत्| विबद्धवर्चाः सयवां पिप्पल्यामलकैः शृताम्||१८४|| सर्पिष्मतीं पिबेत् पेयां ज्वरी दोषानुलोमनीम्| कोष्ठे विबद्धे सरुजि पिबेत् पेयां शृतां ज्वरी||१८५|| मृद्वीकापिप्पलीमूलचव्यामलकनागरैः| पिबेत् सबिल्वां पेयां वा ज्वरे सपरिकर्तिके||१८६|| बलावृक्षाम्लकोलाम्लकलशीधावनीशृताम्| अस्वेदनिद्रस्तृष्णार्तः पिबेत् पेयां सशर्कराम्||१८७|| नागरामलकैः सिद्धां घृतभृष्टां ज्वरापहाम्|१८८|

🔊 Audio coming soon

Hide commentary

लाजपेयामित्यादिका दश यवाग्वः| तत्र प्रथमा श्लेष्मणीति हरिचन्द्रः; किंवा लाजपेयां सुखजरामित्येका, तथा पिप्पलीनागरैः शृतामिति द्वितीया, एवं शेषाभिः सममेकादश पेयाः| सनागरां सृष्टविट् पिबेदिति योजना, सनागरामेव शीतां मधुयुतां पिबेत् पैत्तिक इत्यपरा| शुण्ठ्यास्तु मधुरपाकित्वेन पाचनत्वेन च पित्ते प्रयोगः| इह विदारीगन्धाद्यं ह्रस्वपञ्चमूलम्| सयवामिति पदेन षष्टितण्डुलकार्यां पिबेदिति| सबिल्वामित्यादिना धावनीशृतामित्यन्तेन चैका यवागूः| परिकर्तिका कर्तिकाकारा वेदना| कलशी सिंहपुच्छी| धावनी कण्टकारी| अत्र च यवागूनां साधनद्रव्यजलतण्डुलपरिमाणे वृद्धवैद्यव्यवहाराः पूजिताः प्रमाणीकर्तव्याः| अत्राग्निवेशसंहितायामधीयते- “क्वाथ्यद्रव्याञ्जलिं क्षुण्णं श्रपयित्वा जलाढके| पादशेषेण तेनाथ यवागूरुपकल्पयेत्|| कर्षार्धं वा कणाशुण्ठ्योः कल्कद्रव्यस्य वा पलम्| विनीय पाचयेद् युक्त्या वारिप्रस्थेन चापराम् ” इति| अपरामिति क्वाथसाध्ययवाग्वा उक्ताया भिन्नां कल्कसाध्यामित्यर्थः| एवं च कल्कपलेन या तत्र यवागूसाधनपरिभाषा, सा इहापि द्रव्यपलकल्केन यवागूसाधनमुपदिशताऽनुमतैव, तथाहि जीवन्त्यादियवाग्वामष्टभिर्द्रव्यैः कोलप्रमाणैः साधनमुक्तम्| यत्तु तत्र वृक्षाम्लयुक्तेत्याद्युक्तं, तदम्लतामात्रार्थं वृक्षाम्लदानं, न तदष्टमाषकप्रमाणं; किंवा, तदप्यष्टमाषकमानप्रमाणमस्तु, तथाऽप्यदूरान्तरार्थतया कल्कपलसाधनोपदेशिका परिभाषाऽनुमतैव भवत्यष्टमाषकाधिकपलकल्कसाधनोपदेशेन; उक्तं हि- “जीवन्त्यजाजीशठिपुष्कराह्वैः सकारवीदीप्यकबिल्वमध्यैः| सयावशूकैर्बदरप्रमाणैर्वृक्षाम्लयुक्ता घृततैलभृष्टा|| अर्शोतिसारानिलगुल्मशोफहृद्रोगमन्दाग्निहिता यवागूः|| या पञ्चकोलैर्विधिनैव तेन सिद्धा भवेत् साऽपि समा तयैव” (चि.अ.१२) इति; तस्मादेतद्यवागूक्तमानलिङ्गदर्शनात् कल्कपलसाध्ययवाग्वभिधायिका परिभाषाऽनुमतैव, तदन्या तत्सहचरिता कर्षार्धकणाशुण्ठीमानदर्शिकाऽनुमतैव| क्वाथसाध्ययवाग्वादिद्रव्यमाने तु वृद्धव्यवहारपूजितेयं परिभाषा- “यदप्सु शृतशीतासु षडङ्गादि प्रयुज्यते| कर्षमात्रं ततो द्रव्यं साधयेत् प्रास्थिकेऽम्भसि|| अर्धशृतं प्रयोक्तव्यं पाने पेयादिसंविधौ” इति| आदिशब्देनात्र यूषरसादिग्रहणम्| “क्वाथ्यद्रव्याञ्जलिं क्षुण्णं” इत्यादिपरिभाषायास्तथाऽनुक्तपरिभाषायाश्च कर्तव्यव्यवस्था, तथा सकलयवागूसाधनतण्डुलजलादिमानव्यवस्थाविचारश्चापामार्गतण्डुलीय (सू.अ.४) एव निर्लोचितोऽनुसरणीयः||१७९-१८७||-

Adhikarana ७२ (१८८) · Śloka १८९

मुद्गान्मसूरांश्चणकान् कुलत्थान् समकुष्टकान्||१८८|| यूषार्थे यूषसात्म्यानां ज्वरितानां प्रदापयेत्|१८९|

🔊 Audio coming soon

Hide commentary

मुद्गानित्यादिर्ज्वरहितयूषद्रव्यसङ्ग्रहः| यूषकरणं च यवागूसाधनवत्| मुद्गः स्वनामप्रसिद्धः||१८८||-

Adhikarana ७३ (१८९) · Śloka १९०

पटोलपत्रं सफलं कुलकं पापचेलिकम्||१८९|| कर्कोटकं कठिल्लं च विद्याच्छाकं ज्वरे हितम्|१९०|

🔊 Audio coming soon

Hide commentary

कुलकं कारवेल्लकम्| पापचेलिकं पाठाशाकम्| कठिल्लकं रक्तपुनर्नवा||१८९||-

Adhikarana ७४ (१९०-१९३) · Śloka १९४

लावान् कपिञ्जलानेणांश्चकोरानुपचक्रकान्||१९०|| कुरङ्गान् कालपुच्छांश्च हरिणान् पृषताञ्छशान्| प्रदद्यान्मांससात्म्याय ज्वरिताय ज्वरापहान्||१९१|| ईषदम्लाननम्लान् वा रसान् काले विचक्षणः| कुक्कुटांश्च मयूरांश्च तित्तिरिक्रौञ्चवर्तकान्||१९२|| गुरूष्णत्वान्न शंसन्ति ज्वरे केचिच्चिकित्सकाः| लङ्घनेनानिलबलं ज्वरे यद्यधिकं भवेत्||१९३|| भिषङ्मात्राविकल्पज्ञो दद्यात्तानपि कालवित्|१९४|

🔊 Audio coming soon

Hide commentary

कपिञ्जलः गौरतित्तिरिः| एणः कृष्णसारः| उपचक्रकः चकोरः| कालपुच्छः हरिणविशेषः| हरिणः ताम्रवर्णः| पृषतः बिन्दुचित्रितो हरिणः| रसकरणे सूदशास्त्रं- “पलानि द्वादश प्रस्थे घनेऽथ तनुके तु षट्| मांसस्य वण्टनं कुर्यात् पलमच्छतरे रसे” इति| यत्र तु रसस्य द्रव्यान्तरेण साधनं, तत्र यवागूवत् साधनं व्याख्येयम्| मात्राविकल्पज्ञ इत्यनेन तावत्या मात्रया, तेन च संस्कारकृतेन विकल्पेनानुष्णलघुना लावादयो देयाः, येन गौरवादग्निवधमुष्णत्वाद्वा ज्वरावृत्तिं न जनयन्तीति दर्शयति||१९०-१९३||-

Adhikarana ७५ (१९४) · Śloka १९५

घर्माम्बु चानुपानार्थं तृषिताय प्रदापयेत्||१९४|| मद्यं वा मद्यसात्म्याय यथादोषं यथाबलम्|१९५|

🔊 Audio coming soon

Hide commentary

घर्माम्बु उष्णाम्बु| घर्माम्ब्वादिश्लेकं चैकेऽनार्षं वदन्ति; तन्न, अनुपानव्यवस्थायामुष्णपानीयमद्ययोर्हितत्वं पूर्वमनुक्तमेवेति तदुपादानं; तथाच तन्त्रान्तरे- “ज्वरे पिबेदनुष्णाम्बु मद्यसात्म्यस्तु यो भवेत्| तस्मै दोषबलं दृष्ट्वा युक्त्या मद्यं विधीयते” इति||१९४||-

Adhikarana ७६ (१९५-१९६) · Śloka १९६

गुरूष्णस्निग्धमधुरान् कषायांश्च नवज्वरे||१९५|| आहारान् दोषपक्त्यर्थं प्रायशः परिवर्जयेत्| अन्नपानक्रमः सिद्धो ज्वरघ्नः सम्प्रकाशितः||१९६||

🔊 Audio coming soon

Hide commentary

गुरूष्णेत्यादिना गुरूष्णादिनिषेधः; पूर्वं तु कषायनिषेधो यद्यपि सामान्येन कृतः, तथाऽपीहान्नप्रतिषेधप्रस्तावादत्यहितप्रतिषेधाच्च पुनः क्रियते||१९५-१९६||

Adhikarana ७७ (१९७-१९९) · Śloka २००

अत ऊर्ध्वं प्रवक्ष्यन्ते कषाया ज्वरनाशनाः| पाक्यं शीतकषायं वा मुस्तपर्पटकं पिबेत्||१९७|| सनागरं पर्पटकं पिबेद्वा सदुरालभम्| किराततिक्तकं मुस्तं गुडूचीं विश्वभेषजम्||१९८|| पाठामुशीरं सोदीच्यं पिबेद्वा ज्वरशान्तये| ज्वरघ्ना दीपनाश्चैते कषाया दोषपाचनाः||१९९|| तृष्णारुचिप्रशमना मुखवैरस्यनाशनाः|२००|

🔊 Audio coming soon

Hide commentary

पाक्यमिति शृतम्| शीतकषायस्तु द्रव्यं सङ्क्षुण्णमुष्णोदके प्रक्षिप्य निशास्थितम्| अत्र शीतकषायपरिभाषा- “द्रव्यादापोथितात्तोये प्रतप्ते निशि संस्थितात्| यः कषायोऽभिनिर्याति स शीतः समुदाहृतः” (सू.अ.४) इति| अत्रापि यद्यपि द्रव्यस्य पानीयस्य च मानं नोक्तं, तथाऽपि क्वाथ्यद्रव्यसमं द्रव्यं ग्राह्यं, पानीयं तु यावन्मानः पेयः क्वाथो भवति तावन्मनं ग्राह्यं, नह्यत्र पानीयह्रासोऽस्ति; किंवा परिभाषयैव जलं देयं- “षड्भिः पलैश्चतुर्भिर्वा सलिलाच्छीतफाण्टयोः| आप्लुतं भेषजपलं रसाख्यायां पलद्वयम्” इति| शीतकषायः स्वल्पवीर्यतया तथा शैत्यगुणयोगाच्चात्पबलदोषे दाहाभिभूतेच देयः| पर्पटकं सदुरालभं वेति तृतीयो योगो मन्दाग्निपित्तकफे| किराततिक्तादिश्चतुर्थो वातकफे| पाठादिश्च पित्ते| किराततिक्तादिना च भेलके सति पाठासप्तकं जतूकर्णप्रत्ययात् कफपित्ते भवति| उक्तं हि तत्र- “भूनिम्बघनगुडूचीशुण्ठ्युदीच्योशीरह्वयपाठाः” इति| अत्र क्वाथकरणे द्रव्यादिमानस्यानुक्तत्वान्न्यायतो मानव्यवस्था| तत्रेह यद्यपि क्वाथसंविधानं विशेषेण नोक्तं, तथाऽपि व्याधितरूपीये यत् क्वाथकरणसंविधानमुक्तं- “छेद्यानि खण्डशश्छेदयित्वा मेद्यानि चाणुशो भेदयित्वा, प्रक्षाल्य, पानीयेनाभ्यासिञ्चेत्” इत्यादिना “गतरसेष्वौषधेषु स्थालीमवतार्य परिपूतं कषायं” (वि.अ.७) इत्यन्तेन, तदेव सर्वकषायकरणसंविधानं ज्ञेयम्| तत्र हि यद्यपि क्वाथ्यद्रव्यमानं तथा द्रवमानं स्थाप्यकषायमानं च नोक्तं, तथाऽपि यावद्द्रव्यं यावता जलेन पक्वं सत् गतरसं भवति, तावति जले तावद्द्रव्यं देयमिति लभ्यते; तथा यावता क्वाथशेषेण गतरसान्यौषधानि भवन्ति तावान् क्वाथः स्थाप्यत इति च लभ्यते; एतच्चौषधानां गतरसत्वं द्रवभागत्रयक्षय एव भवतीति दृश्यते, तेन चतुर्भागावशिष्टता सर्वक्वाथे विशेषवचनं विना कर्तव्या| क्वाथार्थजलदानं तु द्रव्यापेक्षया भवति| तत्र मृदुनि द्रव्ये चतुर्गुणेन जलेन, कठिनेऽष्टगुणेन, कठिनतरे तु षोडशगुणेन पाके सति चतुर्भागावशेषे गतरसत्वं भवति; एतदपि दृश्यते- स्नेहादिसाधनकभूरिक्वाथकरणे इयं प्रयुज्यते; यत्र त्वल्पं क्वाथ्यद्रव्यं तत्र यथा यथाऽल्पत्वं भवति तथा तथा मृदुन्यल्पेऽपि द्रव्ये भूरिजलं दीयते, स्तोकेन जलेन क्वाथ्यद्रव्यस्य गतरसत्वाभावात्| तेन, कर्षादारभ्य पलपर्यन्तक्वाथे मृदुन्यपि षोडशगुणं जलं दीयते, पलादूर्ध्वं तु कुडवपर्यन्तमष्टगुणं जलं दीयते| तदेवमनिर्दिष्टद्रव्यजलशेषमानमप्याचार्येण गतरसत्वाभिधानात् सर्वकषायद्रव्यादिपरिमाणमुक्तम्| यदि हि द्रव्यादीनां नियतं प्रमाणं ब्रूयात्, तदा द्रव्यापेक्षया तथा स्नेहादिसाधनापेक्षया देयक्वाथ्यापेक्षया च यद्भिन्नं परिमाणं तन्न गृहीतं स्यात्| तदर्थाभिधायिकाश्च स्वतन्त्रान्तरपरिभाषा लिख्यन्ते| पातव्यकषाये कृष्णात्रेयः- “क्वाथ्यद्रव्यपले कुर्यात् प्रस्थार्धं पादशेषितम्” इति; अन्यत्राप्युक्तं- “क्वाथ्यद्रव्यपले वारि द्विरष्टगुणमिष्यते” इति; तथा “कर्षादौ तु पलं यावद्दद्यात् षोडशिकं जलम्| ततस्तु कुडवं यावत्तोयमष्टगुणं भवेत्” इति; सुश्रुते च स्नेहादिक्वाथपरिभाषा- “चतुर्गुणेनाष्टगुणेन षोडशगुणेन वाऽम्भसाऽभ्याषिच्य चतुर्भागावशिष्टं क्वाथयित्वाऽवतारयेत् ” (सु.चि.अ.३१); इत्यादिपाठभेदाच्चतुर्गुणाष्टगुणषोडशगुणजलदापिकाः श्रूयन्ते, ताः कठिनादिद्रव्यभेदाद्बोद्धव्याः| यदुक्तं- “मृदौ चतुर्गुणं देयं, कठिनेऽष्टगुणं तथा| कठिनात् कठिनतरे देयं षोडशिकं जलम्” इति| एवं तन्त्रान्तरपरिभाषायां च व्यवस्था वक्तव्या| अग्निवेशे हि श्रूयते- “द्रव्यमापोथितं क्वाथ्यं दत्त्वा षोडशिक जलम्| पादशेषं च कर्तव्यमेष क्वाथविधिः स्मृतः|| चतुर्गुणेनाम्भसा वा द्वितीयः समुदाहृतः” इति; अत्र मध्यविधयाऽष्टगुणत्वमपि पानीयस्य लभ्यते; तेनाप्युक्तं- “द्रव्याणां मध्यपाकार्थं यत्र मात्रा न दर्शिता| पादांशादौषधात्तत्र जलं दद्याच्चतुर्गुणम्|| चतुर्भागावशिष्टं च कषायं कारयेद्भिषक्” इति| एवमन्या अपि तन्त्रान्तरपरिभाषा अविरोधेन नेयाः| अत्रैके वदन्ति- यदेतद्व्याधितरूपीये कषायकरणमुद्दिष्टं तन्निरूहाधिकारे, तद्विशिष्टार्थविषय एव, तथाविधकषायकरणं नान्यत्र; यथा बलातैले- “बलाशतं गुडूच्याश्च पादं रास्नाष्टभागिकम्| जलाढकशते पक्त्वा” (चि.अ.२८) इत्याद्युक्तं मानं न क्वाथान्तरे याति, किन्तु तत्रैव नियमितमिति| मैवं, विषयविशेषोद्देशविहितोऽपि विधिर्विषयान्तरेऽपि वृद्धवैद्यव्यवहारानुमत्या तथा तन्त्रान्तरपरिभाषासंवादेन च विषमतन्त्रं वा दृष्ट्वा समानत्वेनैव व्यवस्थाप्यते; यथा इक्ष्वाकुकल्पे उक्तं- “यावत् स्यात्तन्तुमत्तोये पतितं तु न शीर्यते” (क.अ.३) इत्यादि लेहपाकलक्षणं विषयविशेषोक्तं विषयान्तरेऽपि साधारणं भवति| अत्र पेयक्वाथमात्राऽपि तु इयत्तया नोक्ता, तस्याः पुरुषाद्यपेक्षया नानात्वात्; सामान्येन च यदुक्तं- “दोषप्रमाणानुरूपो हि भैषज्यप्रमाणविकल्पो बलप्रमाणविशेषापेक्षो भवति” (वि.अ.८) इति; एतेन, यावन्मात्रमौषधं बलाग्न्याद्यपेक्षयोपपद्यते यस्य पुरुषस्य, तावन्मात्रमौषधं तस्य देयमित्युक्तं भवति| उक्तं चान्यत्र- “मात्राया नास्त्यवस्थानं दोषमग्निं बलं वयः| व्याधिं द्रव्यं च कोष्ठं च वीक्ष्य मात्रां प्रयोजयेत्” इति| तत्रादूरान्तरा मध्यपुरुषाभिप्रायेण या मात्रा भवति, सा सूचितैव तन्त्रकर्त्रा “पलं वत्सकबीजस्य श्रपयित्वा रसं पिबेत्” (चि.अ.१९) इत्यादिना, तथा पटोलद्येऽपि “पलं तथैषां सह चूर्णितानां जले शृतं दोषहरं पिबेन्ना” इत्यादिना| सुश्रुतेऽयुक्तं- “व्याध्यादिषु तु मध्येषु क्वाथस्याञ्जलिरिष्यते” (सु.सू.अ.३९) इति, पले च क्वाथ्ये षोडशपलस्य पादशेषतायां चतुःपलरूपोऽञ्जलिरेव भवति| दारुकोऽप्याह- “जघन्या द्विपला प्रोक्ता मात्रा, मध्या चतुष्पला| उत्तमा षट्पला प्रोक्ता क्वाथस्नेहौषधेषु तु” इति| अन्यत्र चोक्तम्- “उत्तमस्य पलं मात्रा, त्रिभिश्चाक्षैश्च मध्यमा| जघन्यस्य पलार्धं तु स्नेहक्वाथ्यौषधेषु च” इति| एताश्चादूरान्तरार्था बलाग्न्यादिमानेन व्यवह्रियमाणा एव परिभाषाः| अन्यच्चिन्त्यते- यदेतच्चतुर्गुणत्वादिना जलमुक्तं, तत् किं कृतद्वैगुण्यं सर्वत्र ग्रहीतव्यम्, उक्तं हि- “शुष्कद्रव्येष्विदं मानं द्विगुणं तद्द्रवार्द्रयोः” इति; मैवं, सुनिषण्णकादेर्घृतद्रव्यस्य द्वात्रिंशत्पलपरिमाणे द्रवप्रस्थे सिद्धेऽपि यदयं- “त्रिंशत्पलानि प्रस्थोऽत्र विज्ञेयो द्विपलाधिकः” (चि.अ.१४) इति करोति, तेन तन्त्रान्तरपरिभाषानुमतं कुडवादावेव माने द्वैगुण्यं भवति, कुडवपूर्वमाने तु द्रवार्द्राणां द्वैगुण्यं नास्तीति दर्शयति| येन, पूर्वपरिभाषयैव द्वैगुण्ये लब्धे यत् पुनर्द्वात्रिंशत्पलप्रस्थकीर्तनं, तत् पूर्वपरिभाषाव्यभिचारे सति क्वचिद्वैगुण्यं दर्शयति| तेन, रक्तिकादौ तत्परिभाषार्थव्यभिचारस्तन्त्रान्तरप्रमाणादुन्नीयते| तथाचात्रेयः- “द्वैगुण्यं कुडवादौ तु शुष्कमानाद्द्रवस्य हि| आर्द्रस्यात्यल्पवीर्यत्वाज्ज्ञेयमन्यत्र तत् समम्” इति; तथा जतूकर्णेऽप्युक्तम्- “आर्द्राणां च द्रवाणां च द्विगुणाः कुडवादयः” इति; अन्यत्राप्युक्तं- “रक्तिकादिषु मानेषु यावन्न कुडवो भवेत्| शुष्के द्रवार्द्रयोश्चैव तुल्यं मानं प्रकीर्तितम्” इति| एवं च कुडवादिमानयोग्यस्यापि यत्र द्रव्यस्य पलोल्लेखेन मानं गृह्यते, तत्रापि न द्वैगुण्यम्| तेन “रास्नासहस्रनिर्यूहे तैलद्रोणं विपाचयेत्” (चि.अ.२८) इत्यादिषु पलोल्लेखेन जलं गृह्यमाणं न द्विगुणं भवति| क्वचित् पलोल्लेखमानविधानेऽपि तन्त्रान्तरदर्शनात् कुडवादिविवक्षां कृत्वा पलोल्लेखागतेऽपि द्रवे द्वैगुण्यं भवति| यथा क्षतक्षीणचिकित्सिते “मधुकाष्टपलद्राक्षाप्रस्थक्वाथे” (चि.अ.११) इत्यादिना यः प्रयोग उक्तः, स जतूकर्णे “द्राक्षायाः प्रस्थः, मधुकस्यार्धक्वाथः” इत्यादिना ग्रन्थेन पठितः; तेन, जतूकर्णे मधुकस्यार्धप्रस्थोल्लेखपाठात् कृतद्वैगुण्यमेव द्रवं भवति, तत्प्रत्ययाच्चेहापि मधुकाष्टपलोल्लेखविहितक्वाथ्ये कुडवद्वयविवक्षया कृतद्वैगुण्यमेव जलं देयम्| एवमन्यत्राप्यनुसरणीयम्| अन्ये तु, “कुडवादावित्यत्र अतद्गुणसंविज्ञानबहुव्रीहिणा कुडवे न द्वैगुण्यमस्ति” इति ब्रुवते; ततश्च सुश्रुते “स्नेहकुडवे साध्ये भेषजपलं पिष्टं कल्कं” (सु.चि.अ.३१) इत्युक्तं, तत् कुडवे स्नेहचतुःपले भेषजपलं भवतीति कृत्वा स्नेहप्रस्थेऽष्टपलकल्कदानव्यवहार उपपन्नः; यदि तु कुडवेनाष्टौ पलानि स्नेहस्य गृह्यन्ते, तदा प्रस्थे चतुःपलकल्कदानमव्यवहारसिद्धं स्यात्; एतन्नातिसाधु; यतस्तैव स्निहकुडवे साध्ये क्वाथ्यद्रव्यप्रस्थो विधेय इत्युक्तं, तत्र यदि कुडवेन स्नेहपलचतुष्टयं गृह्यते तदा चतुःपले स्नेहे षोडशपलक्वाथ्यग्रहणं स्यात्, न च तथा व्यवहरति, क्वाथ्यषोडशपलं हि अष्टपले स्नेह एव गृह्यते, तस्मादसाधकमेतत् कुडवाद्वैगुण्यस्येति| द्वैगुण्यं कुडवे युक्तं, यथाऽगस्त्यहरीतक्यां मधुनः कुडवं यदिहोक्तं, तत्तन्त्रान्तरे “मधुनश्च पलाष्टकम्” इति पठ्यते; तथा तन्त्रान्तरे- “त्रायमाणा चतुःपलं दशकेऽम्भसि शेषिते| कुडवे कुडवान् सर्पिःक्षीरधात्रीरसान् पचेत्” इति श्रूयते; तत्र यदि चतुःपलः कुडवः स्यात्, तदाऽत्रोक्तत्रायमाणाघृतेन सह विरोधः स्यात्; उक्तं हि- “जले दशगुणे साध्यं त्रायमाणाचतुःपलम्” इत्यादि, यावत् “रसस्यामलकानां च क्षीरस्य च घृतस्य च| पलानि पृथगष्टाष्टौ दत्त्वा सम्यग्विपाचयेत्” (चि.अ.५) इति, तथाऽन्यत्राप्युक्तम्- “आर्द्रद्रव्यद्रवद्रव्यपलैरष्टभिरेव च| शुष्कद्रव्यचतुष्केण कुडवः समुदाहृतः” इति; तस्मात् कुडवे द्वैगुण्यं साधु| आर्द्रद्वैगुण्ये तु, येषां द्रव्याणां शुष्काणामुपयोग उक्तस्तेषामार्द्रप्रयोगे द्वैगुण्यं भवति; ये तु नित्यमार्द्रा एवोपयुज्यन्ते, न तेषां द्वैगुण्यम्| यदुक्तं- “वासाकुटजकूष्माण्डशतपत्रीसहाचराः | नित्यमार्द्राः प्रयोक्तव्या न तेषां द्विगुणं भवेत्” इति| एतत् सर्वं पेयक्वाथप्रसङ्गेनोक्तं स्नेहपाकेऽपि चिन्तनीयम्| स्नेहपाके तु स्नेहात् पादिकः कल्को देयः, तथाहि वक्ष्यति- “जलस्नेहौषधानां तु प्रमाणं यत्र नेरितम्| तत्र स्यादौषधात् स्नेहः स्नेहात्तोयं चतुर्गुणम्” (क.अ.१२) इति| चतुर्गुण एव स्नेहो द्रवत्वेऽपि न द्वैगुण्यात् कल्कादष्टगुणो भवति| अन्यत्राप्युक्तं- “क्वाथ्याच्चतुर्गुणं वारि पादस्थं स्याच्चतुर्गुणम्| स्नेहात् स्नेहसमं क्षीरं कल्कस्तु स्नेहपादिकः” इति| यत्तु, अष्टपल एव स्नेहे कल्कस्य पलमानत्वं, तदागमसिद्धमपि न व्यवह्रियते; उक्तं हि कृष्णात्रेये- “स्नेहपाकविधौ यत्र प्रमाणं नोदितं क्वचित्| स्नेहस्य कुडवं तत्र पचेत् कल्कपलेन तु” इति| तथा सुश्रुतेऽपि स्नेहकुडवे कल्कपलमुक्तम्| तदेतदकल्कसाध्यत्वं स्नेहस्य स्वरसेनातिगुरुणा साध्ये स्नेहे पुष्पकल्कसाध्ये वा व्यवस्थापनीयम्| द्रव्यस्य हि ससारत्वनिः- सारत्वाभ्यां कल्कस्याल्पत्वभूयस्त्वे दृष्टे| यदुक्तं शौनकवचनमनुवदता वाग्भटेन- “स्नेहे सिध्यति शुद्धाम्बुनिष्क्वाथस्वरसैः क्रमात्| कल्कस्य योजयेदंशं चतुर्थं षष्ठमष्टमम्” इति; तथा “शणस्य कोविदारस्य कर्बुदारस्य शाल्मलेः| कल्काढ्यत्वात् पुष्पकल्कं प्रशंसन्ति चतुःपलम्” इति| अत्र स्नेहप्रस्थापेक्षया चतुःपलः कल्कः स्नेहादष्टमभाग एव भवतीत्यादिविशेषवचनेन “कल्कश्च स्नेहापादिकः” इति सामान्यवचनस्य बाधा क्वचिद्विषयविशेषे भवतीह न विरोधमावहति| भवतु, अलमतिप्रपञ्चेन, सर्वथा व्यवहारानुगतमेव शास्त्रं प्रमाणीकर्तव्यम्||१९७-१९९||-

Adhikarana ७८ (२००-२०३) · Śloka २०३

कलिङ्गकाः पटोलस्य पत्रं कटुकरोहिणी||२००|| पटोलः सारिवा मुस्तं पाठा कटुकरोहिणी| निम्बः पटोलस्त्रिफला मृद्वीका मुस्तवत्सकौ||१०१|| किराततिक्तममृता चन्दनं विश्वभेषजम्| गुडूच्यामलकं मुस्तमर्धश्लोकसमापनाः||२०२|| कषायाः शमयन्त्याशु पञ्च पञ्चविधाञ्ज्वरान्| सन्ततं सततान्येद्युस्तृतीयकचतुर्थकान्||२०३||

🔊 Audio coming soon

Hide commentary

पञ्च पञ्चविधं ज्वरमिति यथासङ्ख्यं सन्ततादिषु कलिङ्गादयो ज्ञेयाः| अन्ये तु पञ्चसु पञ्चैव यौगिकानाहुः ||२००-२०३||

Adhikarana ७९ (२०४-२०६) · Śloka २०७

वत्सकारग्वधौ पाठां षड्ग्रन्थां कटुरोहिणीम्| मूर्वां सातिविषां निम्बं पटोलं धन्वयासकम्||२०४|| वचां मुस्तमुशीरं च मधुकं त्रिफलां बलाम्| पाक्यं शीतकषायं वा पिबेज्ज्वरहरं नरः||२०५|| मधूकमुस्तमृद्वीकाकाश्मर्याणि परूषकम्| त्रायमाणामुशीरं च त्रिफलां कटुरोहिणीम्||२०६|| पीत्वा निशिस्थितं जन्तुर्ज्वराच्छीघ्रं विमुच्यते|२०७|

🔊 Audio coming soon

Hide commentary

वत्सकारग्वधमित्यादिना बलामित्यन्तेन केचिद्योगत्रयं, केचिदेकमेव योगं वदन्ति| निशि स्थितमिति शीतकषायम्||२०४-२०६||-

Adhikarana ८० (२०७-२०९) · Śloka २०९

जात्यामलकमुस्तानि तद्वद्धन्वयवासकम्||२०७|| विबद्धदोषो ज्वरितः कषायं सगुडं पिबेत्| त्रिफलां त्रायमाणां च मृद्वीकां कटुरोहिणीम्||२०८|| पित्तश्लेष्महरस्त्वेष कषायो ह्यानुलोमिकः| त्रिवृताशर्करायुक्तः पित्तश्लेष्मज्वरापहः||२०९||

🔊 Audio coming soon

Hide commentary

जातीत्यादौ जातीपल्लवाः| सगुडं पिबेदित्यत्र गुडस्य प्रक्षेप्यत्वेन क्वाथ्यद्रव्यापेक्षया पादिकत्वम्| एवमन्यत्रापि प्रक्षेपे बोद्धव्यम्||२०७-२०९||

Adhikarana ८१ (२१०-२१४) · Śloka २१४

बृहत्यौ वत्सकं मुस्तं देवदारु महौषधम्| कोलवल्ली च योगोऽयं सन्निपातज्वरापहः||२१०|| शटी पुष्करमूलं च व्याघ्री शृङ्गी दुरालभा| गुडूची नागरं पाठा किरातं कटुरोहिणी||२११|| एष शट्यादिको वर्गः सन्निपातज्वरापहः| कासहृद्ग्रहपार्श्वार्तिश्वासतन्द्रासु शस्यते||२१२|| बृहत्यौ पौष्करं भार्गी शटी शृङ्गी दुरालभा| वत्सकस्य च बीजानि पटोलं कटुरोहिणी||२१३|| बृहत्यादिर्गणः प्रोक्तः सन्निपातज्वरापहः| कासादिषु च सर्वेषु दद्यात् सोपद्रवेषु च||२१४||

🔊 Audio coming soon

Hide commentary

अत्र कषायप्रकरणागतत्वात् सन्निपातचिकित्सावसरमप्युल्लङ्घ्य सन्निपातहरौ शट्यादिबृहत्यादिप्रयोगौ पठति||२१०-२१४||

Adhikarana ८२ (२१५) · Śloka २१५

कषायाश्च यवाग्वश्च पिपासाज्वरनाशनाः| निर्दिष्टा भेषजाध्याये भिषक्तानपि योजयेत्||२१५||

🔊 Audio coming soon

Hide commentary

भेषजाध्याये भेषजचतुष्के; चतुष्केऽपि हि ‘अधीयन्ते अस्मिन्नर्था’ इति कृत्वा अध्यायशब्दो वर्तत एव| योगमात्रेण तु तत्र षड्विरेचनशताश्रितीयेऽध्याये (सू.अ.४) ज्वरघ्नतृष्णाघ्नौ महाकषायौ प्रोक्तौ; तयोश्च प्रत्येकद्रव्यकृताः कषाया बहवो भवन्तीति कषाया इति बहुवचनं साधु| यवाग्वश्च अपामार्गतण्डुलीये (सू.अ.२) प्रोक्ताः||२१५||

Adhikarana ८३ (२१६-२१७) · Śloka २१७

ज्वराः कषायैर्वमनैर्लङ्घनैर्लघुभोजनैः| रूक्षस्य ये न शाम्यन्ति सर्पिस्तेषां भिषग्जितम्||२१६|| रूक्षं तेजो ज्वरकरं तेजसा रूक्षितस्य च| यः स्यादनुबलो धातुः स्नेहवध्यः स चानिलः||२१७||

🔊 Audio coming soon

Hide commentary

इदानीं सर्पिःप्रयोगानभिधातुं सर्पिषो विषयमाह - ज्वरा इत्यादि| वमनैरित्यनेनेहावस्थाविधेयवमनप्रयोगान् सर्पिःषडहभाविनो दर्शयति| लङ्घनवचनेन च लङ्घनसमानकालाः स्वेदादयो गृह्यन्ते| रूक्षस्येति वचनेन कषायादिप्रयोगे सत्यपि सामतानुबन्धात् कफोत्तरतया वा यत्र रूक्षत्वं न भवति तत्र सर्पिर्न दातव्यमिति दर्शयति| अत्र कषायैरित्याद्यसमासनिर्देशेन व्यस्तैः समस्तैरपि कषायादिप्रयोगै रूक्षस्य सर्पिःपानं कर्तव्यमिति दर्शयति| नन्वविशेषेण सर्वज्वरेषु कषायानन्तरं सर्पिरुच्यते, तत्कथमुपपन्नं भवतीत्याह- रूक्षं तेज इत्यादि| तत्र तेजःशब्दो यद्यपि पित्तानलस्नेहशक्तिद्युतिषु ग्रीष्मे च वर्तते, तथाऽपीह तेजःशब्देनोष्माऽभिधीयते; तेन रूक्षस्वरूप ऊष्मा सर्वत्र ज्वरकर इत्युक्तं भवति| स चोष्मा आमाशयविक्षिप्तस्याग्नेस्तथा देहभवो ज्वरप्रभावकृतश्च ज्वररूपो ज्ञेयः| यदुक्तं- “स्वेन तेनोष्मणा चैव कृत्वा देहोष्मणौ बलम्| सन्तापमधिकं देहे जनयन्ति” इत्यादि| अयं च ऊष्मा सूक्ष्मविचारे यद्यपि पित्तस्य भवति, यदुक्तं- “ऊष्मा पित्तादृते नास्ति ज्वरो नास्त्यूष्मणा विना” (वा.चि.अ.१) इति, पित्तं च यद्यपि “सस्नेहमुष्णं तीक्ष्णं च” (सू.अ.१०) इत्यादिना ग्रन्थेन स्निग्धमुक्तं, तथाऽप्यवस्थावशात् पित्तं निरामं सन्निःस्नेहं भवति, स्नेहश्च पित्तगुणो द्रवयोगनिमित्तको न सांसिद्धिकः; तेन स्नेहापगमः पित्तस्योह्यत एवावस्थायां; तेन निःस्नेहस्य पित्तस्योष्मा रूक्ष एव भवति| इयं च व्याध्यवस्था व्याधिप्रभावादेव जीर्णावस्थायां भवति, यथा- मदात्ययस्यान्ते वातपित्तत्वं; यदुक्तं “पित्तमारुतपर्यन्तः प्रायेण हि मदात्ययः” (चि.अ.२४) इति| क्षारपाणिनाऽप्युक्तं- “ज्वरोष्मणा रूक्षितेषु धातुषु बलवान् मारुतो ज्वरानुबन्धं विषमज्वराणामन्यतमं वा कुर्यात्” इत्यादि| तत्र रूक्षेण तेजसा ज्वरकालसम्बन्धाद्रूक्षितस्य ज्वरिणो योऽनुबन्धो धातुरनिलः स्यात् स च स्नेहवध्य इति सर्पिःकृतस्नेहगुणवध्य इत्यर्थः; चकाराद्रूक्षं तेजो यज्ज्वरकरं तदपि सर्पिःकृतस्नेहवध्यमिति समुच्चिनोति| धातुरिति विशेषणेन वायोर्धारणात्मकता उच्यते; ततश्च धारणात्मकस्य वायोः प्रकोपो महात्यय इति सूचयति| अनु पश्चाद्बलं भवति यस्य सोऽनुबलः| तेन सर्वज्वरेषु कषायादिना द्वादशाहेन च कालेन कफंशविक्षये सति ज्वरोष्मा वृद्धो भवति, तद्विरूक्षणाच्च वायुरपि वृद्धो भवति| अत्र ज्वरोष्मणि पित्तधर्मे सर्पिस्तावच्छैत्याद्विहितं भवतीति प्रसिद्धत्वानोक्तं; स्नेहांशेनैव तु सर्पिर्यथा पित्तोष्माणं ज्वरकरं रूक्षस्वरूपं तथा वातं च स्नेहाच्छमयति, तत् ‘रूक्षं तेज’ इत्यादिना श्लोकेनोक्तं भवति| अन्ये तु तेजःशब्देनेह पित्तमेव ग्राहयन्ति| पित्तं हि द्विविधं- सद्रवं निर्द्रवं च| यत् सद्रवं तत् सस्नेहं, यत्तु लङ्घनादिना क्षपितार्द्रभागं निर्द्रवं तद्रूक्षं भवति, तदिह ‘रूक्षं तेज’ इत्यनेन गृह्यते| अन्ये तु ‘यः स्यादनुबलो धातुः’ इत्यनेनानुबन्धरूपं कफं ग्राहयन्ति, ततोऽनुबन्धः कफो रूक्षं पित्तं वातश्च स्नेहासाध्यो भवतीत्यर्थः; स्नेहशब्देन च प्रकरणात् सर्पिरुच्यते, सर्पिश्च कफजित् संस्काराद्भवति; यदुक्तं- “घृतं तुल्यगुणं दोषं संस्कारात्तु जयेत् कफम्” इति (नि.अ.१); किञ्च “अत ऊर्ध्वं कफे मन्दे” इत्यादिना त्रिष्वपि दोषेषु सर्पिःप्रयोगोऽनुमतः; तदिहापि त्रय एव दोषा यथोक्तव्याख्यया सर्पिर्विषयाः प्रतिपादिता भवन्तीति| अस्मकं तु पूर्व एव व्याख्याने स्वरसः| अन्ये तु ‘रूक्षे तेजो ज्वरकरं’ इति पठन्ति| तत्र रूक्षे इति कषायादिभी रूक्षीकृतशरीरे इति ज्ञेयं, शेषं च पूर्ववत्| अयं च पाठः पूर्वटीकाकृद्भिर्भासदत्त-स्वामिदासाषाढवर्म-ब्रह्मदेवप्रभृतिभिरपि व्याख्यातत्वान्न प्रतिक्षेपणीयः| खरनादेनापि समानोऽयं पाठः| उक्तं हि तत्र- “कषायपानाद्वमनाल्लङ्घनाल्लघुभोजनात्| रूक्षितानां ज्वरो मोक्षे सर्पिःपानमुदीक्षते|| रूक्षतेजोऽधिके देहे” इत्यादिना||२१६-२१७||

Adhikarana ८४ (२१८) · Śloka २१८

कषायाः सर्व एवैते सर्पिषा सह योजिताः| प्रयोज्या ज्वरशान्त्यर्थमग्निसन्धुक्षणाः शिवाः||२१८||

🔊 Audio coming soon

Hide commentary

सम्प्रति सर्पींषि प्राह- कषाया इत्यादि| य एते ज्वरघ्ना कषाया उक्तास्ते सर्पिषा सह योजिताः सर्पिःसाधनत्वेन प्रयुक्ताः प्रयोज्याः; यथोक्तकषायद्रव्यैः स्वविषय एव सर्पींषि साधयित्वा प्रयोज्यानीति वाक्यार्थः| अन्ये तु कषायाणां सर्पिषा मिश्रीकृतानामनेन वचसा प्रयोगमिच्छन्ति||२१८||

Adhikarana ८५ (२१९-२२१) · Śloka २२१

पिप्पल्यश्चन्दनं मुस्तमुशीरं कटुरोहिणी| कलिङ्गकास्तामलकी सारिवाऽतिविषा स्थिरा||२१९|| द्राक्षामलकबिल्वानि त्रायमाणा निदिग्धिका| सिद्धमितैर्घृतं सद्यो जीर्णज्वरमपोहति||२२०|| क्षयं कासं शिरःशूलं पार्श्वशूलं हलीमकम्| अंसाभितापमाग्निं च विषमं सन्नियच्छति||२२१||

🔊 Audio coming soon

Hide commentary

पिप्पल्य इत्यादि| पिप्पल्यादौ घृते पिप्पल्यादीनां विशेषानुक्तेः कषायत्वं कल्कत्वं चैके ब्रुवते, अन्ये तु कल्कमेवेच्छन्ति| द्रवकार्यं तु द्रवस्यानुक्तत्वात्तोयेनैव कर्तव्यं, “द्रवकार्येऽपि चानुक्ते सर्वत्र सलिलं स्मृतम्” (क.अ.१२) इति वचनात्| ननु यत्र कल्कत्वेन द्रव्यश्रुतिः, द्रवं च न श्रुतं, तत्र जलं ग्रहीतव्यं, यथा- “त्र्यूषणत्रिफलाकल्के बिल्वमात्रे गुडात् पले| सर्पिषोऽष्टपलं पक्त्वा मात्रां मन्दानलः पिबेत्” (चि.अ.१५) इति; यत्र तु कषायत्वं कल्कत्वं वा नोक्तं तत्र क्वाथकल्कावेव कर्तव्यौ, यदुक्तं सुश्रुते- “कल्कक्वाथावनिर्देशे गणात्तस्मात् प्रयोजयेत्” (सु.चि.अ.३१) इति| मैवं, सुश्रुतोक्तपरिभाषा हीयं गणविषया एव, ‘गणात्तस्मात् प्रयोजयेत्’ इति वचनात्; न च पिप्पल्यादयोऽमी गणत्वेनोक्ताः, गणोऽपि यत्राधिकरणेन श्रुतस्तत्रैव क्वाथकल्ककरणं; यदुक्तमन्यत्र- “यत्राधिकरणेनोक्तिर्गणस्य स्नेहसंविधौ| तत्रैव कल्कनिर्यूहाविष्येते स्नेहवेदिभिः” इति; किञ्च सामान्येन द्रव्यस्य स्नेहसाधनाभिधाने यदि कल्ककषायत्वं स्यात्तदा बलातैलादौ “बलाकषायकल्काभ्यां तैलं क्षीरसमं पचेत्” (चि.अ.२९) इति न कुर्यात् कल्ककषाययोरुपादानं, सामान्यसाधनवचनेनैव लब्धत्वात्, तस्मात् कल्कमात्रेणैव पिप्पल्यादिद्रव्यं जलं च चतुर्गुणं देयम्; एवमन्यत्रापि बोद्धव्यम्| अत्र च पक्तव्यघृतस्य प्रमाणानिर्देशादव्यवस्थितमानमेव सर्पिरिच्छातः पक्तव्यं, यत्र तु प्रस्थादिमाननिर्देशं करोति तत्र तावन्मात्रेणैव स्नेहसाध्यरोगोपशमो भवतीति ज्ञेयम्| तथाहि वातव्याधौ प्रभूतस्नेहसाध्ये भूयसीमेव स्नेहमात्रां वक्ष्यति, प्रपौण्डरीकाद्ये नस्ययोगितया कुडवमानं स्नेहं वक्ष्यति, कुष्ठोक्ततिक्तकषट्पलादौ अत्यल्पपाकसंविधानेन पक्वस्य घृतस्य कार्यकर्तृत्वं भवतीति भेषजप्रभावदर्शी महर्षिर्बोधयति| तत्र यदि कुष्ठस्य दीर्घरोगतया भूयो भूयस्तिक्तषट्पललेपेन प्रयोजनं तदा पुनः पुनः षट्पलमानं पक्तव्यं घृतं, “यथा कुर्वन्ति स उपाय” (सू.अ.२६) इति वचनात्| एवमगस्त्यहरीतक्यादावपि प्रतिनियतमानकथनप्रयोजनं वाच्यम्| तस्मान्न यादृच्छिकं क्वचिदाचार्यस्य मानाभिधानमनभिधानं च| तामलकी ‘भूम्यामलकी’ इति ख्याता| हलीमकं कामलाभेदम्| सन्नियच्छति समीकरोति||२१९-२२१||

Adhikarana ८६ (२२२-२२३) · Śloka २२३

वासां गुडूचीं त्रिफलां त्रायमाणां यवासकम्| पक्त्वा तेन कषायेण पयसा द्विगुणेन च||२२२|| पिप्पलीमुस्तमृद्वीकाचन्दनोत्पलनागरैः| कल्कीकृतैश्च विपचेद्धृतं जीर्णज्वरापहम्||२२३||

🔊 Audio coming soon

Hide commentary

वासाद्ये घृते क्वाथस्य परिमाणं यद्यपि नोक्तं, तथाऽपि द्विगुण एव क्वाथो ग्राह्यः; स्नेहपाके चतुर्गुण एव द्रवः, “स्नेहात्तोयं चतुर्गुणम्” (क.अ.१२) इति वचनात्; जलशब्दश्चात्र द्रवोपलक्षणः| अत्र च “द्वाभ्यामपि चातुर्गुण्यम्” इति परिभाषया यद्यपि क्षीरं कषायवद्विगुणमत्र लभ्यते, तथाऽपि त्रिविधशिष्यबुद्धिहिताय स्पष्टार्थं क्षीरद्वैगुण्याभिधानमिति ब्रुवते| तत्र क्षीरस्य मानानुक्तौ “क्वाथ्याच्चतुर्गुणं वारि पादस्थं स्याच्चतुर्गुणम्| स्नेहात् स्नेहसमं क्षीरं कल्कश्च स्नेहपादिकः” इति वचनात् क्षीरस्य द्रवान्तरसत्त्वे सति स्नेहसमत्वमेव स्यात्; ततश्च कषायभागत्रयं क्षीरं चैकभागमिति कृत्वा द्वाभ्यामपि चातुर्गुण्यमिति परिभाषा स्यात्; तस्मात् कर्तव्यं क्षीरद्वैगुण्यवचनम्| अन्ये तु- “द्वाभ्यामपि चातुर्गुण्यमिति परिभाषया प्रत्येकमेव द्रवेण चातुर्गुण्यमिच्छन्ति”, ततश्चेह कषायस्य चातुर्गुण्यं क्षीरस्य तु द्वैगुण्यं भवति| तत्र “एकेनापि चातुर्गुण्यं, द्वाभ्यामपि चातुर्गुण्यं, त्रिभिरपि चातुर्गुण्यं, चतुर्भिः समम्” इति वचनेन चतुर्भिः स्नेहसमताभिधानेन स्नेहचातुर्गुण्यमेव द्रवस्योक्तम्| अतो द्वाभ्यां त्रिभिरपि तथा चातुर्गुण्यं कर्तव्यं यथा स्नेहाच्चतुर्गुणं स्यात्, तच्च मिलित्वैव चातुर्गुण्यं भवति न प्रत्येकम्| चतुर्गुणद्रवपरिभाषा तु पञ्चप्रभृतिद्रवसान्निध्ये विशेषवचनाद्बाध्यते| वचनं हि- “पञ्चप्रभृति यत्र स्युर्द्रवाणि स्नेहसंविधौ| तत्र स्नेहसमान्याहुरर्वाक् स्यात्तु चतुर्गुणम्” इति||२२२-२२३||

Adhikarana ८७ (२२४-२२६) · Śloka २२६

बलां श्वदंष्ट्रां बृहतीं कलसीं धावनीं स्थिराम्| निम्बं पर्पटकं मुस्तं त्रायमाणां दुरालभाम्||२२४|| कृत्वा कषायं पेष्यार्थे दद्यात्तामलकीं शटीम्| द्राक्षां पुष्करमूलं च मेदामामलकानि च||२२५|| घृतं पयश्च तत् सिद्धं सर्पिर्ज्वरहरं परम्| क्षयकासशिरःशूलपार्श्वशूलांसतापनुत् ||२२६||

🔊 Audio coming soon

Hide commentary

बलाद्येऽपि क्वाथपयसोः पूर्वोक्तक्वाथक्षीरसाहचर्यात् प्रत्येकं द्विगुणत्वं ज्ञेयम्||२२४-२२६||

Adhikarana ८८ (२२७-२३३) · Śloka २३३

ज्वरिभ्यो बहुदोषेभ्य ऊर्ध्वं चाधश्च बुद्धिमान्| दद्यात् संशोधनं काले कल्पे यदुपदेक्ष्यते||२२७|| मदनं पिप्पलीभिर्वा कलिङ्गैर्मधुकेन वा| युक्तमुष्णाम्बुना पेयं वमनं ज्वरशान्तये||२२८|| क्षौद्राम्बुना रसेनेक्षोरथवा लवणाम्बुना| ज्वरे प्रच्छर्दनं शस्तं मद्यैर्वा तर्पणेन वा||२२९|| मृद्वीकामलकानां वा रसं प्रस्कन्दनं पिबेत्| रसमामलकानां वा घृतभृष्टं ज्वरापहम्||२३०|| लिह्याद्वा त्रैवृतं चूर्णं संयुक्तं मधुसर्पिषा| पिबेद्वा क्षौद्रमावाप्य सघृतं त्रिफलारसम्||२३१|| आरग्वधं वा पयसा मृद्वीकानां रसेन वा| त्रिवृतां त्रायमाणां वा पयसा ज्वरितः पिबेत्||२३२|| ज्वराद्विमुच्यते पीत्वा मृद्वीकाभिः सहाभयाम्| पयोऽनुपानमुष्णं वा पीत्वा द्राक्षारसं नरः||२३३||

🔊 Audio coming soon

Hide commentary

सम्प्रति क्रमसूचितवमनविरेचनयोगानाह- ज्वरिभ्य इत्यादिना| बहुदोषेभ्य इत्यनेन अल्पदोषेषु संशोधनं निषिद्धमिति स्फोरयति| काल इति यथोक्तवमनविरेचनयोग्यज्वरावस्थायाम्| कल्प इति कल्पस्थाने| मदनपिप्पलीयुक्तं कफे, कलिङ्गयुक्तं पित्तश्लेष्मणि, मधुकयुक्तं तु दाहप्राये | क्षौद्रयोगान्मधुरीकृतमम्बु क्षौद्राम्बु| सैन्धवयोगाल्लवणीकृतमम्बु लवणाम्बु| प्रस्कन्दनमिति विरेचनम्| आवाप्येति उपयोज्य||२२७-२३३||

Adhikarana ८९ (२३४-२३९) · Śloka २३९

कासाच्छ्वासाच्छिरःशूलात्पार्श्वशूलाच्चिरज्वरात्| मुच्यते ज्वरितः पीत्वा पञ्चमूलीशृतं पयः||२३४|| एरण्डमूलोत्क्वथितं ज्वरात् सपरिकर्तिकात्| पयो विमुच्यते पीत्वा तद्वद्बिल्वशलाटुभिः||२३५|| त्रिकण्टकबलाव्याघ्रीगुडनागरसाधितम्| वर्चोमूत्रविबन्धघ्नं शोफज्वरहरं पयः||२३६|| सनागरं समृद्वीकं सघृतक्षौद्रशर्करम्| शृतं पयः सखर्जूरं पिपासाज्वरनाशनम्||२३७|| चतुर्गुणेनाम्भसा वा शृतं ज्वरहरं पयः| धारोष्णं वा पयः सद्यो वातपित्तज्वरं जयेत्||२३८|| जीर्णज्वराणां सर्वेषां पयः प्रशमनं परम्| पेयं तदुष्णं शीतं वा यथास्वं भेषजैः शृतम्||२३९||

🔊 Audio coming soon

Hide commentary

पाठक्रमागतक्षीरप्रयोगानाह- कासादित्यादि| अत्र पञ्चमूल्यादिद्रव्यस्य तथा क्षीरस्य पानीयस्य च मानानुक्तौ वृद्धवैद्यव्यवहारसिद्धया परिभाषया मानकल्पना; यदुक्तं- “द्रव्यादष्टगुणं क्षीरं क्षीरात्तोयं चतुर्गुणम्| क्षीरावशेषः कर्तव्यः क्षीरपाके त्वयं विधिः” इति| एतच्च द्रव्यस्यार्धपलं, क्षीरं पलचतुष्टयं, पानीयं पलानि षोडश दत्त्वा, क्षीरावशेषः पाकः कर्तव्यः; एवम्प्रकारा मानव्यवस्था| यत्र तु माषपर्णीभृतीये “मेदां पयस्यां जीवन्तीं विदारीं कण्टकारिकाम्| श्वदंष्ट्रां क्षीरिकां माषान् गोधूमांश्छालिषष्टिकान्|| पयस्यर्धोदके पक्त्वा कार्षिकानाढकोन्मिते| विवर्जयेत् क्षीरशेषं” (चि.अ.२) इत्यादिना क्षीरद्रव्यादिमानमुक्तं तत्तत्रैव विषये ज्ञेयं, तन्त्रान्तरपरिभाषा- गृहीतत्वादस्य मानस्य| प्रदेशान्तरयोगोक्तं हि मानं तदेव प्रदेशान्तरेऽपि मानलिङ्गं भवति यत् परिभाषानुगतं, यत्तु परिभाषान्तरबाधकं मानं तत् स्वविषय एवावतिष्ठते; यथा- “साधयेच्छुद्धशुष्कस्य लशुनस्य चतुष्पलम्| क्षीरे जलाष्टगुणिते क्षीरशेषं च ना पिबेत्” (चि.अ.५) इति; एवमन्यदपि तन्त्रान्तरे यत् परिभाषाविरुद्धमानकथनं तत्तत्रैव प्रयोगे व्यवस्थितं ज्ञेयम्| परिकर्तिका परिकर्तनाकारा गुदादिवेदना| नागरमित्यादौ क्षौद्रस्य पाकानर्हत्वेनोत्तरकालं द्रव्यान्तरतुल्यमानस्यैव प्रक्षेपो ज्ञेयः| उष्णं शीतं चेति विकल्प इच्छाविशेषकृतः; प्रबले वाते उष्णं, पित्ते त्वतिबले शीतम्||२३४-२३९||

Adhikarana ९० (२४०-२४९) · Śloka २४९

प्रयोजयेज्ज्वरहरान्निरूहान् सानुवासनान्| पक्वाशयगते दोषे वक्ष्यन्ते ये च सिद्धिषु||२४०|| पटोलारिष्टपत्राणि सोशीरश्चतुरङ्गुलः| ह्रीबेरं रोहिणी तिक्ता श्वदंष्ट्रा मदनानि च||२४१|| स्थिरा बला च तत् सर्वं पयस्यर्धोदके शृतम्| क्षीरावशेषं निर्यूहं संयुक्तं मधुसर्पिषा||२४२|| कल्कैर्मदनमुस्तानां पिप्पल्या मधुकस्य च| वत्सकस्य च संयुक्तं बस्तिं दद्याज्ज्वरापहम्||२४३|| शुद्धे मार्गे हृते दोषे विप्रसन्नेषु धातुषु| गताङ्गशूलो लघ्वङ्गः सद्यो भवति विज्वरः||२४४|| आरग्वधमुशीरं च मदनस्य फलं तथा| चतस्रः पर्णिनीश्चैव निर्यूहमुपकल्पयेत्||२४५|| प्रियङ्गुर्मदनं मुस्तं शताह्वा मधुयष्टिका| कल्कः सर्पिर्गुडः क्षौद्रं ज्वरघ्नो बस्तिरुत्तमः||२४६|| गुडूचीं त्रायमाणां च चन्दनं मधुकं वृषम्| स्थिरां बलां पृश्निपर्णीं मदनं चेति साधयेत्||२४७|| रसं जाङ्गलमांसस्य रसेन सहितं भिषक्| पिप्पलीफलमुस्तानां कल्केन मधुकस्य च||२४८|| ईषत्सलवणं युक्त्या निरूहं मधुसर्पिषा| ज्वरप्रशमनं दद्याद्बलस्वेदरुचिप्रदम्||२४९||

🔊 Audio coming soon

Hide commentary

निरूहविधौ ज्वरहरानिति वचनेन ज्वरहरैर्द्रव्यैर्निरूहानुवासनकल्पनां दर्शयति| पटोलाद्ये निरूहे पयस्यर्धोदके शृतमिति वचनेन क्षीरतुल्यस्य जलस्य ग्रहणमर्धशब्दस्य समविभागवचनत्वाज्ज्ञेयम्| अत्र च क्वाथकल्कस्नेहादिमानव्यवस्था सिद्धिस्थाने वक्तव्यैव बोद्धव्या| गुडूच्यादौ साधयेद्रसमिति क्वाथं कुर्यात्| ईषत्सलवणमिषत्क्षौद्रसर्पिषा युक्तमिति योज्यम्||२४०-२४९||

Adhikarana ९१ (२५०-२५३) · Śloka २५३

जीवन्तीं मधुकं मेदां पिप्पलीं मदनं वचाम्| ऋद्धिं रास्नां बलां विश्वं शतपुष्पां शतावरीम्||२५०|| पिष्ट्वा क्षीरं जलं सर्पिस्तैलं च विपचेद्भिषक्| आनुवासनिकं स्नेहमेतं विद्याज्ज्वरापहम्||२५१|| पटोलपिचुमर्दाभ्यां गुडूच्या मधुकेन च| मदनैश्च शृतः स्नेहो ज्वरघ्नमनुवासनम्||२५२|| चन्दनागुरुकाश्मर्यपटोलमधुकोत्पलैः| सिद्धः स्नेहो ज्वरहरः स्नेहबस्तिः प्रशस्यते||२५३||

🔊 Audio coming soon

Hide commentary

जीवन्त्याद्येऽनुवासने यमके क्षीरं स्नेहसमं, जलं तु त्रिगुणमिति स्नेहाच्चातुर्गुण्यं द्रवस्य कार्यम्| मदनैश्च शृतः स्नेह इत्यत्रानन्तरोक्तः सर्पिस्तैलरूप एव यमकस्नेहो ज्ञेयः| एवं ‘सिद्धः स्नेह’ इत्यत्रापि ज्ञेयम्||२५०-२५३||

Adhikarana ९२ (२५४-२५५) · Śloka २५५

यदुक्तं भेषजाध्याये विमाने रोगभेषजे| शिरोविरेचनं कुर्याद्युक्तिज्ञस्तज्ज्वरापहम्||२५४|| यच्च नावनिकं तैलं याश्च तैलं याश्च प्राग्धूमवर्तयः| मात्राशितीये निर्दिष्टाः प्रयोज्यास्ता ज्वरेष्वपि||२५५||

🔊 Audio coming soon

Hide commentary

यदुक्तमित्यादिना शिरोविरेचनद्रव्यमाह| भेषजाध्याये इति अपामार्गतण्डुलीये (सू.अ.२)| यच्च नावनिकं तैलमिति अणुतैलम्||२५४-२५५||

Adhikarana ९३ (२५६) · Śloka २५६

अभ्यङ्गांश्च प्रदेहांश्च परिषेकांश्च कारयेत्| यथाभिलाषं शीतोष्णं विभज्य द्विविधं ज्वरम्||२५६||

🔊 Audio coming soon

Hide commentary

अभ्यङ्गांश्चेत्यादिना क्रमागतं बहिःपरिमार्जनमाह| यथाभिलाषमिति यथेच्छम्| शीतोष्णं विभज्येति शीतसमुत्थं ज्वरमुष्णसमुत्थं च ज्वरं विभज्य; तत्र शीतसमुत्थे उष्णाभ्यङ्गादयः, उष्णे च शीताः कर्तव्याः||२५६||

Adhikarana ९४ (२५७) · Śloka २५७

सहस्रधौतं सर्पिर्वा तैलं वा चन्दनादिकम्| दाहज्वरप्रशमनं दद्यादभ्यञ्जनं भिषक्||२५७||

🔊 Audio coming soon

Hide commentary

अत्र च प्रतिलोमव्याख्यया शीताभिप्रायिणोऽभ्यङ्गादीनाह- सहस्रेत्यादि| सहस्रशब्दो विपुलार्थः; तेनानेकधा धौतं सर्पिरित्यर्थः सूचितः||२५७||

Adhikarana ९५ (२५८-२५९) · Śloka २५९

अथ चन्दनाद्यं तैलमुपदेक्ष्यामः- चन्दनभद्रश्रीकालानुसार्यकालीयकपद्मापद्मकोशीरसारिवामधुकप्रपौण्डरीकनागपुष्पोदीच्यवन्यपद्मोत्पलनलिनकुमुद- सौगन्धिकपुण्डरीकशतपत्रबिसमृणालशालूकशैवालकशेरुकानन्ताकुशकाशेक्षुदर्भशरनलशालिमूलजम्बुवेतसवानीरगुन्द्रा- ककुभासनाश्वकर्णस्यन्दनवातपोथशालतालधवतिनिशखदिरकदरकदम्बकाश्मर्यफलसर्जप्लक्षवटकपीतनोदुम्बराश्वत्थ- न्यग्रोधधातकीदूर्वेत्कटशृङ्गाटकमञ्जिष्ठाज्योतिष्मतीपुष्करबीजक्रौञ्चादनबदरीकोविदारकदली- संवर्तकारिष्टशतपर्वाशीतकुम्भिकाशतावरीश्रीपर्णीश्रावणीमहाश्रावणीरोहिणीशीतपाक्योदनपाकीकालबलापयस्याविदारी- जीवकर्षभकमेदामहामेदामधुरसर्ष्यप्रोक्तातृणशून्यमोचरसाटरूषकबकुलकुटजपटोलनिम्बशाल्मलीनारिकेल- खर्जूरमृद्वीकाप्रियालप्रियङ्गुधन्वनात्मागुप्तामधूकानामन्येषां च शीतवीर्याणां यथालाभमौषधानां कषायं कारयेत्| तेन कषायेण द्विगुणितपयसा तेषामेव च कल्केन कषायार्धमात्रं मृद्वग्निना साधयेत्तैलम्| एतत्तैलमभ्यङ्गात् सद्यो दाहज्वरमपनयति| एतैरेव चौषधैरश्लक्ष्णपिष्टैः सुशीतैः प्रदेहं कारयेत्| एतैरेव च शृतशीतं सलिलमवगाहपरिषेकार्थं प्रयुञ्जीत||२५८|| इति चन्दनाद्यं तैलम्| मध्वारनालक्षीरदधिघृतसलिलसेकावगाहाश्च सद्यो दाहज्वरमपनयन्ति शीतस्पर्शत्वात्||२५९||

🔊 Audio coming soon

Hide commentary

सूचितं चन्दनाद्यं तैलं ब्रूते- अथेत्यादि| अथशब्दोऽधिकारे| चन्दनाद्येन द्रव्येण संस्कृतं तैलमपि चन्दनाद्यमुच्यते| चन्दनं रक्तचन्दनं, भद्रश्रियं श्वेतचन्दनं, कालानुसार्यं शीतलं, नलिनं पद्मभेदः, बिसं मृणालसूत्रं, वेतसः सुगन्धिमूलं, वानीरस्तद्भेदोऽप्यसुगन्धिमूलः, अश्वकर्णः शालभेदः, अरिष्टः पर्वतीयनिम्बः, स्यन्दनः नेमिवृक्षः, वातपोथः पलाशः, तिनिशः वञ्जुलः, कदरः विट्खदिरः, कपीतनः ‘गन्धमुण्ड’ इति ख्यातः, वटः निष्प्ररोहो वटः, न्यग्रोधस्तु प्ररोहवान्, ज्योतिष्मती काङ्गणिका, संवर्तकः बिभीतकः, शतपर्वा श्वेतदूर्वा, शीतकुम्भिका , काष्ठपाटला, महाश्रावणी अलम्बुषा स्थूलफला, शीतपाकी गण्डदूर्वा, ओदनपाकी नीलभेण्डी, काला काकोली, ऋष्यप्रोक्ता ऋद्धिः, तृणशून्यं केतकी| यथालाभमित्यनेन दुःखप्राप्यभेषजपरित्यागेनापि चन्दनादिपाकं दर्शयति| द्विगुणं पयो यस्मिन् क्वाथे तेन द्विगुणपयसा क्वाथेन| अत्र कल्कमानानिर्देशेऽपि स्नेहपादिकत्वं कल्कस्य, “कल्कश्च स्नेहपादिकः” इति वचनात्| अत्र यद्यपि तैलमुष्णं घृतं च शीतलं, शीतं च दाहप्रशमने प्रशस्तं, तथाऽपि सूक्ष्ममार्गानुसारितया व्यवायितया तथा स्पर्शनेनाधिकवातहरतया तैलमेवाभ्यङ्गप्रस्तावे चन्दनाद्यं कृतं न घृतम्; अन्ये घृतादपि तैलं संस्कारवाहितरमिति कृत्वा तैलमिहोक्तमिति ब्रुवते| ननु चन्दनाद्यमिति सञ्ज्ञाकरणेन किं? प्रदेशान्तरे व्यवहारार्थमिति चेत्; न, विनाऽपि सञ्ज्ञाकरणे प्रदेशान्तरे यौगिकसञ्ज्ञया व्यवहारो दृष्टः, यथा- “षट्पलं पाययेत् सर्पिः” (चि.अ.५), तथा “वासाघृतं दाधिकं च पिबेत्त्र्यूषणमेव च” (चि.अ.१७) इत्यादौ; तथा कृतायामपि सञ्ज्ञायां व्यवहारो न दृश्यते, यथा- “एतत् प्रायोगिकं सर्पिः पारूषकमिति स्मृतम्” (चि.अ.२९) इति, तथा षड्भागकषायकादिसञ्ज्ञां कृत्वा न च ताभिः प्रदेशान्तरे व्यवहारः कृतः| मैवं पारूषकादिसञ्ज्ञया यद्यपि शास्त्रे व्यवहारो नास्ति, तथाऽपि तद्विद्यानां वैद्यानां तया सञ्ज्ञया व्यवहारो भविष्यति, एतदर्थं सञ्ज्ञाकरणम्| सञ्ज्ञानां च प्रयोगकथनसमयेऽकरणेऽपि योगसिद्धाः सञ्ज्ञा भवन्त्येव षट्पलादिकाः| तेन प्रदेशान्तरेऽपि यौगिकसञ्ज्ञाव्यवहारो भवति क्वचित्, क्वचिच्चान्यथोपादेयतया वैद्यप्रसिद्ध्या च प्रयोगसमय एव सञ्ज्ञा क्रियत इति न काचित् क्षतिः| एवमन्यत्रापि सञ्ज्ञाकरणे व्याख्येयम्| अश्लक्ष्णपिष्टैरिति वचनेन श्लक्ष्णपिष्टलेपस्य दाहकर्तृतां सुचयति; यदुक्तं- “श्लक्ष्णपिष्टघनो लेपश्चन्दनस्यापि दाहकृत्| त्वगगतस्योष्मणो रोधाच्छीतकृत्त्वन्यथाऽगुरोः” (चि.अ.३०) इति||२५८-२५९||

Adhikarana ९६ (२६०-२६६) · Śloka २६६

भवन्ति चात्र- पौष्करेषु सुशीतेषु पद्मोत्पलदलेषु च| कदलीनां च पत्रेषु क्षौमेषु विमलेषु च||२६०|| चन्दनोदकशीतेषु शीते धारागृहेऽपि वा| हिमाम्बुसिक्ते सदने दाहार्तः संविशेत् सुखम्||२६१|| हेमशङ्खप्रवालानां मणीनां मौक्तिकस्य च| चन्दनोदकशीतानां संस्पर्शानुरसान् स्पृशेत्||२६२|| स्रग्भिर्नीलोत्पलैः पद्मैर्व्यजनैर्विविधैरपि| शीतवातावहैर्व्यज्ज्येच्चन्दनोदकवर्षिभिः ||२६३|| नद्यस्तडागाः पद्मिन्यो ह्रदाश्च विमलोदकाः| अवगाहे हिता दाहतृष्णाग्लानिज्वरापहाः||२६४|| प्रियाः प्रदक्षिणाचाराः प्रमदाश्चन्दनोक्षिताः| सान्त्वयेयुः परैः कामैर्मणिमौक्तिकभूषणाः||२६५|| शीतानि चान्नपानानि शीतान्युपवनानि च| वायवश्चन्द्रपादाश्च शीता दाहज्वरापहाः||२६६||

🔊 Audio coming soon

Hide commentary

संस्पर्शानुरसान् स्पृशेदिति वचनान्न चिरं धारयेदिति दर्शयति; चिरधारणे हि तेषामप्युष्णता स्यात्| वायवश्चन्द्रपादाश्च शीता इति अत्र शीता इति विशेषणं वायोः; न चन्द्रपादानां, तेषां सर्वदा शीतत्वात्; किंवा चन्द्रपादा अपि उष्णकाले उष्णसम्पर्कादुष्णा भवन्ति, तन्निरासार्थं शीता इति||२६०-२६६||

Adhikarana ९७ (२६७) · Śloka २६७

अथोष्णाभिप्रायिणां ज्वरितानामभ्यङ्गादीनुपक्रमानुपदेक्ष्यामः- अगुरुकुष्ठतगरपत्रनलदशैलेयध्यामकहरेणुकास्थौणेयकक्षेमकैलावराङ्गदलपुरतमालपत्रभूतीकरोहिषसरलशल्लकी- देवदार्वग्निमन्थबिल्वस्योनाककाश्मर्यपाटलापुनर्नवावृश्चीरकण्टकारीबृहतीशालपर्णीपृश्निपर्णीमाषपर्णीमुद्गपर्णीगोक्षुरकैरण्ड- शोभाञ्जनकवरुणार्कचिरबिल्वतिल्वकशटीपुष्करमूलगण्डीरोरुबूकपत्तूराक्षीवाश्मान्तकशिग्रुमातुलुङ्गपीलुकमूलकपर्णी- तिलपर्णीपीलुपर्णीमेषशृङ्गीहिंस्रादन्तशठैरावतकभल्लातकास्फोतकाण्डीरात्मजैकेषीकाकरञ्जधान्यकाजमोद- पृथ्वीकासुमुखसुरसकुठेरककालमालकपर्णासक्षवकफणिज्झकभूस्तृणशृङ्गवेरपिप्पलीसर्षपाश्वगन्धारास्नारुहारोहावचाबलातिबला- गुडूचीशतपुष्पाशीतवल्लीनाकुलीगन्धनाकुलीश्वेताज्योतिष्मतीचित्रकाध्यण्डाम्लचाङ्गेरी- तिलबदरकुलत्थमाषाणामेवंविधानामन्येषां चोष्णवीर्याणां यथालाभमौषधानां कषायं कारयेत्, तेन कषायेण तेषामेव च कल्केन सुरासौवीरकतुषोदकमैरेयमेदकदधिमण्डारनालकट्वरप्रतिविनीतेन तैलपात्रं विपाचयेत्| तेन सुखोष्णेन तैलेनोष्णाभिप्रायिणं ज्वरितमभ्यञ्ज्यात्, तथा शीतज्वरः प्रशाम्यति; एतैरेव चौषधैः श्लक्ष्णपिष्टैः सुखोष्णैः प्रदेहं कारयेत्, एतैरेव च शृतं सुखोष्णं सलिलमवगाहनार्थं परिषेकार्थं च प्रयुञ्जीत शीतज्वरप्रशमार्थम्||२६७|| इत्यगुर्वाद्यं तैलम्|

🔊 Audio coming soon

Hide commentary

अगुर्वाद्ये क्षेमकः चोरकः, रोहिषः ‘रामकर्पूर’ इति ख्यातः, शिग्रुः शोभाञ्जनभेदः, मूलकपर्णी गुग्गुलुः, तिलपर्णी ‘हुल्हुल’ इति ख्याता, पीलुपर्णी मोरटा, मूर्वेत्यन्ये, गण्डीरः शमठभेदः, स हि जलस्थलजभेदाद्विविधः, आत्मजा पुत्रञ्जीवख्याता, एकैषिका अम्बष्ठा, सुमुखादयः पर्णासभेदाः, रुहा वृक्षरुहा, रोहा अञ्जलिकारिका, शीतपर्णी वृक्षकलम्बुका, नाकुली चविका, गन्धनाकुली रास्नाभेदः, अध्यण्डा शूकशिम्बी| अन्येषां चेत्यनेन रोगभिषग्जितीयाद्युक्तोष्णद्रव्याणि ग्राहयति| सौवीरतुषोदके त्रिवृत्कल्पे वक्ष्यमाणे, मैरेयं सुराकृता सुरा, मेदको जगलः, कट्वरं सस्नेहदधिद्रवः| पात्रम् आढकम्| अत्र कषायादीनि द्रवद्रव्याणि स्नेहसमानि प्रत्येकं कर्तव्यानि; यदुक्तं- “पञ्चप्रभृति यत्र स्युर्द्रवाणि स्नेहसंविधौ| तत्र स्नेहसमान्याहुः” इति||२६७||

Adhikarana ९८ (२६८-२७१) · Śloka २७१

भवन्ति चात्र- त्रयोदशविधः स्वेदः स्वेदाध्याये निदर्शितः| मात्राकालविदा युक्तः स च शीतज्वरापहः||२६८|| सा कुटी तच्च शयनं तच्चावच्छादनं ज्वरम्| शीतं प्रशमयन्त्याशु धूपाश्चागुरुजा घनाः||२६९|| चारूपचितगात्र्यश्च तरुण्यो यौवनोष्मणा| आश्लेषाच्छमयन्त्याशु प्रमदाः शिशिरज्वरम्||२७०|| स्वेदनान्यन्नपानानि वातश्लेष्महराणि च| शीतज्वरं जयन्त्याशु संसर्गबलयोजनात्||२७१||

🔊 Audio coming soon

Hide commentary

स्वेदाध्याये त्रयोदशविधस्योक्तत्वात् पुनस्त्रयोदशविधवचनं सर्वेषामेव करणार्थं; किंवा अधिकानाग्निस्वेदनिषेधार्थम्| त्रयोदशविधस्वेदान्तर्गताऽपि कुटी विशेषेण हितत्वात् पुनरुच्यते| तच्च शयनमिति कुटीपरिकरतया प्रतिपादितं शयनम्; एवमाच्छादनमपि| एतच्च शयनाच्छादनं पृथगप्यत्र हितमिति पृथक्पाठाद्दर्शयति| घना इति बहलाः| स्वेदनानि उष्णानि कुक्कुटमदिराकुलत्थादीनि| संसर्गबलयोजनादित्यत्र अनन्तरोक्त एवोष्णाभिप्रायज्वरकरो वातकफसंसर्गः संसर्गशब्देन गृह्यते; तेन वातकफसंसर्गे यदा वातो बलवान् तदा गुरूष्णस्निग्धभूयिष्ठमन्नपानं, यदा तु कफो बलवांस्तदा लघूष्णरूक्षप्रायं विधेयमित्यर्थः| अयं च वातकफजो ज्वरो विशेषेण वायोर्योगवाहितया शीतो भवतीति कृत्वेहोक्तः ; तेन केवलकफजः केवलवातजोऽपि शीताभिप्रायो ज्ञेय एव||२६८-२७१||

Adhikarana ९९ (२७२-२८२) · Śloka २८३

वातजे श्रमजे चैव पुराणे क्षतजे ज्वरे| लङ्घनं न हितं विद्याच्छमनैस्तानुपाचरेत्||२७२|| विक्षिप्यामाशयोष्माणं यस्माद्गत्वा रसं नृणाम्| ज्वरं कुर्वन्ति दोषास्तु हीयतेऽग्निबलं ततः||२७३|| यथा प्रज्वलितो वह्निः स्थाल्यामिन्धनवानपि| न पचत्योदनं सम्यगनिलप्रेरितो बहिः||२७४|| पक्तिस्थानात्तथा दोषैरूष्मा क्षिप्तो बहिर्नृणाम्| न पचत्यभ्यवहृतं कृच्छ्रात् पचति वा लघु||२७५|| अतोऽग्निबलरक्षार्थं लङ्घनादिक्रमो हितः| सप्ताहेन हि पच्यन्ते सप्तधातुगता मलाः||२७६|| निरामश्चाप्यतः प्रोक्तो ज्वरः प्रायोऽष्टमेऽहनि| उदीर्णदोषस्त्वल्पाग्निरश्नन् गुरु विशेषतः||२७७|| मुच्यते सहसा प्राणैश्चिरं क्लिश्यति वा नरः| एतस्मात्कारणाद्विद्वान् वातिकेऽप्यादितो ज्वरे||२७८|| नाति गुर्वति वा स्निग्धं भोजयेत् सहसा नरम्| ज्वरे मारुतजे त्वादावनपेक्ष्यापि हि क्रमम्||२७९|| कुर्यान्निरनुबन्धानामभ्यङ्गादीनुपक्रमान्| पाययित्वा कषायं च भोजयेद्रसभोजनम्||२८०|| जीर्णज्वरहरं कुर्यात् सर्वशश्चाप्युपक्रमम्| श्लेष्मलानामवातानां ज्वरोऽनुष्णः कफाधिकः||२८१|| परिपाकं न सप्ताहेनापि याति मृदूष्मणाम्| तं क्रमेण यथोक्तेन लङ्घनाल्पाशनादिना||२८२|| आदशाहमुपक्रम्य कषायाद्यैरुपाचरेत्|२८३|

🔊 Audio coming soon

Hide commentary

सम्प्रति वातजादीनां ज्वराणां पूर्वं निषिद्धं लङ्घनमपकृष्य विशेषचिकित्सामाह- वातज इत्यादि| शमनैरिति कषायसर्पिःपानादिभिः शमनैः||२७२-२८२||-

Adhikarana १०० (२८३) · Śloka २८४

सामा ये ये च कफजाः कफपित्तज्वराश्च ये||२८३|| लङ्घनं लङ्घनीयोक्तं तेषु कार्यं प्रति प्रति|२८४|

🔊 Audio coming soon

Hide commentary

सम्प्रति वातजादीनामप्यावस्थायां लङ्घनं, तथा कफजादीनामपि स्वरूपेणैव सामान्येन लाघवकरं लङ्घनमाह- सामा इत्यादि| सामा इत्यनेन वातिकस्यापि सामस्य लङ्घनीयत्वं ब्रूते| उक्तं ह्यन्यत्र- “सामे वातेऽपि लङ्घनम्” इति| कफजे तु निरामेऽपि लङ्घनं शस्यते| कफपित्तजशब्देन कफयुक्तपित्तजस्यैव लङ्घनीयत्वं न केवलं निरामपित्तजस्य, सामपित्तजस्य तु आमक्षयार्थं लङ्घनं शस्यत एव| यदुक्तमन्यत्र- “सामे पित्तेऽपि लङ्घनम्| कुर्यादेवामपक्त्यर्थं” इति| यत्तूक्तं- “कफपित्ते द्रवे धातु सहेते लङ्घनं महत्” इति; तदपि सामत्वेन सद्रवपित्तापेक्ष्या, क्षीणद्रवांशे तु पित्ते लङ्घनं न कर्तव्यमेव| लङ्घनीयोक्तमितिवचनेन लङ्घनबृंहणीयोक्तं दशविधं लङ्घनमवस्थानिषिद्धवमनादिसर्वथानिषिद्धव्यायामादिरहितं च ग्राह्यम्||२८३||-

Adhikarana १०१ (२८४) · Śloka २८५

वमनैश्च विरेकैश्च बस्तिभिश्च यथाक्रमम्||२८४|| ज्वरानुपचरेद्धीमान् कफपित्तानिलोद्भवान्|२८५|

🔊 Audio coming soon

Hide commentary

पूर्वं यद् ‘वमनैर्हरेत्’ इत्युक्तं तत्संसृष्टदोषेषु ज्वरेषु कफाधिक्येन, सम्प्रति तु एकैकदोषजे वमनैश्चेत्यादिना वमनादीनि प्राहेति न पौनरुक्त्यम्||२८४||-

Adhikarana १०२ (२८५-२८६) · Śloka २८७

संसृष्टान् सन्निपतितान् बुद्ध्वा तरतमैः समैः||२८५|| ज्वरान् दोषक्रमापेक्षी यथोक्तैरौषधैर्जयेत्| वर्धनेनैकदोषस्य क्षपणेनोच्छ्रितस्य वा||२८६|| कफस्थानानुपूर्व्या वा सन्निपातज्वरं जयेत्|२८७|

🔊 Audio coming soon

Hide commentary

संसर्गसन्निपातचिकित्सासूत्रमाह- संसृष्टानित्यादि| तरतमैः समैरिति संसर्गे एकोल्बणे उल्बणतरैः; सन्निपाते च वृद्धतरवृद्धतमदोषारब्धे दोषानुसारेणैव; तथा द्व्युल्बणतरेऽपि सन्निपाते द्वौ दोषौ तरेणैव ज्ञेयौ, वृद्धवृद्धतरवृद्धतमदोषारब्धे च त्रिदोषेऽत्यर्थवृद्धा दोषास्तमैर्ज्ञेयाः| येन ‘त्रिषु तमः’ इति यदुक्तं तत्रिषु मध्ये एकस्य प्रकर्षावधारणे भवति; यदा तु त्रिषु द्वौ प्रकृष्टौ विवक्षितौ तदा एकप्रकृष्टापेक्षया ‘द्वयोस्तरः’ इत्यस्यैव विषयः| समैस्तु समदोषारब्धसंसर्गः सन्निपातश्च ज्ञेयः| दोषक्रमापेक्षीति दोषापेक्षीत्यनेन अनेकसकलदोषगतवृद्धवृद्धतरत्वादिविशेषे चिकित्सितोपयुक्ते अपेक्षणीयत्वमुक्तं, क्रमापेक्षीत्यनेन च ज्वरितचिकित्सितोक्तलङ्घनादिक्रमापेक्षा दर्शिता| यथोक्तैरौषधैरिति लङ्घनादिभिरञ्जनपर्यन्तैः| ननु त्रिदोषजे ज्वरे चिकित्सा नोपपद्यते, यतो न त्रिदोषशमनं प्रायो द्रव्यं भवति, यद्धि वातस्य पथ्यं तच्छ्लेष्मण्यपथ्यं, यत् पित्ते पथ्यं तच्च प्रायः श्लेष्मण्यपथ्यं; यथा हि तिक्तकषायं कफपित्तहरं तद्वातकरं, यच्च मधुरं वातपित्तहरं तत् कफकरं, यत्तु त्रिदोषहरमामलकादि तत् स्तोकं प्रतिनियतरोगविषयं नावशयं ज्वरयौगिकं च, सन्निपातश्चायं महात्ययिकः, तत् कथमस्य चिकित्सा कर्तव्येत्याह- वर्धनेनेत्यादि| पञ्चविंशतिप्रकारोऽत्र सन्निपात उच्यते “द्व्युल्बणैकोल्बणैः षट् स्युर्हीनमध्यादिकैश्च षट्” (सू.अ.१७) इत्यादिना; तत्र स्वमते क्षीणद्वादशसु सन्निपातेषु ज्वरारम्भकत्वं नास्ति, क्षीणा हि दोषाः स्वलिङ्गहानिमात्रविकारा नाधिकं ज्वरादिकं कर्तुं समर्थाः; शेषेषु तु त्रयोदशसु त्रिदोषहरद्रव्यस्याभावादभ्यर्हितदोषापेक्षया चिकित्सोच्यते, गत्यन्तराभावात्| तत्र वर्धनेनैकदोषस्येत्यनेनैकदोषस्य वर्धनेनापीत्यर्थः; एकशब्देन च द्वित्रिवृद्धो दोष एवा पेक्षितो न वृद्धतरो नापि वृद्धतमः| तयोर्हि अतिवृद्धयोर्वर्धनेनातिमात्रवृद्ध्याऽत्यहितमेव स्यात्| वर्धनेनैकदोषस्येत्यनेन वृद्धतरवृद्धतमदोषद्वयक्षपणकेनैकदोषवर्धनेन; यथा- वृद्धे कफे वृद्धतरयोश्च वातपित्तयोर्मधुरं, तद्धि वृद्धतरवातपित्तद्वयहन्तृतया कफं क्षीणं वर्धयदपि ज्वरं बलवद्दोषहन्तृतया हरति; तथा वृद्धे कफे वृद्धतरे च् पित्ते मधुरप्रयोगो ज्ञेयः| एवमुदाहरणान्तराणि ज्ञेयानि| अतश्च वर्धनेनैकदोषस्येत्यनेन द्व्युल्बणानां त्रयाणां तथा हीनमध्याधिकदोषाणां सन्निपातानां चिकित्सोक्ता| क्षपणेनैकदोषस्येत्यनेन च क्षीणद्वयसंवर्धकमपि यन्महात्ययवृद्धतरवृद्धतमदोषक्षयकरं भवति तद्भेषजं कर्तव्यं; वृद्धतमो ह्यप्रतिकृतः सद्यो हन्ति, तत्प्रतिक्रियायां च क्षीणयोर्वृद्धिरल्पात्यया, सा क्रमेण प्रतिकर्तव्येति भावः| अनेनैकोल्बणास्त्रयः सन्निपाताश्चिकित्सिताः| अस्मिन्नर्थे तन्त्रान्तरं “न्यूनैकदोषसंवृद्धिरेवं वृद्धजयोऽपि वा| सन्निपाते तु कर्तव्यः सन्निपातवशेन तु” इति| परिशिष्टसमसन्निपातचिकित्सामाह- क्फस्थानानुपूर्व्या वेति| वाशब्दो व्यवस्थितविकल्पवाची, कफस्य स्थानं कफस्थानम्, आमाशयोर्ध्वभाग इत्यर्थः; आनुपूर्वी अनुक्रमः; तेन कफस्थानुपूर्व्या जयेदिति कफस्थानं प्रथमं जयेत्, स्थानग्रहणेन स्थानिनः कफस्यापि ग्रहणम्| कफजयस्तु साक्षान्नोक्तः, तत्स्थानस्यैवामाशयस्य ज्वरारम्भकदोषेण दुष्टस्य चिकित्स्यत्वोपदर्शनार्थम् | उक्तं हि- “ज्वरो ह्यामाशयसमुत्थः” (वि.अ.३) इति| एवं च समा अपि दोषा ज्वरारम्भका यस्मादामाशयं विशेषेण दूषयित्वा ज्वरं कुर्वन्ति, तस्मात् स्थानानुगुणैव ज्वरे प्रथमं चिकित्सा कर्तव्या| स्थानिदोषापेक्षया हि स्थानमेव प्रथमं चिकित्स्यम्| यदुक्तं- “स्थानं जयेद्धि पूर्वं” इति| कफस्य स्थानं कफस्थानम्| तत्र लङ्घनपाचनादिक्रिया ज्वरे प्रथमं प्रतिपादिताः क्रियन्ते| एतच्च यद्यपि सर्वज्वरसाधारणं चिकित्सितं, तथाऽपि सन्निपाते बलवत्तरवातचिकित्सापूर्वकज्वरचिकित्साप्रसक्तिनिरासार्थं समसन्निपाते प्रोच्यते| ज्वरादन्यत्र हि सन्निपाते सम एव वातः पूर्वं चिकित्स्यते; उक्तं हि- “वातस्यानुजयेत् पित्तं, पित्तस्यानु जयेत् कफम्” इत्यादि| कफस्थानानुपूर्व्या चिकित्सिते क्रियमाणे यो दोष उल्बणो भवति तत्र ‘वर्धनेनैकदोषस्य क्षपणेनोच्छ्रितस्य वा’ इति चिकित्सा कार्या| एतदेव भेलेनोक्तं- “सन्निपातज्वरे पूर्वं कुर्यादामकफापहम्| पश्चाच्छ्लेष्मणि सङ्क्षीणे शमयेत् पित्तमारुतौ” इति| अन्ये कफस्थानमामाशयरूपं स्थानं यस्य तत् कफस्थानं पित्तमिति पश्चात्पदलोपादुष्ट्रमुखवद्बहुव्रीहिं वदन्ति, ततश्च पित्तानुपूर्व्या जयेदित्यर्थः| तदर्थानुवादकं च सुश्रुतवचनं पठन्ति- “शमयेत् पित्तमेवादौ ज्वरेषु समवायिषु| दुर्निवारतरं तद्धि ज्वरार्तेषु विशेषतः” (सु.चि.अ.३९) इति| तत्रैवं तर्हि स्पष्टार्थं ‘पित्तानुपूर्व्या’ इत्येवमेव पठेत्| सुश्रुतवचनं हि जीर्णत्रिदोषाभिप्रायेण ज्ञेयम्, एतच्च प्रथमोत्पन्नसन्निपातज्वरचिकित्सितं कफस्थानानुपूर्व्या ज्ञेयम्| ये तु कपश्च स्थानं चेति द्वन्द्वं कुर्वते, तेषां मते कफस्यामाशयस्यापि च ज्वरस्थानस्य पूर्वं जयः कर्तव्य इत्यर्थः, स च षष्ठीतत्पुरुषेऽपि स्थानस्यामाशयस्य स्थानिकफापेक्षया क्रियमाणचिकित्सया लभ्यत एवेति नार्थविरोधः| इयं चैकदोषवर्धनादिरूपा सन्निपातचिकित्सा यद्यपि न विशुद्धा, यदुक्तं- “प्रयोगः शमयेद्व्याधिं योऽन्यमन्यमुदीरयेत्| नासौ विशुद्धः शुद्धस्तु शमयेद्यो न कोपयेत्” (नि.अ.८) इति, तथाऽपि सन्निपातचिकित्सायां गत्यन्तरासम्भवे सति अल्पदोषबहुगुणतया क्रियत इति ज्ञेयम्| अन्ये तु ‘वर्ध’ च्छेदने, इत्यस्माद्वर्धनेनेति साधयन्ति, वर्धनशब्देन च मूलच्छेदकारकं संशोधनमुच्यते; एकग्रहणेन च न युगपद्वातादीनां बस्त्यादिशोधनं कर्तव्यं, किन्त्वेकैकेनेति दर्शयति; क्षपणेनोच्छ्रितस्येत्यनेन संशोधनविषये संशमनमुच्यते; शेषस्य तु व्याख्या पूर्ववत्| अनेन श्लोकेन त्रयोदशविधसन्निपातारब्धज्वरचिकित्सितमुक्तं भवति| क्षीणवृद्धदोषविकल्पकृतषड्विधसन्निपातेषु यो ज्वरस्तत्र न केवलं वृद्धस्य दोषद्वयस्यैकस्य वा वृद्धस्य ज्वरारम्भकस्य चिकित्सा कार्या, किन्तु स्वमानक्षीणवर्धनमपि तत्र कर्तव्यं भवति; स्वमानक्षीणद्वादशसन्निपातस्य तु ज्वरानारम्भकत्वमेव||२८५-२८६||-

Adhikarana १०३ (२८७-२८८) · Śloka २८९

सन्निपातज्वरस्यान्ते कर्णमूले सुदारूणः||२८७|| शोथः सञ्जायते तेन कश्चिदेव प्रमुच्यते| रक्तावसेचनैः शीघ्रं सर्पिष्पानैश्च तं जयेत्||२८८|| प्रदेहैः कफपित्तघ्नैर्नावनैः कवलग्रहैः|२८९|

🔊 Audio coming soon

Hide commentary

सन्निपातप्रस्तावात्तज्जं त्रिशोथीयोक्तशोथमनूद्य चिकित्सामाह- सन्निपातेत्यादि| कश्चिदेव प्रमुच्यते इत्यनेन दारुणत्वमस्य दर्शयति; “सन्ति ह्येवंविधा रोगाः साध्या दारुणसम्मताः| ये हन्युरनुपक्रान्ता मिथ्यारम्भेण वा पुनः” (सू.अ.१८); किंवा साध्य एवायं प्रायो भवति, कदाचिच्च कृच्छ्रसाध्य इति| ननु त्रिशोथीये “ज्वरान्ते दुर्जयोऽन्ताय शोफस्तस्योपजायते” (सू.अ.१८) इत्यनेनानुपक्रमणीयत्वमस्योक्तम्, इह तु कश्चिदेव प्रमुच्यत इति कथं न विरोधः? मैवं, तत्रापि दुर्जयो भवति, अन्ताय वेत्यर्थः; अतो न विरोधः||२८७-२८८||-

Adhikarana १०४ (२८९) · Śloka २९०

शीतोष्णस्निग्धरूक्षाद्यैर्ज्वरो यस्य न शाम्यति||२८९|| शाखानुसारी रक्तस्य सोऽवसेकात् प्रशाम्यति|२९०|

🔊 Audio coming soon

Hide commentary

शाखानुसारीत्यत्र यद्यपि “शाखा रक्तादयो धातवः” (सू.अ.११) इत्युक्तं, तथाऽपीह रक्तदूषको विशेषेण ज्वरो ज्ञेयः, रक्ताश्रये एव दोषे रक्तमोक्षस्य विशेषेण समर्थत्वात्| रक्तमोक्षस्थानं च बाहुमध्यं ज्ञेयं; यदुक्तमन्यत्र- “शीतोष्णस्निग्धरूक्षाद्यैर्ज्वरो यस्य न शाम्यति| शाखानुसारी तस्याशु मुञ्चेद्बाह्वोः क्रमात् सिराः” इति| शीतोष्णादिसेवावचनात् सकलदोषानुरूपचिकित्साक्रमे सति रक्तदुष्ट्यैव प्रायो ज्वरानुबन्धो भवतीति दर्शयति||२८९||-

Adhikarana १०५ (२९०) · Śloka २९१

विसर्पेणाभिघातेन यश्च विस्फोटकैर्ज्वरः||२९०|| तत्रादौ सर्पिषः पानं कफपित्तोत्तरो न चेत्|२९१|

🔊 Audio coming soon

Hide commentary

विकारान्तरानुबन्धज्वरचिकित्सामाह- विसर्पेणेत्यादि| कफोत्तरश्च पित्तोत्तरश्चेति कृत्वैकशेषात् कफपित्तोत्तरत्वं ज्ञेयं; किंवा कफपित्तयोर्मिलितयोरुत्तरत्वं ज्ञेयम्| तेनानूर्ध्वगे पित्ते देयमेव सर्पिः||२९०||-

Adhikarana १०६ (२९१) · Śloka २९२

दौर्बल्याद्देहधातूनां ज्वरो जीर्णोऽनुवर्तते||२९१|| बल्येः सम्बृंहणैस्तस्मादाहारैस्तमुपाचरेत्|२९२|

🔊 Audio coming soon

Hide commentary

दौर्बल्यादित्यादौ देहग्रहणेनात्मादितो व्यावृत्य रसादिषुधातुशब्दं प्रवर्तयति, रसादय एव हि विशेषेण देहधारकाः| बृंहणं पुष्टिजननम्||२९१||-

Adhikarana १०७ (२९२-२९५) · Śloka २९६

कर्म साधारणं जह्यात्तृतीयकचतुर्थकौ ||२९२|| आगन्तुरनुबन्धो हि प्रायशो विषमज्वरे| वातप्रधानं सर्पिर्भिर्बस्तिभिः सानुवासनैः||२९३|| स्निग्धोष्णैरन्नपानैश्च शमयेद्विषमज्वरम्| विरेचनेन पयसा सर्पिषा संस्कृतेन च||२९४|| विषमं तिक्तशीतैश्च ज्वरं पित्तोत्तरं जयेत्| वमनं पाचनं रूक्षमन्नपानं विलङ्घनम्||२९५|| कषायोष्णं च विषमे ज्वरे शस्तं कफोत्तरे|२९६|

🔊 Audio coming soon

Hide commentary

भूतानुबन्धिनोस्तृतीयकचतुर्थकयोश्चिकित्सामाह- कर्मेत्यादि| कर्म साधारणमिति भूतानुबन्धे दोषे च साधारणी चिकित्सा दैवव्यपाश्रया बल्यादिरूपा, युक्तिव्यपाश्रया दोषानुरूपकषायपानादिरूपा च| विषमज्वरशब्देन तृतीयचतुर्थकावेवाभिमतौ, चतुर्थकेन चतुर्थकविपर्ययोऽपि गृह्यते| तिक्तशीतैरनुपानैर्भेषजैश्चेति विज्ञेयम्| कषायोष्णमिति उष्णाः कषायाः||२९२-२९५||-

Adhikarana १०८ (२९६-३०९) · Śloka ३१०

योगाः पराः प्रवक्ष्यन्ते विषमज्वरनाशनाः||२९६|| प्रयोक्तव्या मतिमता दोषादीन् प्रविभज्य ते| सुरा समण्डा पानार्थे भक्ष्यार्थे चरणायुधः||२९७|| तित्तिरिश्च मयूरश्च प्रयोज्या विषमज्वरे| पिबेद्वा षट्पलं सर्पिरभयां वा प्रयोजयेत्||२९८|| त्रिफलायाः कषायं वा गुडूच्या रसमेव वा| नीलिनीमजगन्धां च त्रिवृतां कटुरोहिणीम्||२९९|| पिबेज्ज्वरागमे युक्त्या स्नेहस्वेदोपपादितः| सर्पिषो महतीं मात्रां पीत्वा वा छर्दयेत् पुनः||३००|| उपयुज्यान्नपानं वा प्रभूतं पुनरुल्लिखेत्| सान्नं मद्यं प्रभूतं वा पीत्वा स्वप्याज्ज्वरागमे||३०१|| आस्थापनं यापनं वा कारयेद्विषमज्वरे| पयसा वृषदंशस्य शकृद्वा तदहः पिबेत्||३०२|| वृषस्य दधिमण्डेन सुरया वा ससैन्धवम्| पिप्पल्यास्त्रिफलायाश्च दध्नस्तक्रस्य सर्पिषः||३०३|| पञ्चगव्यस्य पयसः प्रयोगो विषमज्वरे| रसोनस्य सतैलस्य प्राग्भक्तमुपसेवनम्||३०४|| मेद्यानामुष्णवीर्याणामामिषाणां च भक्षणम्| हिङ्गुतुल्या तु वैयाघ्री वसा नस्यं ससैन्धवा||३०५|| पुराणसर्पिः सिंहस्य वसा तद्वत् ससैन्धवा| सैन्धवं पिप्पलीनां च तण्डुलाः समनःशिलाः||३०६|| नेत्राञ्जनं तैलपिष्टं शस्यते विषमज्वरे| पलङ्कषा निम्बपत्रं वचा कुष्ठं हरीतकी||३०७|| सर्षपाः सयवाः सर्पिर्धूपनं ज्वरनाशनम्| ये धूमा धूपनं यच्च नावनं चाञ्जनं च यत्||३०८|| मनोविकारे निर्दिष्टं कार्यं तद्विषमज्वरे| मणीनामोषधीनां च मङ्गल्यानां विषस्य च||३०९|| धारणादगदानां च सेवनान्न भवेज्ज्वरः|३१०|

🔊 Audio coming soon

Hide commentary

दोषादीन् प्रविभज्येति दोषकालदेशप्रकृत्यादीनपेक्ष्य यद्यत्र यौगिकं तत्तत्र कार्यमित्यर्थः| षट्पलमिति गुल्मे वक्ष्यमाणम्| नीलिनी नीलिका, नीलबुह्ना वा| नीलिन्यादिश्च विरेचनयोगो ज्वरागमनदिने विरेकात् कार्यकरो भवति प्रभावात्| महती मात्रा अहोरात्रपरिणमनीया; अन्यत्र तु षट्पली मात्रा महती मात्रोक्ता| अन्यत्र “अन्येद्युष्को द्व्यहग्राही तृतीयकचतुर्थकौ” इत्यारभ्य यावत् “अनागते चिकित्स्यास्ते बलकालौ विजानता” इत्यन्तेन वेगदिनात् प्राग् या चिकित्सोक्ता सेहोक्तवमनादिव्यतिरिक्ता ज्ञेया| वमनादयास्त्विह प्रकोपदिने क्रियमाणाः प्रकुपितस्य दोषस्य कोष्ठमागतस्य सम्यक् सद्योहा भवन्तीति कृत्वा क्रियन्ते इति ज्ञेयम्| सान्नं प्रभूतं मद्यं पीत्वा पुनरुल्लिखेदिति योजना, तथा मद्यं सान्नं पीत्वा तदहः स्वपेदिति योजना| यापना मुस्तादिका बस्तयो वक्ष्यमाणाः| वृषदंशो बिडालः| वृषस्येत्यत्रापि शकृदिति सम्बन्धः| मेद्यानामिति मेदुराणां, किंवा मेध्यानां पवित्राणाम्| वैव्याघ्रीत्यत्र पुंलिङ्गमेव प्रयोजकं वचनादुन्नीयते| सिंहो व्याघ्र एवेति वदन्ति| ‘अञ्जु’ व्यक्तिम्रक्षणगतिषु, इति पाठान्म्रक्षणमात्रेऽप्यञ्जनं स्यादित्यत आह- नेत्राञ्जनमिति| मनोविकारे उन्मादेऽपस्मारे च| धारणादिति च्छेदः; अगदानां च सेवनादिति योजना||२९६-३०९||-

Adhikarana १०९ (३०९-३१६) · Śloka ३१७

सोमं सानुचरं देवं समातृगणमीश्वरम्||३१०|| पूजयन् प्रयतः शीघ्रं मुच्यते विषमज्वरात्| विष्णुं सहस्रमूर्धानं चराचरपतिं विभुम्||३११|| स्तुवन्नामसहस्रेण ज्वरान् सर्वानपोहति| ब्रह्माणमश्विनाविन्द्रं हुतभक्षं हिमाचलम्||३१२|| गङ्गां मरुद्गणांश्चेष्ट्या पूजयञ्जयति ज्वरान्| भक्त्या मातुः पितुश्चैव गुरूणां पूजनेन च||३१३|| ब्रह्मचर्येण तपसा सत्येन नियमेन च| जपहोमप्रदानेन वेदानां श्रवणेन च||३१४|| ज्वराद्विमुच्यते शीघ्रं साधूनां दर्शनेन च| ज्वरे रसस्थे वमनमुपवासं च कारयेत्||३१५|| सेकप्रदेहौ रक्तस्थे तथा संशमनानि च| विरेचनं सोपवासं मांसमेदःस्थिते हितम्||३१६|| अस्थिमज्जगते देया निरूहाः सानुवासनाः|३१७|

🔊 Audio coming soon

Hide commentary

दैवव्यपाश्रयचिकित्सामाह- सोममित्यादि| सह उमयेति सोमः, तम्| सानुचरमिति नन्द्यादिगणयुक्तम्| समातृगणमिति समातृसमूहम्| प्रयतः पवित्रः| सहस्रमूर्धनमिति “सहस्रशीर्षा” इत्यादि वेदप्रतिपादितम्| नामसहस्रेणेत्यादि महाभारतोक्तनामसहस्रेण| इष्ट्येति यज्ञेन||३०९-३१६||-

Adhikarana ११० (३१७-३२२) · Śloka ३२३

शापाभिचाराद्भूतानामभिषङ्गाच्च यो ज्वरः||३१७|| दैवव्यपाश्रयं तत्र सर्वमौषधमिष्यते| अभिघातज्वरो नश्येत् पानाभ्यङ्गेन सर्पिषः||३१८|| रक्तावसेकैर्मद्यैश्च सात्म्यैर्मांसरसौदनैः| सानाहो मद्यसात्म्यानां मदिरारसभोजनैः||३१९|| क्षतानां व्रणितानां च क्षतव्रणचिकित्सया| आश्वासेनेष्टलाभेन वायोः प्रशमनेन च||३२०|| हर्षणैश्च शमं यान्ति कामशोकभयज्वराः| काम्यैरर्थैर्मनोज्ञैश्च पित्तघ्नैश्चाप्युपक्रमैः||३२१|| सद्वाक्यैश्च शमं याति ज्वरः क्रोधसमुत्थितः| कामात् क्रोधज्वरो नाशं क्रोधात् कामसमुद्भवः||३२२|| याति ताभ्यामुभाभ्यां च भयशोकसमुत्थितः|३२३|

🔊 Audio coming soon

Hide commentary

शापेत्यादिनाऽऽगन्तुज्वरचिकित्सामाह| नश्येदिति प्रशाम्यतीत्यर्थः| सानाह इति अभिघातज्वर एव सानाहः| क्षतानामिति उरःक्षतिनाम्| क्षतचिकित्सया व्रणचिकित्सया च व्रणिनां ज्वरोऽपैतीत्यर्थः| अयं ह्युपद्रवरूपो ज्वरः; उपद्रवश्च मूलव्याधिचिकित्सयैव शाम्यतीति भावः| वायोः प्रशमनेनेति कामादिज्वरेषु वातानुबन्धादुपपन्नम्| सद्वाक्यैरिति शोभनैर्वचनैः| कामादीनां प्रतिद्वन्द्वेन चिकित्सामाह- कामादित्यादि||३१७-३२२||-

Adhikarana १११ (३२३) · Śloka ३२४

ज्वरस्य वेगं कालं च चिन्तयञ्ज्वर्यते तु यः||३२३|| तस्येष्टैस्तु विचित्रैश्च विषयैर्नाशयेत् स्मृतिम्|३२४|

🔊 Audio coming soon

Hide commentary

ज्वरवेगकालचिन्ताजोऽपि ज्वरः कामादिवन्मानसापचाराद्भवतीति तच्चिकित्सामाह- ज्वरस्येत्यादि||३२३||-

Adhikarana ११२ (३२४-३२८) · Śloka ३२८

ज्वरप्रमोक्षे पुरुषः कूजन् वमति चेष्टते| श्वसन्विवर्णः स्विन्नाङ्गो वेपते लीयते मुहुः||३२४|| प्रलपत्युष्णसर्वाङ्गः शीताङ्गश्च भवत्यपि| विसञ्ज्ञो ज्वरवेगार्तः सक्रोध इव वीक्ष्यते ||३२५|| सदोषशब्दं च शकृद्द्रवं स्रवति वेगवत्| लिङ्गान्येतानि जानीयाज्ज्वरमोक्षे विचक्षणः||३२६|| बहुदोषस्य बलवान् प्रायेणाभिनवो ज्वरः| सत्क्रियादोषपक्त्या चेद्विमुञ्चति सुदारुणम्||३२७|| कृत्वा दोषवशाद्वेगं क्रमादुपरमन्ति ये| तेषामदारुणो मोक्षो ज्वराणां चिरकारिणाम्||३२८||

🔊 Audio coming soon

Hide commentary

सम्प्रत्यौषधमभिधाय ‘विमुञ्चति’ इत्यादिप्रश्नस्योत्तरमाह- ज्वरप्रमोक्षे इत्यादि| लीयत इति मुह्यति| उष्णसर्वाङ्गः शीतसर्वाङ्गश्च भवत्यपीति उष्णसर्वाङ्गो वा शीतसर्वाङ्गो वा भवतीत्यर्थः| सदोषशब्दमिति सदोषं सशब्दं च| एतानि च लक्षणानि सन्निपातज्वरे एव भवन्तीति ज्ञेयं; नान्यत्र, अदर्शनादेव| अत एव बद्दुदोषस्य बलिन इत्यादि ग्रन्थं केचित् पठन्त्येवात्र| एतानि लक्षणानि ज्वरमोक्षकाले क्षीणेनापि दोषेण क्रियन्ते, यथानिर्वाप्यता प्रदीपेनालोको महान् क्रियते||३२४-३२८||

Adhikarana ११३ (३२९) · Śloka ३२९

विगतक्लमसन्तापमव्यथं विमलेन्द्रियम्| युक्तं प्रकृतिसत्त्वेन विद्यात् पुरुषमज्वरम्||३२९||

🔊 Audio coming soon

Hide commentary

सम्प्रति प्रशान्तज्वरलक्षणप्रश्नस्योत्तरं- विगतेत्यादि| प्रकृतिसत्त्वेनेति सहजसत्त्वेन||३२९||

Adhikarana ११४ (३३०-३३२) · Śloka ३३२

सज्वरो ज्वरमुक्तश्च विदाहीनि गुरूणि च| असात्म्यान्यन्नपानानि विरुद्धानि च वर्जयेत्||३३०|| व्यवायमतिचेष्टाश्च स्नानमत्यशनानि च| तथा ज्वरः शमं याति प्रशान्तो जायते न च||३३१|| व्यायामं च व्यवायं च स्नानं चङ्क्रमणानि च| ज्वरमुक्तो न सेवेत यावन्न बलवान् भवेत्||३३२||

🔊 Audio coming soon

Hide commentary

‘ज्वरावशिष्टो रक्ष्यश्च यावत्कालं यतो यतः’ इति प्रश्नस्योत्तरं- सज्वर इत्यादि| ‘तथा ज्वरः शमं याति प्रशान्तो जायते न च’ इत्यनेन ‘यतः’ इति प्रश्नस्य ज्वरमुक्तासेव्यहेतुप्रश्नरूपस्योत्तरं ज्ञेयम्| ‘व्यवायमतिचेष्टाश्च’ इत्यत्र व्यवायं कृत्वाऽपि पुनः ‘व्यायामं च’ इत्यादौ व्यवायपाठेन व्यवायस्यात्यन्तनिषिद्धतोच्यते; अन्ये तु प्रमादपाठ एवायमित्याहुः| स्नानमूर्जस्करमपि प्रभावाज्ज्वरं प्रत्यानयति; यदुक्तमन्यत्र- “स्नानमाशु ज्वरं कुर्याज्ज्वरमुक्तस्य देहिनः| तस्मान्मुक्तज्वरः स्नानं विषवत् परिवर्जयेत्” इति||३३०-३३२||

Adhikarana ११५ (३३३-३४३) · Śloka ३४३

असञ्जातबलो यस्तु ज्वरमुक्तो निषेवते| वर्ज्यमेतन्नरस्तस्य पुनरावर्तते ज्वरः||३३३|| दुर्हृतेषु च दोषेषु यस्य वा विनिवर्तते| स्वल्पेनप्यपचारेण तस्य व्यावर्तते पुनः||३३४|| चिरकालपरिक्लिष्टं दुर्बलं हीनतेजसम् | अचिरेणैव कालेन स हन्ति पुनरागतः||३३५|| अथवाऽपि परीपाकं धातुष्वेव क्रमान्मलाः| यान्ति ज्वरमकुर्वन्तस्ते तथाऽप्यपकुर्वते||३३६|| दीनतां श्वयथुं ग्लानिं पाण्डुतां नान्नकामताम्| कण्डूरुक्तोठपिडकाः कुर्वन्त्यग्निं च ते मृदुम्||३३७|| एवमन्येऽपि च गदा व्यावर्तन्ते पुनर्गताः| अनिर्घातेन दोषाणामल्पैरप्यहितैर्नृणाम्||३३८|| निर्वृत्तेऽपि ज्वरे तस्माद्यथावस्थं यथाबलम्| यथाप्राणं हरेद्दोषं प्रयोगैर्वा शमं नयेत्||३३९|| मृदुभिः शोधनैः शुद्धिर्यापना बस्तयो हिताः| हिताश्च लघवो यूषा जाङ्गलामिषजा रसाः||३४०|| अभ्यङ्गोद्वर्तनस्नानधूपनान्यञ्जनानि च| हितानि पुनरावृत्ते ज्वरे तिक्तघृतानि च||३४१|| गुर्व्यभिष्यन्द्यसात्म्यानां भोजनात् पुनरागते| लङ्घनोष्णोपचारादिः क्रमः कार्यश्च पूर्ववत्||३४२|| किराततिक्तकं तिक्ता मुस्तं पर्पटकोऽमृता| घ्नन्ति पीतानि चाभ्यासात् पुनरावर्तकं ज्वरम्||३४३||

🔊 Audio coming soon

Hide commentary

अनन्तरम् ‘असञ्जातबलो यस्तु’ इत्यादि ग्रन्थं काश्मीराः पठन्ति; ते च प्रकृत्यादिसूत्रेऽप्यस्य ग्रन्थस्यानुगुणं प्रश्नग्रन्थं पठन्ति||३३३-३४३||

Adhikarana ११६ (३४४) · Śloka ३४४

तस्यां तस्यामवस्थायां ज्वरितानां विचक्षणः| ज्वराक्रियाक्रमापेक्षी कुर्यात्तत्तच्चिकित्सितम्||३४४||

🔊 Audio coming soon

Hide commentary

उक्तानुक्तचिकित्सापरिग्रहार्थमाह- तस्यामित्यादि||३४४||

Adhikarana ११७ (३४५) · Śloka ३४५

रोगराट् सर्वभूतानामन्तकृद्दारुणो ज्वरः| तस्माद्विशेषतस्तस्य यतेत प्रशमे भिषक्||३४५||

🔊 Audio coming soon

Hide commentary

ज्वरचिकित्सायां यत्नं कारयितुमाह- रोगराडित्यादि||३४५||

Adhikarana ११८ (३४६) · Śloka ३४६

तत्र श्लोकः- यथाक्रमं यथाप्रश्नमुक्तं ज्वरचिकित्सितम्| आत्रेयेणाग्निवेशाय भूतानां हितकाम्यया||३४६||

🔊 Audio coming soon

Hide commentary

यथाक्रममिति अध्यायार्थसङ्ग्रहश्लोकः| भूतानां हितकाम्ययेत्यनेन सर्वभूतहितेयं चिकित्सेति दर्शयति||३४६||

Adhikarana पुष्पिका · Śloka

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने ज्वरचिकित्सितं नाम तृतीयोऽध्यायः||३||

🔊 Audio coming soon

Hide commentary

इति श्रीचक्रपाणिदत्तकृतायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां चिकित्सास्थाने ज्वरचिकित्सिताध्यायस्तृतीयः||३||