Adhikarana अथ गण्डूषादिविधिर्नामैकत्रिंशोऽध्यायः प्रतिज्ञा (१) · Śloka १
अथातो गण्डूषादिविधिमध्यायं व्याख़्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
ऊर्ध्वाङ्गप्रसङ्गेन गण्डूषादिविधानायाध्याय आरभ्यते-अथात इत्यादि|| १||
Adhikarana गण्डूषभेदाः तद्विषयाश्च (२) · Śloka २
चतुर्विधो भवति गण्डूषः-स्नैहिकः शमनः शोधनो रोपणश्च|
तेषामाद्यास्त्रयः क्रमेण वातपित्तकफामय- ग़्नाः|
रोपणस्त्वास्यव्रणघ्नः शमनः स्तम्भनः प्रसादनो निर्वापण इति पर्यायाः||२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
स्नैहिकादिभेदेन चतुर्विधो गण्डूशो मुख़धार्यद्रवः| तत्र स्नैहिको वाते पित्ते शमनः शोधनः कफे आस्यव्रणेषु रोपणः|| २||
Adhikarana स्नैहिकादि गण्डूषद्रव्याणि (३) · Śloka ३
तत्र स्वाद्वम्ललवणोष्णैरौषधैः सिद्धो युक्तो वा नात्युष्णः स्नेहो मांसरसस्तिलकल्कोदकं क्षीरं वा स्नैहिकः|
तिक्तकशायमधुरशीतैः पटोलारिष्टजम्ब्वाम्रमालतीपल्ल वोत्पलमधुकक्वाथसितोदकक्षौद्रक्षीरेक्षुरसघृतादिभिः शमनः|
कट्वम्ललवणोष्णैः शिरोविरेचनद्रव्यैः शुक्त मद्यधान्याम्लमूत्रान्यतमकल्कितालोडितैः शोधनः|
रोप णस्तु कषायमधुरशीतै-र्यथास्वं चोपदिष्टः|३|
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तत्र स्नैहिकः स्वाद्वम्लादिभिर्द्रव्यैर्भवति| शमनस्तिक्तादिभिः| शोधनः कट्वादिभिः| रोपणः कषायादिभिर्यथास्वेषु प्रकरणेषु चोपदिष्टरिद्रव्यैर्गण्डूषो भवति||३||
Adhikarana दन्तहर्षादौ गण्डूषः स्वस्थे गण्डूषः (३) · Śloka ३
अपि च- दन्तहर्षे दन्तचाले मुख़रोगे च वातिके|
सुख़ोष्णमथवा शीतं तिलकल्कोदकं हितम्|
गण्डूषधारणे नित्यं तैलं मांसरसोऽथवा||३||
Adhikarana ऊषाद्यन्विते गण्डूषःवैशद्यादिकरो गण्डूषः (४) · Śloka ४
ऊषादाहान्विते पाके क्षते चागन्तुसम्भवे|
विषे क्षाराग्निदग्धे च सर्पिर्धार्यं पयोऽथवा|
वैशद्यं जनयत्यास्ये सन्दधाति मुख़े व्रणान्|
दाहतृष्णाप्रशमनं मधुगण्डूषधारणम्|४|
Adhikarana आस्यवैरस्यादिहरमुख़शोषहरगण्डूषौश्लेष्मसञ्चयहरगण्डूषः (४) · Śloka ४
धान्याम्लमास्यवैरस्यमलदौर्गन्ध्यनाशनम्|
तदेवालवणं शीतं मुख़शोषहरं परम्|
आशु क्षाराम्बुगण्डूषो भिनत्ति श्लेष्मणश्चयम्||४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अपि चेति समुच्चये| दन्तहर्षादिषु तिलकल्कोदकं तैलं वा मांसरसोऽथव गण्डूषधारणे नित्यं हितः| सुबोधमन्यत्|| ४||
Adhikarana कवलगण्डूषयोर्धारणविधिः मात्रा धारणावधिश्च (५) · Śloka ५
अथ निवाते सातपे सुख़ोपविष्टस्तन्मनाः स्विन्नमृदितगलकपोलललाटदेशो वरमध्यावरां क्रमाद्वक्त्रार्धत्रिभागचतुर्भागपूरणीं द्रवमात्रां कल्कं वा कोलप्रमाणं किञ्चिदुन्नमितास्योऽनभ्यवहरन् धारयेत्|
कवले तु पर्यायेण कपोलौ कण्ठं च सञ्चारयेत्|
अयमेव च कवलगण्डूषयोर्विशेषः|
मुख़े सञ्चार्यते या तु सा मात्रा कवलः स्मृतः|
असञ्चारा तु या मात्रा स गण्डूषः प्रकीर्तितः|
पुनश्चास्य स्वेदमर्दनान्याचरेत्|
एवमुत्क्लिष्टः कफो वक्त्रं प्रतिपद्यते|
तावच्च धार्यो यावत् कफपूर्णकपोलता स्रवद्ग़्राणनेत्रता भेषजस्य वानुपहतिः कफेन|
एवं त्रीन् पञ्च सप्त वा गण्डूषान् धारयेत्|
यावद्वा सम्यग्धूमपीतलिङ्गोत्पत्तिः||५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तस्य गण्डूषस्य मात्रार्धमुख़पूरणी वरा श्रेष्ठा| त्रिभागमुख़पूरणी मध्या| चतुर्भागमुख़पूरणी अवरा| इति द्रवमानम्| कल्कस्य कोलमात्रा| कोलं तोलकम्| बदरमात्रमेव वा अयमेवासञ्चारसञ्चारकृतो गण्डूषकवलयोर्विशेषोऽन्यत्सदृशम्| मुख़ेत्यादि सुबोधम्|| ५||
Adhikarana योगायोगातियोगलक्षणानि चिकित्सातिदेशश्च (६) · Śloka ६
तस्य स्वास्थ्येन योगं जाड्यरसाज्ञानारुचिप्रसेकोपलेपैरयोगम्, मुख़शोषपाकक्लमारुचिहृदयद्रवस्वरसादकर्णनादैरतियोगमुपलक्षयेत्|
तेषां यथास्वं प्रतिकुर्वीत||६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तत्र च धूमवत् सम्यग्योगलक्षणम्| जाड्यादीन्ययोगातियोगलक्षणमिति| एषु जाद्यादिष्वात्मीयां चिकित्सां कुर्यात्|| ६||
Adhikarana प्रतिसारणभेदाः द्रव्यञ्चप्रतिसारणार्हाः व्याधयः अतियोगलक्षणम् (७) · Śloka ७
प्रतिसारणं तु त्रिविधम्|
गण्डूषोदितानां द्रव्याणां रसक्रिया कल्कश्चर्णूश्च|
तदभिष्यन्दाधिमन्थगलशुण्डिकादिषु युक्त्या प्रयोज्यम्|
अतिप्रतिसारणादूषाप्लोषदाहक्लेदशोषादयो भवन्ति||७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
गण्डूषोक्तानां द्रव्याणां रसक्रियाकल्कचूर्णैस्त्रिविधं प्रतिसारणमुच्यते| तच्च प्रतिसारणमभिष्यन्दाधिमन्थगलशुण्डिकादिषु यथोयोगमुपयोज्यम्| प्रतिसारणातियोगादूषादयो भवन्ति| स्वेदारतिमान् दाह ऊषः|| ७||
Adhikarana मुखालेपविधिः (८) · Śloka ८
मुख़ालेपोऽपि त्रिविधो दोषग़्नो विषघ्नो वर्ण्यश्च|
त्रिप्रमाणश्चतुर्भागत्रिभागार्धाङ्गुलोत्सेधः|
न चालिप्तमुख़ोऽतिभाष्यहास्यक्रोधशोकरोदनख़ादनाग्यातपदिवास्वप्नान् सेवेत|
कण्डूत्वक्शोषपीनसदृष्ट्युपग़ात भयात्|
न च शुष्यन्नुपेक्षितव्यः|
शुष्को हि छविं दूषयति|
तमार्द्रयित्वापनयेत्|
आलोपान्ते च मुख़मभ्यज्यात्||८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
दोषघ्नादिभेदेन त्रिविधो मुख़ालेपः| तस्य च द्विविधं प्रमाणम्| अङ्गुलचतुर्भागोत्सेधोऽङ्गुलद्विभागोत्सेधोऽर्धाङ्गुलोत्सेधश्च| उत्सेधो ग़नत्वम्| आलिप्तमुख़स्तत्कालमतिभाष्यादीन् न सेवेत| कण्ड्वादिरोगभयात्| सुबोधम्|| ८||
Adhikarana मुख़ालेपानर्हाः सम्यक्प्रयुक्तमुख़ालेपफलञ्च (९) · Śloka ९
न तु योज्यो रात्रिजागरिताजीर्णदत्तनस्यारुचिहनुग्रहप्रतिश्यायिनाम्|
सम्यक्प्रयुक्तश्चाकालवलीपलिततिमिरव्यङ्गतिलकादीन् प्रशमयति|
स्वस्थस्य तु दृप्टिबलं पुण्डरीककान्तवक्त्रताञ्च करोति||९||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
न तु मुख़ालेपो रात्रैजागरितादिषु योज्यः| स च सम्यक्प्रयुक्तः सन् अकालपलितादीन् नाशयति|| ९||
Adhikarana मूर्धतैलभेदाः प्रयोज्यव्याधयश्च (१०) · Śloka १०
मूर्धतैलं पुनश्चतुर्धा भिद्यते-अभ्यङ्गः परिषेकः पिचुर्बस्तिरिति|
यथोत्तरं ते बलिनः|
तत्राभ्यङ्गो रूक्षकण्डूमलादिषु प्रयुज्यते|
परिषेकत्वरू~ंषिकाशिरस्तोददाहपाकव्रणेषु|
केशशातस्फुटनधूपननेत्रस्तम्भेषु पिचुः|
बस्तिस्तु प्रसुप्त्यर्दितरात्रिजागरितनासास्यशोषतिमिरवाक्सङ्गेषु चातिदारुणेषु|
तेष्वभ्यङ्गादयः प्रसिद्धस्वरूपाः||१०||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
शिरसि यत्तैलं दीयते तन्मूर्धतैलमुच्यते| तस्याभ्यङ्गादिभेदेन चतुर्विधत्वम्| पिचुः कार्पासमयः|| १०||
Adhikarana शिरोबस्तिविधिः (११) · Śloka ११
शिरोबस्तिविधिस्तु बस्तिं सुमृदितं द्विमुख़ं शिरःप्रमाणमाकर्णप्रवेशं द्वादशाङ्गुलविस्तारं कुर्यात्|
अथ शुद्धतनोः सायं रात्रौ वा स्वभ्यक्तस्विन्नस्य जानुसमसोपाश्रयासनोपविष्टस्य केशान्ते श्लक्ष्णं त्र्यङ्गुलं सुसूक्ष्मेण माषपिष्टेन सद्यः सुख़ाम्बुमृदितेनोभयतः प्रदिग्धं वस्त्रपट्टं बध्नीयात्|
ततस्तस्योपरि सन्धाय बस्तिमाकर्णं बस्तिमूलं च दृढमवलीकं समञ्चैलवेणिकया बध्वा पुनर्माषपिष्टेनापरिस्रावि कृत्वा यथाव्याधिदोषदूष्यहितं सिद्धमन्यतमं स्नेहं सुसुख़ोष्णमासेचयेद्यावत् केशभूमेरुपर्यङ्गुलम्|
तावच्च धार्यो यावत् कर्णमुख़नासास्रुतिर्वेदनोपशमो वा भवति|
विशेषतो वातजेषु विकारेषु दश मात्रासहस्राणि|
पित्तरक्तजेष्वष्टौ|
षट् कफजेषु|
सहस्रमरोगकर्मणि|
ततोऽपनीते स्नेहे विमुच्य बस्तिं शिरसः स्कन्धग्रीवापृष्ठललाटादीन्यनुसुख़ं मर्दयेत्|
उष्णाम्बुना स्नातं च यथार्हं भोजयेत्|
स्नेहोक्तं चास्याचारमादिशेत|
एवं त्रीणि पञ्च सप्त वा दिनानि योजयेदिति||११||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
शिरोबस्तिरित्यादि| द्विमुख़मित्येकेन मुख़ेन शिरः प्रविशति द्वितीयेन स्नेहं विभर्ति| केशानामन्ते माषकल्केन लिप्तं वस्त्रपटं बध्वा तस्योपरि चर्मपटं बस्त्याख़्यं योजयेत्| चैलवेणी वस्त्रपट्टिका| सुबोधमन्यत्|| ११||
Adhikarana मूर्धतैलगुणाः (१२) · Śloka १२
भवति चात्र- तत्राभ्यङ्गः प्रयोक्तव्यो रौक्ष्यकण्डूमलादिषु|
अरू~ंषिकाशिरस्तोददाहपाकव्रणेषु च|
परिषेकः पिचुः केशशातस्फुटनधूपने|
नेत्रस्तम्भे च बस्तिस्तु प्रसुप्त्यर्दितजागरे|
नासास्यशोषे तिमिरे शिरोरोगे च दारुणे|
कचशतनसितत्वपिञ्जरत्वं परिपुटनं शिरसः समीररोगान्|
जयति जनयतीन्द्रियप्रसादं स्वरहनुमूर्धबलं च मूर्धतैलम्||१२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
भवति चात्रेति तन्त्ररीतिः| तत्रेत्यादि सुबोधम्|| १२||
Adhikarana कर्णपूरणविधिः (१३) · Śloka १३
धारयेत्पूरणं कर्णे कर्णमूलं विमर्दयन्|
रुजः स्यान्मार्दवं यावन्मात्राशतमवेदने||१३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
कर्णे पूरणं धारयेदातुरो यावद्रुजो मार्दवं स्यात्| स्वस्थावृत्ते मात्राशतम्|| १३||
Adhikarana मात्रालक्षणम् (१४-१५) · Śloka १५
यावत् पर्येति हस्ताग्रं दक्षिणं जानुमण्डलम्|
निमेषोन्मेषकालेन समं मात्रा तु सा स्मृता||१४||
इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने गण्डूषादिविधिर्नामैकत्रिंशोऽध्यायः||१५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
निमोषोन्मेषेण सह यावद्दक्षिणं जानुमण्डले हस्ताग्रं पर्येति आवृत्त्या गच्छति तावत्कालो मात्रा|| १४|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख़्यायां शशिलेख़ायां सूत्रस्थाने एकत्रिंशोऽध्यायः