Adhikarana अथ भूतविज्ञानीयो नाम सप्तमोऽध्यायः - अत · Śloka
🔊 Audio coming soon
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
शारीरमानसदोषोपघातक्रमेण भूतविज्ञानीयाध्याय आरभ्यते||
Adhikarana अथ भूतविज्ञानीयो नाम सप्तमोऽध्यायः - अत · Śloka
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
शारीरमानसदोषोपघातक्रमेण भूतविज्ञानीयाध्याय आरभ्यते||
Adhikarana प्रतिज्ञा (१) · Śloka १
अथातो भूतविज्ञानीयं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
अथात इत्यादि पूर्ववत्|| १||
Adhikarana भूतलोकनिर्देशः (२) · Śloka २
अष्टादश भूताधिपतयः| तद्यथा-सुरासुरगन्धर्वारग यक्षब्रह्मराक्षसराक्षसपिशाचप्रेतकूष्माण्डकाखोर्दमौकि रणवेतालपितरः ऋषिगुरुवृद्धसिद्धाश्च| ते पुनः पृथक् कोटिपरिवाराः| तेषामपि प्रत्येकमपरिसङ्ख्येयः परि वार इत्यनन्तो भूतलोकः||२||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
यथाऽष्टादशभूताधिपतयो भवन्ति| तद्यथेत्यादिना तथा दर्शयति| ते च सुरादयः पृथक् प्रत्येकं कोटिपरिवाराः तेषामपि परिवाराणां प्रत्येकमपरिसङ्ख्येयः परिवार इत्यनेन प्रकारेणान्तो भूतलोकः|| २||
Adhikarana सामान्येन भूतस्वभावः (३) · Śloka ३
सर्वेऽपि च प्रायेणाहारकामा निशाऽर्धविचारिणो भया नका मांसासृग्वसाशिनः||३||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
सर्वेऽपि भूतलोका आहारकामिनः सन्तो निशाऽर्धविचारिणो भवन्ति| भयानका भयङ्करा मांसाद्याशिनश्च|| ३||
Adhikarana भूतसंज्ञाविशेषे हेतुः (४) · Śloka ४
अपि च सुरासुरादिसंवाससंसर्गात्तच्छीलाचारकर्मतया च तत्संज्ञां लभन्ते||४||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
अपि चेति समुच्चये| य एतेऽस्माभिः सुरादयः प्रदर्शिताः न ते पुरन्दरबलिचित्ररथवासुकिधनदप्रभृतयो ज्ञेया अपि त्वन्य एव| तेषां तु सुरादीनां संवाससंसर्गात्तत्सदृशशीलादितया च सुरादिसंज्ञां लभन्ते|| ४||
Adhikarana भूतानुप्रवेशहेतुः सम्प्रप्तिश्च (५) · Śloka ५
तेषां पुनरनुप्रवेशे कारणं सद्यः पूर्वकृतो वा विशेषेण प्रज्ञापराधः| तेन हि कामक्रोधलोभमोहादिजनितेन प्रलुप्तधर्मो भिन्न व्रताचारशौचो मलीमसः पूज्यानतिक्रामन्नात्मानमुपहन्ति| ततस्तमात्महनमवतारगवेषिणो देवादिग्रहा अप्यनुघ्नन्ति| तद्वदुन्मादापस्मारोपप्लुतचित्तं तथा ज्वराद्यामयोपहतमपि| विशेषतश्च व्रणिनः पूयासृक्स्नेहगन्धेन||५||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
तेषां तु देहानुप्रवेशे पुंसां प्रज्ञ्हापराधो विशेषतः कारणम्| किंभूतः प्रज्ञापराध आह| सद्यः कृतो वा पूर्वजन्मकृतो वा| स च सूत्र उक्तः| तेन हि प्रज्ञापराधनकामादिजनितेन लुप्तधर्मत्वादियुक्त आत्मानमुहन्ति| भिन्नशब्दस्य नष्टपर्यायस्य शौचान्तेन सम्बन्धः| तं तथाविधमात्मनैव हतात्मानमवतारगवेषिणश्छिद्रान्वेषिणो देवादिग्रहा अप्यनु पश्चात् घ्नन्ति| तद्वदेवोन्मादेनापस्मारेण वोपप्लुतचित्तं देवादयोऽनुघ्नन्ति| व्रणिनश्च पुरुषाण् पूयादिगन्धेन हेतुना विशेषतोऽनुघ्नन्ति||५||
Adhikarana भूतावेशकालाः (६) · Śloka ६
एवंविधांस्तु पुरुषनेष्वाघातकालेष्वभिगच्छन्ति| तद्यथा-पापस्य कर्मणः समारम्भे| पूर्वकृतस्य वा परिणामकाले| एकस्य वा शून्यगृहनिवासे| चतुष्पथाधिष्ठाने व| सन्ध्यावेलायामप्रयतभावे वा पक्षसन्धिषु या मिथुनीभावे| रजस्वलाभिगमने वा| विगुणे वाध्या पनहोमबलिमङ्गलप्रयोगे| नियमब्रह्मचर्यव्रतभङ्गे वा| महाहवे वा| देशपुरकुलविनाशे वा| महाग्रहोपगमने वा| स्त्रिया वा प्रजननकाले| विविधभूताशुचिसंस्पर्शे वा| वमनविरेचनरुधिरस्रावे वा| अशुचेरप्रयतस्य वा चैत्यदेवायतनाभिगमने वा| मांसमधुगुडातिलमद्योच्छिष्टे वा| दिग्वाससि वा| निशि नगरचतुष्पथोपवनश्मशा नाभिगमने वा| द्विजगुरुसुरयतिपूज्यव्यतिक्रमे वा||६||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
एवंविधान् पूर्वोक्तप्रकारान् पुरुषांस्तु एषु वक्ष्यमाणेष्वाघातकालेषु छिद्रेषु देवादयोऽभिगमनं कुर्वन्ति| केष्वित्याह-तद्यथेत्यादि| पापं कर्म हिंसादिः| अप्रयतभावोऽशुचित्वम्| पक्षसन्धयोऽष्टमीचतुर्दश्यमावास्याः| मिथुनीभावो योषिता रतिः| अथवाध्यापनादीनां प्रयोणे विगुणे शास्त्रनिषिद्धे| अथवा नियमादिभङ्गे| शास्त्रतो नियमः स्मृतः| महाहवो महान् संग्रामः| देशविनाशे वा पुरविनाशे वा कुलविनाशे वा| महाग्रहस्य राहोरुपगमने वा| स्त्रियाः प्रजननकालः प्रसूतिकालः| अथवा विविधानां भूतानामशुचीनां संस्पर्शे वा| वमनादीनां प्रयोगे वा| अशुचेरप्रयतस्य वा सतश्चैत्याद्यभिगमने वा| मांसाद्युच्छिष्टे वा| दिग्वाससि नग्ने| निशि वा नगराद्यभिगमने| द्विजादीनां पूज्यानां व्यतिक्रमे वा|| ६||
Adhikarana सुरादीनामावेशप्रकारः (७) · Śloka ७
तत्रावलोकयन्तो जनयन्ति मनोविकारं सुरासुरग्रहाः| स्पृशन्तो गन्धर्वाः| समाविशन्तो भुजगाः| यक्षाश्चात्मगन्धमाघ्रापयन्तः| राक्षसा वाहयन्तोऽधिरुह्य| तथैव पिशाचाद्याः| दर्शयन्तः पितरोऽभिशपन्त ऋषिगुरु वृद्धसिद्धाः||७||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
तत्रेत्यादिना यो ग्रहो येन प्रकारेण मनोविकारं जनयतीति प्रदर्श्यते| सुबोधम्| राक्षसा अधिरुह्य वाहयन्तस्तथैव पिशाचाद्या अपि| पितरो दर्शयन्तः| ऋश्यादयस्त्वभिशापं कुर्वन्तः| अपि च| आदूषयन्तः पुरुषस्य देहं देवादयः स्वैस्तु गुणप्रभावैः| विशन्त्यदृश्यास्तरसा यथैव छायातपौ दर्पणसूर्यकान्तौ|| ७||
Adhikarana सुरादीनामावेशपात्राणि कालश्च (८) · Śloka ८
तत्र शीलवन्तं चोक्षाचारं शुक्लाम्बरधरं तपःस्वा ध्यायपरं प्रायः शुक्लप्रतिपदि त्रयोदश्यां चतुर्दश्यां पौर्णमास्यां वा देवा गृह्णन्ति| क्रोधनं कदर्यमात्मसम्भाविनं कुलरूपगर्वितं कृष्णद्वादश्यां कृष्णत्रयोदश्यां सन्ध्य योश्चासुराः| प्रियनृत्तगीतवादित्रगन्धमाल्याम्बरं परदार रतम् चोक्षाचारं प्रायश्चतुर्थ्यामष्टम्यां द्वादश्यां चतुर्दश्यां च गन्धर्वाः| स्वप्नशीलं चपलमनिमित्तक्रोधनमर्थसिद्धं ब्राह्मणं प्रायः पञ्चम्यां सन्ध्ययोर्मध्याह्ने च नागाः| सत्त्वबलरूपगान्धर्वधनशौर्ययुक्तं माल्यानुलेपनहा स्यप्रियमतिव्याकरणं प्रायः शुक्लसप्तम्यामेकादश्याञ्च यक्षाः| स्वाध्यायतपोव्रतचर्यादेवयतिगुरुपूजारतं भ्रष्टशौचं वा ब्राह्मणमब्राह्मणं वा ब्रह्मवादिनं शूरं मानिनं देवागार सलिलक्रीडनप्रियं च स्खलितब्रह्मचर्यं प्रायः शुक्ल पञ्चम्यामष्टम्यां पूर्णचन्द्रदर्शने सन्ध्यासु च ब्रह्मराक्षसाः| हीनस्त्वं पिशुनं स्तेनं लुब्धं शठं प्रायो द्वितीयातृती याष्टमीषु राक्षसपिशाचादयः| कलिपानप्रियमसूयावन्तं परुषभाषिणं बह्वाशिनं च कृष्णनवमीद्वादश्योर्निशि च राक्षसाः| आत्मश्लाघिनं कूटसाक्ष्यप्रदं परोपतापिनं च चतुर्दश्यां पिशाचादयः| मातापितृगुरुवृद्धसिद्धाचार्योपसेविनं प्रायो दशम्याममा वास्यां च पितरः| तद्विधमेव च प्रायः षष्ठ्यां नवम्यां च गुरुवृद्धसिद्धाः| तथैव च स्नानशुचिविविक्तसेविनं धर्मशास्त्रश्रुतिकाव्यकुशलमृषयः||८||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
तत्र शीलवत्वादिगुणं प्रायः शुक्लप्रतिपदादिषु देवा गृह्णन्ति| क्रोधनादिकं कृष्णद्वादश्यादिष्वसुराः| प्रियनृत्तगीतादिकं चतुर्थ्यादिषु गन्धर्वाः| स्वप्नशीलादिकं पञ्चम्यादिषु नागाः| न्यस्यार्थेसिद्धोऽर्थसिद्धः| सत्त्वादियुक्तं माल्यादिप्रियं च वाचमतिक्रम्यचरति यस्तं शुक्लसप्तम्यादिषु यक्षाः| स्वाध्यायादिरतं ब्राह्मणमब्राह्मणं वा ब्रह्मवादिनं वेदपाठशीलं देवागारादिप्रियं स्खलितब्रह्मचर्यं च शुक्लपञ्चम्यादिषु ब्रह्मराक्षसाः| हीनसत्त्वादिकं द्वितीयादिषु राक्षसपिशाचादयः| तत्र विशेषः कलिप्रियादिकं कृष्णनवम्यदिषु राक्षसाः| आत्मश्लाघिप्रवृत्तिनं चतुर्दश्यां पिशाचादयः| कूटसाक्ष्यमसत्यसाक्ष्यम्| मात्राद्युपसेविनं पितरो दशम्यादिके| तद्विधमेव च मात्राद्युपसेविनं षष्ठ्यादिके गुर्वादयः| तथैव चेति षष्ठ्यां नवम्यां च स्नानादिसेविनं धर्मशास्त्रादिकुशलं चर्षयः|| ८||
Adhikarana ग्रहग्रहणपूर्वरूपाणि (९) · Śloka ९
तेषां तु ग्रहीष्यतां पूर्वारूपाणि भवन्ति| तद्यथा-देव गोब्राह्मणतपस्विनां हिंसारुचित्वं नृशंसाभिप्रायता कोप नत्वमरतिरोजोवर्णच्छायाबलवपुषां चोपतप्तिः स्वप्ने देवादिभिर्भर्त्सनं प्रवर्त्तनं च||९||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
तेषां तु सर्वेषां सुरादीनां ग्रहीष्यतां ग्रहणं करिष्यतां पूर्वरूपाणि भवन्ति| कानीत्याह-तद्यथेत्यादि| उपतप्तेरोजोवर्णादिभिः सम्बन्धः| स्वप्ने देवादिभिर्भर्त्सनं सन्तर्जनम्| प्रवर्तनं च यथोक्तेषु व्यापारेषु|| ९||
Adhikarana देवग्रहाविष्टे लक्षणानि (१०) · Śloka १०
तत्र सौम्यदृष्टिं गम्भीरमप्रधृष्यमकोपनं शुचिमनिद्रं भोज नानाभिलाषिणमल्पस्वेदमूत्रपुरीषवाचं संस्कृतवादिनं देवद्विजगुरुभक्तं शुक्लमाल्याम्बरसरित्पुलिनशैलोच्च भवनदधिक्षीरसुरभिप्रियं चिरादक्षिणी निमीलयन्तंवर प्रदातारं शुभगन्धं वर्चस्विनं फुल्लपद्मोपममुखं देवग्रहेण गृहीतं विद्यात्| तत्रापि गोवृषमिव नदन्तं दीप्तमुखनयनमादीप्तेन स्वरेण सर्वमा भाषमाणमीश्वरेण| मेघस्तनितविद्युदृष्टीर्वाचा विसृजन्तमिन्द्रेण| धनानि वाचा प्रयच्छन्तमाच्छिन्दन्तं च धनदेन| सुरासवसमगन्धं काष्ठतृणरज्ज्वादि सर्वं पाशमभिमन्यमानं वरुणेन||१०||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
तत्रेत्यादिना सुरादिनामष्टादशानामविष्टानां क्रमेण लक्षणम्| तत्र सौम्यदृष्ट्यादिकं देवग्रहेण गृहीतं विद्यात्| गम्भीरम्| यस्य प्रभावादाकारे क्रोधशोकभयादयः भावस्था नोपलक्ष्यन्ते तद्गाम्भीर्यमिति स्मृतमिति| तेन युक्तम्| स्वेदादिवागन्तानामल्पशब्देन सम्बन्धः| भक्तशब्दस्य देवादिभिः| प्रियशब्दस्य माल्यादिभिः| वर्चस्वी तेजस्वी| तत्रापीत्यादिना ईश्वराख्यस्य देवविशेषस्य लक्षणम्| गोवृषो मदोत्कटो गौः| आदीप्तः स्वर ओजस्वी| मेधस्तनितादि वाचा विसृजन्तमिन्द्राख्येन देवेन गृहीतं विद्यात्| वाचैव धनानि प्रयच्छन्तं धनदेन गृहीतं विद्यात्| वरुणाख्येन देवेन गृहीतः सुरादिगन्धो भवति| काष्ठादिकञ्च सर्वम् पाशं मन्यते| इति देवानां लक्षणम्|| १०||
Adhikarana असुराविष्टे लक्षणानि (११) · Śloka ११
जिह्वादृष्टिं दुष्टात्मानं क्रोधनमतृप्तं सस्वेदगात्रं देव ब्राह्मणगुरुद्वेषिणं निर्भयमभिमानिनं शूरं व्यवसायिनं रुद्रोऽहमिन्द्रोऽहमुपेन्द्रोऽहं स्कन्दोऽहं विशाखेऽहमि त्यादिभाषमाणं विकृतवाचमसकृद्धसन्तं सुरामिषरुचिं दन्तैर्नखैश्च परान् हिंसन्तमसुरेण||११||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
जिह्वादृष्ट्यादिकमसुरेण गृहीतं विद्यात्| दुष्टात्मानं दुष्टबुद्धिम्||११||
Adhikarana गन्धर्वाविष्टे लक्षणानि (१२) · Śloka १२
स्वाचारं हृष्टात्मानं शुभगन्धमल्पव्यवहारं नृत्यन्तं गायन्तं मुखवाद्यानि कुर्वन्तं प्रियोद्यानपुलिनरक्तवस्त्रस्नानमा- ल्यानुलेपनधूपान्नपानहासलीला शृङ्गारकथागान्धर्वं गन्ध र्वेण| तत्रापि शिरो धुनानं कलहं कुर्वन्तं संरम्भेण जा-गरूकं पठन्तं हसन्तं हसनेन||१२||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
स्वाचारादिकं गन्धर्वेण गृहीतं विद्यात्| तत्रापि शिरो धुनानमित्यादिकं हसनेन| इति गन्धर्वाः|| १२||
Adhikarana उरगाविष्टे लक्षणानि (१३) · Śloka १३
क्रोधनमनिशं निःश्वसन्तं भ्रमन्तमातपत्रात् त्रस्यन्तं रक्ताक्षं स्तब्धदृष्टिं जिह्वां लोलयन्तं सृक्किण्यौ लिहानमधोमुख शायिनं चलं वक्रगामिनं बिलमवलोक्य सर्पवदूर्ध्वं प्रसरन्तं जलौघघनदुन्नुभिस्वनैर्हृष्यन्तं क्षीरघृतगुडमधु स्नानमाल्यप्रियं गात्राणि कम्पयन्तं दन्तैः खादन्तं जलेऽवतीर्णमुत्तरणमनिच्छन्तमुरगेण||१३||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
क्रोधनत्वादिगुणमुरगेण गृहीतं विद्यात्| अनिशं प्रतिक्षणं जिह्वां लोलयन्तं परिलोलयन्तम्| सृक्किण्यावोष्ठसन्धी| बिलं छिद्रमवलोक्य दृष्ट्वा सर्पवदूर्ध्वं प्रसरन्तम्| जलौघादिस्वनैर्हृष्यन्तम्| जलौघादिस्वनैर्हृष्यन्तम्| प्रियशब्दस्य क्षीरादिभिः सम्बन्धः|| १३||
Adhikarana यक्षाविष्टे लक्षणानि (१४) · Śloka १४
असकृत् स्वप्नरोदनहासनृत्यगीतपाठकथान्नपानस्नान माल्यधूपगन्धरक्तवस्त्ररतिं रक्तत्रस्तविप्लुताक्षं द्रुतं सगर्वं मत्तमिव गच्छन्तं वस्त्रान्तमुत्कर्षयन्तं चलिताग्रहस्तं बहु भाषिणं स्त्रीलोलुपं मद्यामिषप्रियं सन्नह्य शस्त्रं मृगयमाण मतिबलमव्यथं हृष्टं तुष्टमल्परोषं किं कस्मै ददामीति वादिनं शुभगन्धं वर्चस्विनं द्विजातिवैद्यपरिभाविनं रहस्य भाषिणं यक्षेण||१४||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
असकृत्स्वप्नादिरतिं रक्ताक्षत्वादिगुणञ्च यक्षेण गृहीतं विद्यात्| वस्त्रान्तमञ्चलम्| सन्नह्य कङ्कटं गृहीत्वा युद्धाय शस्त्रं मार्गयन्तम्||१४||
Adhikarana यक्षविशेषाविष्टे लक्षणानि (१५) · Śloka १५
तत्रापि हृषितरोमाणमूर्ध्वेक्षणं प्रहृष्टनयनं चण्डं परुषं महानिनादं मणिवरेण| रहोहसितनृत्यगीतान्याचरन्त माकीर्णे मौनमासेवमानं विकटेन||१५||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
तत्रापीत्यादिना यक्षविशेषाः| हृषितरोमत्वादिरूपं मणिवराख्येन यक्षेण गृहीतं विद्यात्| रहःप्रभृत्याचरन्तमाकीर्णे जनसंकुले मौनमाचरन्तं विकटाख्येन यक्षेण गृहीतं विद्यात्||१५||
Adhikarana ब्रह्मराक्षसाविष्टे लक्षणानि (१६) · Śloka १६
हासनृत्तप्रियमाक्रोशिनं प्रधाविनं देवद्विजभिषग्द्वेषिणं मन्त्र वेदशास्त्राभिधायिनं काष्ठशस्त्रादिभिश्चात्मानमाघ्नन्तं छिद्रप्रहारिणं वैद्यरन्ध्रान्वेषिणं भोःशब्दवादिनं परुषं रौद्र चेष्टं शीघ्रगामिनं ब्रह्मराक्षसेन| तत्रापि विकृतस्वरं भाषयन्तमुत्रासयन्तं ब्रह्मवादिनं संस्कृतभाषिणं बहुश स्तोयं याचन्तं यज्ञसेनेन||१६||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
हासनृत्तप्रियादिगुणं ब्रह्मराक्षसेन गृहीतं विद्यात्| वैद्यस्य रन्ध्रान्वेषिणं रन्ध्रं प्रहरणावसरम्| तत्रापि ब्रह्मराक्षसेषु मध्ये विकृतस्वरादिगुणं यज्ञसेनाख्येन गृहीतं विद्यात्| इति यक्षाः||१६||
Adhikarana राक्षसाविष्टे लक्षणानि (१७) · Śloka १७
सक्ऱ्रोधदृष्टिं भ्रूकुटिमुद्वहन्तं भैरवास्यं त्वरितमभिधावन्तं रुवन्तं ससम्भ्रमं प्रहरन्तं नष्टनिद्रं निशाविचारिणमन्न द्वेषिणमनाहारमप्यतिबलिनमन्नकाले हसन्तं निर्लज्जं शूरं रोषणमप्रियवादिनमशुचिं स्त्रीमद्यमांसरक्तमाल्यप्रियं रक्तमामिवं वा दृष्ट्वोष्ठौ परिलिहन्तं दीनं शङ्कितं धाव न्तमकस्माद्रुदन्तं हसन्तं गायन्तं नृत्यन्तं निरर्थकं परि भाषमाणं राक्षसेन| तत्रापि परुषच्छविं भूमिं ताडयन्त मकस्माद्रुदन्तं विशाखेन| भिन्नगद्गदकण्ठमङ्गानि भञ्ज यन्तं जिह्वां परिलिहानमक्षमालया जपमानं शौचमभीक्ष्णं कुर्वाणं सङमेन| मेघविद्युदुदयायासते क्रुध्यन्तं जलवृष्टिं समन्तान्मन्यमानं शकटनिष्पीडिनं विद्युन्मालिना| आम मांसपलमूलकापूपपरमान्नयाचिनं रूक्षच्छविं विरू पाक्षेण||१७||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
सक्रोधदृष्टित्वादियुक्तं राक्षसेन गृहीतं विद्यात्| भैरवं भीषणम्| रुवन्तं शब्दं कुर्वन्तम्| प्रियशब्दस्य स्त्र्यादिभिः सम्बन्धः| अकस्मादिति शङ्कितादिनापि सम्बद्ध्यते| तत्रापि राक्षसेषु मध्ये परुषच्छवित्वादियुक्तं विशाखाख्येन राक्षसेन गृहीतं विद्यात्| भिन्नगद्गदकण्ठत्वादियुक्तं सङ्गमाख्येन गृहीतम्| असते अभवते मेघाद्युदयाय क्रुध्यन्तमेवमादिगुणं विद्युन्मालिना गृहीतम्| आममांसादियाचिनं रूक्षच्छविं च विरूपाक्षेण गृहीतं विद्यात्| इति राक्षसविशेषाः|| १७||
Adhikarana पिशाचाविष्टे लक्षणानि (१८) · Śloka १८
अस्वस्थचित्तं नैकत्र तिष्ठन्तं परिधाविनं दयितनृत्यगीत हासोच्छिष्टमद्यमांसशून्यनिवासरतिं पुरस्तादभिघ्नन्तं निर्भर्त्सनाद्दीनशङ्कितवदनं नखैरात्मवपुषि लिखन्तं नष्ट स्मृतिं बद्धाबद्धभाषिणमकस्माद्रुदन्तं दुःखान्यावेदयमान मुध्वस्तरूक्षदेहस्वरं दुर्गन्धमशुचिं नग्नं मलिनं रथ्याचैल तृणाभरणां सङ्करकूटकाष्ठाश्वारोहिणं लोलं बह्वाशिनं पिशाचेन||१८||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
अस्वस्थचित्तत्वादिगुणं पिशाचेन गृहीतं विद्यात्| निर्भर्त्सनं सन्तर्जनम्| आवेदयमानं कथयन्तम्| रथ्याचैलं मार्गवस्त्र खण्डिका| सङ्करकूटमवकरनिकरम्| काष्ठमय्यश्वप्रतिकृतिः काष्ठाश्वः|| १८||
Adhikarana प्रेताविष्टे लक्षणानि (१९) · Śloka १९
तत्रापि भोजनं दृष्ट्वा हसन्तं विस्वरं क्रोशन्तं नित्यभीतं कश्मलेन| सर्वगात्राणि स्पन्दयन्तं मुहुर्मुहुर्धावन्तं भीष यमाणं कुशेन| वैद्य दृष्ट्वा कुप्यन्तं भ्रमद्भोजिन बह्वाशिनं भस्मगण्ठनशयनं स्त्रियोमार्गे रुन्धानं मूत्रपुरीषविमर्दिनं निस्तेजसा| प्रेताकृतिचेष्टागन्धं तृणच्छेदिनं भीतमाहार द्वेषिणं प्रेतेन||१९||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
तत्रापि पिशाचग्रहेष्वपि प्रेताकृतीत्याद्यन्तेन ग्रन्थेन कश्मलादिभिः प्रेतान्तैर्गृहीतानां लक्षणं सुबोधम्| इति पिशाचाः||१९||
Adhikarana कूष्माण्डाविष्टे लक्षणानि (२०) · Śloka २०
बहुप्रलापमुग्रवाक्यं विलम्बितगतिं कृष्णवदनं शूनप्रल म्बवृषणं कूष्माण्डेन||२०||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
बहुप्रलापादिगुणं कुष्माण्डेन गृहीतं विद्यात्||२०||
Adhikarana काखोर्दाविष्टे लक्षणानि (२१) · Śloka २१
नग्नं धावन्तमकस्मादश्मकाष्ठादि गृहीत्वा भ्रमन्तं तृण चीरमाल्यनिवसनमुत्रस्तदृष्टिं परुषाभिधयिनं श्मशान शून्यैकवृक्षरथ्यानिषेविणं तिलान्नमद्यामिषसक्तदृष्टिं काखोर्देन||२१||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
नग्नत्वादिगुणं काखोर्दाख्येन ग्रहेणाधिष्ठितं विद्यात्| निवसनशब्दस्य तृणादिभिः सम्बन्धः| सक्तशब्दस्य तिलान्नादिभिः||२१||
Adhikarana मौकिरणाविष्टे लक्षणानि (२२) · Śloka २२
उग्रवादिनं रक्तत्रस्तनेन्नमन्नाभिलाषिणमुदकं प्रार्थयमानं मौकिरणेन||२२||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
उग्रवागादियुतं मौकिरणेन गृहीतं विद्यात्|| २२||
Adhikarana वेतालाविष्टे लक्षणानि (२३) · Śloka २३
सत्यवादिनं परिवेपिनं धूपगन्धमाल्यरतिमतिनिद्रालुं वेता लेन||२३||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
सत्यवागादिगुणं वेतालेन गृहीतमिति जानीयात्| परिवेपनं कम्पनम्||२३||
Adhikarana पितृग्रहाविष्टे लक्षणानि (२४) · Śloka २४
अप्रसन्नदृष्टिं चलन्नेत्रपक्ष्माणं शङ्कितेक्षणं दीनवदनं सं शुष्कतालुं निद्रालुं प्रतिहतवाचमपसव्यवस्त्रमल्पाग्नि मरोचकिनं तिलगुडपायसमांसरुचिं च पितृग्रहेण||२४||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
अप्रसन्नदृष्टित्वादिगुणं पितृग्रहेण गृहीतं विद्यात्| अपसव्यमवामम्| रुचिशब्दस्तिलादिभिः सम्बध्यते| तेन तिलरुचिं वा गुडरुचिं वा पायसरुचिं वा मांसरुचिं वा इति|| २४||
Adhikarana ऋष्याद्याविष्टे लक्षणम् (२५) · Śloka २५
ऋषिगुरुवृद्धसिद्धानामभिशापानुध्यानानुरूपविहार व्याहारं तद् ग्रहेण गृहीतं विद्यादिति||२५||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
ऋष्यादीनामन्यतमस्य यस्य वाऽभिशापानुध्यानस्यानुरूपैः प्रत्यक्षानुमितैर्विहारादिभिर्युक्तस्तं तद्गृहीतमेव विद्यात्| (यो नरो गुर्वादीनां शापस्यानुध्यानेन 'ते मामेवं शप्तवन्त' इत्यादि सर्वदा व्यवहरति तद्विधाहारचेष्टो वा भवति तं गुर्वाद्यन्यतमग्रहेण गृहीतं विद्यादिति कैरली व्याख्या)||२५||
Adhikarana संग्रहश्लोकः (२६) · Śloka २६
भवति चात्र लक्षयेत् ज्ञानविज्ञानवाक्चेष्टाबलपौरुषम्| पुरुषेऽपौरुषं यत्र तत्र भूतग्रहं वदेत्||२६||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
यत्र यस्मिन् पुरुषेऽपौरुषमपुरुषोचितं ज्ञानादिकं वैद्यो लक्षयेत् तत्र भूतग्रहमस्तीति वदेदिति साधारणं लिङ्गम्||२६||
Adhikarana असाध्यग्रहलक्षणम् (२७-२८) · Śloka २८
कुमारवृन्दानुगतं नग्नमुद्धतमूर्धजम्| अस्वस्थमनसं दैर्घ्यकालिकं सग्रहं त्यजेत्||२७|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे भूतविज्ञानीयो नाम सप्तमोऽध्यायः||२८||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
कुमारवृन्दानुगतमित्याद्यसाध्यग्रहलक्षणम् ||२७|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया- मष्टाङ्गसंग्रहव्याख्यायां शशिलेखायामुत्तरतन्त्रे सप्तमोऽध्यायः