Skip to content

२९. व्रणविभक्तिपरिज्ञानीयः

Adhikarana अथ व्रणविभक्तिपरिज्ञानीयो नामैकोनत्रिंशोऽध्यायः - प्रतिज्ञा (१) · Śloka

अथातो व्रणविभक्तिपरिज्ञानीयन्नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

निजप्रधानानां चिकित्सितमुक्तमागन्तुप्रधानानामवसरोऽतः शल्यतन्त्रमारभ्यते| सर्वस्य च शल्यस्य व्रणफलत्वाद् व्रण एवादौ विचार्यते| व्रण्स्य तु स्वरूपज्ञाने हेत्वादिकं वक्तुं न पार्यते| तच्च स्वरूपं सामान्यतः प्रसिद्ध्यैव ज्ञायते| विशेषे त्वागमोऽपेक्ष्यते| अतो व्रणविभागपरिज्ञानार्थमध्याय आरभ्यते| अथेत्यादि पूर्ववद् व्याख्येयम्| व्रणनं ज्ञातुं निरूप्यते||१||

Adhikarana व्रणनिरुक्तिः (२) · Śloka

यावदायुर्वृणीते विवृणोति वा शरीरमिति व्रणः||२||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

यावदित्यादि| यावदायुरायुषोऽन्तं यावच्छरीरं वृणीते विवृणोति वाऽतो व्रणः| वृणीत इति वृङ् सम्भक्तावित्यस्य रूपम्| सम्भक्तिः प्रार्थना| विवृणोति प्रकटयति साशयत्वात्प्रार्थयते||२||

Adhikarana निजागन्तुभेदौ (३) · Śloka

स च द्विविधो निज आगन्तुश्च| तत्र निजो दोषसमुत्थः| आगन्तुः शस्त्रानुशस्त्रोपललगुडनखदशनविषाणविषारुष्करादिनिमित्तः| सोऽपि पुनर्वातादिभिरधिष्ठितो निजतां लभते||३||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

स च व्रणो निजागन्तुभेदेन द्विविधः| तत्र यो दोषनिमित्तो वातादिकोपहेतुः स निजः| आगन्तुः शस्त्रादिनिमित्तः| आदिग्रहणेनाशेषाणां क्षतकराणां ग्रहणम्| सोऽप्यागन्तुव्रणो यदा वाताद्यधिष्ठानतां प्राप्नोति तदा निजसंज्ञामेव लभते||३||

Adhikarana शुद्धदुष्टव्रणौ (४) · Śloka

पुनश्च द्वेधा व्रणो दुष्टः शुद्धश्च| तत्र दोषदूषितो दुष्टः||४||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

पुनरन्येन प्रकारेण द्वेधा द्वाभ्यां प्रकाराभ्यां व्रणो भवति| एको दुष्टव्रणो द्वितीयः शुद्धव्रणः पूर्वोक्ते च द्वयेऽप्येतद् द्वयं सम्भवति| ननु दुष्टः क उच्यत इत्याह-तत्रेति| तत्र द्वयोर्मध्ये स दुष्टो विज्ञेयो यो दोषैरधिष्ठितः||४||

Adhikarana दुष्टव्रणसामान्यलक्षणम् (५) · Śloka

तस्य सामान्यलिङ्गमतिसंवृतविवृतत्वमतिमृदुकठिनताऽत्युत्सादावसादावतिशीतोष्णभावोऽतिरक्तकृष्णपाण्डुता पूतीमांससिरास्नायुप्रतिच्छन्नत्वं पूतीपूयास्रावः सोत्सङ्गिता दाहपाककण्डूश्वयथुवेदनासंरम्भपिटकोपद्रवोपद्रुतत्वं दीर्घकालानुबन्धश्च||५||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

अथं स ज्ञायत इत्याह-तस्येति| तस्य दुष्टस्य सामान्यलिङ्गं वातादिदोषानपेक्षं लक्षणम्| किमित्याह-अतिसंवृतमित्यादि| अतिसंवृतत्वं वाऽतिविवृतत्वं वा अतिमृदुता वाऽतिकठिनता वा अत्युत्सन्नत्वं वाऽत्यवसन्नत्वं वा अतिशीतता वाऽत्युष्णता वा अतिरक्तवर्णता वाऽतिकार्ष्ण्यं वाऽतिपाण्डुत्वं वा पूतीभिः क्लिन्नैर्मांसादिभिर्व्रणस्य प्रतिच्छन्नत्वमावृतत्वं पूतेः पूयस्य पक्वदोषस्याऽऽस्राव सोत्सङ्गिता बद्धपीवत्वं दाहद्युपद्रवोपद्रुतत्वं व्रणस्य दीर्घकालानुबन्धश्चेति दुष्टव्रणस्य सामान्यलक्षणम्| (उत्सङ्गिता साशयत्वं दूर्वावत्पाकस्यान्तर्दूरगतिरित्यर्थः )||५||

Adhikarana दुष्टव्रणभेदाः (६) · Śloka

विशेषतस्तु पञ्चदशधा भिद्यते||६||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

विशेषतस्तु वातादिभिः सरक्तैः पञ्चदशधा दुष्टव्रणो भिद्यते| रक्तं वातादिदुष्टमेव विशेषान्तरेण रोगकर्तृत्वाददोषोऽपि वातादिसमकक्ष्यता गृह्यते| तत्र वातेन पित्तेन कफेन रक्तेन वातपित्ताभ्यां वातकफाभ्यां पित्तकफाभ्यां वातरक्ताभ्यां पित्तरक्ताभ्यां कफरक्ताभ्यां वातपित्तकफैर्वातपित्तरक्तैर्वातकफरक्तः पित्तकफरक्तैर्वातपित्तकफरक्तैरिति पञ्चदश भेदाः||६||

Adhikarana वातदुष्टव्रणलक्षणम् (७) · Śloka

तत्र श्यावोऽरुणः कृष्णो भस्मास्थिकपोतगलान्यतमवर्णो वा दधिमस्तुक्षाराम्बुमांसधावनपुलाकोदकनिभाल्पस्रावो रूक्षश्चटचटायमानशीलोऽकस्माद्विविधशूलस्फुरणायामतोदभेदस्वापबहुलो निर्मांसश्च वातात्||७||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

तत्र श्यावादिस्वरूपो व्रणो वाताद् भवति| वर्णादिवस्तुधर्मो व्रणस्य| शूलादि सम्भवादाश्रये विज्ञेयः| श्यावोऽरुणो वा कृष्णो वा भस्मादिचतुष्ट्यान्यतमवर्णो वा दधिमस्त्वाद्यन्यतमवर्णोऽल्पस्रावादिमांश्च ||७||

Adhikarana पित्तदुष्टव्रणलक्षणम् (८) · Śloka

क्षिप्रजः पीतनीलहरितकृष्णकपिलपिङ्गलो गोमूत्रभस्मशङ्खकिंशुकोदकमार्द्वीकतैलाभोष्णभूरिक्लेदो दाहोषाज्वररागपाकावदरणधूमायनान्वितः क्षारोक्षितक्षतोपमवेदनः पिटकाजुष्टश्च पित्तात्||८||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

क्षिप्रजत्वादिरूपो व्रणः पित्ताद् भवति| गोमूत्राद्यन्यतमसदृशोष्णभूरिक्लेदो दाहाद्यन्वितः क्षारसिक्तक्षतसमवेदनः पिटकान्वितश्च||८||

Adhikarana कफदुष्टव्रणलक्षणम् (९) · Śloka

स्निग्धः स्थूलौष्ठः पाण्डुश्चण्डकण्डूर्नवनीतवसामज्जपिष्टतिलनारिकेलाम्बुसदृशश्वेतशीतबहलपिच्छिलक्लेदः स्वापस्तम्भस्तैमित्यगौरवोपदेहयुक्तः सिरास्नायुजालावततो मन्दवेदनः कठिनश्च कफात्||९||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

स्निग्धत्वादिरूपो व्रणः कफाद् भवति| स्निग्धौ स्थूलौ चोष्ठौ पाली यस्य व्रणस्यः स यथोक्तः चण्डातितीक्ष्णा कण्डूर्यस्मिन् व्रणे स तथोक्तः| नवनीतादिसदृशः श्वेतादिगुणः क्लेदः स्रावो यस्मिन् व्रणे स तथोक्तः| स्वापादियुक्तः सिराद्यवततो मन्दवेदनः कठिनश्च| अवततो व्याप्तः||९||

Adhikarana रक्तदुष्टव्रणलक्षणम् (१०) · Śloka १०

प्रवालरक्तः कृष्णस्फोटपिटकाजालोपचितो वाजिस्थानगन्धिः| सरक्तपूयस्रावी पित्तलिङ्गश्च रक्तात्||१०||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

प्रवालरक्तत्वादिगुणो रक्ताद् भवति| प्रवालवद्विद्रुमवद्रक्तो लोहितः| कृष्णैः स्फोटैः पिटकाजालैरुपचितो व्याप्तः वाजिस्थानमश्वशाला तत्समगन्धः पित्तलिङ्गः पित्तव्रणलक्षणः||१०||

Adhikarana संसर्गादिदुष्टव्रणलक्षणम् (११) · Śloka ११

यथास्वलिङ्गसङ्करे द्वाभ्यां त्रिभिः सर्वैश्च दुष्टं विद्यात्| अपि च-घृतमण्डाभो मत्स्यधावनगन्धिर्मृदुविसर्पी कृष्णोष्णपूयश्च पित्तरक्ताभ्याम्||११||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

यथास्वलिङ्गसङ्करे लक्षणसङ्करे संसर्गजो व्रणः| अपि चेति पित्तरक्तायां द्विसंयोग उक्तोऽप्यधिकसमुच्चये| घृतमण्डाभत्वादियुक्तो व्रणः पित्तरक्ताभ्यां भवति| घृतमण्डाभो वर्णस्निग्धत्वाभ्यामिति पञ्चदशभेदस्य दुष्टव्रणस्य लक्षणमुक्तम्||११||

Adhikarana शुद्धव्रणलक्षणम् (१२) · Śloka १२

वातादिभिरेव च व्रणस्यानधिष्ठानं शुद्धिः| तत्र यथोक्तदुष्टलिङ्गाभावात् संरम्भरहितत्वं जिह्वावर्णता श्लक्ष्णत्वं नीरुजत्वं निरास्रावता श्यावपर्यन्तत्वं समौष्ठमध्यता किञ्चिदुन्नतमध्यता वा||१२||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

व्रणस्य वातादिभिरनधिष्ठानं शुद्धिः| तत्र विशुद्धे व्रणे यथोक्तानां सामान्येन विशेषेण चोक्तानां दुष्टव्रणलिङ्गानामभावाद्धेतोः स्वाभाविकं संरम्भरहितत्वादिकं भवति| संरम्भो वेदनाविशेषः||१२||

Adhikarana अष्टौ व्रणाशयाः (१३) · Śloka १३

त्वड्मांससिरास्नायुसन्ध्यस्थिकोष्ठमर्माण्यष्टौ व्रणाशयः| आशयविशेषाच्चाऽऽस्रावविशेषः||१३||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

तस्य च व्रणस्य त्वगादीन्यष्टावाशयाः| आशयविशेषाच्च व्रणस्याऽऽस्रावविशेषाः ||१३||

Adhikarana त्वग्गतस्यास्रावविशेषः (१४) · Śloka १४

तत्र घृष्टासु वा त्वक्षु स्फोटेषु वा भिन्नेषु सलिलप्रकाशो भवत्यास्रावः| किञ्चिद्विस्रः पीतावभासश्च||१४||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

तत्रेत्यादिना आस्रावविशेषा उच्यन्ते| घृष्टासु भिन्नासु वा शस्त्राद्यागन्तुना| स्फोटेषु वा भिन्नेष्विति निजे||१४||

Adhikarana मांसगतास्रावविशेषः (१५) · Śloka १५

मांसगतः सर्पिःप्रकाशो बहलः पिच्छिलश्च||१५||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

मांसगतव्रणास्रावः सर्पिःप्रतीकाशो बहलो घनः पिच्छिलश्च||१५||

Adhikarana सिरागतास्रावविशेषः (१६) · Śloka १६

सिरागतस्तु सद्यश्छिन्नासु सिरासु रक्तातिप्रवृत्तिः| पक्वासु च तोयनाडीभिरिवाम्भसः पूयस्यागमनम्| स च तनुर्विच्छिन्नः पिच्छिलोऽवलम्बी श्यावश्च||१६||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

सिरागतस्तु सद्यश्छिन्नासु पक्वासु च सिरासु रक्तातिप्रवृत्त्यादिलक्षणो भवत्यास्रावः||१६||

Adhikarana स्नावगतास्रावविशेषः (१७) · Śloka १७

स्नावगतः स्निग्धो घनः सिङ्घाणकप्रतिमः सरक्तश्च||१७||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

स्नावगत आस्रावः स्निग्धत्वादिगुणः| सिङ्घाणकप्रतिमो नासास्रावसदृशः||१७||

Adhikarana सन्धिगतास्रावविशेषः (१८) · Śloka १८

सन्धिगतः समन्तात् प्रपीड्यमानो न प्रवर्तते तथाऽऽकुञ्चनप्रसारणोन्नमननमनप्रवाहणेषु स्रवति पिच्छिलोऽवलम्बी स फेनरुधिरोन्मिश्रश्च||१८||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

सन्धिगतः समन्तात् प्रपीड्यमानो न प्रवर्तते तथाऽऽकुञ्चनप्रसारणोन्नमननमनप्रवाहणेषु स्रवति पिच्छिलोऽवलम्बी स फेनरुधिरोन्मिश्रश्च||१८||

Adhikarana अस्थिगतास्रावविशेषः (१९) · Śloka १९

सन्धिगतस्त्वास्रावः समन्तात् प्रपीड्यमानो न प्रवर्तते तथा यथाऽऽकुञ्जनादिषु स्रवति| पिच्छिलादिगुणश्च भवति| सन्धिगतस्रावः समन्तात् प्रपीड्यमानो न प्रवर्तते तथा यथाऽऽकुञ्चनादिषु स्रवति| पिच्छिलादि गुणश्च भवति| अस्थिगत स्रावः विशेषः -अस्थि त्वभिहतं स्फुटितं भिन्नं दोषावदारितं वा दोषभक्षितत्वान्निस्सारं भवति| आस्रावश्चात्र मज्जमिश्रः सरु-धिरः स्निग्धश्च||१९||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

अस्थि त्वभिहतं स्फुटितादिगुणं भवति| अथवा दोषावदारितमस्थि दोषभक्षितत्वान्निस्सारं साररहितं भवति| सारो मज्जा| अत्रेत्यस्थ्यभिहते दोषावदारिते च| आस्रावश्च मज्जमिश्रितत्वादिगुणः|| १९||

Adhikarana कोष्ठगतास्रावविशेषः (२०) · Śloka २०

कोष्ठाश्रितस्तु व्रणो मूत्रपुरीषरुधिरपयोदकानि स्रवति||२०||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

कोष्ठाश्रितो व्रणस्तु मूत्रपुरीषादीनि स्रवति ||२०||

Adhikarana मर्मगतास्रावनिर्देशः (२१) · Śloka २१

मर्मगतस्तु नोच्यते त्वगादिष्वेवारुद्धत्वात्||२१||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

मर्मगतस्त्वास्रावः पृथङ् नोच्यते त्वगाद्यवरुद्धत्वान्मर्मणाम्| न ह्यनन्तरत्वगादिसप्तकमपहाय मर्मणां सम्भवोऽस्ति तेषु चोक्तेषूक्तान्येव||२१||

Adhikarana सुखसाध्यव्रणलक्षणम् (२२) · Śloka २२

तेषु यथापूर्वं सुखसाध्यत्वम्| तथाऽऽयतश्चुतुरस्रो वृत्तस्त्रिपुटकश्च व्रणः| शेषास्तु विकृताकृतयो दुरुपचाराः| ते च प्रायशो भवन्त्यागन्तवः| स्वयं विदीर्णाश्च दोषजा न तु वैद्यकृताः||२२||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

तेषु च त्वगादिव्रणेषु यथापूर्वं सुखसाध्यत्वम्| यो यस्मात्पूर्वः स तस्मात् सुखसाध्यः|तेन कोष्ठव्रणादस्थिव्रणः सुखसाध्यः| ततोऽस्थिव्रणात् सन्धिव्रण इति यथापूर्वं व्याख्येयम्| यच्चाऽऽयतचतुरस्रादिरूपो व्रणः सोऽपि तथा सुखसाध्यः| अतः शेषा ये विकृताकृतयस्ते तु दुरुपचाराः| ते च दुरुपचारा आगन्तवः प्रायेण भवन्ति| निजा अपि ये स्वयं पाकादिना विदीर्णा विकृताकृतयस्ते च दुरुपचाराः| न वैद्यकृता ये तु विकृताकृतयोऽपि सुसाध्या भवन्ति| वैद्यो हि बुद्धिपूर्वकमेव प्रयोजनापेक्षया सुखसाध्यां तथाविधामाकृतिं विदध्यादिति ||२२||

Adhikarana वयस्थादीनां व्रणानां सुचिकित्स्यत्वन्तत्र हेतुश्च (२३) · Śloka २३

वयस्थानां दृढानां प्राणवतां सत्त्ववतामात्मवतां दीप्ताग्नीनां च व्रणाः सुचिकित्स्याः| तत्र वयस्थानां प्रत्यग्रधातुत्वादाशु व्रणसंरोहो भवति| दृढानां स्थिरबहुमांसत्वाच्छस्त्रमवचार्यमाणं सिरास्नाय्वादीन् न प्राप्नोति| प्राणवतां वेदनाहारविहारयन्त्रणादिभिर्न ग्लानिः| सत्त्ववतां दारुणैरपि क्रियाविशेषैर्न व्यथा भवति| आत्मवतां सुनियमिताहारविहारादिभिरुपदेशैर्नान्यथा भवति| दीप्तग्नीनामप्रक्लिन्नदेहत्वात्| प्रकृतितश्चाप्रक्लेदिशरीराणां तद्विधयोश्च देशकालयोरास्रावदौर्गन्ध्याभावादाशु विशुद्धेन मांसेनानुपद्रवमापूरणम्||२३||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

वयस्थादीनामाशु व्रणसंरोहो भवति| कुत इत्याह-तत्रेत्यादि| सुबोधम्| दीप्ताग्नीनामप्रक्लेदित्वप्रसङ्गेनानिर्दिष्टमपि स्वभावाप्रक्लेदित्वमप्रक्लेदिदेशकालभावश्चेति निर्दिष्टम्||२३||

Adhikarana वृद्धादीनां व्रणानां दुश्चिकिस्त्यत्वन्तत्र हेतुश्च (२४) · Śloka २४

एत एव गुणा वृद्धकृशाल्पप्राणाभीरुमन्दाग्निप्रक्लेदिदेहदेशकालेषु विपरीताः शिष्योपनयनीयं चेक्षेत||२४||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

एत एव चाशुव्रणसंरोहादयो वयस्थादीनां गुणा वृद्धादिषु विपरीता भवन्ति| शिष्योपनयनीयं चाध्यायमीक्षेत साध्यत्वपरिज्ञानायेति शेषः| (वृद्धानामप्रत्यग्रधातुत्वाच्चिराद् व्रणसंरोहे भवतीत्यादि विपरीतत्वम्)||२४||

Adhikarana सुख़रोपणीयाः दुःख़रोपणीयाश्च व्रणाः (२५) · Śloka २५

तथा स्फिक्पायुप्रजननललाटगण्डौष्ठपृष्ठकर्णफलकोशोदरजत्रुमुखाभ्यन्तरस्थाः सुखरोपणीयाः| विपरीतास्त्वक्षिदन्तनासाऽपाङ्गश्रोत्रनाभिजठरसेवनीनितम्बपार्श्वकुक्षिवक्षःकक्षास्तनसन्धिभागगताः| सफेनपूयरक्तानिलवाहिनोन्तःशल्याश्चाधोभागाच्चोर्ध्वभागनिर्वमना रोमान्तोपनखमर्मजङ्घास्थिघ्राणाश्रिताश्च| भगन्दरश्चान्तर्मुखः सेवनीकट्यस्थिसंश्रितः| अपि च-कुष्ठिनां विषजुष्टानां शोषिणां मधुमेहिनाम्| व्रणाः कृच्छ्रेण सिध्यन्ति येषाञ्च स्युर्व्रणे व्रणाः||२५||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

स्फिगादिस्था व्रणाः सुखरोपणीयाः| अक्षिदन्तादिगतास्तु विपरीता दुःखरोपणीया इत्यर्थः| फलकोशो वृषणः| ये च व्रणाः सफेनपूयादिवाहिनोऽन्तःशल्याश्च तेऽपि दुःखरोपणीयाः| तथा येऽपि देहस्याधोभागावस्थिता ऊर्ध्वेन निर्वमन्ति क्लेदं ददति| तथा रोमान्ताद्याश्रिताश्च| अन्तर्मुखो भगन्दरो दुःखरोपणीयः सेवन्यादिसंश्रितश्च| अपि चेति श्लोकसमुच्चये| कुष्ठ्यादीनां ये व्रणास्ते कृच्छ्रसाध्याः| (कुष्ठिनां त्वग्लसीकासृगामिषदूषणात्| विषजुष्टानां सर्वधातुदूषणात्| शोषिणां धातुवहनाभावाद्रक्तक्षयाच्च| मधुमेहिनां सर्वधातुक्षयादुद्धावकाशतया वा| येषां पुरुषाणामेवंविधैर्हेतुभिर्व्रणप्राये शरीरे पुनरपि व्रणाः स्युस्ते व्रणाश्च कृच्छ्रसाध्याः||२५||

Adhikarana याप्यव्रणाः (२६) · Śloka २६

याप्यास्त्ववपाटिका निरुद्धमणिरुद्धगुदव्रणग्रन्थिप्रभृतयः सर्वास्थिक्षतं च||२६||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

अवपाटिकादयो गुह्यरोगे वक्ष्यमाणलक्षणा याप्याः||२६||

Adhikarana असाध्यव्रणाः (२७) · Śloka २७

असाध्याः पुनर्मांसपिण्डवदुद्गताः प्रसेकिनोन्तःपूया वेदनावन्तश्च पायुवदुद्धृत्तौष्ठाः कठिना गोश्रृङ्गवदुन्नतमांसप्ररोहा दुष्टशोणितास्राविणस्तनुपिच्छलास्रावस्राविणो वा मध्योन्नताः समवसन्नसुषिरपर्यन्ताः शणतूलवत्स्नायुजालवन्तो दुर्दर्शना मेदोमज्जवसामस्तुलुङ्गस्राविणश्च दोषसमुत्थाः पीतासिता मूत्रपुरीषवातवाहिनश्च कोष्ठस्थाः रक्तार्शयजाश्च क्षारोदकसमास्रावाः तथाऽऽमाशयजाः कलायाम्भोनिभास्रावाः पक्वाशयजश्च तथापुलाकोदकमिव स्रवन्तः क्षीणमांसानां च सर्वतोगतयस्त्वणुमुखमांसबुद्बुदवन्तः सश्ब्दवातवाहिनश्च शिरःकण्ठस्थाः विसर्पज्वरपिपासारोचकाऽविपाककासश्वासातीसारच्छर्दियुक्ताः भिन्ने च शिरःकपाले यत्र मस्तुलुङ्गदर्शनं त्रिदोषलिङ्गप्रादुर्भावो वा स्यादिति| भवति चात्र- स्नायुक्लेदात्सिराच्छेदाद्गाम्भीर्यात्कृमिभक्षणात्| अस्थिभेदात् सशल्यत्वात् सविषत्वादतर्कितात्| मिथ्याबन्धादतिस्नेहाद्रौक्ष्याद्रोमादिघट्टनात्| क्षोभादशुद्धकोष्ठत्वात्सौहित्यादतिकर्शनात्| मद्यपानाद्दिवास्वप्नाद्वा यामाद्रात्रिजागरात्| व्रणो मिथ्योपचाराच्च नैव साध्योऽपि सिध्यति||२७||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

असाध्यमांसपिण्डवदुद्गता ये सन्दध्युस्ते| सुबोधम्| तथा दुष्टरक्तास्राविणो वा तन्वादिगुणास्राविणो वा| शणतूलं शणाख्यस्य सूक्ष्मरोम| दुर्दर्शना ये स्नायुजालवन्तो द्रष्टुं नार्हन्ति| ये च दोषसमुत्थाः सन्तो मेदःप्रभृतिवाहिनः| सुबोधम्| क्षीणमांसानां पुंसां सर्वतो गतित्वादियुक्ताः, गतिर्नाडी| मस्तुलुङ्गः कपालपूरणम्| स्नायुक्लेदादितो व्रणः साध्योऽपि नैव सिध्यतीति सम्बन्धः| अतर्किताद्यथा विशेषमनधिगतेः| रोमादीत्यादिशब्देन तृणपांस्वादीनां ग्रहणम्| (अशुद्धकोष्ठत्वात् यथाकालोदितवमनाद्यभावेनाशुद्धः| सदोषः कोष्ठो यस्य तस्य भावस्तस्मात्| सौहित्यादतिभुक्त्या| अतिकर्शनादनशनात्| मिथ्योपचारात् शस्त्रकर्मविध्युक्तोपचारविभ्रंशात्)||२७||

Adhikarana रोहद्रवणलक्षणम् (२८-२९) · Śloka २९

कपोतवर्णप्रतिमा यस्यान्ताः क्लेदवर्जिताः| स्थिराश्च पिटकावन्तो रोहतीति तमादिशेत्||२८|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे व्रणविभक्तिपरिज्ञानीयो नामैकोनत्रिंशोऽध्यायः||२९||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

कपोतवर्णप्रतिमापर्यन्तादिरोहद्व्रणलक्षणम्| पिटकावन्तः बुद्बुदसङ्कोचप्रायाः| (यस्य व्रणस्यान्तर्मध्यः पर्यन्तो वा कपोतवर्णप्रतिमः कपोततुल्यवर्णः क्लेदवर्जितः क्लेदरहितः स्थिरः स्थिरव्रणः वृद्धिक्षयरहित इत्यर्थः| यः चिपिटकावान् चिपिटिकायुक्तः चिपिटिका (अरिप्पुण्ण इति भाषायां) ते व्रणं रोहतीति निर्दिशेत्|| २८|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायामष्टाङ्गसंग्रहव्याख्यायां शशिलेखायामुत्तरतन्त्रे एकोनत्रिंशोऽध्यायः