Skip to content

२५. स्नेहविधिः

Adhikarana अथ स्नेहविधिर्नाम पञ्चविंशोऽध्यायः प्रतिज्ञा (१) · Śloka

अथातः स्नेहविधिमध्यायं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

पूर्वस्मिन्नध्याये द्विविध उपक्रम उक्तः| तत्र च लङ्ग़नस्य शोधनात्मकत्वाच्छोधनस्य च स्नेहस्वेदपूर्वकत्वात् ततोऽपि स्नेहस्य दोषमार्दवकारणप्राधान्यात्तद्विज्ञानार्थमध्यायारम्भः-अथात इत्यादि|| १||

Adhikarana स्नेहाद्युपयुक्तद्रव्यसम्भारसंग्रहणावश्यकता (२) · Śloka

स्नेहादिषूपयोगाय तद्व्यापच्छामनाय च| कुर्यात्प्रागेव तद्योगिद्रव्यसम्भारसङ्ग्रहम्||२||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

स्नेहस्य शोधनाङ्गत्वात् प्रागेव स्नेहादिष्वनारब्धेषु स्नेहाद्युपयोगाय देशादिवैपरीत्यात् स्नेहाद्युद्भूतव्यापच्छमनाय च तद्योगिद्रव्याणां स्नेहोपयोगयोगिनां ग़ृततैलवसाशरावोदञ्चनादीनां तद्व्यापच्छमनयोगिनां च द्रव्याणां सम्भारसङ्ग्रहं कुर्यात्|| २||

Adhikarana स्नेहनविरूक्षणौषधलक्षणम् (३) · Śloka

गुरुशीतसरस्निग्धमन्दसूक्ष्ममृदुद्रवम्| औषधं स्नेहनं प्रायो विपरीतं विरूक्षणम्||३||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

सर्वं गुर्वादिगुणयुक्तमौषधं प्रायेण स्नेहनमन्यदेवंगुणमप्यस्नेहनं भवतीति प्रदर्शनार्थं प्रायोग्रहणम्| विपरीतं लग़्वादिगुणं विरूक्षणम्| अत्रापि प्रायोग्रहणमनुबध्यते|| ३||

Adhikarana प्रवरस्नेहद्रव्याणि तेषु ग़ृतस्योत्तमत्वम् (४) · Śloka

सर्पिर्मज्जा वसा तैलं स्नेहेषु प्रवरं मतम्| तत्रापि चोत्तमं सर्पिः संस्कारस्यानुवर्तनात्| माधुर्यादविदाहित्वाज्जन्मादेव च शीलनात्||४||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

सर्पिरादिचतुष्टयं सर्वस्नेहेषु प्रवरं श्रेष्ठमाशु स्वकार्यकरणात्| तत्रापि चतुष्टये सर्पिरुत्तमं संस्कारानुवर्तनात्| येन हि द्रव्येण संस्क्रियते तमनुवर्तते| स्वगुणानजहत् संस्कारगुणान् गृह्णातीति संस्कारानुवर्ती| न ह्येतत्तैलादिषु सम्भवति| ते हि स्वगुणांस्त्यजन्ति| तथा च चन्दनादौ तैलादीनां विपरीतैर्द्रव्यान्तरैरौष्ण्यादिनाशो भवति| न हि स्नेहनाशस्तस्य बहुत्वात्| तथा माधुर्यदिगुणयोगाच्च सर्पिरेवोत्तमम्|| ४||

Adhikarana सर्पिरादीनां दोषघ्नत्वविवरणम् (५) · Śloka

पित्तघ्नास्ते यथापूर्वमितरघ्ना यथोत्तरम्||५||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

ते सर्पिरादयो यथापूर्वं पित्तघ्नाः| यथोत्तरमितरघ्नाः| श्लेष्मणः स्नेहप्रतिषेधादितरशब्देन वातघ्ना इति गम्यते| अथवा द्रव्यान्तरसंस्कृतसर्पिराद्यपेक्षया इतरशब्देन कफस्यापि ग्रहणम्| तेनैवं तैलस्यापि पित्तघ्नत्वं सिद्धम्| अक्षादियोनेर्वा तैलस्य पित्तघ्नत्वमिति| यो यस्मात् पूर्वः स तस्मात् पितघ्नः| यो यस्मादुत्तरः स तस्माद्वातघ्नः| तैलस्य पूर्वत्वासम्भवात् पित्तघ्नत्वासम्भवः | वसाया मज्ज्ञश्च यत्र मांसानुगस्वरूपत्वेन पित्तघ्नत्वं सम्भवति तत्र पित्तघ्नत्वम्| अथवा शोधनाङ्गानां सर्पिरादीनां वमनादिक्रियोपकारयोगा-देवंस्वरूपता परिणाम इति ग्रन्थाविरोधः|| ५||

Adhikarana घृतादीनामुत्तरोत्तरं गुरुत्वम् (६) · Śloka

घृतात्तैलं गुरु वसा तैलान्मज्जा ततोऽपि च||६||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

सुबोधम्|| ६||

Adhikarana यमकादिपरिभाषाः (७) · Śloka

द्वाभ्यां त्रिभिश्चतुर्भिस्तैर्यमकस्त्रिवृतो महान्||७||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

सर्पिरादिभ्योऽन्यतमाभ्यां यमको भवत्यन्यतमैस्त्रिवृतो भवति| सर्वैः पुनर्महास्नेहः| एतच्च प्रदेशे वाक्येषूपयुज्यते|| ७||

Adhikarana स्नेहाशयाः (८) · Śloka

स्नेहाशया दधि क्षीरं मांसास्थिफलदारु च||८||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

दध्यादयः स्नेहाशयाः सर्पिरादिस्नेहानां योनयः| तत्र दधि क्षीरश्च ग़ृताशयः क्षीरस्य नवनीतयोनित्वात्| मांसं वसाशयः| अस्थि मज्जाशयः| फलानि च दारूणि च तैलाशयः|| ८||

Adhikarana स्नेह्याः (९) · Śloka

स्वेद्यसंशोध्यमद्यस्त्रीव्यायामासक्तचिन्तकाः| वृद्धबालाबलकृशा रूक्षाः क्षीणास्ररेतसः| वातार्तस्यन्दतिमिरदारुणप्रतिबोधिनः| स्नेह्याः||९||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

स्नेहस्य विषयं दर्शयति| स्वेद्यादयः स्नेह्याः| न ह्यस्नेहितः स्वेद्य इत्यर्थः| तथा यः संशोध्यः स प्रथमं स्नेह्यः| आसक्त शब्दस्य मद्यादित्रयेण सम्बन्धः| स्यन्दी अभिष्यन्दाक्षिरोगी| दारुणप्रतिबोधः कृच्छ्रोन्मीलाख़्यो वर्त्मरोगः| एते स्नेह्याः|| ९||

Adhikarana अस्नेह्याः (१०) · Śloka १०

ंअ त्वतिमन्दाग्नितीक्ष्णाग्निस्थूलदुर्बलाः| ऊरुस्तम्भाऽतिसारामगलरोगगरोदरैः| मूर्च्छाच्छर्द्यरुचिश्लेष्मतृष्णामद्यैश्च पीडिताः| अपप्रसूता युक्ते च नस्ये बस्तौ विरेचने||१०||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

अतिमन्दाग्न्यादयो न तु स्नेह्या इति सम्बन्धः| तीक्ष्णाग्नेः स्नेहनादत्यग्नित्वमतिस्थूलस्याग्निमेदसोर्वृद्धिः| दुर्बलस्या-जरणशक्तेः स्नेहव्यापत्| ऊरुस्तम्भादीनां पीडितशब्देन सम्बन्धः| अत्र शोधनप्रसङ्गेऽप्यस्नेहनं स्नेहेन विना शोधनमिति यावत्| अपप्रसूता न स्नेह्येति विभक्तिपरिणामः| तथा नस्यादित्रितये युक्त आदोषसाम्यात् स्नेहो न योज्यः|| १०||

Adhikarana घृतादिविभागानुसारमधिकारभेदः (११) · Śloka ११

तत्र धीस्मृतिमेधाग्निकांक्षिणां शस्यते घृतम्| ग्रन्थिनाडीकृमिश्लेष्ममेदोमारुतरोगिषु| तैलं लाग़वदार्ढ्यार्थिक्रूरकोष्ठेषु देहिषु| वातातपाध्वभारस्त्रीव्यायामक्षीणधातुषु| रूक्षक्लेशक्षमात्यग्निवातावृतपथेषु च| शेषौ||११||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तत्र स्नेहेषु मध्ये धीप्रभृतिकाङ्क्षिणां स्नेहप्रसङ्गे सति ग़ृतं स्नेहः शस्यते| तस्य तथाशक्तित्वात्| धीर्बुद्धिः| मेधा प्रज्ञा| ग्रन्थ्यादिषु श्लेष्मादिरोगिषु शरीरलाग़वदृढत्वार्थिषु क्रूरकोष्ठेषु च देहिषु तैलं शस्यत इति सम्बन्धः| वातादिभिः कारणैः क्षीणधातुषु रूक्षादिषु च शेषो वसा मज्जा च| क्लेशक्षमशब्देनाक्लेशक्षमस्य सर्पिस्तैलं च प्रयोजयेदिति| अत्यग्नेरतितीक्ष्णाग्नेः स्नेहप्रतिषेधो वसाया मज्ज्ञश्चापवादवाक्यम्| वातावृतपथः वातरुद्धदेहस्रोतः|| ११||

Adhikarana वसायाः विशेषक्षेत्रम् (१२) · Śloka १२

वसा तु सन्ध्यस्थिमर्मकोष्ठरुजासु च| तथा दग्धाहतभ्रष्टयोनिकर्णशिरोरुजि||१२||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

वसा पुनः सन्ध्यादिरुजास्वपीष्टा| तथा दग्धादिषु योन्यादिरुजि च वसा शस्यत इति सम्बन्धः|| १२||

Adhikarana ऋतुविशेषेण स्नेहविशेषनिर्णयः (१३) · Śloka १३

तैलं प्रावृषि वर्षान्ते सर्पिरन्यौ तु माधवे| सर्वं सर्वस्य च स्नेहं युञ्ज्याद्भास्वति निर्मले| ऋतौ साधारणे||१३||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

अनन्तरं स्नेहानामृतुविशेषेण नियमप्रदर्शनार्थमिदमाह-तैलं प्रावृषीत्यादि| प्रावृषि श्रावणे शोधनप्रसङ्गे तैलं स्नेहनाय शस्तम्| वर्षान्ते कार्तिके सर्पिः शस्तम्| अन्यौ शेषौ वसामज्जानौ माधवे वसन्ते चैत्रे| शोधनप्रसङ्गे प्रावृषि तैलं वातजयप्राधान्यात्| शरदि ग़ृतं पित्तजयाय| वमनप्रयोगे कफोत्क्लेशनशक्तत्वात्| सदृशेऽपि काले वसाया मज्ज्ञोश्चोपयोगः| तथा सर्वो ग़ृतादिस्नेहः सर्वस्य शोध्यस्याशोध्यस्य च साधारणे वसन्तशरत्प्रावृडाख़्ये ऋतौ भास्वति तीक्ष्णरश्मौ निर्मले व्यभ्रे योज्यः| न त्वत्यर्थशीतोष्णवर्षाहेमन्तशिशिरग्रीष्माख़्ये|| १३||

Adhikarana दोषानुसारं दिवारात्रिविभागः (१४) · Śloka १४

दोषसाम्येऽनिलकफे कफे| दिवा निश्यनिले पित्ते संसर्गे पित्तवत्यपि||१४||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

ऋतुनियमं दर्शयित्वा तत्पृष्ठभावितया रात्र्यहर्भेदेन नियमं दर्शयति| दोषसाम्ये प्राकृते अनिलकफे केवले च कफे प्राकृते वैकृते च यथोक्तेष्वृतुषु द्विधैव स्नेहयोजनम्| अनिले केवले पित्ते च केवले तथा पित्तवति संसर्गे पित्तानिले पित्तकफे न च निशि स्नेहो योज्यः|| १४||

Adhikarana आत्ययिके विधिः (१५) · Śloka १५

त्वरमाणे तु शीतेऽपि दिवा तैलं च योजयेत्| उष्णेऽपि रात्रौ सर्पिश्च दोषादीन् वीक्ष्य चान्यथा| निश्यश्नुते वातकफाद्रोगानहनि पित्ततः||१५||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

शीतोष्णयोः स्नेहप्रतिषेधादिदमुच्यते-त्वरमाण इत्यादि| स्नेहविषयव्याध्युपशमाय त्वरमाण शीतेऽप्यृतौ स्नेहं योजयेत्| न तु सामान्येनापि तु दिवा तैलमेव न च रात्रौ नाऽप्यन्यस्नेहः| तथा कारणवशात् त्वरमाण उष्णेऽप्यृतौ स्नेहं योजयेत्| अत्र तु रात्रावेव सर्पिरेव च| अथवा दोषदूष्यबलादीन् वीक्ष्य तदानुगुण्येनान्यथापि योजयेत्| यत्र दिवा उक्तं तत्र रात्रावपि योजयेत्| यत्र च तैलमुक्तं तत्रान्योऽपि स्नेहो योज्यः| तथा यत्र रात्रौ सर्पिरुक्तं तत्र दिवान्यदपि| अन्यथा यथोक्तकारणवैपरीत्ये इति प्राप्तम्| निशि स्नेहमुपयुञ्जानो वातकफाद्धेतो रोगानश्नुते| एवमहनि पित्ततो रोगानश्नुते इति सम्बन्धः||१५||

Adhikarana अच्छपेयस्य श्रेष्ठता (१६) · Śloka १६

युक्त्यावचारयेत्स्नेहं भक्ष्याद्यन्नेन बस्तिभिः| नस्याभ्यञ्जनगण्डूषमूर्धकर्णाक्षितर्पणैः| रसभेदैककत्वाभ्यां चतुष्षष्टिर्विचारणाः| स्नेहस्यान्याभिभूतत्वादल्पत्वाच्च क्रमात्स्मृताः| यथोक्तहेत्वभावाच्च नाच्छपेयो विचारणा| स्नेहस्य कल्पः स श्रेष्ठः स्नेहकर्माशुसाधनात्||१६||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

इति स्नेहस्य कालनियममुक्त्वा योजनां दर्शयति-युक्त्येत्यादि| सर्वं युक्त्या मात्रादिकया स्नेहमवचारयेत्| केनेत्याह-भक्ष्यादिना आदिग्रहणेन भोज्यलेह्यपेयस्य विविधस्याप्यन्नस्य ग्रहणम्| तथा बस्तिभिर्नस्यादिभिश्च| एवं भक्ष्यादिनान्नेन प्रयुज्यमानस्य स्नेहस्य चतुष्षष्टिसङ्ख़्या विचारणा भवन्ति-कथमित्याह| रसभेदैककत्वाभ्याम्| तत्र रसभेदाः पूर्वं त्रिषष्टिर्व्याख़्याताः| एकस्नेहेन चतुष्षष्टिः| एकको यः स्नेहः केवलमुपयुज्यते न च पीयते तस्मात्| भक्ष्याद्यन्ने रसभेदसम्भवः| एककशब्देन बस्तिनस्याभ्यञ्जनादिकं गृह्यते| कथमेता एव विचारणा उच्यन्ते-नाच्छपेय इत्याह| स्नेहस्येत्यादि| क्रमाद्यथासङ्ख़्येन रसभेदेष्वन्याभिभूतत्वात् स्नेहस्य| नस्यादिषु शरीरे स्नेहस्याल्पत्वाच्च चतुष्षष्टिर्विचारणा उच्यन्ते| यथोक्तस्य च हेतोरन्याभिभवलक्षणस्याल्पत्वलक्षणस्य चाभावादच्छापेयस्नेहो विचारणाशब्देन नोच्यते| स्नेहस्य चोपयोगे स एवाच्छपेयाख़्यः कल्पः श्रेष्ठः| कुतः? स्नेहकर्मणां तर्पणमाऱ्दवादीनामाशु सम्पादनात्|| १६||

Adhikarana स्नेहमात्रा (१७) · Śloka १७

द्वाभ्यां चतुर्भिरष्टाभिर्यामैर्जीर्यन्ति याः क्रमात्| ह्रस्वमध्योत्तमा मात्रास्तास्ताभ्यश्च ह्रसीयसीम्| कल्पयेद्वीक्ष्य दोषादीन् प्रागेव तु ह्रसीयसीम्| अज्ञातकोष्ठे हि बहुः कुर्याज्जीवितसंशयम्||१७||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तस्य च स्नेहस्य ह्रस्वमध्यमोत्तमा मात्रा भवन्ति| कास्ता इत्याह-द्वाभ्यामित्यादि| एवं क्रमादेव तल्लभ्यते| या द्वाभ्यां यामाभ्यां स्नेहमात्रा जीर्यति सा ह्रस्वा या वा चतुर्भिर्यामैर्जीर्यति सा मध्यमा| या त्वष्टाभिर्जीर्यति सा उत्तमा| ताभ्यश्च तिसृभ्यो मात्राभ्यः ह्रसीयसीं कल्पयेदिति| इयं ह्रस्वा इयं च ह्रस्वा| इयमनयोरतिशयेन ह्रस्वा ह्रसीयसी| ननु सर्वत्र ह्रसीयसीं कल्पयेत् ? न अपि तु दोषादीन् वीक्ष्य| तेनैतदुक्तं भवति-दोषदूष्याद्यानुगुण्येन ह्रसीयसीमपि चतुर्थी मात्रां कल्पयेत्| जरणकालानुक्तेर्दोषादिपारतन्त्र्योक्तेश्च ह्रसीयस्या बहुविधमात्रत्वं दर्शितम्| तथा यत्राप्यन्यतमा मात्रा योज्या तत्राप्यज्ञातकोष्ठत्वात् प्रागेव प्रथममेव ह्रसीयसीं कल्पयेत्| तुशब्दोऽवधारणे| कुत इत्याह-अज्ञातकोष्ठे पुरुषे बहुस्नेहोऽशक्तस्य कदाचिज्जीवसंशयं कुर्यात्| हिशब्दो यस्मादर्थे| यस्मादेवं तस्मात् प्रागेव ह्रसीयसीं कल्पयेदित्यर्थः|| १७||

Adhikarana ह्रस्वमात्रायाः अधिकारीह्रस्वमात्रायाः अधिकारी तस्याः प्राशस्त्यञ्च (१८) · Śloka १८

तत्र दुर्बलमन्दाग्निबालवृद्धसुख़ात्मकः| अपथ्यरिक्तकोष्ठश्च ज्वरातीसारकासिभिः| ह्रस्वा पेया सुख़ा सा हि परिहारेऽनुवर्तते| चिराच्च बल्या न रुजे व्यापन्नापि प्रकल्पते||१८||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

अनन्तरं ह्रस्वादीनां मात्राणां विषयभेदं दर्शयति-तत्रेत्यादि| तत्र मात्रात्रये ह्रस्वा मात्रा दुर्बलादिभिः पेया| अपथ्यमहितं रिक्तकोष्ठत्वं येषां तैरपथ्यरिक्तकोष्ठत्वैर्ह्रस्वा पेया| सा हि ह्रस्वा परिहारे यन्त्रणायां सुख़ा न दुःख़परिहारा| चिरं बहुकालं च शरीरेऽनुवर्तते| अबलानां बल्या भवति| देशकालापचारादिना व्यापन्ना विरमितापि रुजे रोगाय न प्रवर्तते|| १८||

Adhikarana मध्ययमात्राया अधिकारी गुणाश्च (१९) · Śloka १९

मेहोरुः पिटकाकुष्ठवातशोणितपीडितैः| मध्यमा मृदुकोष्ठैश्च स्नेहनी स्यात्सुख़ेन सा| न बलक्षपणी मन्दविभ्रंशा शुद्धयेऽप्यलम्||१९||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

मेहादिपीडितैर्मृदुकोष्ठैश्च मध्यमा पेयेति सम्बन्धः| सा हि मध्यमा सुख़ेनानायासेन स्नेहनी स्यात्| तथा न च बलक्षपणी मन्दविभ्रंशा व्यापन्नापि सती स्वल्पापायेत्यर्थः| तथा शुद्धये दोषाणां शोधनायालं पर्याप्ता|| १९||

Adhikarana महती मात्रायाः अधिकारिणः गुणाश्च (२०) · Śloka २०

महादेहानलबलक्षुत्तृट्क्लेशसहिष्णुभिः| गुल्मोदावर्तवीसर्पसर्पदंशाभिपीडितैः| उन्मत्तैः कृच्छ्रमूत्रैश्च महती शीघ्रमेव सा| सर्वमार्गानुसारेण जयेद्व्याधीन् सुयोजिता||२०||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

महादेहादिभिस्तथा गुल्माद्यभिपीडितैस्तथोन्मत्तैः कृच्छ्रमूत्रैश्च महती पेयेति सम्बन्धः| महच्छब्दस्य देहादित्रयेण समासः| सा हि महती मात्रा सर्वमार्गानुसारेण सकलस्रोतोऽनुगमनेन करणभूतेन सुयोजिता सती शीग़्रमेव व्याधीन् जयेत्| दुर्योजिता त्वजीर्णादीन् व्याधीनावहतीति तात्पर्यार्थः|| २०||

Adhikarana शोधनार्थं स्नेहपानविधिः (२१) · Śloka २१

ह्यस्तने जीर्ण एवान्ने स्नेहोऽच्छः शुद्धये बहुः||२१||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तत्र यः स्नेहः शुद्धये शोधनार्थं युज्यते स ह्यस्तनेऽन्ने जीर्णमात्र एव युज्यते| तथा यः शुद्धये स्नेहोऽच्छो बहुश्च योज्यः| एवकारकरणं कालातिक्रमपरिहारार्थम्| बहुरुत्तमया मात्रयेत्यर्थः|| २१||

Adhikarana शमनार्थं स्नेहपानविधिः (२२) · Śloka २२

शमनः क्षुद्वतोऽनन्नो मध्यमात्रश्च शस्यते||२२||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तथा यः शमनस्नेहः स क्षुद्वतः पुरुषस्याऽनन्नो मध्यमया मात्रया शस्यते| अनन्न इति ह्यस्तनेऽन्ने जीर्णे ततश्च क्षुद्वत उपयुज्यते| तथा तस्मिन् जीर्णेऽन्नमिति|| २२||

Adhikarana बृंहणार्थं स्नेहपानविधिः (२३) · Śloka २३

बृंहणो रसमद्याद्यैः सभक्तोऽल्पो हितः स च| बालवृद्धपिपासार्तस्नेहद्विण्मद्यशीलिषु| स्त्रीस्नेहनित्यमन्दाग्निसुख़ितक्लेशभीरुषु| मृदुकोष्ठाल्पदोषेषु काले चोष्णे कृशेषु च||२३||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

यस्तु बृंहणः स रसमद्याद्यैः सभक्तः सभोजनोऽल्पोऽल्पया मात्रया योज्यः| स च बृंहणो बालवृद्धादिभ्यो हितः| पिपासार्तः प्रसक्ततृडार्तः| स्नेहद्विषो ये स्वभावेन स्नेहं द्विषन्ति| तथा स्त्रीनित्यानां स्नेहनित्यानां च|| २३||

Adhikarana भोजनस्य प्राङ्मध्योत्तरं स्नेहपानफलम् (२४) · Śloka २४

स्नेहः प्राग्भोजनात् कुर्यादूरुजङ्ग़ाकटीबलम्| वेगानुलोम्यमारोग्यमधः कायगदक्षयम्| मध्ये बृहत्त्वाग्निबलस्थिरताकुक्षिरुक्शमान्| इन्द्रियस्थिरतामूर्ध्वमूर्ध्वजत्रुगदक्षयम्||२४||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

स च प्रयुक्तो बृंहणस्नेहो भोजनात् प्राक् प्रथमं भोजनस्य प्रयुक्त ऊरुबलादीन् कुर्यात्| तथा स एव भोजनमध्ये पीतो बृहत्वादीन् कुक्षिरुक्शमनान्तान् कुर्यात्| स एव भोजनादूर्ध्वमनन्तरं प्रयुक्त इन्द्रियस्थिरतामूर्ध्वजत्रुगदक्षयं च कुर्यात्|| २४||

Adhikarana दोषानुसारं स्नेहसाहाय्यद्रव्याणि (२५) · Śloka २५

वाते सलवणं सर्पिः पित्ते केवलमिष्यते| वैद्यो दद्याद्बहुकफे क्षारत्रिकटुकान्वितम्||२५||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

सर्वशश्च ग़ृतं मारुतेऽधिके सलवणं हितम्| पित्तेऽधिके केवलमिष्यते| बहुकफे तु पुरुषे क्षारत्रिकटुकान्वितं ग़ृतं वैद्यो दद्यात्|| २५||

Adhikarana अच्छपानोत्तरविधिः (२६) · Śloka २६

वायुर्ष्णमच्छेऽनुपिबेत्स्नेहे तत्सुख़पक्तये| आस्योपलेपशुद्ध्यै च तौवरारुष्करे न तु| उष्णोपचारः स्नेहे स्यादुष्णो ह्युष्णैर्विरुध्यते| ततो गुरुप्रावरणो निवातशयनस्थितः| जरणान्तं प्रतीक्षेत तृष्यन्नुष्णाल्पवारिपः||२६||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

अच्छस्नेहेऽनु पश्चादुष्णं वारि पिबेत्| किं प्रयोजनमाह-तस्य स्नेहस्य सुख़पक्त्यर्थमास्योपलेपशुद्ध्यर्थञ्च| किं सर्वत्र आह-न तु तौवरे आरुष्करे च स्नेहे वार्युष्णं पिबेदिति सम्बन्दः| कस्मादित्याह-उष्णेत्यादि| सर्वस्नेहेषूष्णोपचारेण भवितव्यम्| उष्णोपचार उष्णैस्तौरवादिभिर्यतो विरुध्यते| ततस्तत्र त्यजेत्| ततश्च प्रकृतादुष्णोदकपानादनन्तरं गुरुप्रावरणाद्युक्तगुणः सन् जरणान्तं प्रतीक्षेत| जीर्यमाणे तस्मिन् तृष्यन् सन्नुष्णाल्पवारिपो भवेत्|| २६||

Adhikarana जीर्यमाणस्नेहलक्षणम् (२७) · Śloka २७

शिरोरुग्भ्रमनिष्ठीवमूर्च्छासादारतिक्लमैः| जानीयाद् भेषजं जीर्यत्||२७||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तच्च भेषजं स्नेहाख़्यं शिरोरुगादिभिर्लक्षणैर्जीर्यज्जानीयात्|

Adhikarana जीर्णस्नेहलक्षणम् (२८) · Śloka २८

जीर्णं तच्छान्तिलाघवात्| अनुलोमानिलस्वास्थ्यक्षुत्तृष्णोद्गारशुद्धिभिः||२८||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तदेव भेषजं तच्छान्त्या शिरोरुगादिशान्त्या अङ्गानां लाघवेन च जीर्णं जानीयात्| तथा अनुलोमानिलादिभिश्च जीर्णं जानीयात्|| २८||

Adhikarana जीर्णाजीर्णविशङ्कायां कृत्यम् (२९) · Śloka २९

जीर्णाजीर्णविशङ्कायां पुनरुष्णोदकं पिबेत्| तेनोद्गारविशुद्धिः स्यात्ततश्च रुचिलाग़वम्||२९||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तथा स्नेहस्य जीर्णाजीर्णशङ्कायां पुनरुष्णोदकं पिबेत्| उष्णोदकेन पीतेनोद्गारविशुद्धिः स्यात्| ततश्च जीर्णाजीर्णशङ्कातोऽधिकमङ्गलाग़वं रुचिश्च भवति|| २९||

Adhikarana स्नेहं पास्यतः पिबतः पीतवतश्च भोजनविधिः (३०) · Śloka ३०

भोज्योऽन्नं मात्रया पास्यन् श्वः पिबन् पीतवानपि| द्रवोष्नमनभिष्यन्दि नातिस्निग्धमसङ्करम्||३०||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तं च स्नेहं श्वः पास्यन् पुरुषोऽद्य वा पिबन् ह्यः पीतवांश्च मात्रया स्वल्पत्वेनान्नं भोज्यः| किम्भूतमन्नमाह-द्रवोष्णेत्यादि| असङ्करम् अनानाजातीयम्|| ३०||

Adhikarana स्नेहपीते नियमाः (३१) · Śloka ३१

उष्णोदकोपचारी स्याद् ब्रह्मचारी क्षपाशयः| व्यायामवेगसंरोधशोकवर्षहिमातपान्| प्रवातयानयानाध्वभाष्यात्यासनसंस्थितीः| नीचात्युच्चोपधानाहस्स्वप्नधूमरजांसि च| यान्यहानि पिबेत्तानि तावन्त्यन्यान्यपि त्यजेत्| सर्वकर्मस्वयं प्रायो व्याधिक्षीणेषु च क्रमः| उपचारस्तु शमने कार्यः स्नेहे विरिक्तवत्||३१||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तथा स्नेहप्रसङ्गेषु पुरुष उष्णोदकोपचारी ब्रह्मचारी क्षपाशयश्च स्यात्| क्षपाशयशब्देन दिवास्वप्नस्य रात्रिजागरणस्य च प्रतिषेध उक्तः| तथा पुरुषो यान्यहानि स्नेहं पिबेत्तानि व्यायामादींस्त्यजेत्| अनन्तरमन्यानि स्नेहरहितान्यपि तावन्त्येव व्यायामादींस्त्यजेत्| यावन्ति स्नेहस्योपयोगः| न केवलमयमुष्णोदकोपचारादिकः क्रमः स्नेह एव योज्यः| यावत्सर्वकर्मसु स्वेदवमनादिषु व्याधिक्षीणेषु चायमेव क्रमः| शमने स्नेहे विरिक्तवदुपचारः कार्यः| तत्र विरिक्तस्य शमनस्नेहस्य च सदृश उपचारः| विरिक्तस्य च यदधिकं कर्म पेयादि तत्सर्वमस्मिन्नपि कार्यम्|| ३१||

Adhikarana स्नेहपानात्पूर्वं दीपनौषधं देयम् (३२) · Śloka ३२

स्नेहस्य पानात् पूर्वञ्च दातव्यं मृदु भेषजम्| उत्तेजनं हुताशस्य कोष्ठलाग़वकारि च||३२||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

सर्वस्य च स्नेहस्य पानात्पूर्वं हुताशस्याग्नेरुत्तेजनं कोष्ठलाग़वकारि च मृदु भेषजं दातव्यम्|| ३२||

Adhikarana स्नेहपाने कालमर्यादा (३३) · Śloka ३३

त्र्यहमच्छं मृदौ कोष्ठे क्रूरे सप्तदिनं पिबेत्| सम्यक्स्निग्धोऽथवा यावदतः सात्मीभवेत्परम्||३३||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तत्र त्वच्छं स्नेहं मृदौ कोष्ठे त्र्यहं पिबेत्| तमेवाच्छं क्रूरे कोष्ठे सप्तदिनं पिबेत्| अथवा नैष नियमः| सम्यक् स्निग्धलक्षणोत्पत्तिरेव नियमः| अतो यथोक्तान्नियमात् परं ऊर्ध्वमच्छः स्नेहः प्रयुक्तः सात्मीभवेत्| न शोधनकार्यं करोतीत्यर्थः|| ३३||

Adhikarana सात्मीभूतस्नेहप्रभावः (३४) · Śloka ३४

सात्मीभूतो हि कुरुते न मलानामुदीरणम्||३४||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

एतदेवाचष्टे-सात्मीभूत इत्यादि|| ३४||

Adhikarana स्नेहातियोगे दोषः (३५) · Śloka ३५

अतियोगेन वा व्याधीन् यथाम्ब्वोग़ोऽतियोजनात्| विहत्य सेतुं मृत्कोष्ठात् स्रवति क्षपयन् मृदम्| स्नेहोऽप्यग्निं तथा हत्वा स्रवति क्षपयंस्तनुम्||३५||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

अथवा शोधनकार्यं कुर्वन्नप्यतियोगेन देहनाशरूपान् व्याधीन् कुरुते| तत्र दृष्टान्तो यथा अम्ब्वोग़ो वारिवेगोऽतियोजनात् सेतुं निहत्य मृत्कोष्ठैकदेशात् स्रवति| स्रवंश्च मृदं क्षपयेत्| तद्वत् स्नेहोऽपि सेतुसंस्थानमग्निं हत्वा देहकोष्ठात् स्रवन्मृत्संस्थानां तनुं क्षपयेत्|| ३५||

Adhikarana सम्यक्स्निग्धास्निग्धलक्षणम् (३६) · Śloka ३६

वातानुलोम्यं दीप्तोऽग्निर्वर्चः स्निग्धमसंहतम्| मृदुस्निग्धाङ्गताग्लानि स्नेहोद्वेगोऽथ लाग़वम्| विमलेन्द्रियता सम्यक् स्निग्धे रूक्षे विपर्ययः||३६||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

सम्यक् स्निग्धे पुरुषे वातानुलोम्यादिलक्षणं भवति| वर्चः पुरीषम्| स्निग्धमसंहतं शिथिलं च| विमलेन्द्रियतान्तं सम्यक् स्निग्धलक्षणम्| रूक्षे पुनरस्निग्धे यथोक्तेभ्यो लक्षणेभ्यो यथास्वं वैपरीत्यमिति स्नेहायोगलक्षणम्|| ३६||

Adhikarana अतिस्निग्धलक्षणानि (३७) · Śloka ३७

पाण्ड्वामयाङ्गसदनग़्राणवक्त्रगुदस्रवाः| गुददाहारुचिश्छर्दिमूर्च्छातृष्णाप्रवाहिकाः| शुक्तोद्गारभ्रमश्वासकासाः स्नेहातिसेवनात्||३७||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

स्नेहस्यातिसेवनात् पाण्ड्वामयाद्युद्भवः| स्रवशब्दस्य ग़्राणादिना समासः| प्रवाहिका निस्तानिका| शुक्तोद्गारो विदग्धाम्लोद्गारः| इति स्नेहातियोगलक्षणम्|| ३७||

Adhikarana मिथ्यास्निग्धलक्षणम् (३८) · Śloka ३८

अमात्रयाऽहितोऽकाले मिथ्याहारविहारतः| स्नेहः करोति शोफार्शस्तन्द्रानिद्राविसंज्ञताः| कण्डूकुष्ठज्वरोत्क्लेशशूलानाहबलक्षयान्| जठरेन्द्रियदौर्बल्यजाड्यामस्तम्भवाग्ग्रहान्| तांस्तान्स्वदोषहेतूत्थान्पाण्ड्वादींश्चातियोजनात्||३८||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

सर्वस्य स्नेहो दोषानपेक्षया मात्रया अप्थ्यश्चाकाले च युक्तस्तथा मिथ्याहारविहारतश्च हेतोः स्नेहः शोफादीन् करोति| तांस्तांश्च पूर्वोक्तानपचारानुगुण्येन वातादिदोषकारणजान् व्याधीन् करोति| उत्क्लेशो दोषादीनां विकारः|| ३८||

Adhikarana स्नेहव्यापदि साधनम् (३९) · Śloka ३९

क्षुत्तृष्णोल्लेख़नस्वेदरूक्षपान्नभेषजम्| तक्रारिष्टख़लोद्दालयवश्यामाककोद्रवाः| पिप्पलीत्रिफलाक्षौद्रपथ्यागोमूत्रगुग्गुलु| यथास्वं प्रतिरोगं च स्नेहव्यापदि साधनम्||३९||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

अस्यां च शोफादिकायां स्नेहव्यापदि क्षुत्तृडादिसाधनं चिकित्सा| उल्लेख़नं वमनम्| रूक्षशब्दस्य पानादित्रयेण सम्बन्धः| उद्दालः शालिविशेषः| तथा यद्दोषानुगुण्येन प्रतिरोगं यद्यस्मिन् रोगे स्वाध्यायोक्तं तदपि साधनम्|| ३९||

Adhikarana विरूक्षणस्य सम्यक्कृतातिकृतलक्षणम् (४०) · Śloka ४०

विरूक्षणे लङ्ग़नवत् कृतातिकृतलक्षणम्||४०||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

स्नेहव्यापत्साधनस्य विरूक्षणस्वभावत्वात् प्रसङ्गेन विरूक्षणस्य सम्यक्कृतातिकृतलक्षणमुच्यते| यत् लङ्ग़नस्य सम्यक्कृतस्य लक्षणं तद्विरूक्षणस्यापि| एवमतिकृतलक्षणं लङ्ग़नवद् ज्ञेयम्| विरूक्षणायोगलक्षणं तु स्नेहायोगलक्षणैरेवोक्तम्|

Adhikarana पित्तप्रकृतेः स्नेहेनातितीक्ष्णीभूता- निलतृष्णायामुपचारः (४१) · Śloka ४१

स्नेहेन पैत्तिकस्याग्निर्यदा तीव्रतरीकृतः| स्नेहमाशु जरां नीत्वा पुनरोजोऽभितश्चरन्| उदीरयेत् सोपसर्गां पिपासामस्य बाधिकाम्| सोऽसूंस्त्यजेद्यद्युदकं न पिबेदाशु शीतलम्| शीतसेकावगाहान् वा तत्तृष्णापीडितो भजेत्| स्नेहाग्निना दह्यमानः स्वविषेणैव पन्नगः||४१||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

पैत्तिकस्य पित्तप्रकृतेः पुरुषस्य यदा स्नेहेनाग्निस्तीक्ष्णतरीकृतो भवति तदा सोऽग्निराशु स्नेहं जरां नीत्वा पुनरोजसश्चाभिमुख़्येन चरन् तीक्ष्णत्वादस्य हि पैत्तिकस्य सोपसर्गां सज्वरादिमहारोगां बाधिकां प्राणनाशिनीं पिपासां तृषमुदीरयेत्| स च तथाविधः पुरुषस्तथाविधया पिपासयासून् प्राणांस्त्यजेत् यद्युदकं शीतलं न पिबेत्| तथाविधस्तृष्णापीडितः शीतसेकादीन्नभजेद्यदि तदासूंस्त्यजेत्| किम्भूतस्तृष्णापीडित आह-स्नेहाग्निना दह्यमानः| अत्र दृष्टान्तो यथा स्वविशेषाभिवृद्धेन पन्नगो भस्मसात् क्रियते, तद्वत् स्नेहाग्निना पुरुषः|| ४१||

Adhikarana पित्तप्रकृतेः स्नेहेऽजीर्णे तीव्रतृष्णायां चोपचारःकफानिलप्रकृतेः समप्रकृतेश्च तृष्णायामुपचारः (४२) · Śloka ४२

अजीर्णे बलवत्या तु शीतैर्दिह्याच्छिरोमुख़म्| छर्दयेत्तदशान्तौ च पीत्वा शीतोदकं पुनः| रूक्षान्नमुल्लिख़ेद् भुक्त्वा तादृश्यां तु कफानिले| समदोषश्च निःशेषं स्नेहमुष्णाम्बुनोद्धरेत्| ततो दोषादिबलतः पूर्वोक्तञ्च विधिं श्रयेत्||४२||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

स्नेहे त्वजीर्णे बलवत्यां तृषि पैत्तिकस्य शीतैरौषधैः शिरोमुख़ं दिह्यात्| तं चाजीर्णं स्नेहं छर्दयेत्| एवमपि तस्यास्तृषोऽशान्तौ स्नेहे छर्दितेऽपि शीतोदकं पीत्वा रूक्षान्नं च भुक्त्वा पुनरुल्लिख़ेत्| छर्दयेदिति पैत्तिकस्य तृट्साधनम्| कफानिले पुनस्तादृश्यामतिमात्रायां तृष्युष्णाम्बुना निःशेषं स्नेहमुद्धरेत् वमेदित्यर्थः| समदोषश्च तथैव वमेत् ततः स्नेहे वान्ते दोषदूष्यादिबलापेक्षया पूर्वोक्तं लाग़वे जाते सत्यन्नादिं विधिं चरेत्|| ४२||

Adhikarana पित्ते सर्पिःपाननिर्णयः (४३) · Śloka ४३

न सर्पिः केवलं पित्ते पेयं सामे विशेषतः| सर्वं ह्यनुरुजं देहं हत्वा संज्ञा च मारयेत्||४३||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

स्नेहनिर्णयप्रसङ्गेनाह-सर्पिरित्यादि| पित्ते तु केवले केवलमच्छं सर्पिर्न पेयम्| सामे तु पित्ते विशेषतः केवलः न पेयम्| कुतः ? यथासङ्ख़्येन हेतुद्वयमुच्यते| केवलं पित्ते सर्पिषि पीते पित्तं स्नेहसहायं सत् सर्वं देहमनुव्रजेत् ततश्चाधिकं रोगस-मीरणा| सामे पित्ते पीतं सामं स्नेहसहायं पित्तं स्रोतः-पिधानेन संज्ञां हत्वा मारयेत्| इदं च शोध्यपित्ताशयं पित्तघ्नास्त इति शमनीयम्| तेन ग्रन्थविरोधो न भवति| पित्ते केवलमिष्यत इत्येतच्चोपपन्नं भवति| चशब्दो हेतुसमुच्चये|| ४३||

Adhikarana स्नेहनानन्तरं विरेकवमनसेवनविधिः (४४) · Śloka ४४

स्निग्धद्रवोष्णधन्वोत्थरसभुक्स्वेदमाचरेत्| स्निग्धस्त्र्यहं स्थितः कुर्याद्विरेकं वमनं पुनः| एकाहं दिनमन्यच्च कफमुत्क्लेश्य तत्करैः| तिलमाषदधिक्षीरगुडमत्स्यरसादिभिः||४४||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

एवमनन्तरेण प्रकारेण स्निग्धः सन् यदा वमनेन विना विरेकमेव कारणवशेन करोति तदाऽभ्यक्तस्नेहः सन् त्र्यहं स्थितो विरेकं कुर्यात्| किम्भूतः किं कुर्वन् त्र्यहं स्थितः| स्निग्धादिगुणयुक्तमांसरसभुक् तथा स्वेदमाचरन् यदा तु स्नेहादनन्तरं वमनमेवोपयुङ्क्ते| तदा स्निग्धः सन् द्व्यहं स्थितो वमनं कुर्यात्| कथं द्व्यहं स्थितः| एकाहमनेनैव प्रकारेण स्निग्धद्रवोष्णधन्वोत्थरसभुक् स्वेदमाचरन् स्थितः| अन्यच्च द्वितीयं दिनं कफमुत्क्लेश्य स्थितः केनोत्क्लेश्य तत्करैः कफकरैः| कैरित्याह-तिलेत्यादिभिः|| ४४||

Adhikarana मांसलादिषु स्नेहनात्पूर्वं रूक्षणम् (४५) · Śloka ४५

मांसला मेदुरा भूरिश्लेष्माणो विषमाग्नयः| स्नेहोचिताश्च ये स्नेह्यास्तान् पूर्वं रूक्षयेत्ततः| संस्नेह्य शोधयेदेवं स्नेहव्यापन्न जायते| अलं मलानीरयितुं स्नेहश्चासात्म्यतां गतः||४५||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

मांसलत्वादियुक्ताः पुरुषा ये शोध्यत्वेन स्नेह्याः तान् स्नेहात् पूर्वं रूक्षयेत्| ततो रूक्षयित्वाऽनन्तरं च संस्नेह्य शोधयेत्| किमेवं सति भवति| इदं भवति-मांसलादीनां स्नेहस्य सदृशत्वाद्या स्नेहव्यापदाशङ्क्यते सा न जायते| तथा रूक्षस्य स्नेहः प्रयुक्तः असात्म्यत्वान्मलानीरयितुं शोधयितुमलं पर्याप्तो भवतीति फलद्वयम्|| ४५||

Adhikarana सद्यः स्नेहनयोगास्तदर्हाश्च (४६) · Śloka ४६

बालवृद्धादिषु स्नेहपरिहारासहिष्णुषु| योगानिमाननुद्वेगान् सद्यः स्नेहान् प्रयोजयेत्| प्रभूतमांसनिष्क्वाथान् जाङ्गलानूपजान् रसान्| स्नेहभृष्टेषु वा तेषु यवागूं वाऽतिसंहताम्| तिलचूर्णं च सस्नेहं फाणितं कृसरं तथा| तिलकाम्बलिकं भूरिस्नेहं सर्पिष्मतीमपि| पेयां सुख़ोष्णां क्षैरेयीं पात्रे वा ससिताघृते| सर्पिर्लवणयुक्तं वा सद्यः दुग्धं तथा पयः| पेयां च पञ्चप्रसृतां स्नेहैस्तण्डुलपञ्चमैः| पायसं माषमिश्रं च बहुस्नेहसमायुतम्| तैलशुण्ठीगुडरसं जीर्णे मांसरसाशिनः| स्नेहं वैकं सुराऽच्छेन दध्नो वा सगुडं सरम्| वसां वराहजां सर्पिः पिप्पलीं लवणं तिलान्| पिप्पलीं लवणं स्नेहांश्चतुरो दधिमस्तुकम्| दध्ना सिद्धं व्योषगर्भं धात्रीद्राक्षारसे घृतम्| यवकोलकुलत्थाम्बुक्षारक्षीरसुरादधि| घृतं च सिद्धं तुल्यांशं सद्यः स्नेहनमुत्तमम्| सिद्धांश्च चतुरः स्नेहान् बदरत्रिफलारसैः| योनिशुक्रामयहरान् सद्यः स्नेहान् प्रयोजयेत्| लवणोपहिताः स्नेहाः स्नेहयन्त्यचिरान्नरम्| तद्धि विष्यन्द्यरूक्षं च सूक्ष्ममुष्णं व्यवायि च||४६||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तत्र बालवृद्धादिषु पूर्वं बृंहणस्नेहविषयपठितेशु तथा ये स्नेहे प्रयुज्यमाने वर्ज्यपरिहारं कर्तुं न शक्नुवन्ति तेषु च सद्यः स्नेहाख़्यान् योगान् प्रयोजयेत्| के त इत्याह-प्रभुतेत्यादि| जाङ्गलसत्त्वजानानूपसत्त्वजांश्च मांसरसान्यथायोग्यम्| किम्भूतान् प्रभूतमांसनिष्क्वाथान्| अथवा तेष्वनन्तरोक्तेषु रसेषु स्नेहेन घृतादिना भृष्टेषु सत्स्वधिकरणभूतेषु तेषु यवागूं सिद्धाम्| किम्भूतां नातिसंहतां नातिग़नाम्| तथा सस्नेहफाणितस्तिलचूर्णः| फाणितः क्षुद्रगुडः| तथा कृसरः तिलमिश्रा विलेपी| तथेति सस्नेहफाणितेत्यर्थः| तथोक्तलक्षणम्| काम्बलिकं तिलकृतं यद् भूरिस्नेहम्| क्षैरेयीं वा पेयां सर्पिष्मतीं सग़ृतां सुख़ोष्णां च| अपीति समुच्चये| तथा शर्कराघृतसहिते पात्रे सद्योदुग्धं पयः ससर्पिर्लवणम्| एतैर्युक्ते वा पात्रे सद्योदुग्धं पयः| तथा पञ्चप्रसृताख़्या पेया स्नेहैश्चतुर्भिः प्रसृतसम्मितैः पञ्चमेन च तावता तण्डुलेन कृता| अथवा पयसा सिद्धं बहुस्नेहसमायुतं माषमिश्रमोदनम्| तथा सर्पिरादिभ्य एकमन्यतमं तैलशुण्ठीगुडयुतं सुराच्छेन पीतं सद्यःस्नेहनम्| किम्भूतस्य पुरुषस्य स्नेहनमाह| तस्मिन्योगे जीर्णे मांसरसाशिनः| अथवा दध्नः सरः सगुडः| तथा वराहवसा सर्पिरादिचतुष्टययुक्ता योगः| तथा चत्वारः स्नेहाः पिप्पलीलवणदधिमस्तुयुक्ता योगः| तथा धात्र्या द्राक्षायाश्च मिश्रिते रसे दध्ना व्योषगर्भं घृतं सिद्धं योगः| अत्र दध्नः सहार्थे तृतीयाविधानात् स्नेहसमत्वात् धात्रीद्राक्षारसयोः प्रत्येकं स्नेहसमत्वं योगः| तथा यवादिक्वथिताम्लादिसमांशसिद्धं योगः| एतद् घृतमुत्तमं सद्यःस्नेहनम्| तथा चतुरः स्नेहान्| अभिष्यन्दि स्रोतसां स्रावकम्| अरूक्षत्वादिगुणयुक्तं च| सूक्ष्मं सूक्ष्मस्रोतःप्रवेशित्वात्| व्यवायि देहमख़िलं व्याप्य पाकाय कल्पते|| ४६||

Adhikarana कुष्ठादिषु स्नेहनार्थं गुडादीनां निषेधः त्रिफलादीनां विधिश्च (४७) · Śloka ४७

गुडानूपामिषक्षीरतिलमाषसुरादधि| कुष्ठशोफप्रमेहेषु स्नेहार्थं न प्रकल्पयेत्| त्रिफलापिप्पलीपथ्यागुग्गुल्वादिविपाचितान्| स्नेहान् यथास्वमेतेषां योजयेदविकारिणः| क्षीणानां त्वामयैरग्निदेहसन्धुक्षणक्षमान्||४७||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

कुष्ठादिषु स्नेहप्रसङ्गे गुडादि स्नेहनाऱ्र्थं न प्रकल्पयेत्| केनतर्हि तान् स्नेहयेदित्याह-त्रिफलेत्यादि| एतेषां कुष्ठादीनां यथास्वमध्यायेषु पथ्यत्वेनोक्तौस्त्रिफलादिभिरविकारिणः स्नेहान् सिद्धान् प्रयोजयेत्| तथा आमयैर्व्याधिभिः क्षीणानां नराणां स्नेहनार्थमग्निदेहसन्धुक्षणक्षमान् वर्धनक्षमान् स्नेहान् योजयेदिति सम्बन्धः|| ४७||

Adhikarana स्नेहाभ्यासस्य फलम् (३) · Śloka

दीप्तान्तराग्निः परिशुद्धकोष्ठः प्रत्यग्रधातुः बलवर्णयुक्तः| दृढेन्दिर्यो मन्दजरः शतायुः स्नेहोपसेवी पुरुषः प्रदिष्टः| इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने स्नेहविधिर्नाम पञ्चविंशोऽध्यायः||३||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

उपसंहरति-योऽभ्यासेन स्नेहमुपसेवते स दीप्तान्तराग्नित्वादिगुणयुक्तो भवतीति प्रदिष्ट आगमविद्भिरिति|| ४८|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख़्यायां शशिलेख़ायां सूत्रस्थाने पञ्चविंशोऽध्यायः