Adhikarana अथ नासारोगप्रतिषेधो नाम चतुर्विंशोऽध्यायः - प्रतिज्ञा (१) · Śloka १
अथातो नासरोगप्रतिषेधं नामाध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
उक्तक्रमेणैव नासारोगाणां चिकित्सां प्रदर्शयितुमध्याय आरभ्यते||१||
Adhikarana पीनसचिकित्सासूत्रम् (२) · Śloka २
सर्वेष्वादौ पीनसेषु स्नेहस्वेदवमनधूमगण्डूषस्निग्धोष्णभोजननिवातशयनासनानि सेवेत||२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
सर्वेष्वित्यादिना सामान्येन प्रतिश्यायानां चिकित्सा ||२||
Adhikarana पाचनौषधानि (३) · Śloka ३
पाचनार्थञ्च गुडार्द्रकक्षीरत्रिकटुकाजमांसमद्याम्लभोजनानि||३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
पाचनार्थमिति येन प्रतिश्यायः पक्वतां याति तदर्थं गुडादिभोजनानि सेवेतेति सम्बन्धः||३||
Adhikarana उपजिघ्रणं धूमश्च (४) · Śloka ४
रोहिषाजाजीवचाचोरकोपकुञ्चिकातर्कारीचातुर्जातकरजो वस्त्रावबद्धं मुहुर्मुहुरुपजिघ्रेत्|
घृताक्तसक्तून् मल्लकसम्पुटे कृत्वा धूमं च पिबेत्||४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
सर्वेषु च रोहिषादिचूर्णवस्त्रे बद्ध्वा मुहुर्मुहुरुपजिघ्रेत्| घृताक्तसक्तूनित्यादि सुबोधम्||४||
Adhikarana पक्वे चिकित्साक्रमः (५) · Śloka ५
पक्वे तु शिरोविरेचनमवपीडं च युञ्ज्यात्||५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
पक्वे तु सर्वस्मिन् प्रतिश्यायेऽङ्गलाघवादिना ज्ञाते शिरोविरेकादिकं युञ्ज्यात्तीक्ष्णद्रव्यैः कल्काद्यैर्नासायोज्य औषधोऽवपीडः||५||
Adhikarana सामान्यमपथ्यम् (६) · Śloka ६
निदानोक्तानि च वर्जयेत्|
विशेषेण शीताम्बुस्नानपानात्युच्चोपधानानुपधानक्रोधशोकान्||६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
निदानोक्तानि चावश्यायादीनि वर्जयेत्| शीताम्बुस्नानादिकं विशेषेण वर्जयेदेति||६||
Adhikarana वातप्रतिश्यायचिकित्सा (७) · Śloka ७
अथ वातप्रतिश्याये पूर्वमेव वातहरद्रव्यविपक्वं ससैन्धवं प्रातः सर्पिः पिबेन्महाष्टपलं वा||७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
साधारणमुक्त्वाऽथेत्यादिना विशेषेणोच्यते| पूर्वमेव प्रथममेव| वातहराणि द्रव्याणि भद्रदार्व्यादीनि शोधनादिगणोक्तानि| महाष्टपलं यावशूकेत्यादिना गुल्मनिर्दिष्टम्||७||
Adhikarana वातप्रतिश्यायचिकित्सा (८) · Śloka ८
दशमूलकुलत्थकोलयवशुश्कमूलकव्योषलवणपञ्चकैः सदधिधान्याम्लं सर्पिःसिद्धमाहारे पाने च प्रणीतम् प्रतिश्याययक्ष्माकासश्वासग्रहणीगुल्मविबन्धनम्||८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
दशमूलादिभिः सिद्धं सर्पिराहारपानाभ्यां प्रतिश्यायादिघ्नम्||८||
Adhikarana वातप्रतिश्यायचिकित्सा (९) · Śloka ९
जीर्णस्नेहं जाङ्गलरसेन व्योषदाडिमसैन्धववता बालमूलकरसेन सर्वधान्ययूषेण वा भोजयेत्|
नागरं वा पयसा पिबेत्||९||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
जीर्णस्नेहमातुरं यस्यानन्तरोक्तान्यतमस्नेहो जीर्णस्तं व्योषादिमता जाङ्गलरसेन भोजयेत्| बालमूलकस्य रसेन वा| रसो यूषः सर्वधाब्यानां मुद्गादीनां यूषेण सुबोधम् ||९||
Adhikarana वातप्रतिश्यायचिकित्सा (१०) · Śloka १०
कृष्णादशमूलशुण्ठीयवैरण्डमूलक्वाथसिद्धेन पयसोत्तमाङ्गं स्वेदयेत्|
तदेव च पानभोजनयोर्विदध्यात्|
आर्दितोक्तांश्च स्वेदान्|
एवमपरिपच्यमाने पुनः पुनर्नाडीस्वेदं वातहरं चास्थापनमनुवासनं शिरोबस्तिञ्च||१०||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
कृष्णादिसिद्धेन पयसोत्तमाङ्गशिरः स्वेदयेत्| तदेवेति कृष्णादिसिद्धं क्षीरम्| अर्दितोक्तांश्च स्वेदान् कुर्यात्| सुबोधम्||१०||
Adhikarana वातप्रतिश्यायचिकित्सा (११) · Śloka ११
पक्वे तु तैलं क्षवकचूर्णयुक्तं ससैन्धवं सर्पिर्वा शिरोविरोचनम्||११||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
पक्वे तु वातप्रतिश्याये क्षवकेण राजक्षवकेण युक्तं तैलं शिरोविरेचनं सर्पिर्वा ससैन्धवम्| इति वातप्रतिश्याये||११||
Adhikarana पित्तप्रतिश्यायचिकित्सा (१२) · Śloka १२
पित्तप्रतिश्याये पद्मकोशीरपटोलसारिवाविदारीशतावरीक्षीरिद्रुमशुङ्गशठीकर्कटाख्यादुरालभानामर्द्धाढकमष्टगुणेऽम्भसि विपाच्य पादावशेषे मधुकमृद्वीकाचन्दनश्रृङ्गाटककशेरुकश्वेतपाकान्यक्षमात्राणि दत्वा घृतप्रस्थं पयसा सह साधयेत्|
तत् प्रातः पानाय युञ्ज्यात्|
जीर्णे सुखोष्णतोयपरिषिक्तं ससैन्धवेन रसेन भोजयेत्|
सुस्निग्धं विरेचयेत् द्राक्षापटोलश्रीपर्णीमूर्वात्रिवृत्क्वाथेन त्रिवृत्पथ्यापूगफलचूर्णान्वितेन||१२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
पित्तजं प्रतिश्याये पद्मकादिघृतेन सुस्निग्धं द्राक्षादिक्वाथेन त्रिवृदादिचूर्णान्वितेन विरेचयेत्| क्षीरिद्रुमाणां वटादीनां शुङ्गा अङ्कुराः| कर्कटाक्ष्या कर्कटश्रृङ्गी| अर्द्धाढकं द्वात्रिंशत्पलानि| अष्टगुणमम्भः पलसङ्ख्यय| श्वेतपाकः श्वेतकाम्बोजिका| अक्षं कर्षः| जीर्ण इति तस्मिन् घृते| परिषिक्तं स्नापितमातुरम्| रसेनेति मांसरसेन||१२||
Adhikarana पित्तप्रतिश्यायचिकित्सा (१३) · Śloka १३
विरिक्तभुक्तस्य शीतैः शिरोवक्त्रलेपपरिषेककवलग्रहान् वितरेत्||१३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
एवं विरिक्तस्यानन्तरञ्च भुक्तस्य शीतैः शीतवीर्यस्पर्शैर्द्रव्यैः शिरोवक्त्रे लेपादीन् वितरेत्||१३||
Adhikarana पित्तप्रतिश्यायचिकित्सा (१४) · Śloka १४
व्यजनपवनविधूयमानश्च नीलशाद्वलोपवनशिशिरकरकिरणधारागृहाणि सेवेत||१४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
व्यजनपवनैरुत्क्षेपवातैर्विधूयमानः सन्नातुरो नीलशाद्वलोपवनादिकं सेवेत| नीलं शाद्वलं दूर्वा यस्मिन्नुपवने तत्तथोक्तं शिशिरकरस्य| शीतरश्मेः किरणाः पादाः| (धारागृहं नाम चतुस्तम्भप्रतिष्ठितमदृश्यप्रभवाभिनिष्यन्दिनीभिर्जलधाराभिः परिवृतं मण्डपम् )| धारागृहं यन्त्रप्रवृत्तधाराजलं वेश्म एषां द्वन्द्वः|| १४||
Adhikarana पित्तप्रतिश्यायचिकित्सा (१५) · Śloka १५
तत्र च पक्वे तु दोषे शिरोविरेकं पुराणघृतेन ससैन्धवेन घृतमण्डेन वा कट्फलान्वितेन कुर्यात्|
विशुद्धस्रोतसश्च जाङ्गलरसेन क्षीरेण वा शीतेन भोजनम्||१५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तत्र च पित्तप्रतिश्याये दोषे पक्वे ससैन्धवेन पुराणघृतेन शिरोविरेकं कुर्यात्| अथवा कट्फलान्वितेन घृतमण्डेन तत् कुर्यात्| विशुद्धस्रोतसश्चेति शिरोविरेचनेन शीतरसक्षीरभोजनं हितम्| इति पित्तप्रतिश्याये ||१५||
Adhikarana कफप्रतिश्यायचिकित्सा (१६) · Śloka १६
कफजे तु यवक्षारावचूर्णितमुष्णोदकानुपानं घृतं पाययेत्|
जीर्णे च तिलमाषपललवतीं यवागूम्|
ततो वामनीयौषधक्वाथसिद्धया ससर्पिष्कया सैन्धवमाषचूर्णप्रगाढया पेययोष्णाम्भसा च वामयेत्||१६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
कफजे प्रतिश्याये| सुबोधम्| जीर्ण इति घृते| पललं तिलकल्कः| तत इत्यस्मिन् क्रमे कृतेऽनु तदहरेव वमनम्| वामनीयान्यौषधानि मदनादीनि सूत्रपठितानि| सैन्धवमाषयोश्चूर्णेन प्रगाढा घना||१६||
Adhikarana कफप्रतिश्यायचिकित्सा (१७) · Śloka १७
ततस्तीक्ष्णधूमकवलयवानचणकप्रायाहारनाडीस्वेदैरुपाचरेत्|
अरुचिगौरवयोस्तु विशोधयेत्||१७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
ततो वमनस्य पश्चात्तीक्ष्णधूमादिभिरुपाचरेत्| तीक्ष्णो धूमः सूत्र उक्तो नाडीस्वेदश्च| अरुचिगौरवयोस्तु विशोधयोदित्यर्थाद्वमनेन विरेचनेन च||१७||
Adhikarana कफप्रतिश्यायचिकित्सा (१८) · Śloka १८
पक्वे क्षवकविडङ्गसैन्धवादिभिर्नस्यम्|
तैलाप्लुतो नागरचूर्णानुविद्धो मुद्ग आहारो यथासात्म्यं च रूक्षतीक्ष्णोष्णम्||१८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
पक्वे च तस्मिन् प्रतिश्याये क्षवकादिभिस्तीक्ष्णैर्नस्यम्| क्षवको राजक्षवकः| तत्र च मुद्ग आहारो यथासात्म्यं चान्यदप्याहारम्| किम्भूतो मुद्ग आह-तैलाप्लुतः तैलभूयिष्ठ इत्यर्थः| नागरचूर्णेन चानुविद्धः कृतसंस्कारः||१८||
Adhikarana कफप्रतिश्याये नस्यम् (१९) · Śloka १९
शुद्धघ्राणपाथस्य देवदारुसरलकाकोलीजीवकमधुकपिप्पल्यनन्ताक्षीरविपक्वं तैलं नस्यम्||१९||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
एवं रूक्षादिगुणैराहारादिभिर्विशुद्धघ्राणमार्गस्य सतो देवदार्वादिभिः क्षीरेण च विपक्वं तैलं नस्यम् इति कफे||१९||
Adhikarana सन्निपातप्रतिश्यायचिकित्सा (२०) · Śloka २०
सान्निपातिके दोषबलतः प्रतिकुर्यात्|
रसाञ्जनातिविषामुस्तभद्रदारुसाधितं चात्रं तैलं नावनम्||२०||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
सन्निपातजे तु दोषबलापेक्षया कार्या| य एव दोषो यथा बलवांस्तस्यैव तथा चिकित्सया प्रतीकार इत्यर्थः| अत्र च सन्निपाते रसाञ्जनादिभिः साधितं तैलं नावनमिति सन्निपाते||२०||
Adhikarana रक्तजप्रतिश्यायचिकित्सा (२१) · Śloka २१
रक्तजे पैत्तिको रक्तपित्तोक्तश्च विधिः||२१||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
रक्तजे प्रतिश्याये पित्तप्रतिश्यायोक्तो रक्तपित्तोक्तश्च विधिः इति रक्ते||२१||
Adhikarana दुष्टप्रतिश्यायचिकित्सा (२२) · Śloka २२
दुष्टप्रतिश्याये व्योषचित्रकयवक्षारबीजकविडङ्गपूतिकरञ्जत्वग्लवणत्रयैर्मांसरसप्रतिवापविपक्वं सक्षौद्रं सर्पिः पाययेत्|
जीर्णे घृते जाङ्गलरसेन तैलोपसेकं भोजयेत्|
स्निग्धं कफप्रतिश्यायवदुपाचरेत्||२२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
दुष्टप्रतिश्याये व्योषादिभिर्मांसरसं प्रतीवापं पच्यमानं दत्वा विपक्वं सर्पिः क्षौद्रेण सह पाययेत्| उपसेकशब्देन तैलस्यातिबहुत्वमुक्तम्| स्निग्धं चेत्यनन्तरोक्तेन प्रकारेणैव दुष्टप्रतिश्यायिनम्||२२||
Adhikarana दुष्टप्रतिश्यायचिकित्सा (२३) · Śloka २३
पक्वेऽवपीडं व्योषेन्द्रयवविडङ्गसारजीरकसैन्धवैर्बस्तमूत्रपिष्टैर्दद्यात्|
विशुद्धघ्राणस्रोतसं च पुनरुपस्नेह्य विरेचयेत्|
भृष्टान् यवान् भूस्तृणकाम्रातकजीरकत्रिवृतायुक्तान् गोमूत्रेण क्वाथयेत्|
तं क्वाथमभयानागरमरिचक्रमुकसैन्धवयावशूकचूर्णयुक्तं सबीजपूरकरसं पाययेत्|
कोष्णोदकं चानुकण्ठयेत्||२३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
पक्वे च दुष्टप्रतिश्याये व्योषादिभिर्बस्तमूत्रपिष्टैरवपीडं नस्यं दद्यात्| सुबोधम्| अनुकण्ठनं स्तोकपानम्|| २३||
Adhikarana दुष्टप्रतिश्यायचिकित्सा (२४) · Śloka २४
विरिक्तं च काले मुस्तहरिद्रानागरयवक्षारपूतीकरञ्ज्रेणुकाभिरजाविगोमूत्रदधिभिश्च सिद्धं सर्पिरुपयोजयेत्|
तीक्ष्णानि च निरूहानुवासनानि|
अरिष्टांश्च पानार्थम्||२४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
विरिक्तं चेति भृष्टयवादिरसेन| काल इति योग्ये मुस्तादिभिरजादीनां मूत्रेण दध्ना च सिद्धं सर्पिरुपयोजयेत्| तीक्ष्णानि निरूहादीन्युपयोजयेदिति सम्बध्यते||२४||
Adhikarana दुष्टप्रतिश्यायचिकित्सा (२५) · Śloka २५
एवमप्यशान्तौ हिङ्गुक्षारामरदारुविपक्वं घृतं मांसरसानुपानं पिबेत्||२५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
एवमनन्तरोक्तेनाप्यशान्तौ सत्यां हिङ्ग्वादिपक्वं पिबेत्||२५||
Adhikarana दुष्टप्रतिश्यायचिकित्सा (२६) · Śloka २६
कोशाम्रपल्लवमूर्वातर्कारीङ्गुदीफलणिज्जकमहापञ्चमूलकण्टकारिकासारिवोरुपूगहिंस्रानिम्बशिग्रुफलरक्षोघ्नकृमिघ्नदन्तीपूतीकरञ्जपिप्पलीवार्ताकबीजाहिमारकमूलत्वक्पत्रपुष्पफलैरजामूत्रपिष्टैरजाश्वशकृद्रसयुक्तैर्धूमवर्त्तिं कृत्वा घृताभ्यक्तां पातुं प्रयच्छेत्||२६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तस्य च कोशाम्रादीनां यथासम्भवं पत्रादिभिरजस्य मूत्रेण पिष्टैरजाश्वकृद्रसेन युक्तैर्धूमविध्युक्तप्रकारेण धूमवर्त्तिं कृत्वा घृतेनाभ्यक्तां पातुं प्रयच्छेत्| पानाय दद्यात्||२६||
Adhikarana दुष्टप्रतिश्यायचिकित्सा (२७) · Śloka २७
पिप्पलीवर्धमानं चोपयुञ्जीत|
कृमिघ्नैश्च योगैर्यापयेत्||२७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
पिप्पलीवर्धमानं रसायने वक्ष्यते| कृमिघ्ना योगाश्चिकित्सित उक्ताः तैर्दुष्टप्रतिश्यायं याप्यत्वोक्तेर्यापयेत्| इति दुष्टप्रतिश्याये||२७||
Adhikarana भृशक्षवथुपुटकयोः चिकित्सा (२८) · Śloka २८
भृशक्षवथौ पुटके च निम्बकट्फलकुष्ठमरिचचूर्णैः क्लेदनाथ प्रधमनम्|
पिप्पलीकुष्ठशुण्ठीविडङ्गमृद्वीकाकषायकल्कविपक्वं तैलं घृतं वा नावनम्||२८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
भृशक्षवाख्ये रोगे पुटके च शुष्कत्वनाशाय क्लेदोत्पादनाय निम्बादिचूर्णं प्रधमनम्| पिप्पल्यादीनां क्वाथेन कल्केन च विपक्वं तैलं वा घृतं वा नावनम्||२८||
Adhikarana नासाशोषनासानाहयोः चिकित्सा (२९) · Śloka २९
नासाशोषे बलातैलं पाने शिरोबस्तौ च|
स्निग्धस्य स्वेदः|
क्षीरसर्पिर्नस्यं मधुरवर्गसाधितं वा तैलम्|
स्नैहिको धूमः|
तथा नासानाहेऽपि|
एवमनुपशमे शिरोविरेकः||२९||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
नासाशोषाख्ये सुबोधम्| क्षीरात् गृहीतं घृतं क्षीरसर्पिः| स्नैहिको धूमः सूत्रोक्तः| तथेति नासाशोषक्रमसमुच्चयो नासानाहाख्येऽपि| एवं च नासानाहस्यानुपशमे शिरोविरेकः||२९||
Adhikarana नासापाकदीप्त्योश्चिकित्सा (३०) · Śloka ३०
नासापाके दीप्तौ च जलौकोभिरस्रविस्रावणम्|
शीतैरूर्ध्वाधोविरेकलेपसेकाः||३०||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
नासापाकदीप्त्याख्योर्जलौक आदिकम्||३०||
Adhikarana नासास्रावचिकित्सा (३१) · Śloka ३१
नासास्रावे तीक्ष्णं नस्यं धूमश्च||३१||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
नासास्रावे सुबोधम्||३१||
Adhikarana अवीनसपूतिनासयोश्चिकित्सा (३२) · Śloka ३२
अवीनसे पूतिनासे च गुडमरिचहिङ्गुशिवाटिकाविडङ्गैरजामूत्रपिष्टैर्नस्यम्|
कफप्रतिश्यायवच्च स्नेहस्वेदवमनानि||३२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अवीनसपूतिनासयोर्गुडादिभिरजामूत्रपिष्टैर्नस्यम्| हिङ्गुशिवाटिका हिङ्गुपत्री| कफप्रतिश्यायवत् स्नेहादीनि||३२||
Adhikarana अवीनसपूतिनासयोश्चिकित्सा (३३) · Śloka ३३
वमितवतो निर्गुण्डीशिग्रुतर्कारीफणिज्जकक्षवकसुरजार्जकपत्रस्वरसेन सार्षपं पीलुजं वा तैलं विपच्य नस्यं विदध्यात्||३३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
वमितवतः कृतवमनस्य| निर्गुण्ड्यादिपत्रस्वरसेन सर्षपतैलं पीलुजं वा तैलं विपाच्य नस्यं विदध्यात्||३३||
Adhikarana अवीनसपूतिनासयोश्चिकित्सा (३४) · Śloka ३४
लाक्षाविडङ्गपिप्पलीलवङ्गक्षवकनिशाकुष्ठवचाकरञ्जिकाकल्कैर्वा तिलतैलम्|
शिग्रुबृहतीदन्तीमूलबिल्वव्योषसुरससैन्धवैर्वा||३४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अथवा लाक्षादिकल्कैस्तिलतैलं विपाच्य नस्यं विदध्यात्| शिग्र्वादिकल्कैर्वा| इत्यवीनसे पूतिनासे च ||३४||
Adhikarana पूयरक्तचिकित्सा (३५) · Śloka ३५
उत्पन्नमात्रं पूयरक्तं रक्तप्रतिश्यायवच्चिकित्सेत्|
प्रवृद्धं नाडीव्रणवत्|
कृतवमनस्य चास्य नस्यधूमौ प्रयोजयेत्||३५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
पूयरक्ताख्यमुत्पन्नमात्रमेव रक्तप्रतिश्यायविधानेन चिकित्सेत्| प्रवृद्धं पुनर्वक्ष्यमाणनाडीव्रणवत्| अस्य च प्रवृद्धरक्तपूयवतः कृतवमनस्य धूमं दोषाद्यपेक्षया योजयेत्||३५||
Adhikarana नाशार्सचिकित्सा (३६) · Śloka ३६
अर्शांसि विधिवत् क्षारेणाग्निना वा दहेत्|
स्थूलानि तु शस्त्रेण स्पृष्ट्वा दाहानन्तरं शीतां क्रियां योजयेत्||३६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अर्शांसीति| विधिवत् ग्रहणमपायपरिरक्षायै| स्थूलानि त्वर्शांसि शस्त्रेण स्पृष्ट्वा छित्वा दहेदिति सम्बन्धः| सुबोधम्||३६||
Adhikarana नाशार्सचिकित्सा (३७) · Śloka ३७
वर्त्तिञ्च नासायां कुम्भनिकुम्भाग्निकसैन्धवपिप्पलीमनश्शिलालकल्कमधुघृतप्रदिग्धाम्||३७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
वर्त्तिञ्च चैलमयीं कुम्भादिकल्कमधुघृतप्रदिग्धां नासायां योजयेदिति सम्बन्धः||३७||
Adhikarana नाशार्सचिकित्सा (३८) · Śloka ३८
तुवरिकाबिभीतकहरिद्रालोध्रप्रियङ्गुकरञ्जिकाकल्कगुडोदकविपक्वं तैलं नावनम्|
करञ्जकलोध्रोत्पलमधुकतिन्दुकास्थित्रिफलाखदिरसारविपक्वं वा||३८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तुवरिकादिविपक्वं तैलं करञ्जकलोध्रादिभिर्विपक्वं वा तैलं नावनम् ||३८||
Adhikarana नाशार्सचिकित्सा (३९) · Śloka ३९
यथादोषञ्च स्नेहवमनविरेकादीन् प्रणिदध्यात्||३९||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
दोषस्वरूपानतिक्रमेण च स्नेहादीनि प्रणिदध्यात्| इत्यर्शांसि||३९||
Adhikarana नासार्बुदचिकित्सा (४०) · Śloka ४०
अर्बुदं बडिशेन गृहीत्वा मण्डलाग्रेण मूले समं छिन्द्यात्|
छिन्नं चोच्छिङ्खयेत्|
चैलप्रमृष्टं च व्रणं शलाकया दहेत्तैलेन वा|
अग्निदग्धं भ्रङ्क्षयेत्ततः शिशिरैः प्रदेहैः||४०||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अर्बुदे सुबोधम्| उच्छिङ्खयेदुच्छ्वासेनान्तर्नयेत्| ततोऽनन्तरं शिशिरैः प्रदेहैर्मुङ्खयेत्||४०||
Adhikarana नासार्बुदचिकित्सा (४१) · Śloka ४१
उपरूढव्रणस्य लोध्रावापं तीक्ष्णोष्णलवणद्रव्यगोमूत्रयुक्तं सार्षपं कारञ्जं वा तैलं नावनम्|
पित्तजे रक्तजे वार्बुदे गोदन्तसैन्धवालकासीसकांस्यनीलैरम्बुपिष्टैरालेपः|
ततश्च शीताः प्रदेहसेकाः|
शीतैरेव च साधितानि घृतान्यभ्यङ्गनस्यपानानि|
भवति चात्र||४१||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
उपरूढार्बुदस्य तीक्ष्णादिगुणैर्द्रव्यैर्लोध्रावापं गोमूत्रेण युक्तं सार्षपं तैलं कारञ्जं वा विपक्वं नावनम्| सुबोधम्| शीताः शीतवीर्यस्पर्शाः||४१||
Adhikarana नासार्बुदचिकित्सा (४२) · Śloka ४२
मांसमेदःसन्निपातार्शोर्बुदानि चैवं साधयेदिति|४२|
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
मांसादिजानि त्वर्शोर्बुदानि चैवमित्युक्तेन छदनादिना प्रकारेण साधयेत्||४२||
Adhikarana नासार्बुदचिकित्सा (४२-२४) · Śloka २४
उपसंहरति हीनच्छेदात् पुनर्वृद्धिरतिच्छेदात् स्वरक्षयः|
गन्धाज्ञानं च वीसर्पो मूर्च्छा छिन्द्यादतः समम्||४२||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे नासरोगप्रतिषेधो नाम चतुर्विंशोऽध्यायः||२४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
छेद्यमर्शोर्बुदं समं छिन्द्यात्| कुत इत्याहहीनच्छेदादित्यादि| सुबोधम्|| ४३|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायामष्टाङ्गसंग्रहव्याख्यायां शशिलेखायामुत्तरतन्त्रे चतुर्विंशोऽध्यायः||