Adhikarana अथोन्मादप्रतिषेधो नाम नवमोऽध्यायः - प्रतिज्ञा (१) · Śloka १
अथात उन्मादप्रतिषेधं नामाध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
भूतसमानहेतुत्वादिभिश्चित्तोपप्लवसामान्याच्चिकित्सासामान्याच्च भूतिचिकित्साया अनन्तर एवोन्मादापस्मारयोर्निर्णयस्तत्र प्रथममुन्मादं प्रदर्शयितुमध्याय आरभ्यते||१||
Adhikarana तत्रादौ सङ्ख्यासम्प्राप्तिर्निर्वचनञ्च (२) · Śloka २
षडुन्मादा भवन्ति-वातपित्तकफसन्निपाताधिविषनिमित्ताः|
तत्रोन्मादो नाम य उन्मार्गगैः शारीरमानसैर्दोषैर्मनसो मदः||२||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
वातादिभेदेन षडुन्मादाः| आधयो मानसा व्याधयो मौनविचारहर्षदयाः| तत्र शारीरैर्वातादिभिर्मानसाभ्यां च रजस्तमोभ्यां मनसो यो मदः स उन्माद इत्युन्मादस्य निर्वचनम्||२||
Adhikarana उन्मादहेतुः (३) · Śloka ३
तेषां पुनरुन्मार्गगत्वे हेतुः शमलं विकृतोपहितमहितमनु चितमन्नपानविधिनिरपेक्षमाहारजातमत्युपक्षीणदेहानां व्यवायव्याधिवेगसमुद्गमे विषमशरीरचेष्टोपसेवा देव द्विजगुरूल्लङ्घनं वा रागद्वेषजनिताभिराधिभिर्मनोविघातो विषोपविषगरोपयोगो वा||३||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
तेषामिति शारीरमानसानां दोषाणामुन्मार्गगमने तु शमलादिकं हेतुः| शमलं पापम्| विकृतोपहितमित्याद्याहारजातस्य विशेषणम्| विकृतेनोपहितं कृतमहितमपथ्यम्| अनुचितमनभ्यस्तम्| विषमेण शारीरेणाङ्गेन या चेष्टा तस्याः सेवा| देवादीनामुल्लङ्घनं वा| राग-जनिता आधयो दयितादिविरहादयः| द्वेषजनिता भयादयः| तैराधिभिर्मनोविघातः| विषं महाविषम्| उपविषं स्वल्पशक्तिविषम्| गरो-ऽनेकसंयोगजनितं विषम्|| ३||
Adhikarana उन्मादसम्प्राप्तिः (४) · Śloka ४
एभिर्हीनसत्त्वस्य मनस्युपहते बुद्धौ प्रचलितायामत्यु दीर्णत्वाद्दोषाः प्रकुपिता हृदयमुपसृत्य मनोवहानि स्रोतां स्यावृत्य जनयन्त्युन्मादम्||४||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
एभिरित्यनन्तरोक्तैर्हेतुभिः| हीनसत्त्वस्येत्यादि सुबोधम्||४||
Adhikarana उन्मादपूर्वरूपाणि (५) · Śloka ५
तत्र शिरसः शून्यता चक्षुषोरस्वस्थत्वं स्वनः कर्णयो- रुच्छ्वासाधिक्यमास्यसंस्रवणम्मन्नानभिलाषोऽरोचको- ऽविपाको हृदयग्रहोऽस्थाने ध्यानायाससम्मोहोद्वेगाः सततं रोमहर्षो ज्वरोऽभीक्ष्णमुन्मत्तचित्तत्वमुदर्दित्वमर्दिताकृ- तिकरणं व्याधेः स्वप्ने च दर्शनमभीक्ष्णं भ्रान्तचित्तच- लितानवस्थितानामप्रशस्तानां रूपाणां तिलपीडाकवच्च- क्राधिरोहणं वातकुण्डलिकाभिरुन्मथनं निमज्जनं कलुषाणाम्भसामावर्तेषु चक्षुषोश्चापसर्पणमिति दोषनिमित्तानामुन्मादानां पूर्वरूपाणि|
ततोऽनन्तरमुन्मादाभिनिर्वृत्तिरेव||५||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
तत्रेत्यादिना वातादिदोषनिमित्तानामुन्मादानां पूर्वरूपाणि| अस्थानेऽप्रसङ्गे ध्यानादयः| उदर्दो दोषादिविज्ञानीयोक्तलक्षणः| व्याधेः स्वप्ने दर्शनं देहस्य| भ्रान्तादिगुणानाञ्च रूपाणां दर्शनम्| क्वच्चिक्राधिरूढैस्तिलाः पीड्यन्ते यथास्माद्देशे| वातकुण्डलिका आवर्तवाताः| ततः पूर्वेभ्योऽनन्तरमुन्मादोऽवश्यमभिनिर्वर्तत इत्येवशब्दार्थः||५||
Adhikarana उन्मादसामान्यलक्षणम् (६) · Śloka ६
सामान्यलिङ्गं मनोबुद्धिस्मृत्यादिसम्प्रमोषः|
ततश्च देहो हतसारथिरिव रथोऽकर्णधार इव चाप्सु प्लवः सुख दुःखाचारधर्माधर्मप्रलुप्तोकस्माद् भ्रमति||६||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
मनः सम्प्रमोषादिकमुत्पन्नानामुन्मादानां दोषजानां सामान्यलिङ्गम्| ततश्चेति मनःप्रभृतीनां सम्प्रमोषे| कर्णधारः प्लववाहकः| प्लवश्च नावादिः||६||
Adhikarana वातोन्मादलक्षणानि (७) · Śloka ७
तत्र वातादस्थानस्मितहसितनृत्तगीतवादित्रवागङ्गविक्षेप वाग्भेदभ्रूविक्षेपरोदनक्रोशनास्फोटनानि पर्यटनमजस्र मास्यात् फेनागमो यानमयानैरलङ्करणमनलङ्कारिकरिकैर्द्र व्यैर्लोभोऽभ्यवहार्येषु लब्धेषु चावमानस्तीव्रं मात्सर्यं कार्श्यं पारुष्यमुत्पिण्डितारुणाक्षता जीर्णेऽन्ने चातिबलवत्वम्||७||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
तत्रेत्यादिना विशेषलिङ्गानि| अतिबलवत्वान्तं वातज उन्मादे लक्षणम्||७||
Adhikarana पित्तोन्मादलक्षणानि (८) · Śloka ८
पित्तात् क्रोधः सन्तर्जनमकस्मान्मुष्टिलोष्टकाष्ठशस्त्रै रभिद्रवणं नग्नता प्रच्छायशिशिराभिरतिरुदकाभिलाषः सन्तापः पीतावस्रंसनमनिमित्तमनलज्वलनोपशङ्काह्नि तारकादर्शनं ताम्रहरितहारिद्रसंरब्धाक्षत्वं च||८||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
पित्तादुन्मादे संरब्धाक्षत्वान्तं लिङ्गम्| प्रकृष्टा छाया यत्र देशे स प्रच्छायः| पीतावस्रंसनं पीतस्य गुणेन भ्रंशः||८||
Adhikarana कफोन्मादलक्षणानि (९) · Śloka ९
कफादल्पवाक्चेष्टाहारत्वमरोचको वमथुरुष्णसेवा लालासिङ्घाणकस्रवणं रहःकामता स्त्रीप्रियत्वं निद्रा बीभत्सत्वं शौचद्वेषः श्वयथुरास्ये शुक्लस्तिमितमला विलाक्षता भुक्ते रात्रौ च बलवत्वमिति||९||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
रात्रिबलवत्वान्तं कफादुन्मादे लक्षणम्||९||
Adhikarana सन्निपातोन्मादलक्षणम् (१०) · Śloka १०
भवति चात्र सर्वायतनसंस्थानसन्निपाते तदात्मकम्|
उन्मादं दारुणं विद्यात्तं भिषक् परिवर्जयेत्||१०||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
गतानुगतिका| सर्वेषामायतनानां दोषोन्मादकारणानां सन्निपाते संस्थानानाञ्च सर्वोन्मादलिङ्गानां सन्निपाते मिश्रीभूतत्वे तदात्मकमुन्मादं विद्यात्| तं दारुणं सान्निपातिकं वैद्यः परिवर्जयेद साध्यत्वात्||१०||
Adhikarana आधिजोन्मादलक्षणम् (११) · Śloka ११
धनकान्तादिनाशेन दुःसहेनाभिषङ्गवान्|
पाण्डुर्दीनो मुहुर्मुह्यन् हाहेति परिदेवते|
रोदित्यकस्मात् स्मयते तद्गुणान् बहु मन्यते|
शोकक्लिष्टमना ध्यायन् जागरूको विचेष्टते||११||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
धनेत्यादिना आधिज उच्यते| अभीषङ्गोऽभिभवः| तद्गुणा नष्टधनकान्तादिगुणाः| शोकेन क्लिष्टं मनो यस्य स तथोक्तः जागरणीशीलो जागरूकः||११||
Adhikarana विषजोन्मादलक्षणम् (१२) · Śloka १२
विषेण श्याववदनो नष्टच्छायोऽबलेन्द्रियः|
वेगान्तरेऽपि सम्भ्रान्तो रक्ताक्षस्तं विवर्जयेत्||१२||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
विषेणेत्यादिना विषज उन्मादः| वेगान्तरमतीतानागतयोर्विषवेगयोर्मध्यं तत्रापि सम्भ्रान्तोऽस्वस्थचित्तः| तमिति विषजमुन्मादम्||१२||
Adhikarana चिकित्साक्रमः (१३) · Śloka १३
अथानिलज उन्मादे स्नेहपानं प्रयोजयेत्|
पूर्वमावृतमार्गे तु सस्नेहं मृदुशोधनम्|
कफपित्तोद्भवेऽप्यादौ वमनं सविरेचनम्|
स्निग्धस्विन्नस्य बस्तींश्च शिरसश्च विरेचनम्|
तथास्य शुद्धदेहस्य प्रसादं लभते मनः||१३||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
अथेत्यादिना वातादिक्रमेणैवोन्मादानां चिकित्सोच्यते| अनिलज उन्मादे पूर्वं प्रथमं स्नेहपानं प्रयोजयेत्| आवृतमार्गेत्वनिलजे सस्नेहं स्नेहसहितं मृद्वतीक्ष्णं शोधनं वमनविरेचनाख्यम्| कफोद्भवे पित्तोद्भवेऽपि शिरोविरेचनान्तम्| तथेत्यनन्तरोक्तचिकित्सया| अस्येत्यातुरस्य||१३||
Adhikarana स्नेहयोगाः (१४) · Śloka १४
स्नेहकाले च वातोत्थे तैलं शैरीषमिष्यते|
महाकल्याणकं पैत्ते पञ्चगव्यं कफोद्भवे||१४||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
वातोत्थ उन्मादे स्नेहकाले स्नेहयोग्ये| शैरीषमपस्मोरोक्तम्| पैत्ते महाकल्याणकोक्तम्| कफोद्भवे पञ्चगव्यमिष्यते||१४||
Adhikarana तीक्ष्णनावनादिचिकित्साक्रमः (१५) · Śloka १५
इत्थमप्यनुवृत्तौ नु तीक्ष्णं नावनमञ्जनम्|
हर्षणाश्वासनोत्रासभयताडनतर्जनम्|
अभ्यङ्गोद्वर्तनालेपधूपान् पानं च सर्पिषः|
युञ्ज्यात्तानि हि शुद्धस्य नयन्ति प्रकृतिं मनः||१५||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
इत्थमप्युक्तया चिकित्सया विहितयाऽप्युन्मादस्यानुवृत्तौ दोषाद्यपेक्षया तीक्ष्णं नावनादिकं युञ्ज्यात्| तानि हि नावनादीनि यतः शुद्धदेहस्यसतो मनःप्रकृतिं नयन्ति ||१५||
Adhikarana हिङ्ग्वादिघृतम् (१६) · Śloka १६
हिङ्गुसौवर्चलव्योषैर्द्विपलांशैर्घृताढकम्|
सिद्धं समूत्रमुन्मादभूतापस्मारनुत् परम्||१६||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
द्विपलांशैः पलद्वयप्रमाणैर्हिङ्ग्वादिभिः समूत्रं गोमूत्रसहितं सिद्धं घृतस्याढकमष्टाविंशत्यधिकं पलशतं परमातिशयेन भूतादिनुत् भवति||१६||
Adhikarana ब्राह्मीघृतम् (१७) · Śloka १७
द्वौ प्रस्थौ स्वरसाद् ब्राह्मया घृतप्रस्थञ्च साधितम्|
व्योषश्यामात्रिवृद्बिम्बीशङ्खपुष्पीनृपद्रुमैः|
ससप्तलाकृमिहरैः कल्कितैरक्षसम्मितैः|
पलवृद्ध्या प्रयुञ्जीत परं मात्राचतुष्पलम्|
उन्मादकुष्ठापस्मारहरं वन्ध्यासुतप्रदम्|
वाक्यस्वरस्मृतिमेधाकृद्धन्यं ब्राह्मीघृतं स्मृतम्||१७||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
ब्राह्मयाः स्वरसात् प्रस्थद्वयं चतुःषष्टिपलानि घृतप्रस्थं द्वात्रिंशत्पलानि कर्षप्रमाणैः कल्कितैर्व्योषादिभिः साधितं ब्राह्मीघृतसंज्ञमेतत् पलवृद्ध्या दिने दिने पलप्रमाणवृद्ध्या प्रयुञ्जीत| परमुत्कृष्टा मात्रा चतुष्पलं पलचतुष्टयम्| तद्घृतमुन्मादादिहरं वन्ध्यायाः सुतप्रदं वागादिकृद् धन्यं भाग्यकरं स्मृतमाचार्यैः ||१७||
Adhikarana कल्याणकघृतम् (१८) · Śloka १८
वराविशालाबढ्रैलादेवदार्वेलवालुकैः|
द्विशारिवाद्विरजनीद्विस्थिराफलिनीनतैः|
बृहतीकुष्ठमञ्जिष्ठानागकेसरदाडिमैः|
वेल्लतालीसपत्रैलामालतीमुकुलोत्पलैः|
सदन्तीपद्मकहिमैः कर्षांशैः सर्पिषः पचेत्|
प्रस्थं भूतग्रहोन्मादकासापस्मारसूदनम्|
पाण्डुकण्डूविषे शोषे मेहे मोहे ज्वरे गरे|
अरेतस्यल्परजसि दैवोपहतचेतसि|
अमेधसि स्खलद्वाचि स्मृतिकामेऽल्पपावके|
बल्यं मङ्गल्यमायुष्यं कान्तिसौभाग्यपुष्टिदम्|
कल्याणकमिदं सर्पिः श्रेष्ठं पुंसवनेषु च||१८||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
कर्षांशैः कर्षप्रमाणैर्वरादिभिर्घृतस्य प्रस्थं द्वात्रिंशत्पलानि पचेत्| सर्वत्र जलस्य स्मर्तव्यम्| तद्घृतं भूतादिसूदनं पाण्ड्वादिषु शस्तं बल्यादिगुणं कान्त्यादिप्रदं च| इदं घृतं कल्याणकसंज्ञं परं पुंसवनं पुंसवनेषु श्रेष्ठं गर्भास्यादिकाले पुरुषप्रजार्थमपि सेवनीयमित्यर्थः||१८||
Adhikarana महाकल्याणकघृतम् (१९) · Śloka १९
एभ्यो द्विशारिवादीनि जले पक्त्वैकविंशतिम्|
जले तस्मिन् पचेत् सर्पिर्गृष्टिक्षीरचतुर्गुणम्|
वीराद्विमेदाकाकोलीकपिकच्छूविषाणिभिः|
सूप्यपर्णीयुतैरेतन्महाकल्याणकं परम्|
बृंहणं सन्निपातघ्नं पूर्वस्मादधिकं गुणैः||१९||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
एभ्य इति वरादिभ्यो द्विशारिवादीन्येव न त्वेलाबालुकान्तानि| हिमं चन्दनम्| एतानि चैकविंशतिद्रव्याणि जले पक्त्वा तस्मिन् जले सूप्यपर्णीयुतैर्वीरादिभिः कल्कितैर्गृष्टिक्षीरचतुर्गुणं सर्पिः पचेत्| एतत् घृतं महाकल्याणकं बृंहणादिगुणं पूर्वस्मात् कल्याणकात् गुणैरधिकम्| गृष्टिरेकवारप्रसूता गौः||१९||
Adhikarana महापैशाचकं घृतम् (२०) · Śloka २०
जटिला पूतना केशी चारटी मर्कटी वचा|
त्रायमाणा जया वीरा चोरकः कटुरोहिणी|
कायस्था सूकरी छत्रा सातिच्छत्रा पलङ्कषा|
महापुरुषदन्ता च वयस्था नाकुलीद्वयम्|
कटम्भरा वृश्चिकाली शालिपर्णी च तैर्घृतम्|
सिद्धं चातुर्थिकोन्मादग्रहापस्मारनाशनम्|
महापैशाचकं नाम घृतमेतद्यथामृतम्|
बुद्धिमेधास्मृतिकरं बालानां चाङ्गवर्धनम्||२०||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
जटिलादिभिः शालिपर्ण्यन्तैरौषधैः साधितं महापैशाचकं नाम घृतं चातुर्थिकोन्मादादिनाशनम्| चतुर्थिको ज्वरः| एतत् घृतममृततुल्यं महागुणत्वात्| बुद्ध्यादिकरं बालानामङ्गवर्धनञ्च| जटिला मांसी| पूतना गन्धमांसी| केशी शतावरी| चारटी पद्मचारिणी| मर्कटी आत्मगुप्ता| जया अग्निमन्थः| अपराजिता च| वीरा काकोली| चोरकः शठी चण्डा च| कायस्था हरीतकी सुरसश्च| सूकरी वाराही| छत्रा कुतुम्बकम्| धान्यकमिति च| अतिच्छात्रा गौतमाख्या शतपुष्पेति च| पलङ्कषा लाक्षा| महापुरुषदन्ता महामेदा| शतावरीति च| वयस्था आमलकम्| नाकुलीद्वयं नाकुली गन्धनाकुली च| कटम्भरा कटभी| वृश्चिकाली चक्रा| उष्ट्रधूमक इति च ||२०||
Adhikarana लशुनादिघृतम् (२१) · Śloka २१
लशुनानां शतं त्रिंशदभयात्र्यूषणात् पलम्|
गव्यचर्ममषीप्रस्थो द्वयाढकं क्षीरमूत्रयोः|
पुराणसर्पिषः प्रस्थमेभिः सिद्धं प्रयोजयेत्|
हिङ्गुचूर्णपलं शीते दत्वा च मधुमानिकाम्|
तद्दोषागन्तुसम्भूतानुन्मादन्विषमज्वरान्|
अपस्मारांश्च हन्त्याशु पानाभ्यञ्जननावनैः||२१||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
लशुनः सितलशुनः| मधुनः क्षौद्रान्मानिकामष्टौ पलानि| तल्लशुनघृतं दोषादिसम्भूतानुन्मादादीन् पानादिभिराशु हन्ति| दोषा वातादयः| आगन्तू आधिविषे| उग्रगन्धं पुराणं स्याद् दशवर्षस्थितं घृतम्| लाक्षारसनिभं शीतं तद्धि सर्वग्रहापहम्|| इति चरके||२१||
Adhikarana उपायान्तरनिर्देशः (२२) · Śloka २२
केवलं सिद्धमेभिर्वा घृतमुत्तममात्रया|
पुराणं पाययित्वैनं श्वभ्रे रुन्ध्याद् गृहेऽथवा||२२||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
तथेदमपि कुर्यात्| पुराणं घृतं केवलमथवैभिर्लशुनादिभिः सिद्धमुत्तमया मात्रया अष्टयामजरणीयया एनमुन्मादिनं पाययित्वा श्वभ्रे प्रपाते रुन्ध्यात्| गृहेऽथवा विजन इत्यर्थात्||२२||
Adhikarana अतिदेशेन अञ्जनादियोगोपयोगिता (२३) · Śloka २३
एतानौषधवर्गान्वा विधेयत्वमगच्छति|
अञ्जनोद्वर्तनालेपनावनादिषु योजयेत्||२३||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
निवृत्तोन्मादेऽपि तत्संस्कारद्विधेयत्वमगच्छत्येतानन्तरोक्तान्यथायोगमौषधवर्गानञ्जनादिषु योजयेत्||२३||
Adhikarana अश्वगन्धादितैलम् (२४) · Śloka २४
अश्वगन्धाजगन्धोग्रगन्धालशुनसर्षपैः|
रास्नाकायस्थगोलोमीयुक्तैस्तैलं विपाचितम्|
गोमूत्रसदृशं पाननस्याभ्यङ्गानुवासनैः|
सर्वोन्मादग्रहालक्ष्मीपाप्मापस्मारनाशनम्||२४||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
अश्वगन्धादिभिर्गोमूत्रसमं तैलं विपाचितं पानादिभिः सर्वोन्मादादिनाशनम्| उग्रगन्धा वचा| कायस्था हरीतकी| गोलोमीदूर्वा||२४||
Adhikarana शिरीषाद्यञ्जननावने (२५) · Śloka २५
शिरीषो मधुकं हिङ्गु लशुनस्तगरं वचा|
कुष्ठञ्च बस्तमूत्रेण पिष्टं स्यान्नावनाञ्जनम्|
तद्वद् व्योषं हरिद्रे द्वे मञ्षिठाहिङ्गुसर्षपाः|
शिरीषबीजं चोन्मादग्रहापस्मारनाशनम्||२५||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
शिरीषबीजादिकं बस्तमूत्रेण पिष्टमञ्जनं नावनञ्च स्यात्| व्योषादिकमपि तद्वदिति बस्तमूत्रेण पिष्टमञ्जनं नावनं च| एतच्च प्रयोगद्वयमप्युन्मादादिनाशनम्||२५||
Adhikarana ब्राह्मयादियोगः नस्याद्यथ (२६) · Śloka २६
ब्राह्मीमैन्द्रीं विडङ्गानि व्योषं हिङ्गुजटां मुरम्|
रास्नां विषघ्नां लशुनं विशल्यां सुरसं वचाम्|
ज्योतिष्मतीं नागविन्नामनन्तां सहरीतकीम्|
काम्लीं च हस्तिमूत्रेण पिष्ट्वा छायाविशोषिता|
वर्तिर्नस्याञ्जनालेपधूपैरुन्मादसूदनी||२६||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
ब्राह्म्यादिकं हस्तिमूत्रेण पिष्ट्वा छायाविशोषिता वर्तिर्नस्यादिभिरुन्मादसूदनी भवति| हिङ्गुजटा हिङ्गुपत्री| विषघ्नात्र सोमराजी| कटभी च| विशल्या गर्भपातनी| ज्योतिष्मती कङ्गुणिका| नागविन्ना नागदन्ती| अनन्ता दूर्वा| काम्ली सौराष्ट्री| अतश्च सुबोधम्||२६||
Adhikarana अपामार्गादिवर्तिः (२७) · Śloka २७
पिष्ट्वा फलान्यपामार्गाद्धिङ्गुलं हिङ्गुपत्रिकाम्|
वर्तिर्गोक्रोष्टुपित्तेन मरिचार्धशकाञ्जनम्|
उन्मादभूतापस्मारे नृषु गोषु च गोचरे||२७||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
गोर्वृषस्य क्रोष्टुः सृगालस्य च पित्तेन| एतत् सर्वमेकत एकतो मरिचमित्यर्धांशत्वम्| एषा वर्तिरुन्मादे भूतेऽपस्मारे च योज्या| नृषु नरेषु गोचरे विषये गवां मारके गोषु वृषभेषु चाञ्जनं विधेयम्||२७||
Adhikarana वातश्लेष्मात्मके विशेषोपचाराः (२८) · Śloka २८
अवपीडाश्च विविधाः सर्षपस्नेहसंयुताः|
कटुतैलेन चाभ्यङ्गो ध्मापयेच्चास्य तद्रजः|
सहिङ्गुतीक्ष्णधूमश्च सूत्रस्थानोदितो हितः|
सृगालशल्यकोलूकजतुकावृकबस्तजैः|
मूत्रपित्तशकृल्लोमनखचर्मभिराचरेत्|
धूपधूमाञ्जनाभ्यङ्गप्रदेहपरिषेचनम्|
धूपयेत्सततं चैनं श्वगोमत्स्यैः सुपूतिभिः|
वातश्लेष्मात्मके प्रायः ||२८||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
अवपीडाः कल्कादिनस्या विविधा नानाविधस्तीक्ष्णाः ते च सर्षपतैलसंयुताः| कटुतैलेनाभ्यङश्च हितः| तद्रजः सर्षपचूर्णं तच्च सहिङ्गु| कटुशब्देन सर्षपा उच्यन्ते| सृगालादीनां मूत्रादिभिर्धूपादीनाचरेत्| जतुका चर्मचटिका| श्वाप्रभृतिभिः सुपूतिभिः| किलन्नगन्धैरेनमुन्मादिनं सततं धूपयेत्| सुबोधम्||२८||
Adhikarana पैत्तिके विशेषोपचाराः (२९) · Śloka २९
पैत्तिके तु प्रशस्यते|
तिक्तकं जीवनीयं च सर्पिः स्नेहश्च मिश्रकः|
शीतानि चान्नपानानि मधुराणि लघूनि च|
विध्येत्सिरां यथोक्तां वा तृप्तं मेद्यामिषस्य वा|
निवाते शाययेदेवं मुच्यते मतिविभ्रमात्||२९||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
पैत्तिके नु तिक्तकादिकं सर्पिः प्रशस्यते| सुबोधम्| सिराव्यधादिकं च सर्वं दोषाद्यपेक्षया विहितविभागं कार्यम्| मेद्यामिषस्य बल्यामिषस्य तृप्तमुन्मादिनं निवाते शाययेत्| एवमुपक्रान्ते सति मतिविभ्रमादुन्मादान्मुच्यते||२९||
Adhikarana प्राणभयकराः उपचारविशेषाः (३०) · Śloka ३०
प्रक्षिप्यासलिले कूपे शेषयेद्वा बुभुक्षया|
आश्वासयेत् सुहृतं वा वाक्यैर्धर्माथसंहितैः|
ब्रूयादिष्टविनाशं वा दर्शयेदद्भुतानि वा|
बद्धं सर्षपतैलाक्तं न्यस्तं चोत्तानमातपे|
कपिकच्छ्वाथवा तप्तैर्लोहतैलजलैः स्पृशेत्|
कशाभिस्ताडयित्वा वा बद्ध्वा श्वभ्रे विनिक्षिपेत्|
अथवा वीतशस्त्राश्मजने सन्तमसे गृहे|
सर्पणोद्धृतदंष्ट्रेण दान्तैः सिंहैर्गजैश्च तम्|
त्रासयेच्छस्त्रहस्तैर्वा किरातारातितिस्करैः|
अथवा राजपुरुषा बहिर्नीत्वा सुसंयतम्|
भाययेयुर्वधेनैनं तर्जयन्तो नृपाज्ञया|
देहदुःखभयेभ्यो हि परं प्राणभयं मतम्|
तेन याति शमं तस्य सर्वतो विप्लुतं मनः|
सिद्धा क्रिया प्रयोज्येयं देशकालाद्यपेक्षया||३०||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
प्रक्षिप्येत्यादि| असलिले जलरहिते कूपे प्रक्षिप्य बुभुक्षयाऽनशनेन शोषयेद्वा सुहृदिति बन्धुस्तमुन्मादिनं धर्मार्थसंयुतैर्वचनैराश्वासयेद्वा| इष्टविनाशं पुत्रमरणादिरूपं वाक्यं ब्रूयाद्वा| अथवाद्भुतान्याश्चर्यभूतानीन्द्रजालादीनि दर्शयेत्| अथवा सर्षपतैलेन सिक्तं पाण्यादिषु बद्ध्वा उत्तानं कृत्वाऽऽतपे न्यस्तं कपिकच्छ्वाद्यन्यतमेन स्पृशेत्| कपिच्छुरात्मगुप्ता| अथवा कशाभिस्ताडयित्वा बद्ध्वा च श्वभ्रे जलरहितकूपे विनिक्षिपेत्| अथवा शस्त्रादिरहिते अन्धकारभवने| अथवा तं सर्पादिणा त्रासयेत्| सर्पस्तूद्घृतदंष्ट्रः| सिंहा गजाश्च दान्ता एव ये त्रासयन्त्येव न तूपघ्नन्ति| अथवोद्धृतायुधैः किरातादिभिस्त्रासयेत्| तस्करा गृहीतछद्मतस्करपदवीकाः पुरुषाः| अथवैनमुन्मादिनं प्रसिद्धा राजपुरुषा नगराद् बहिर्नीत्वा सुसंयतम् कृत्वा नृपाज्ञया तर्जयन्तो वधेन करणभूतेन भाययेयुः| यतो देहदुःखभयेभ्यः प्राणभयं परमुत्कृष्टं मतमतस्तेन प्राणभयेन तस्यातुरस्य सर्वतो विप्लुतं मनः शममायति| इयं चानन्तरप्रदर्शिता क्रिया सिद्धा अप्रतिहता देशकालाद्यपेक्षया प्रयोक्तव्या| अस्यामपि सिद्धिमयात्यां देशादिव्यभिचार एवानुमन्तव्यो न तु क्रियादोषा हृदि वर्तन्ते|| ३०||
Adhikarana इष्टविनाशजोन्मादप्रतिषेधः (३१) · Śloka ३१
इष्टाद्रव्यविनाशात्तु मनो यस्योपहन्यते|
तस्य तत्सदृशप्राप्तिस्सान्त्वाश्वासैः प्रसादयेत्||३१||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
इष्टद्रव्यविनाशादित्यादि| सुबोधम्| सदृशमितीष्टसदृशं धनसदृशं च| तदिति मनः||३१||
Adhikarana कामादिजानामुन्मादानां प्रतीकारः (३२) · Śloka ३२
कामशोकभयक्रोधहर्षेर्ष्यालोभसम्भवान्|
परस्परप्रतिद्वन्द्वैरेभिरेव शमं नयेत्||३२||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
कामादिसम्भवानुन्मादानेभिरेव कामादिभिः परस्परप्रतिद्वन्द्वैः शमं नयेत्| कामजं तत्प्रतिद्वन्द्वीभूतेन भयेन वा क्रोधेन वा शमं नयेदित्यर्थः| एवं शेषेष्वपि यथासम्भवं प्रतिद्वन्द्विषु वाच्यम्||३२||
Adhikarana भूतानुबन्धप्रतिकारविशेषः (३३) · Śloka ३३
भूतानुबन्धमीक्षेत प्रोक्तलिङ्गाधिकाकृतिम्|
यद्युन्मादे ततः कुर्यात् भूतनिर्दिष्टमौषधम्|
बलिं च दद्यात्पललं यावकं सक्तुपिण्डिकाम्|
स्निग्धं मधुरमाहारं तण्डुलान् रुधिरोक्षितान्|
पक्वामकानि मांसानि सुरां मैरेयमासवम्|
अतिमुक्तस्य पुष्पाणि जात्याः सहचरस्य च|
चतुष्पथे गवां तीर्थे नदीनां सङ्गमेषु च||३३||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
यदि चोन्मादे वैद्यो भूतानुबन्धमीक्षेत| ततो भूतनिर्दिष्टमौषधं कुर्यात्| किम्भूतं भूतानुबन्धमाह| प्रोक्तलिङ्गाधिकाकृतिं प्रोक्तेभ्य उन्मादविशेषेभ्योऽधिका आकृतिर्लक्षणं यस्य तम्| तत्र च भूतानुबन्धे चतुष्पथादिषु भूतेभ्यः पललादिकं बलिं दद्यात्| रुधिरोक्षिताः रुधिरसिक्ताः||३३||
Adhikarana सत्त्ववतां उन्मादासम्भवः (३४) · Śloka ३४
निवृत्तामिषमद्यो यो हिताशी प्रयतः शुचिः|
निजागन्तुभिरुन्मादैः सत्त्ववान् न स युज्यते||३४||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
निवृत्तामिषत्वादियुक्तः सत्त्ववांश्च जितेन्द्रियत्वादिलक्षणो निजैरागन्तुभिश्चोन्मादैर्न युज्यते||३४||
Adhikarana विगतोन्मादलक्षणम् (९) · Śloka ९
प्रसादश्चेन्द्रियार्थानं बुद्ध्यात्ममनसां तथा|
धातूनां प्रकृतिस्थत्वं विगतोन्मादलक्षणम्||३५||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे उन्माद प्रतिषेधो नाम नवमोऽध्यायः||९||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
इन्द्रियार्थादीनां प्रसादादिकं विगतोन्मादस्य पुरुषस्य लक्षणम्|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया- मष्टाङ्गसंग्रहव्याख्यायां शशिलेखायामुत्तरतन्त्रे नवमोऽध्यायः||९|