Adhikarana अथ महाकषायसंग्रहो नाम पञ्चदशोऽध्यायः प्रतिज्ञा (१) · Śloka १
अथातो महाकषायसङ्ग्रहमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
महान्तश्च ते कषाया महाकषायाः| एतदेवोच्यते||१||
Adhikarana कषायाणामानन्त्ये कारणनिर्देशः (२) · Śloka २
आनन्त्यादौषधानामामयानां चानन्ता एव कषायाः|
ये तु सुतरामुपयोगवन्तः प्रकर्षवर्त्तिनो वा ते जीवनीयादिसंज्ञाः|
प्रत्येकं दशकषायसंयोगात् पञ्चचत्वारिंशन्महाकषाया वक्ष्यन्ते|
तत्प्रतिपत्त्यर्थमेव मन्दबुद्धीनाम्|
बुद्धिमतामुदाहरणमात्रप्रदर्शनार्थम्|
शक्यं हि बुद्धिमद्भिः स्वादुशीतस्निग्धादीन् जीवन्त्यादिषु साधारणान् गुणानालोच्य क्षीरेक्षुद्राक्षाऽक्षोडविदारीकन्दादिष्वपि तद्गुणेषु जीवनीयादित्वमवधारयितुम्|
यथोक्तानुसरणमेव तु श्रेयो मन्दबुद्धेरिति|
व्यस्ताश्च ते चत्वारि शतानि पञ्चाशदधिकानि तदभिधानान्येव||२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
औषधानामामयानां चानन्त्यमतः प्रतिव्याध्यौषधविशेषात् कषायाणामप्यानन्त्यम्| ये तु कषाया अत्यर्थेनोपयुज्यन्ते, अन्येभ्यश्चोत्कर्षवन्तो वा तेषां शास्त्रकारैर्जीवनीयबृंहणीयादयः संज्ञा धृताः| ते च जीवनीयादयो महाकषायाः संख्यया पञ्चचत्वारिंशत्| चरके तु षड्विरेचनशताश्रितीये पञ्चाशदुक्ताः| तेभ्यो वमनोपयोगादयः पञ्चात्र न संगृहीताः| तद्द्रव्याणां शोधनादिगणसंग्रहोक्तवमनाद्युपयोगिष्वेवान्तर्भावात्| तथा चास्थापनानुवासनोपयोगिद्रव्याणि शोधनादिपठितेषु सर्वेषु तु प्रायेण मदनेत्येवमादिके ग्रन्थे दृश्यन्त एव| एवं वमनविरेचनशिरोविरेचनोपयोगीन्यपि| बिल्वश्वदंष्ट्राग्निमन्थस्योनाकानि दशमूलाङ्गत्वात् दृश्यन्त एव बस्त्युपयोगिषु| वृश्चीवस्य पुनर्नवाभेदत्वम्| पिप्पली तु व्योषेऽन्तर्भावात्| तत्रैकैकस्मिन् महाकषाये दशकानां कषायाणां संयोगः| एते च महाकषाया मन्दबुद्धीनां यथोक्तप्रतिपत्त्यर्थमुक्ताः| महाबुद्धीनां तु तदुदाहरणमात्रप्रदर्शनार्थम्| यतो महाबुद्धिभिर्जीवनीय महाकषायेऽनुक्तानामपि द्राक्षाक्षोडादीनां तदुक्तगुणसादृश्यात्तदर्थः प्रयोगोऽप्यवधारयितुं शक्यः मन्दबुद्धेस्तूचितोहाऽसहिष्णुधियो यथापठितानुसरणमेव श्रेष्ठमतस्तस्य यथोक्तप्रतिपत्त्यर्थमेव| ते च महाकषायसंगृहीताः अवश्यकषायाः संख्या पञ्चाशदधिकानि चत्वारि शतानि पञ्चचत्वारिंशतां दशभिर्गुणितानाम्||२||
Adhikarana महाकषायेषु द्रव्यसङ्करेऽपि न संज्ञाविरोधः (३) · Śloka ३
यद्यपि तानि तान्येव द्रव्याणीति द्रव्यसङ्करः कषायेषु तथापि न संज्ञाविरोधः|
एकस्यापि बहुकार्यनिर्वर्तनात्||३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
यद्यपि चैकं द्रव्यमनेके महाकषाये दृश्यते तथापि संज्ञाविरोधो न भवति यतः कार्यभेदात् संज्ञाभेदः| यथैको देवदत्तः पाकं कुर्वन् पाचक इत्युच्यते लवनं च लावक इति| तद्वदेकमपि द्रव्यं कार्यभेदात् संज्ञाभेदं गच्छति||३||
Adhikarana कषाययोनिरसाः (४) · Śloka ४
तत्र लवणवर्ज्या रसाः कल्पनायां कषाया इत्युच्यन्ते|
तद्योनित्वात्||४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तत्र लवणवर्ज्या पञ्चरसाः क्वाथचूर्णादिकल्पनायां कषायशब्दवाच्याः तद्योनित्वाद्रसानां कषायकारणत्वाद्रसा एव पञ्चकषायशब्देनोच्यन्ते||४||
Adhikarana लवणस्य कषायत्वाभावे हेतुः (५) · Śloka ५
लवणस्य यतो निर्यासादिकल्पनानामसम्भवः|
पृथगुपयोगोपकाररहितत्वाच्च नैरर्थक्यमिति||५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
लवणस्य तु कषायत्वं निष्प्रयोजनत्वान्नोक्तम्| एवं च नैरर्थक्यम्| यतो लवणरसस्य लवणद्रव्यादेर्निर्यासनिष्क्वाथादिकं न सम्भवति| न च पृथग्लवणस्य केवलस्योपयोगः| उपयोगोऽपि शरीरे नोपकारवानिति नैरर्थक्यम्||५||
Adhikarana जीवनीयगणः (२) · Śloka २
भवन्ति चात्र- जीवन्तीकाकोल्यौ द्वे मेदे मुद्गमाषपर्ण्यौ च|
ऋषभकजीवकमधुकं चेति गणो जीवनीयाख्यः|२|
Adhikarana बृंहणीयगणः (२) · Śloka २
वाट्या बला पयस्याकाकोल्याविक्षुवाजिगन्धे च|
क्षीरिणिराजक्षवके भारद्वाजी च बृंहणीयोऽयम्|२|
Adhikarana लेखनीयगणः (२) · Śloka २
हैमवती चिरिबिल्वं मुस्ता कुष्ठं वचा हरिद्रे च|
चित्रककटुकातिविषा वर्गोऽयं लेखनीयाख्यः||२||
Adhikarana भेदनीयगणः (६) · Śloka ६
अर्कैरण्डौ चित्रा चित्रकाचिरिबिल्वशङ्खिणीसरला|
हेमक्षीरी कटुका वन्हिमुखी भेदनीयोऽयम्|
मधुमधुकपृश्निपर्णीकट्फललोध्रप्रियङ्गुधातक्यः|
अम्बष्ठकी समङ्गा मोचरसश्चेति सन्धानः||६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
भवन्ति चात्रेति पद्यबन्धसमुच्चये तन्त्ररीतिः| जीवन्तीप्रभृतीनि दशौषधानि प्रत्येकं जीवनीयत्वे शक्तानि| तेषां च प्रत्येकं द्रव्यादिसंयोगेन च प्रयोजनवशात् प्रयोगः| प्रत्येकं पञ्चकषायाणां चत्वारि शतानि पञ्चशदधिकानि| संयोगेन तु समानजातीयकृतेन प्रत्येकं महाकषाये द्विसंयोगानि पञ्चचत्वारिंशत्| त्रिके विंशच्छतम्| चतुष्के चतुरशीतिः| पञ्चके षट्पञ्चाशत्| षट्के पञ्चत्रिंशत्| सप्तके विंशतिः| अष्टके दश| नवके चत्वारः| एवं संयोगशतानि त्रीणि चतुस्सप्तत्यधिकानि प्रत्येकं महाकषाये| केवलकषाया दश| दशसंयोगश्चैकः| एवमेको जीवनीयाद्यन्यतमो महाकषायः पञ्चाशीत्यधिकं शतत्रयं भेदानामुपगच्छति| एतदेव पञ्चचत्वारिंशद्गुणितं कार्त्स्न्येन सङ्ख्या महाकषायाणाम्| तत्रापि विशिष्टसङ्ख्यावर्गान्तरद्रव्यविशेषेण विशिष्टसंयोगकल्पनयानन्त्यं महाकषायाणाम्| एवं जीवन्त्यादीनि दश कषायशब्दवाच्यानि| जीवनीयं प्राणानां सन्धारकम्| लेखनं देह उपलेपादिकान् भावान् विच्छिनत्ति| सन्धानकं शरीरेऽन्तःसंहतिकरं भावानाम्||६||
Adhikarana दीपनीयगणः (२) · Śloka २
हिङ्गुमरिचाम्ल्वेतसदीप्यकभल्लातकास्थिसंयोगात्|
वर्गः सपञ्चकोलो निर्दिष्टो दीपनीयोऽयम्|२|
Adhikarana बल्यगणः (२) · Śloka २
ऐन्द्र्यतिरसापयस्या ऋष्यप्रोक्ता स्थिरा बलातिबलाः|
इति बल्यो दशकोऽयं हयगन्धा रोहिणी ऋषभः|२|
Adhikarana वर्ण्यगणः (२) · Śloka २
चन्दनतुङ्गपयस्या सितालतामधुकपद्मकोशीरम्|
वर्ण्यो गणोऽयमुदितो मञ्जिष्ठासारिवासहितः|२|
Adhikarana कण्ठ्यगणः (२) · Śloka २
हंसपदीबृहतीद्वयमृद्वीकासरिवेक्षुमूलानि|
कैडर्यमधुककृष्णाः सविदार्यः कण्ठजनानि||२||
Adhikarana हृद्यगणः (४) · Śloka ४
वृक्षाम्लबदरदाडिमकवलाम्राम्रातलिकुचकरमर्दम्|
हृद्यं समातुलुङ्गाम्लवेतसं विद्धि वर्गमिमम्|
नागरचविकाचित्रकविडङ्गमूर्वामृतावचामुस्ताः|
सहपिप्पलीपटोलास्तृप्तिघ्नोऽयं गणः प्रथितः||४||
Adhikarana अर्शोघ्नगणः (२) · Śloka २
कटजफलबिल्वचित्रकमहौषधप्रतिविषावचाचविकाः|
धन्वयवासं पथ्या दारुहरिद्रा गणोऽयमर्शोघ्नः|२|
Adhikarana कुष्ठघ्नगणः (२) · Śloka २
खदिरामलकारुष्करनिशाभयासप्तपर्णकरवीराः|
कुष्ठघ्नाश्चतुरङ्गुलविडङ्गजातिप्रवालाश्च|२|
Adhikarana कण्डूहरगणः (२) · Śloka २
नलदकृतमालचन्दनसर्षपघननिम्बकुटजमधुकानि|
कण्डूं दारुहरिद्रासनक्तमालानि निघ्नन्ति||२||
Adhikarana क्रिमिहरगणः (४) · Śloka ४
अक्षीवमरिचकेबुकविडङ्गगण्डीरकिणिहिनिर्गुण्ड्यः|
घ्नन्ति क्रिमीन् श्वदंष्ट्राविषाखुपर्ण्यस्तथा न चिरात्|
मञ्जिष्ठाश्लेष्मातकरजनीसुवहाशिरीषपालिन्द्यः|
सैलाचन्दनकतकाः ससिन्दुवारा विषं घ्नन्ति||४||
Adhikarana स्तन्यजननगणः (२) · Śloka २
शलिकुशकाशषष्टिकवीरणदर्भेक्षुवालिकेक्षूणाम्|
तद्वद्गुन्द्रोत्कटयोर्मूलमलं स्तन्यजननाय|२|
Adhikarana स्तन्यशुद्धिकरणगणः (२) · Śloka २
पाठा नागरसुरतरुघनामृतासारिवेन्द्रयवमूर्वाः|
कटुकाकिराततिक्तं वर्गोऽयं स्तन्यशुद्धिकरः|२|
Adhikarana शुक्रजननगणः (२) · Śloka २
मेदाकाकोलीद्वयवृक्षरुहाजीवकर्षभकुलिङ्गाः|
शुक्रजननो गणोऽयं सहजटिलाशूर्पपर्णीभिः|२|
Adhikarana शुक्रशोधनगणः (२) · Śloka २
कुष्ठैलवालुककट्फलकाण्डेक्ष्विक्ष्वब्धिफेनकोशीरैः|
वसुकेक्षुरकैः शुक्रं शुद्ध्येत् सकदम्बनिर्यासैः|२|
Adhikarana स्नेहोपगगणः (२) · Śloka २
द्राक्षाकाकोलीद्वयमधुपर्णीमधुकजीवकविदार्यः|
स्नेहोपगाः समेदाजिवन्तीशालिपर्णिकाः|२|
Adhikarana स्वेदोपगगणाः (२) · Śloka २
सौभाञ्जनकपुनर्नववृश्चीवकुलत्थमाषबदराणि|
स्वेदोपगानि विद्यात् सयवतिलार्कोरुपूगानि|२|
Adhikarana वमिनिग्रहणगणः (२) · Śloka २
लाजाम्रबदरदाडिमयवषष्टिकमातुलुङ्गसेव्यानि|
जम्ब्वाम्रपल्लवानि वमिनिग्रहणानि मृत्सा च||२||
Adhikarana तृष्णानिग्रहणगणः (१) · Śloka १
नागरधन्वयवासकवालकपर्पटकचन्दनगुडूच्यः||१||
Adhikarana हिध्मानिग्रहणगणः (३) · Śloka ३
भूनिम्बघनपटोलीकुस्तुम्बर्यस्तृषं घ्नन्ति|
बृहतीद्वयवृक्षरुहापुष्करमूलाभयाकणाशृङ्ग्यः|
हिध्मां निघ्नन्ति शटी दुरालभा बदरबीजं च||३||
Adhikarana विट्संग्रहणगणः (२) · Śloka २
शमानन्ता पद्मा कट्वङ्गः पद्मकेसरं लोध्रम्|
धातकिकुसुमसमङ्गामोचरसाम्रास्थिविड्ग्रहणम्|२|
Adhikarana विड्विरजनगणः (२) · Śloka २
जम्बूसल्लकिमधुकं नीलोत्पलकच्छुरातिलश्र्याह्वम्|
भृष्टा च मृत्पयस्या सशाल्मली विड्विरजनानि|२|
Adhikarana मूत्रसंग्रहणगणः (२) · Śloka २
जम्ब्वाम्रोदुम्बरवटकपीतनप्लक्षपिप्पलाश्मन्तम्|
भल्लातसोमवल्कं मूत्रग्रहणाय निर्दिष्टम्|२|
Adhikarana मूत्रविरजनगणः (२) · Śloka २
कमलनलिनकुमुदमधुकसौगन्धिकधातकीलताकुसुमम्|
मूत्रं नयति विरागं सोत्पलशतपुण्डरीकं च|२|
Adhikarana मूत्रविरेचनगणः (२) · Śloka २
वृक्षादनीश्वदंष्ट्रादर्भेत्कटवसुकवशिरकुशकाशाः|
मूत्रं विरेचयेयुर्गुन्द्रापाषाणभेदश्च|२|
Adhikarana कासघ्नगणः (२) · Śloka २
द्राक्षामलकपुनर्नववृश्चीवदुरालभाभयाकृष्णाः|
कासं घ्नन्ति सशृङ्गी तामलकी कण्टकारी च|२|
Adhikarana श्वासघ्नगणः (२) · Śloka २
चण्डाम्लवेतसशटीतामलकीसुरसहिङ्गुजीवन्त्यः|
पुष्करमूलैलागुरुवर्गोऽयं श्वासशमनाय|२|
Adhikarana ज्वरघ्नगणः (२) · Śloka २
द्राक्षापीलुकपरूषकमञ्जिष्ठासारिवाऽमृतापाठाः|
त्रिफला चेति गणोऽयं ज्वरस्य शमनाय निर्दिष्टः|२|
Adhikarana श्रमघ्नगणः (२) · Śloka २
दाडिमफल्गुपरूषकप्रियालयवषष्टिकेक्षुबदराणि|
श्रमनाशनानि विद्यात् द्राक्षाखर्जूरसहितानि|२|
Adhikarana दाहघ्नगणः (२) · Śloka २
पद्मकलाजोशीरं मधुकोत्पलसारिवासितोदच्यम्|
काश्मर्यफलं चन्दनमेष गणो दाहहा प्रोक्तः|२|
Adhikarana शीतप्रशमनगणः (२) · Śloka २
नतनागरागुरुवचाधान्यकभूतीकपिप्पलीव्याघ्र्यः|
शीतं शमयन्त्यचिरात् स्योनाकः साग्निमन्थश्च|२|
Adhikarana उदर्दप्रशमनगणः (२) · Śloka २
तिन्दुकप्रियालबीजकसप्तच्छदखदिरकदरबदराणि|
अरिमेदवाजिकर्णौ ककुभश्चोदर्दशमनानि|२|
Adhikarana अङ्गमर्दप्रशमनगणः (२) · Śloka २
काकोल्येलासेव्यं निदिग्धिके शालिपृश्निपर्ण्यौ च|
घ्नन्त्यङ्गमर्दमचिराच्चन्दनमधुकोरुबूकं च||२||
Adhikarana शूलशोफघ्नगणौ (७) · Śloka ७
दीप्यकमरिचाजाजीगण्डीरं साजगन्धमथ शूलम्|
शमयति सपञ्चकोलं शोफं दशमूलमाद्यं च||७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
उदर्दो वक्ष्यमाणशीतपानीयसंस्पर्शादित्यादिना| दीप्यकादिपञ्चकं सपञ्चकोलं शूलं शमयतीति सम्बन्धः| आद्यं दशमूलं द्वे पञ्चमूले बिल्वादि महत् बृहत्यादि च लघु एतद्दशकं शोफम् शमयति||७||
Adhikarana शोणितास्थापनगणः (२) · Śloka २
मधुमधुकलाजगैरिकफलिनमोचरसमृत्कपालानि|
सम्स्थापयन्ति रुधिरं च सशर्करं लोध्रम्|२|
Adhikarana वेदनास्थापनगणः (२) · Śloka २
शिलैलवालुकट्फलमोचरसाशोकपद्मकशिरीषम्|
स्थापयति वेदनामथमहतुङ्गकदम्बविदुलं च|२|
Adhikarana संज्ञास्थापनगणः (२) · Śloka २
कैडर्यहिङ्गुचोरकपलङ्कषाऽशोकरोहिणिवयस्थाः|
पूत्यरिमेदो जटिलागोलोमिवचाश्च संज्ञादाः|२|
Adhikarana गर्भस्थापनगणः (२) · Śloka २
एन्द्री दूर्वामाघाविष्वक्सेनाव्यथा शिवारिष्टा|
ब्राह्मी सवाट्यपुष्पी शतवीर्या स्थापयेद् गर्भम्||२||
Adhikarana वयः स्थापनगणः (८) · Śloka ८
अमृता पथ्या धात्री जीवन्ती श्रेयसी स्थिरा युक्ता|
मण्डूकपर्ण्यतिरसा स्थापयति पुनर्नवा च वयः||८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
मधुमधुकादीनि नवानि प्राणिरुधिरं च पुरुषस्य रुधिरवृद्धिस्थिर्यकरम्| वेदनायाश्चिच्छक्तेः सन्तर्पकं वेदनास्थापनम्| अन्यत्र स्थापनं स्थैर्यकरम्||८||
Adhikarana उपसंहारः (९-१०) · Śloka १०
इति नानाविधव्याधिविघातार्थमुदाहृताः|
योगा रोगातुरवशात्कल्पयेत्तान् यथायथम्||९||
इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने महाकषायसंग्रहो नाम पञ्चदशोऽध्यायः||१०||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
इत्यनेन प्रकारेण नानाविधव्याधिनिर्घातर्थं प्रयोगा उदाहृताः| तांस्तु रोगमातुरं च विकल्प्य यथायथं नानाविधैः प्रयोगैः प्रकल्पयेत्||९|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां सूत्रस्थाने पञ्चदशोऽध्यायः