Skip to content

१८. सर्वगाक्षिरोगविज्ञानीयः

Adhikarana अथ सर्वाक्षिरोगविज्ञानीयो नामाष्टादशोऽध्यायः - प्रतिज्ञा (१) · Śloka

अथातः सर्वाक्षिरोगविज्ञानीयं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

नेत्रस्याऽवयवविभागेन रोगनिर्णयं कृत्वा रोगाणां व्यापिनां हेत्वादिकं प्रदर्शयितुमध्याय आरभ्यते||१||

Adhikarana वाताभिष्यन्दलक्षणम् (२) · Śloka

वातेन नेत्रेऽभिष्यण्णे नासानाहोऽल्पशोफता| शङ्खाक्षिभ्रूललाटास्यतोदस्फुरणभेदनम्| शुष्काल्पा दूषिका शीतमल्पं चाश्रु चला रुजः| निमिषोन्मेषणं कृच्छ्राज्जन्तूनामिव सर्पणम्| अक्ष्याध्मातमिवाभाति सूक्ष्मैश्शल्यैरिवाचितम्| स्निग्धोष्णैश्चोपशमनम्||२||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

वातेन नेत्रेऽभिष्यण्णे आर्द्रीभूते नासानाहादिकं भवति| सुबोधम्| उपशमनं स्वास्थ्यलाभः| एष रोगोऽभिष्यन्द उच्यते|

Adhikarana वाताधिमन्थः (३) · Śloka

सोऽभिष्यन्द उपेक्षितः| अधिमन्थो भवेत्तत्र कर्णयोर्नदनं भ्रमः| अरण्येव च मथ्यन्ते ललाटाक्षिभ्रुवादयः||३||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

एष चोपेक्षितः सन् वातेनैवाधिमन्थो भवेत्| तत्र वाताधिमन्थे कर्णनादादिकं लिङ्गम्| अरणी याज्ञिकानां घर्षणेनाग्न्युत्पादने मन्थनकाष्ठम्||३||

Adhikarana वातजहताधिमन्थः (४) · Śloka

हताधिमन्थः सोऽपि स्यात्प्रमादात्तेन वेदनाः| अनेकरूपा जायन्ते व्रणो दृष्टौ च दृष्टिहा||४||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

स चाधिमन्थः प्रमादादपचाराद्धताधिमन्थाख्यः स्यात्| तेन च हताधिमन्थेनानेकरूपा वेदना रुजो जायन्ते| दृष्टिमण्डले च दर्शनहा व्रणो जायते||४||

Adhikarana अन्यतोवातः (५) · Śloka

मन्याक्षिशङ्खतो वायुरन्यतो वा प्रवर्तयेत्| व्यथां तीव्रामपैच्छिल्यरागशोफं विलोचनम्| सङ्कोचयति पर्यश्रु सोऽन्यतो वातसंज्ञितः||५||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

यदा तु स्वनिमित्तात् कुपितो वायुर्मन्यादितोऽन्यतो वा तन्निकटादङ्गात् पूर्वात्तीव्रां व्यथां प्रवर्तयेत्| पैच्छिल्यादिरहितं नेत्रं साश्रु सङ्कोचयति| तदा स रोगो नाम्ना अन्यतोवातः||५||

Adhikarana वातपर्ययः (६) · Śloka

तद्वज्जिह्यं भवेन्नेत्रमूनं वा वातपर्यये||६||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

वातपर्ययाख्ये रोगे तद्वदिति पूर्ववन्मन्यारुजादिकेन नेत्रं जिह्यं कुटिलं चित्रन्यस्तमिव भवत्यूनं वा प्रमाणेन भवति ||६||

Adhikarana पित्ताभिष्यन्दः (७) · Śloka

दाहो धूमायनं शोफः स्यावता वर्त्मनोर्बहिः| अतःक्लेदोऽश्रु पीतोष्णं रागः पीताभदर्शनम्| क्षारोक्षितक्षताक्षित्वं पित्ताभिष्यन्दलक्षणम्||७||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

दाहादिकं पित्ताभिष्यन्दलक्षणम्| धूमप्रवेश इव धूमायनम्| क्षारेणोक्षितो यो व्रणस्तत्तुल्यव्रणाक्षिता भवति||७||

Adhikarana पित्ताधिमन्थः (८) · Śloka

ज्वलदङ्गारकीर्णाभं यकृत्पिण्डसमप्रभम्| अधिमन्ये भवेन्नेत्रम्||८||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

अस्मिन्नुपेक्षया पित्ताधिमन्थीभूते ज्वलदङ्गारकीर्णाभनेत्रत्वादिकं लिङ्गम्||८||

Adhikarana कफाभिष्यन्दलक्षणम् (९) · Śloka

स्यन्दे तु कफसम्भवे| जाड्यं शोफो महान् कण्डूर्निद्रान्नानभिनन्दनम्| सान्द्रस्निग्धबहुश्वेतपिच्छावद् दूषिकाऽश्रुता||९||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

कफेऽभिष्यन्दे जाड्यादिकं लिङ्गम्| अनभिनन्दनमन्नस्य| सान्द्रादिगुणवद् दूषिका सान्द्रादिगुणवदश्रुता च||९||

Adhikarana कफाधिमन्थलक्षणम् (१०) · Śloka १०

अधिमन्थे नतं कृष्णमुन्नतं शुक्लमण्डलम्| प्रसेको नासिकाध्मानं पांसुपूर्णमिवेक्षणम्||१०||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

अस्मिन्नेवोपेक्षया कफाधिमन्थीभूते कृष्णं नतत्वादिलक्षणम्||१०||

Adhikarana रक्ताभिष्यन्दलक्षणम् (११) · Śloka ११

रक्ताश्रुराजीदूषीका रक्तमण्डलदर्शनम्| रक्तस्यन्देन नयनं सपित्तस्यन्दलक्षणम्||११||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

रक्ताभिष्यन्दे पित्ताभिष्यन्दलक्षणान्तं लिङ्गम्||११||

Adhikarana रक्ताधिमन्थलक्षणम् (१२) · Śloka १२

मन्थेऽक्षिताम्रपर्यन्तमुत्पाटनसमानरुक्| रागेण बन्धूकनिभं ताम्यति स्पर्शनाक्षमम्| असृङ्निमग्नारिष्टाभं कृष्णमग्न्याभदर्शनम्||१२||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

अस्मिन्नेव रक्ताधिमन्थीभूते ताम्रपर्यन्तमक्षि भवत्युत्पाटनसमानरुगादिस्वरूपं तेन सदृशं कृष्णं यस्मिन्नक्ष्णि|| १२||

Adhikarana अधिमन्थसामान्यलक्षणम् (१३) · Śloka १३

अधिमन्था यथास्वं च सर्वे स्यन्दाधिकव्यथाः| शङ्खदन्तकपोलेषु कपाले चाति रुक्कराः||१३||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

सर्वे चाधिमन्था यथास्वदेषेभ्योऽभिष्यन्देभ्योऽधिकव्यथा भवन्ति| वाताधिमन्थो वाताभिष्यन्दाधिकव्यथः| एवं सर्वत्र वाच्यम्| ते चाधिमन्थाः शङ्खादिकेऽतिरुक्कराः||१३||

Adhikarana शुष्काक्षिपाकः (१४) · Śloka १४

वातपित्तातुरं घर्षतोदभेदोपदेहवत्| रूक्षदारुणवर्त्माक्षिकृच्छ्रोन्मीलनिमीलनम्| विकूणनविशुष्कत्वशीतेच्छाशूलपाकवत्| उक्तः शुष्काक्षिपाकोऽयम्||१४||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

वातपित्तेनातुरं पीडितमक्षि घर्षतोदादिगुणं भवति| स रोगो नाम्ना शुष्काक्षिपाक उक्तः||१४||

Adhikarana सशोफपाकः (१५) · Śloka १५

सशोफः स्यात्त्रिभिर्मलैः| सरक्तस्तत्र शोफोऽतिरुद्गाहष्ठीवनादिमान्| पक्वोदुम्बरसङ्काशं जायते शुक्लमण्डलम्| अश्रूष्णशीतविशदपिच्छिलाच्छघनं मुहुः||१५||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

सशोफाख्यस्तु पाकः सरक्तैस्त्रिभिर्दोषैर्भवति| तत्र सशोफे पाकेऽतिरुगादिमान् शोफः| नेत्रे च शुक्लमण्डलं पक्वोदुम्बरसङ्काशं जायते| उष्णत्वादिगुणं चाश्रु जायते||१५||

Adhikarana अल्पशोफः (१६) · Śloka १६

अल्पशोफोऽल्पशोफस्तु पाकोऽन्यैर्लक्षणैस्तथा||१६||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

यस्त्वक्षिपाकोऽल्पशोफोऽन्यैः पक्वोदुम्बरसङ्काशादिकैरनन्तरोक्तसशोफाख्यपाकाक्षिलक्षणैर्युक्तो भवति स नाम्नाऽल्पशोफः||१६||

Adhikarana अक्षिपाकात्ययः (१७) · Śloka १७

अक्षिपाकात्यये शोफः संरम्भः कलुषाश्रुता| कफोपदिग्धमसितं सितं प्रक्लेदरागवत्| दाहो दर्शनसंरोधो वेदनाश्चानवस्थिता||१७||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

अक्षिपाकात्ययाख्ये रोगे शोफादिकं लिङ्गम्| संरम्भो वेदनाया उद्रेकः| वेदना अनवस्थिताश्चलस्वरूपाः||१७||

Adhikarana अम्लोषितः (१८) · Śloka १८

अन्नसारोऽम्लतां नीतः पित्तरक्तोल्बणैर्मलैः| सिराभिर्नेत्रमारूढः करोति श्यावलोहितम्| सशोफदाहपाकाश्रु भृशं चाविलदर्शनम्| अम्लोषितोऽयम्||१८||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

योऽन्नस्य सारः स पित्तरक्ताधिकैस्त्रिभिर्मलैरम्लत्वं नीतः सिराभिश्च नेत्रमारूढः सन् नेत्रं श्यावलोहितं करोति| अयं रोगो नाम्ना अम्लोषितः||१८||

Adhikarana सर्वगानां सङ्ख्यासम्प्राप्तिः (१९) · Śloka १९

इत्युक्ताः गदाः षोडश सर्वगाः||१९||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

इति षोडश व्याधयः सर्वगा उक्ताः||१९||

Adhikarana असाध्यतानिर्देशः (२०-१८) · Śloka १८

हताधिमन्थमेतेषु साक्षिपाकात्ययं त्यजेत्| वाताद्भूतं पञ्चरात्रेण दृष्टिं सप्ताहेन श्लेष्मजातोऽधिमन्थः| रक्तोत्पन्नो हन्ति तद्वत्त्रिरात्रान् मिथ्याचारात् पैत्तिकः सद्य एव||२०|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे सर्वाक्षिरोगविज्ञानीय नामाष्टादशोऽध्यायः||१८||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

एतेषु च मध्ये हताधिमन्थमक्षिपाकात्ययं चासाध्यत्वात्त्यजेत्| वातोद्भूत इत्यादि सुबोधम्| दृष्टिं हन्तीति सर्वत्र सम्बध्यते| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायामष्टाङ्गसंग्रहव्याख्यायां शशिलेखायामुत्तरतन्त्रे अष्टादशोऽध्यायः